________________
[ विभक्त्यर्थाः ] टीकाद्वयोपेता।
(२२९) (जनिकर्तुः प्रकृतिः ) जायमानस्य कार्यस्योपादानमपादानसंज्ञ स्यात् ॥ ब्रह्मणः प्रजाः प्रजायन्ते ॥
(सुबोधिनी )-जनिकर्तुः प्रकृतिः॥ उत्पद्यमानस्य कार्यस्य हेतोः पञ्चमी ॥ यथा । ब्रह्मणो धातुः प्रजाः प्रजायन्ते । उत्पद्यन्ते इत्यर्थः । तत उपकामन्ति निर्गच्छन्तीत्यर्थो वा । ब्रह्मा हिरण्यगर्भः स च हेतुरेव न पुनरुपादानम् । “ प्रजा स्यासन्ततो जने " इत्यमरः ॥
(यतश्चाध्वकालयोनिर्माणं तत्र पञ्चमी) ( पञ्चमीयुक्तादध्वनः प्रथमासप्तम्यौ कालात्सप्तमी) वनाग्रामो योजनं योजने वा। कार्तिक्या आग्रहायणी मासे ॥
(सुबोधिनी )-यतश्चाध्वकालयोनिर्माणं तत्र पञ्चमी ॥ यतश्चाध्वकालयोः परिच्छेदः क्रियते तस्मात्पश्चमी भवति ॥ अध्ववाचकशब्दात्तु प्रथमामप्तम्यौ । कालवाचकात्तु सप्तम्येव । वनात् ग्रामो योजनं योजने वा ॥ अग्रे हायनं यस्याः सा आग्रहायणी । स्वार्थेऽण् । कात्तिक्याः पौर्णमास्या आग्रहायणी मासेऽस्ति ॥
(वर्जनेऽपपरिभ्यां पञ्चमी) अप हरेः संसारः । परि हरेः संसारः। आ मुक्तेः संसारः॥
(सुबोधिनी )-वर्जनेऽपपरिभ्यां पञ्चमी ॥ वर्जनेर्थयोरपपर्योोंगे पञ्चमी । यथा । अपहरेः परिहरेः संसारः । हरि वर्जयित्वेत्यर्थः॥ मर्यादार्थकायोगे पञ्चमी। यथा । आ मुक्तेः संसारः । मुक्तिं मर्यादीकृत्येत्यर्थः ॥ एवमभिविध्यर्थकायोगेऽपि पञ्चमी । यथा । आ बालेभ्यो हरिभक्तिः । बालानभिव्याप्येत्यर्थः॥
(प्रतिः प्रतिनिधिप्रतिदानयोः) यतः प्रतिनिधिः प्रतिदानं च तत्र प्रतियोगे पञ्चमी ॥ प्रद्युम्नः कृष्णात्प्रति । तिलेल्यः प्रतियच्छति माषान्॥ __ (सुबोधिनी)-प्रतिः प्रतिनिधिप्रतिदानयोः॥ एतयोरर्थयोर्यः प्रतिस्तस्य योगे पञ्चमी स्यात् । मुख्यस्याभावे तत्सदृशो य उपादीयते स प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । षष्ठीबाधिका पञ्चमीयम् । कृष्णात् प्रति कृष्णस्य सदृश इत्यर्थः ॥तिलेभ्यः प्रति । तिलानामादानेन मैत्रो माषान् यच्छति ददातीत्यर्थः। भयहेतौ पञ्चमी ॥ भयार्थानां त्राणार्थानां च प्रयोग भयहेतोः पञ्चमी स्यात् । षष्ठीबाधिकेयम् ॥ मैत्रश्चौरादिभेति । चौरात् त्रायते ॥