________________
[ स्वरान्त पुंलिंगा: ]
टीकाद्वयोपेता !
( ८७)
गौणेऽतिद्विस्तस्यापि हरिवद्रूपम् । प्राधान्ये मुख्ये तु परमौ च तौ द्वौ च परमद्वैौ । कर्मधारयः। सर्ववद्रूपम् ॥
(रङ ) त्रिशब्दस्याय आदेशो भवति नामि परे ॥ तदन्तविधिरत्र । ङिदन्तस्यैव वक्तव्यः । त्रयाणाम् । परमत्रयाणाम् । त्रिषु । कतिशब्दो नित्यं बहुवचनान्तः ॥
(सुबोधिनी) - रङ् ॥ आम इत्यनुवर्तते । तच्च सप्तम्या विपरिणम्यते । तस्मादिति च । तस्य नाम्नस्त्रेरिति विशेषणे विशेषणत्वात्तदन्तविधिः । त्रिशब्दस्य त्रिशब्दान्तस्य चायङ्ग स्यादामि । गुरुत्वात्सर्वादेशे प्राप्ते ङिदादेशः अन्तस्य स्थाने भवतीतीकारस्यायङ् । त्रेरित्येकवचननिर्देशस्त्वनुकरणत्वात् । तदन्ते । प्रियाश्च ते त्रयश्च प्रियत्रयस्तेषां प्रियत्रयाणाम् । गौणत्वे नेति केचित् । तरतेरौणादिको ड्रिप्रत्ययः । डित्त्वाट्टिलोपे त्रिशब्दः ॥
( तत्त्वदी ० ) - त्रेरयङिति ॥ ननु त्रिशब्दस्य बहुवचनान्तत्वात् कथं त्रेरिति चेत्सत्यम् । त्रिशब्दस्त्रित्वविशिष्टवाचको बहुवचनान्त: । अयं तु न त्रित्वविशिष्टवाचकः किंतु तदनुकरणेन गृहीतः । अनुकार्यानुकरणयोश्च भेदविवक्षाया इष्टत्वात् । प्रकृतिवदनुकरणमित्यस्य त्वनित्यत्वात् । एवं स्थिते त्रयाणामयङ् इत्युक्तौ त्रिशब्दसमानवचनाशङ्कायां तदुद्धारार्थम् अचतुर्णामित्यादिलिङ्गानुसरणं कृत्वा पुनर्गौरवदोषोद्भावनेन यथान्याससूत्रस्थापनप्रयासो निजपाण्डित्यप्रस्थापनायैवेति दिक् ॥ तदन्तविधिरत्रेति ॥ तस्मादित्यनुवृत्तेः त्रिशब्दान्तस्य नाम्न इति व्याख्यानात् । त्रयाणामित्यत्र तु व्यपदेशिवद्भावादित्यभिप्राय: ॥ ङिदन्तस्येति ॥ गुरुः शिच्चेत्यस्यापवादः ॥
(डतेः) संख्यावाचिनो डत्यन्ताज्जश्श सोर्लुक् ॥ प्रत्ययलोपे प्रत्ययलक्षणम् ॥ ( सुबोधिनी ) - तेः ॥ किमः संख्यापरिमाणे इति चेति इतिः । संख्या परिमाणे विहित इह गृह्यते पातेर्डतिरिति तु न संख्याया इत्यनुवृत्तेः ॥
1
( तत्त्वदी ० ) - डतेरिति ॥ डत्यन्तान्नाम्न इति बोध्यम् । डतिप्रत्ययश्च शेषा निपात्याः कत्यादय इति गृह्यते । संख्याया इत्यनुवृत्तेः संख्यासंबन्धे च डतिर्गृह्यते न तु पातेर्डति: पतिरिति ॥ करिति तु न सूत्रितं पतिततीनां ग्रहणार्थम् ॥ यत्तु कतेरित्येव युक्त पतिततीनां लोकेऽदर्शनादित्युक्तं तत् प्रौढिवादमात्रम् 'पतिते नागशीर्षणि' 'ततिते नाङ्गवेदना' इत्यादिषु दर्शनात् । बहुगणवतुडति संख्येति पाणिनिसूत्रेऽपि डतरेव ग्रहणात् । कतीत्यत्र एओ जसीत्यस्य प्राप्तौ जसोऽत्राभावात् प्रत्ययलोपेऽपि प्रत्ययाश्रितं कार्यं भवतीति तत्प्राप्तिः यदादेशस्तद्वद्भवतीति सिद्धेः प्रत्ययलोप इत्याद्युक्तिर्नियमाथा । तेन यत्र प्रत्ययस्यासाधारणं रूपं प्रयोजकं तदेव प्रत्ययलोपे सति भवति न तु प्रत्ययाप्रत्ययसाधारणम् । तेन शोभना दृषदोऽस्य सुहवत् प्रासाद इत्यत्र अतोः साविति दीर्घो न ॥