________________
(१३६] सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः] वात्सर्वलोप एव नान्त्यस्य । लोपापवादो लुरुशब्दादेशस्तु न भवति नव पमित्यादिनिर्देशात् । नहि लुक्शब्दोऽत्र श्रूयते । क्विपः कित्त्वेन प्रत्ययादर्शनेऽपि प्रत्ययाश्रितं कार्य भवतीति ॥ पञ्चत्यत्र लुक्यपि नोपधाया इति दीर्घो न । नव पमिति लिङ्गनैव लुकि सति तन्निमित्त कार्य न भवतीति ज्ञायते । एतदर्थमेव शब्दभेदेन व्यवहारः । अन्यथा लुक्लोपयोरन्यतरेणैव सर्वत्र व्यवहरेत् । अथ लुग्ग्रहण विनैव रूपसिद्धौ ज्ञापकं स्यात् असति तस्मिन्ननन्तरस्येति न्यायेनायडादिरेव प्रसज्येतेति चेत्सत्यं नव पमिति निर्देशनैव तद्वारणसंभवात् ॥
(ष्णः) षकारनकारान्तसंख्यायाः परस्यामो नुडागमो भवति ॥ पञ्चानाम् । परमपञ्चानाम् । गौणत्वे न लुग्नुटौ । प्रियपञ्चा, प्रियपश्चानौ, प्रियपञ्चानः । प्रियपञ्चः। प्रियपञ्च्चा ॥ एवं सप्तन्नवन्दशन्प्रभृतयः॥
(सुबोधिनी)-ष्णः । ष् च न चानयोः समाहारः ष्ण तस्मात् ष्णः। संख्याया इत्यनुवर्तते । ष्णः इति तस्या विशेषणम् । विशेषणेन तदन्तविधिः ॥ संख्याया इति किम् । त्विषाम् । यज्वनाम् ॥ष्ण इति किम् । त्रिशताम् । पञ्चाशताम् ॥ नलोपे नोपधाया इति दीर्घ च पश्चानाम् ॥ प्राधान्ये परमाश्च ते पञ्च च परमपञ्च । तेषां परमपञ्चानाम् ॥ गौणत्वे न लुग्नुटौ । गौणे ष्णान्तसंख्यायाः जश्शसोलक नामि तु नुट् च न । संख्यावाचित्वाभावात् । प्रियाः पञ्च यस्य स प्रियपञ्चा । आमि प्रियपञ्जाम् । कारद्वयमध्ये चकारः॥
(तत्त्वदी०)-ष्ण इति॥ ष् च न च अनयोः समाहारः ष्णू तस्मात् ष्णः। अत्र संख्याया इत्यनुवर्ततेष्ण इति तद्विशेषणं ततस्तदन्तलाभः इत्याशयेनाह-षकारनकारान्तेत्यादि । नस्य ष्टुत्वनिर्देशे विशेषणम् । णस्य संख्यावाचिनोऽभावान्नान्तमेव गृह्यते ॥ संख्याया इति किम् । त्विषाम् ॥ ष्ण इति किम् । त्रिंशताम् ॥ गौणत्वे नेति ॥ संख्यावाचित्वाभावादित्यर्थः॥
(अष्टनो डौ ) अष्टन्शब्दात्परयोर्जश्शसोर्वा डौ भवति ॥ अष्टौअष्ट । अष्टौ-अष्ट ॥
(सुबोधिनी)-अष्टनो डौ ॥ अष्टन इत्येकवचनं तु वेरितिवत् । अल्लोपः स्वरे इत्यस्याप्रवृत्तिश्चिन्त्या । जश्शसोग्त्यिनुर्वते । वाऽऽस्विति वाशब्द उभयत्र संवध्यते काकासिगोलकन्यायेनेति ॥ ननु षष्ठीनिर्दिष्टत्वादन्त्यस्य डौ भवति।न चानेकवर्णत्वासादेशः स्यात् । नानुबन्धकृतमनेकवर्णत्वमित्युक्तत्वात् । उच्यते । डित्त्वसामर्थ्यानोक्तदोषः । तथा हि। अन्त्यादेशे सति जसि अष्टनाविति शसि अष्टनाविति प्राप्नोति तच्चान्तरेण डित्त्वं सिद्धम् । अतो डित्करणसामर्थ्यात् सर्वादेशः। लुकोऽपवादोऽयमिति सर्वादेश इति वा। डौशिति सुवचम् । डोत्वं हि लुग्नुटाविव प्राधान्ये एव भवति न तु गौणत्वे । सप्यशूभ्यां तुटू चेत्यनेन सप्तन्अष्टन्शब्दो निष्पन्नौ ॥