________________
सिद्धान्तचन्द्रिका। [हसान्तनपुंसकलिंगाः) गोअञ्चाम् ३ गोश्वाम् ४ । ङौ गोचि १ पूजायाम् गवाञ्चि २ गोअश्चि ३ गाश्चि ।
ओसि च गोचोः १ पूजायाम् गवाञ्चोः २ गोअञ्चोः ३ गोश्चोः ४ । सुपि गवाक्षु १ गोअक्षु २ गोक्षु३ पूजायाम् शसे णोरिति ङान्तानां कुपक्षे गवाक्षु ४। गोअक्षु ५ गोक्षु ६ कुगभावे गवाक्षु ७ गोअङ्घ ८ गोऽङ्घ ९ । एवं नवाधिकशतं रूपाणि । कुपक्षे शसे चपस्यति ककारस्य खकारेण त्रयाणामाधिक्यं ज्ञेयम् । अन्यत्र तु कुत्वस्यासिद्धत्वान्न खकारः । एवं द्वादशाधिकम् ॥ तिरोश्चतीति । नो लोप इति नलोपः । चोः कुरिति कुः । तिर्यक् । सहादित्वात्तिरिः। औपरतः तिरश्चादय इति तिरश्चः । शौ नुमयम इति नुम् । तिर्यश्चि । पूजायां तिर्यङ् ॥ यकृत्कालखण्डम् । शकृत् पुरीषम् ॥ शसादौ पाददन्तेति यकन्शकन्नादेशौ वा ॥ दददिति पुल्लिङ्गे उक्त एव । द्विरुक्तानां जक्षादीनां चेति वा नुम् । ददन्ति-ददति वा ॥
(तत्त्वदी०)-सयङन्तस्येति ॥ सध यङ् च सयौ तौ अन्तौ यस्य तस्येत्यर्थः । एतन्मूलं त्वनुवर्तितवाग्रहणस्य व्यवस्थितत्वम् ॥ गवाक्शब्दस्येत्यादि । अागतीत्यादि ॥ अर्चा पूजा गतिर्गमनं तयोर्भेदस्तस्मात् ॥ असंध्यगागमाल्लोपैरिति ॥ गोर्वा गोरग्वेति विकल्पद्वयेन रूपत्रयमिति भावः॥ स्यम्सुप्स्विति ॥प्रत्येक नवनवेत्यर्थः॥भादाविति ॥ भकारादौ इत्यर्थः । तथा हि । सौ गत्यर्थतायामनलोपे असंधौ अगागमे च पर्यायेण रूपत्रयम् । तत्रैव वाऽवसान इति कगयोर्विकल्पाद्रूपषट्कम् । पूजायां त्वसंध्यादिविकल्पे रूपत्रयमिति संकलनया नव । एवमम्यपि। औद्वये तु गत्यर्थतायाम् अचेदर्दीर्घ इत्यकारलोपे तन्निमितासंध्यादिरूपद्वयाभावादेकमेव । पूजार्थतायां तु नलोपाभावादलोपस्याभावेऽसंध्यादिविकल्पेन रूपत्रयम् । संकलनया प्रत्येकं रूपचतुष्टयम् । एवं टाप्रभृतौ स्वरादौ सर्वत्र प्रत्येक रूपचतुष्टयं बोध्यम् । जश्शसोस्तु गत्यर्थतायां नलोपेऽपि पुनर्नुमा विशेषाभावात् प्रत्येकं त्रीण्येव । भ्यामादौ तु त्रीणि गतौ त्रीण्यर्चायामिति षट्पट् । सुपि तु पूजार्थतायां शसे णोः कुकुटुकाविति कुग्विकल्पेन षट् । गतौ तु त्रयमेवेति नव । कुपक्षे शसे चपस्येति विकल्पेन यदि खकारस्तदा रूपत्रयाधिक्यं भवत्येव ॥
(वाऽऽदीपोः शतुः) अवर्णान्तात्परस्य शतुर्वा नुमीकारे ईपि च ।। तुदती-तुदन्ती,तुदन्ति ॥ भात् । भाती-भान्ती, भान्ति ।।
(सुबोधिनी)-वाऽऽदीपोः शतुः ॥ वा आत् ईपोरिति पदच्छेदः। आदिति पञ्चमी न तु तपरत्वम् । ईश्च ईप च ईपी तयोरीपोः। शतुरित्यवयवषष्ठी॥ ननु तुदती इत्यत्र शिति चतुर्वदित्यनेन कृतस्य तुदादेरित्यप्रत्ययस्य अदे इत्यनेनान्तरङ्गत्वाल्लोपे कृतेऽवर्णात्परत्वाभावान्नुम् न स्यात् । उच्यते । प्रत्ययलक्षणेन तत्परत्वमस्त्येव । न चैवं नन्तीत्यादावतिप्रसङ्ग लुकि न तन्निमित्तमित्यनेन प्रत्ययलक्षणप्रतिषे. धात् ॥ भातीति भात् । भा दीप्तौ शतप्रत्यये शित्त्वादप् । अदादित्वादपो लुक् ॥