________________
(२३४) सिद्धान्तचन्द्रिका। [विभक्त्याः ] क्तिरिति स्त्रियां भावेऽर्थे क्तिः ॥ जगत् करोति इति जगतः कर्ता । तृवुणाविति कर्तरि तृप्रत्ययः॥ कर्तृकार्ययोः किम् । शस्त्रेण भेत्ताऽत्र करणे मा भूत् ॥ कृति किम् । कृतपूर्वी कटमत्र तद्धिते मा भूत् । कृतं पूर्वमनेनेति कारकादिति कर्तरीनिः॥
( तत्त्वदी० )--कर्तृकार्ययोरिति ॥ तादौ तु तृणो ग्रहणं न तु तृ इत्यस्य । तेन कटस्य कर्तेत्यपि अनन्तरस्य विधिनिषेधो वेति न्यायात् ॥
(गुणकर्मणि वा) नेताऽश्वस्य ग्रामं ग्रामस्य वा ॥ (सुबोधिनी)--गुणकर्मणि वा ॥ अमुख्यकर्मणि वा षष्ठी स्यात् अक्तादौ कृति ॥ नेताऽश्वस्य ग्राम ग्रामस्य वा । कर्तरि तृप्रत्ययः । ग्राममिति गौणकर्म ॥
(उभयप्राप्ती कृति कर्तरि षष्ठी न ) आश्चर्यो गवां दोहोऽगोपेन ॥ स्त्रीप्रत्यययोरकाकारयोर्योंगे नोक्तम् ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः॥ .
(सुबोधिनी)-उभयप्राप्ती कृति कर्तरि षष्ठी न ॥ उभयोः कर्तृकर्मणोः प्राप्तिस्मिन् स उभयप्राप्तिस्तस्मिन्नुभयप्राप्तौ कृत्प्रत्यये कर्तरि षष्ठी न स्यात् ॥ कषष्ठीनिषेधकमिदम् ॥ कर्मणि षष्ठी तु कर्तृकार्ययोरनेनैव ॥ अगोपेन गावो दुह्यन्ते इति दोहः । भावे घञ् । स्त्रीप्रत्यययोरकाकारयोयोंगे नोक्तम् । स्त्रियां क्तिरित्यधिकारे कृतयोरकाकारयोर्योगे कर्तरि कर्मणि चोभयत्र षष्ठी स्यात् । कर्तरि षष्ठी नेति पूर्वोक्तं न प्रवर्तते इत्यर्थः। भेदनं भोदिका । धात्वर्थनिर्देशे वुण वक्तव्य इति वुण् । युवोरनाकावित्यकादेशः। 'आवतः स्त्रियाम्' इत्याप । काप्पत इतीत्वम् । भेत्तुमिच्छा बिभित्सा । भिदेः सप्रत्यये नानिटि से' इति न गुणः । प्रत्ययान्तात् स्त्रियामङित्यङ् । तत आप् । रुद्रेण जगतः भिद्यते इति भेदिका रुद्रस्य जगतः । भावे वुण ॥ रुद्रेण जगत् बिभित्स्यत इति विभित्सा रुद्रस्य जगतः। भावेऽङ्॥ (तत्त्वदी०) उभयप्राप्ताविति ॥ कर्तृकर्मप्राप्तावित्यर्थः ॥ (शेषे कृति वा) शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥ (सुबोधिनी )--शेषे कृति वा ॥ शेषेऽकाकारभिन्ने कृन्मात्रप्रत्यये उभयप्राप्ती कर्तरि षष्ठी वा स्यात् ॥ आचार्येण शब्दा अनुशिष्यन्तेऽनेनेति शब्दानामनुशासनमाचार्यणाचार्यस्य वा । साधनाधारयोरिति करणे युटू ॥ . (वर्तमानाधारार्थक्तस्य योगे षष्ठी ) राज्ञां मतो बुद्धः पूजितो वा । इदमेषां शयितम् ॥ क्तादौ तु कुर्वन् कुर्वाणः चकृवान् चक्राणः