________________
[ विभक्त्याः ] टीकाद्वयोपेता।
(२२७) तुमिष्टे वाञ्छिते चतुर्थी स्यात् ॥ गोपी स्मरात्कन्दर्पात् कृष्णाय श्लाघते । कृष्णं स्तौतीत्यर्थः । सर्वत्र कर्मणि द्वितीयाप्राप्तौ चतुर्थी ॥ कृष्णाय हुते । सपत्नीभ्यो हुतमर्थ कृष्णं बोधयतीत्यर्थः। कृष्णाय तिष्ठते । स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। स्वाभिप्रायाविष्करणे निणेत्राख्यायामिति तिष्ठतेरात्मनेपदम् ॥ कृष्णाय शपते । उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः॥
( तत्त्वदी) श्लाघवङ् इति ॥ श्लाघत इति ॥ श्लाघा स्तुतिः । कृष्णाय श्लाघते । कृष्ण स्तौतीत्यर्थः ॥ कर्मत्वे प्राप्ते वचनमिदम् । अन्ये त्वाहुः । कृष्णाय आत्मानं परं वा श्लाघ्यं कथयतीत्यर्थः ॥ अस्मिंस्तु पक्षे शेषषष्ठयां प्राप्तार्या वचनम् ।। हृत इति ॥ सपत्नीभ्यः कृष्णं ह्रवाना तमेवार्थ कृष्णं बोधयतीत्यर्थः। यस्य कस्यचित् हृतिं वा ॥ तिष्ठत इति ।। स्थित्याऽभिप्रायं बोधयतीत्यर्थः। शाब्दबोधस्तु कृष्णोद्देश्यक आत्माभिन्नाश्रयकश्लाघ्यत्वादिबोधनानुकूल एकगोप्यभिन्नाश्रयको वर्तमानो व्यापारः । स्वाभिप्रायाविष्करणे नित्राख्यायामित्यात्मनेपदम् ॥
(धारेरुत्तमणे ) भक्ताय धारयति मोक्षं हरिः॥ (सुबोधिनी) धारेरुत्तमणे ॥ धृङ अवस्थाने । ज्यन्तः । धारयतेः प्रयोगे उत्तमणे चतुर्थी स्यात् ॥ उत्तम) धनस्वामी। अत्रोत्तमो भक्तः । हरिस्त्वधमर्णः। 'अधमर्णस्तु ग्राहकः' इति । भक्तेन पूर्व भक्तिर्दत्ता तदर्थ हरिमोक्षं धारयति । धृङोः कर्मकत्वाद् गतिबुद्धीति सत्रेणाञ्यन्तावस्थायां कर्तुय॑न्तावस्थायां कर्मत्वम् । अत्र च षष्ठीप्राप्तौ चतुर्थी विधीयते ॥ उत्तमणे किम् । देवदत्ताय शतं धारयति ग्रामे॥
(तत्त्वदी० )- धारेरिति ॥ षष्ठीप्राप्तौ वचनम् ॥ भक्तायेति ॥ भक्तोदेश्यकमोक्षकर्मकधारणानुकूल एकहयमिन्नाश्रयको वर्तमानो व्यापारः ॥
(स्पृहयतेरीप्सिते ) पुष्पेभ्यः स्पृहयति ॥ (सुबोधिनी)-स्पृहयतेरीप्सिते ॥ स्पृहयतेः प्रयोग ईप्सिते वाञ्छिते चतुर्थी स्यात् ॥ स्पृह ईप्सायाम् । चुरादावदन्तः । कर्मणि द्वितीयावाधिकेयम् । मैत्र: पुष्पेभ्यः स्पृहयति । पुष्पाणि स्पृहयतीत्यर्थः ॥ प्रकर्षविवक्षायां द्वितीयाऽपि ॥ _ (तत्त्वदी०)-पुष्पेभ्यः स्पृहयति इति ॥ पुष्पोद्देश्यकेच्छानुकूल एकाभिन्नाश्रयको वर्तमानो व्यापारः॥
(क्रुधदुहेासूयार्थानाम् ) यं प्रति कोपार्थादयस्तत्र ॥ हरये क्रुध्यति द्रुह्यति ईर्ण्यति असूयति इत्यादि ॥