________________
(२७४)
सिद्धान्तचन्द्रिका। [समासप्र.] अहोरात्रः। 'अहःपूर्वाद्रात्रिशब्दादः समाहारे' इत्यप्रत्ययः॥ रात्राहाहान्ता इति पुंस्त्वम् ॥ द्वौ वा त्रयो वा वित्राः । पञ्च "वा षड् वा पञ्चषाः । संख्येये बहुव्रीहेर्ड इति डः ॥ बहुकर्तृकः । बहुलक्ष्मीकः । इंदूदन्तस्त्रीलिङ्गोत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहे: क इति कप्रत्ययः॥ स्त्रीपुंसौ ॥ ऋक्साम । अचतुरविचतुरेहानेन इन्दऽप्रत्ययः॥ महोक्षः । जातोक्षः। वृद्धोक्षः। अचतुराविचतुरेत्यनेन कर्मधारयेऽप्रत्ययः॥ पुरुषायुषम् । अचतुरविचतुरेत्यनेन तत्पुरुषेऽप्रत्ययः । व्यायुषम् । व्यायुषम्। अचतुरेत्यनेन द्विगावप्रत्ययः ॥ ग्रामतक्षः। ग्रामकौटाभ्यां तक्ष्णष्ट इति तत्पुरुषे टः॥ फलकसक्थः । मृगसक्थः । पूर्वसक्थः । 'उत्तरमृगपूर्वोपमानात सक्थ्नष्टस्तत्पुरुषे' इति टप्रत्ययः । फलकमिव सक्थि अस्येति बहुव्रीही तु स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्वहुव्रीहेष्ट इति टप्रत्ययो बोध्यः॥ अर्द्धवारम् । खारीशब्दान्ताद द्विगो. रर्धपूर्वात्वार्यन्तात्तत्पुरुषाच्च वा ट इति टः॥ अर्द्धनावम् । 'अर्द्धपूर्वानावष्टस्तत्पुरुषे' इति टः ॥ इति बहुव्रीहिः॥
(तत्त्वदी)-नो वेति ॥ वोऽव्यस्वर इत्यतः यस्वरयोरनुवृत्तिः । डिति टेरित्यतष्टेरित्यस्य । नामाधिकारान्नान्तस्यैवेत्याशयेनाह-नान्तस्येति ॥ नाम्न इति शेषः । वेत्यस्य व्यस्थितत्वादाह ॥ वाग्रहणादिति ॥ पूर्वसक्थमिति ।। सक्नः पूर्वमिति विग्रहः ।। अर्द्ध खारमिति ॥ खार्या अर्द्धमिति विग्रहः । एवमर्द्धनावमित्यपि ।। इति बहुबोहिः ।
(कर्मधारयस्तुल्यार्थे ) पदद्वये तुल्यार्थे एकार्थनिष्ठे सति कर्मधारयः समासो भवति ॥
(सुबोधिनी )-कर्मधारयस्तुल्यार्थे ॥ समस्यमानयोईयोः पदयोर्विशेषणविशेव्यधर्मयोर्यत्र परस्परं तुल्यार्थता तत्रैव समासो भवति नान्यत्र । भ्रमरादिसाधारणरूपेण प्रतिपन्नो नीलार्थः उत्पलार्थेन नीलोत्पले स्थाप्यते।रक्तादिसाधारणरूपेण प्रतिपन्न उत्पलार्थोऽपि नीलार्थन नीले स्थाप्यते इति भवति द्वयोस्तुल्यार्थता । पदयोदय पदद्वयं तस्मिन्नेकार्थे निष्ठा वृत्तिर्यस्य भिन्नप्रवृत्तिनिमित्तकस्य पदद्वयस्य तदेकार्थनिष्ठं तस्मिन् सति य एकार्थीभावः स कर्मधारयसंज्ञकः समासो भवति ॥ भिन्नार्थानामेकरूपेणैकत्रान्वयविवक्षायां इन्दः ॥ भिन्नार्थयाविशेष्यविशेषणभावनैकत्रान्वयविवक्षायां कर्मधारय इत्यर्थः ॥ विशेष्यतेऽनेनति विशेषणम् । 'शिष्ल विशेषणे' करणे युटू । भेदकं व्यावर्तकामिति । यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्य एकस्मिन् प्रकारे व्यवस्थापयति तद्विशेषणम् । व्यवस्थाप्यमानं तु विशेष्यं भेद्यं प्रधानमिति । अत्र लौकिकविग्रहे भेदद्योतकश्चशब्दो धर्मभेदद्योतनाय प्रयुज्यते । धर्मभेदबोधनाय सर्वादिश्च । द्रव्यगुणक्रियासन्निधाने द्रव्यवाचकस्यैव प्राधान्यमित्यतो द्रव्यस्य प्राधान्यात् गुणक्रिययोश्चाप्राधान्याद् गुण