________________
(२९८) सिद्धान्तचन्द्रिका। [ तद्धितप्र०]
(सुबोधिनी )-ण्यायनणेयण्णीया गर्गनडात्रिस्त्रीपितृष्वस्रादेः ॥ ण्यश्च आयनण् च एयण च णीयश्च ते ण्यायनणेयण्णीयाः । गर्गश्च नडश्च अत्रिस्त्रियौ च पितृष्वसा च एषां समाहारो गर्गनडात्रिस्त्रीपितृष्वसृ। गर्गनडात्रिस्त्रीपितृष्वस आदिर्यस्य स गर्गनडात्रिस्त्रीपितृष्वस्त्रादिस्तस्मात् । द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं सम्बध्यते । स्त्रीशब्देन स्त्रीप्रत्ययस्य ग्रहणान्नादिशब्दयोगः ॥ इह स्वरूपग्रहणं नेष्टम् । अत्र्यादिषु तस्य तु सुग्रहत्वात् ॥ यथाक्रमेण गर्गादिभ्यो ण्योऽपत्येऽर्थे ॥ नडादेरायनण अपत्येऽथै ॥ अध्यादेः स्त्रीप्रत्ययान्ताच्च एयण अपत्येऽर्थे । पितृष्वस्रादेीयोऽपत्येऽर्थे ॥ इह आयनणेयणोरणन्तत्वादीप् । अन्तणकारपाठसामर्थ्यादर्थवद्ग्रहणपरिभाषाया अनित्यत्वात् । अन्यथा ण्यणीयवत् णायनणेयावित्येव ब्रूयादिति ॥ गर्गादिर्यथा । गर्ग वत्स व्याघ्रपाद पुलस्ति बभ्र मण्डु वतण्ड शकल कण्व अगस्त्य (अगस्ति) कुण्डिनी याज्ञवल्क्य पराशर जमदग्नि इत्यादि ॥ नडादिर्यथा । कुञ्ज ब्रध्र शंख शकट हत्यादि ॥ अत्र्यादिर्यथा । अत्रि शुभ्र मृकंडु अश्वाद नातृ विधवा गोवा प्रवाहण पाण्डु इत्यादि । गर्गादिशब्दास्तदपत्ये लाक्षणिकाः । साक्षादपत्ये इव । अनन्तरापत्ये गागरित्युक्तत्वात् । गर्गस्यापत्यमितीजोऽर्थः । गागैरपत्यं गार्ग्यः। वत्सस्यापत्यं वात्स्यः। कतस्यापत्यं कात्यः। वतण्डस्यापत्यं वातण्डयः । अवटस्यापत्यमावत्यः । मण्डूकस्यापत्यं माण्डूक्यः। पूतिमाषस्यापत्यं पौतिमाष्यः । स्त्रियां तु नदादित्वादीप् । हसात्तद्धितयस्येपीति यलोपः। गार्गी । वात्सी । नडादित्वात् स्त्रियामायनणि गाायणी । कात्यायनी । वातण्डी । वातण्डयायनी । माण्डूक्यायनी ॥ अजादित्वादापूप्रत्यये आवट्या । पौतिमाष्या। नडस्यापत्यमितीजोऽर्थः । नाडेरपत्यं नाडायनः । चरस्यापत्यं चारायणः । ण्यान्तानामिअन्तानां च नडादित्वं बोध्यम् । गार्यस्यापत्यं गाायणः। वात्स्यस्याऽपत्यं वात्स्यायनः । दाक्षेरपत्यं दाक्षायणः । अमुष्यापत्यमामुष्यायणः। षष्ठया अलुगत्र । अत्रेरपत्यमात्रेयः । कपरपत्यं कापेयः॥ . ( तत्त्वदी० )-ण्यायनणयण्णीया इति ॥ ण्यश्च आयनण् च एयण च णीयश्च ते । गर्गश्च नडश्व अत्रिश्च स्त्री च पितृष्वसा च एतेषां समाहारस्तदादिर्यस्य स तथा तस्मात् । द्वन्द्वात्पर आदिशब्दः प्रत्येकमभिसंबध्यते । स्त्रीतिप्रत्ययग्रहणान्नादिशब्दयोगः । अत्र नव्याः । आदिशब्दोऽत्र प्रकारवाची न तु ज्यवस्थार्थः । एतदादिगणस्यात्रादर्शनादित्याहुः । तन्मते गर्गादेर्गणाद् ण्य इत्यादिर्वासुदेवोक्तिः प्रत्युत्ता । गर्गादिशब्दाश्च तदपत्ये लाक्षणिकाः तेन गर्गस्यापत्यं गार्गिः। गार्य इत्यत्र गागैरपत्यमित्यर्थों बोध्यः। साक्षादपत्ये तु गार्गिरित्येवेति ॥
( कल्याण्यादेरिनङ् च ) काल्याणिनयः । कौलटिनेयः ॥