________________
(२८)
सिद्धान्तचन्द्रिका। [स्वरसंधिः] द्वित्वे सति लोपे चासति त्रिधम् । तवर्द्धिः । यवलाद्यपो द्विवंति लक्षणान्तरेण पुनर्दित्वे चतुर्द्धमपि बोध्यम् ॥
(तत्त्वदी०)-तवद्धिरिति ॥ रूपत्रयम् । तथा च द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् ॥
(ल अल्) अवर्णात् लवणे परे सह अल् भवति ॥ (सुबोधिनी)-ल अल ॥ ल इति सप्तम्यन्तम् । अल् इति प्रथमान्तम् ॥ 'इसेऽहं हसः' इत्यनेन लस्य द्वित्वम् ॥
(तत्त्वदी० )-ल अलिति ॥ ल इति सप्तम्यन्तम् ॥ (यवलायपो द्विा) तवल्कारः-तवल्लकारःतवल्क्कारःतवल्ल्क्कारः।
(सुबोधिनी)-यवलाद्यपो द्विर्वा ॥ अर्थवशाद्विभक्तिविपरिणाम इत्यनेन यपाद् यवला वा द्विरित्यस्य स्थाने यवलादिति पञ्चमी । यप इति प्रथमति पक्षे ककारस्यापि द्वित्वे तवल्कार इत्यत्र रूपचतुष्टयं भवति ॥ " द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥"
(तत्त्वदी०) यवलाद्यपो द्विति ॥ 'हसेऽई हसः इति द्वित्वविकल्पाच्चत्वारि रूपाणि । एवं प्राल्कारीयतीत्यादावपि बोध्यम् ॥
( एऐ ऐ ) अवर्णादेकारे ऐकारे च परे सह ऐकारो भवति ॥ तवैषा देवैश्वर्यम् ॥ (सुबोधिनी )-एऐ ऐ ॥ आद्यौ सप्तम्यन्तौ, प्रथमान्तोऽन्त्यः॥
(प्रवत्सतरकम्बलवसनाणदशभ्य ऋणे ) प्रार्णम् । वत्सतरार्णम् । कम्बलार्णम् । वसनार्णम् । ऋणार्णम् । दशार्णः ॥
(सुबोधिनी)-प्रवत्सतरकम्बलवसनार्णदशभ्य ऋणे ॥ एषामृणशब्दे परे आर् भवति । इह केचित् वत्सशब्दं प्रक्षिपन्ति । भाष्ये तु वत्सशब्दे परे आर भवति ॥ इह केचित् वत्सशब्दं प्रक्षिपन्ति । भाष्ये तु वत्सशब्दो नोक्तः । ऋणस्यापनयनाय यदन्यपूर्ण क्रियते तहणार्णम् । वत्सतरस्य ऋणं वत्सतरार्णमित्यत्र 'हसेऽई हसः' इत्यनेन तकारसकारयोदित्वविकल्पाच्चत्वारि रूपाणि । 'खपात् शसस्य द्विः' इति वार्तिकेन वा सकारद्वित्वे चतुर्विंशतिः ॥ रेफात्परस्य णस्य तु 'रहाद्यपो दिः' इत्यनेन द्वित्वे ' यवलाद्यपो द्विा' इति वचनान्तरेण पुनर्दित्वे एकणं द्विणं त्रिणमिति द्वादश । दशार्णों देशः ॥ दशार्णा नदी च ॥ ___ (तत्त्वदी०)-प्रवत्सतरेत्यादि॥प्रादिभ्यः षड्भ्यः ऋणशब्दे परे सह आर् भवतीत्यर्थः।। प्रार्णमित्यादि॥प्रकृष्टम् ऋणमिति विग्रहः॥ वत्सतरार्णमित्यादि । वत्सरेण देयमृणमित्यादि। एवं कम्बलार्णमित्याद्यपि ॥ऋणार्णमिति ॥ ऋणस्यापनयनाय यहणं क्रियत तहणार्णमित्यर्थः॥