SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ [ तद्धितप्र० ] टीकाद्वयोपेता | ( ३१३) (सुबोधिनी ) षट्त्वे षड्गवः ॥ षटूत्वे वाच्ये षड्गवप्रत्ययः स्यात् ॥ अश्वानां षट्त्वम् अश्वषङ्गवंम् । अवयवसंघातस्य प्राधान्यादेकवचनम् ॥ ( तत्त्वदी० ) - अश्वषङ्गवम्इति षट् ॥ अश्वा इत्यर्थः ॥ ( स्नेहे तैलः ) तिलतैलम् । सर्पपतैलम् ॥ (सुबोधिनी ) -- स्नेहे तैलः ॥ स्नेहे वाच्ये तैलप्रत्ययः ॥ तिलानां स्नेहः तिलतैलम् ॥ सर्षपाणां स्नेहः सर्षपतैलम् ॥ ( भवने क्षेत्रे शाकटशाकिनौ ) इक्षूणां भवनं क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् ॥ ( सुबोधिनी ) - - भवने क्षेत्रे शाकटशाकिनौ ॥ भवने क्षेत्रे इत्यर्थे शाकटशाकिनौ प्रत्ययौ भवतः ॥ (अवात्कुटारकटौ ) अवाचीनोऽवकुटारः । अवकटः || ( सुबोधिनी) - अवात कुटारकटौ ॥ अवशब्दात् कुटारकटौ प्रत्ययौ भवतः अवाचीने हीनेऽर्थे अवकुटारावकटशब्दौ वेदे प्रसिद्धौ ॥ ( नासिकाया नते संज्ञायां टीटनारभ्रटा अवात् ) नासिकाया नतम् अवटीटम् । अवनाटम् | अवकटम् । तद्योगान्नासिकाऽप्यवटीटा | पुरुषोऽवटीः ॥ (सुबोधिनी ) - नासिकाया नते संज्ञायां टीटनाटनटा अवात् ॥ नासिकासाधनके नमने वर्तमानादवशब्दादते प्रत्ययाः स्वार्थे संज्ञायां वाच्यायाम् ॥ नतमिति नपुंसके भावे क्तः । नमनं नीचैस्त्वम् । कथं तर्हि नासिकायां पुरुषे चावटीशब्दप्रयोग इत्यत आह-तद्योगादिति ॥ (डिबिरीस) निबिडम् । निबिरीसम् ॥ ( सुबोधिनी) - बिडबिरीसौ ॥ उक्तेऽर्थे निशब्दान्नासिकाया नतेऽभिधेये बिडबिसौ प्रत्ययौ स्तः ॥ ( इनपिटकाः प्रत्यया नेश्चिकचिचिकादेशाः ) चिकिनम् । चिपिटम् । चिकम् ॥ (सुबोधिनी ) - इन पिटकाः प्रत्यया नेश्चिकचिचिकादेशाः ॥ उक्तेऽर्थे
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy