________________
( १८४) सिद्धान्तचन्द्रिका। [ स्त्रीप्रत्ययाः] शमेकप्रकारम् । पुनः कीदृशम् । सर्वासु विभक्तिषु सदृशं च । पुनः कीदृशम् । सर्वेषु वचनेषु सदृशम् ॥ १॥ “वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हसान्तानां यथा वाचा निशा दिशा ॥२॥" भागरिराचार्योऽवाप्योरुपसर्गयोरल्लोपं वष्टि वाञ्छतीत्यर्थः। च पुनः हसान्तानां शब्दानामापं वष्टि ॥२॥ अल्लोपे यथा । वगाहः। अवगाहः। पिधानम् । अपिधानम् । अपिना साहचर्यादादिरेवाकारो लुप्यते । नान्त्य इति भावः॥
इति सुबोधिन्यामव्ययानि ॥ (तत्त्वदी०)-सदृशमिति ! श्रुतिलिङ्गसंख्याकारकाभावमरा ॥ यथा वाचेति ॥ परिगणनमिदमित्येके । अन्ये तु उदाहरणमात्रमित्याहुः । वगाह इति ॥ आदिरेवाकारो लुप्यते नान्त्यः अपिना साहचर्यात् ॥: . श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायामव्ययव्याकृतिर्गता ॥
इति तत्वदीपिकायामव्ययानि ॥
अथ स्त्रीप्रत्ययाः । (आवतः स्त्रियाम् ) अकारान्तानाम्नः स्त्रियां वर्तमानादाप् प्रत्ययो भवति ॥ सर्वा । माया ॥ ..
(सुबोधिनी)-आबतः स्त्रियाम् ॥ अत इति तपरग्रहणम् । तेनाधिकृतस्य नाम्नो विशेषणात् तदन्तविधिः स्त्रियामिति प्रकृत्यर्थविशेषणम् । स्त्रियां वर्तमानाददन्तानाम्नः आप स्यात् । पित्त्वं स्वरार्थम् । स्यादिकं लिङ्गत्रयं तु पारिभाषिकमेव लिङ्गानुशासनादिभ्यो निर्णयम् ॥ माया । शठताऽविद्या वा ॥
(तत्त्वदी०)-आवतः स्त्रियामिति ॥ आप अतः स्त्रियामिति च्छेदः। अत इति तपरकरणाद्वयक्तर्ग्रहणम्। न तु स्वरूपस्य नापि आङ्गगदित्यादौ अच्छब्दान्तस्य । तुम् तदर्थायामिति निर्देशात् । नापि ङसेरादेशस्याच्छब्दस्य स्त्रियां वृत्त्यभावात् । अधिकृतस्य नाम्नो विशेषणात्तदन्तविधिः । स्त्रियामिति प्रकृतिविशेषणमित्यभिप्रेत्याह-स्त्रियां वर्तमानादिति ॥
(अजादेश्च ) अजा । एडका । अश्वा । चटका । मूषिका । बाला। वत्सा । होडा । मन्दा । विलाता । संफला । भत्रफला । अजिनफला । शणफला। पिण्डफला । सत्पुष्पा । प्राकपुष्पा। प्रत्यकपुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । एकपुष्पा । शूद्रा । क्रुच्चा । उष्णिहा । देवविशा ।