________________
(३१८ )
सिद्धान्तचन्द्रिका |
[ तद्धितप्र० ]
( तत्त्वदी० ) - वतुल्ये इति ॥ अत्र क्रियाग्रहणमनुवर्तते । तच्च तुल्येन संबध्यते । तेन तुल्यायां क्रियायामित्यर्थो लभ्यते । तोलनं तुला तया संमितमिति विग्रहे कारकादिति ण्यप्रत्यये णितो वेति णित्त्वाभावाद्वृद्ध्यभावः । चतुर्वदित्यादिनिर्देशात क्रियासादृश्याभावेऽपि षष्ठयन्तात्सप्तम्यन्ताच्च भवति इत्याशयेनाह - मथुरावदित्यादि ॥ योगविभागान्महानसवदित्यादावक्रियासाम्येऽपि भवति ॥
(अपि) विधिमर्हति विधिवत् ॥
( सुबोधिनी ) - अर्हेऽपि ॥ ऽर्थेऽपि द्वितीयान्ताद्वत् स्यात् क्रियातुल्ये ॥ विधिमर्हति विधिवत्पूज्यते । विधानं विधिः ॥ अर्हतीति अहः पचाद्यः ॥
( भावे तत्वयणः ) शब्दस्य प्रवृत्तिनिमित्तं भावस्तत्र वाच्ये एते स्युः ॥ तान्तं स्त्रियाम् । त्वान्तं क्लीवम् । ब्राह्मणता ब्राह्मत्वम् ब्राह्मण्यम्॥ शुक्लता । शुक्लत्वम् । शौक्लयम् ॥ वैदुष्यम् ॥
( सुबोधिनी) - भावे तत्वयणः ॥ तश्च त्वश्च यण च ते तत्वयणः । भावे तत्वयणः प्रत्यया अणादयश्च स्युः ॥ भावशब्दोऽनेकार्थवचनः । अभिप्राये यथा अयं भावः । पदार्थमात्रे यथा । विचित्रा भावशक्तयः । शृंगारादिषु यथा । स्यायिभावः संचारिभावः । प्रवृत्तिनिमित्ते धात्वर्थमात्रे च भावः । तेष्वत्र कस्य ग्रहणम् । उच्यते । प्रवृत्तिनिमित्तवचनस्य भावस्यात्र ग्रहणम् । भवन्ति शब्दा अनेनेति व्युत्पत्तेः । अभिप्रायादिवचनस्यात्र अग्रहोऽनभिधानात् । तथा च सिद्धान्तकौमुद्यां प्रकृतिजन्यबोधे प्रकारो भाव इति । उक्तं च हरिटीकायाम् । कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति । तेन पाचकत्वमित्यत्र कर्तृत्वरूपः सम्बन्धः । औपगवत्यमित्यत्र जन्यत्वरूपः सम्बन्धः । राजपुरुषत्वमित्यत्र स्वत्वरूपसम्बन्धः ॥ तप्रत्ययान्तं स्त्रीलिंगम् । त्वप्रत्ययान्तं नपुंसकम् । यणन्तमुभयत्र । मैत्र्यं मैत्रीत्यादि । ब्राह्मणस्य भावः । यस्येत्यलोपः । ब्राह्मण्यम् । शुक्लाया भावः त्वतलोर्गुणवचनस्येति पुंवद्भावः। शुक्लत्वम् ॥
1
( तत्त्वदी ० ) - भावे तत्वयण इति ॥ तश्च त्वश्च यण् च ते ॥ भावशब्दोऽभिप्राया'द्यनेकार्थोऽप्यत्र प्रवृत्तिनिमित्तवचन एव गृह्यते न त्वभिप्रायाद्यर्थः । प्रवृत्तिनिमित्त भिन्नानामनभिधानादित्याशयेनाह - शब्दस्येत्यादि ॥ प्रवृत्तेर्निमित्तं प्रवृत्तिनिमित्तं तस्मिन् प्रत्यया इत्यर्थः। • अणन्तमुभयत्र । मैत्र्यम् । मैत्री ॥
( कर्मण्यपि ) ब्राह्मणस्य कर्म ब्राह्मण्यम् । राज्यम् । स्वैन्यम् ॥