________________
टीकाद्वयोपेता ।
[ तद्धितप्र० ]
( देवात्तः ) देव एव देवता ||
( सुबोधिनी ) - देवात्तः ॥ देवशब्दात्तप्रत्ययः स्यात् स्वार्थे ॥ तान्तं स्त्रियाम् ॥ ( मृदस्तिकः ) मृदेव मृत्तिका ॥
(३१७)
(सुबोधिनी) - मृदस्तिकः ॥ मृद्शब्दात्तिकप्रत्ययः स्यात् स्वार्थे ॥
( सनौ प्रशंसायाम् ) प्रशस्ता मृत् मृत्सा | मृत्स्ना ॥
( सुबोधिनी )--सस्नौ प्रशंसायाम् ॥ रूपप्रत्ययस्यापवादौ । मृदः सस्त्रौ प्रत्ययौ स्तः प्रशंसायामर्थे || "मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका" इत्यमरः ॥ ( अणीनयोर्युष्मदस्मदोर्युष्माकास्माकौ ) युवयोर्युष्माकं वाऽयं यौष्माकः । यौष्माकीणः । आवयोरस्माकं वाऽयम् आस्माकः । आस्मा - कीनः ॥
1
(सुबोधिनी) - अणीनयोयुष्मदस्मदोर्युष्माकास्माको || एतयोद्वित्वे बहुत्वे च वर्तमानयोर्युष्माकास्माकावादेशौ स्तः अणीनयोः परतः ॥
( तत्त्वी० ) - अणीनयोरिति || आदेशे यथासंख्यं न तु प्रत्यये ॥
( एकत्वे तवकममको) तवायं तावकः । ममायं मामकः । तावकी - नः । मामकीनः ॥
( सुबोधिनी)- एकत्वे तवकममकौ ॥ एकत्वे वर्तमानयोर्युष्मदस्मदोस्तवकममकावादेशौ स्तः अणीनयोः परतः ॥
( वतुल्ये ) सादृश्येऽर्थे वत्प्रत्ययः ॥ चन्द्रेण तुल्यं चन्द्रवत् । ब्राह्मणवत् | क्षत्रियवत् । मथुरायामिव मथुरावत् । पाटलिपुत्रे इव प्राकारः पाटलिपुत्रवत् । चैत्रस्येव चैत्रवत् मैत्रस्य गृहम् ॥
( सुबोधिनी) - वतु ॥ तुल्यते सादृश्येनोन्मीयते ज्ञायते इति तुल उन्माने अस्मात् क्यप् तुल्यम् । यद्वा तोलनं तुला । जेरभावे भिदाघ ! तुलया संमितं तुल्यम् । कारकादिति ण्यः । णितो वेत्यणित्वम् । तृतीयान्तात् सप्तम्यन्तात् षष्ठयन्ताच्च वत्प्रत्ययः स्यात् तुल्ये सादृश्येऽर्थे ॥ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते ॥ तृतीयान्तात् तु क्रियातुल्ये एव गुणतुल्ये माभूत् । पुत्रेण तुल्यः स्थूलः ॥ द्रव्यतुल्येऽपि न । गवा तुल्यो गवयः ॥ सप्तम्यन्तात् षष्ठयन्ताच्च क्रियातुल्येऽपि भवतीत्यर्थः । मथुरावत् पाटलिपुत्रे प्राकारः । मथुरायां यादृशः प्राकारस्तादृश पाटलिपुत्रेः इत्यर्थः ॥