________________
(७४)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः] सर्वकार्यः। अपुरि पुरीविषयतायां सर्वकार्यो न भवति । बहि:शब्देनानावृतो देशो बाह्यं चोच्यते। अन्तरायां पुरीति प्राकाराद्वाह्यायां पुरि प्राकारान्तरवतिन्यां वा पुरि गृहाः सन्ति । सत्यपि बहियाँगे पुरीविषयत्वान्न सर्वादिसंज्ञाऽत्र । सर्वादित्वाभावात् 'यटोऽच्च' इति न सुटू ॥ परिधाने तु अन्तरे अन्तरे वा शाटका इति । परिधानीया इत्यर्थः । सर्वादित्वात् वा'जसी'इति ईत्वम् । बहिःशब्दोऽर्थव्यवाची उक्तः। तत्राद्ये यथा। अन्तरे अन्तरा वा गृहा इति। नगराद्वाह्याश्चाण्डालादिगृह्या इत्यर्थः॥ द्वितीये तु नगराभ्यन्तरागृहा इत्यर्थः। बाह्येन सहाभ्यन्तरस्य योगो ह्यस्ति ॥ बहियोंगे किम् । ग्रामयोईयोरन्तरे मध्ये तापसा वसन्तीति अन्तरशब्दस्य मध्यार्थत्वान्न सर्वादिसंज्ञा । अत एवात्र पाक्षिको न स्मिन् ॥ अर्थश्च ज्ञातिश्चार्थज्ञाती। अर्थज्ञातिभ्यामन्यावात्मात्मीयावर्थों अर्थज्ञात्यन्यौ । अर्थज्ञात्यन्यौ वक्तीत्यर्थज्ञात्यन्यवाची स्वशब्दः सर्वकार्यः । आत्मात्मीयज्ञातिधनवाची स्वशब्दः । तत्र ज्ञातिधनयोः पर्युदासादात्मात्मीयौ परिशिष्टौ । तत्र सर्वादिसंज्ञा भवति । स्वे-स्वाः । आत्मानः-आत्मीया वेत्यर्थः । सर्वादित्वादत्र 'वा' जसी इतीत्वम् । ज्ञातिधनवाचिनस्तु स्वायेत्यत्र सर्वादित्वाभावान्न स्मट । ननु आत्मात्मीयवाचीति वक्तुं पर्युदासग्रहणमनर्थकम् । उच्यते । ज्ञातित्वेन धनत्वेन च विवक्षायां सत्यामात्मीयार्थे सर्वादिसंज्ञा मा भूदित्यर्थं पर्युदासग्रहणमिति ॥ अन्यशब्दग्रहणमनर्थकम् । उच्यते । आत्मीयार्थस्यापि ज्ञातित्वेन धनत्वेन च विवक्षायां सत्यां सर्वादिसंज्ञा मा भूदित्येतदर्थमन्यशब्दग्रहणमिति ॥
(तत्त्वदी०)-सर्वादिःसर्वकार्यो स्यादित्यादि ॥ सर्वादिस्तदा सर्वकार्यां स्याच्चद्गौणो न अथवा अभिधा न । पूर्वादिश्च व्यवस्थायां वाच्यायां सर्वकार्यां स्यादित्यर्थः चशब्दाद्गौणाभिधयोः सर्वत्रान्वयः॥समः अतुल्ये ॥ अन्तरः अपुरि। परिधाने बहियोंगे च अन्तर एव ॥ स्वशब्दः अर्थज्ञातिभिन्नार्थवाची चेत्तदा सर्वकार्यात्यर्थः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। अवधेनियमः। कीदृशः स्वामिधेयापेक्षः । स्वस्य पूर्वादेरभिधेयं वाच्यं दिगादि अपेक्षत इत्यपेक्षः॥ 'दिशः सपत्नी भव दक्षिणस्याः' इत्यादावपि व्यवस्थाऽस्त्येव । प्रसिद्धत्वात्तु नावधिवाची शब्दःप्रयुज्यते । नच संज्ञात्वानिषेधःआधुनिकसंकेतस्यैव संज्ञात्वात्। आधुनिकत्वं तु व्यवहार एव शरणम्। एवं च विश्वेषां देवानामित्यपि सिद्धम्।वेदे प्रसिद्धत्वादाधुनिकत्वाभावात् । अन्यच्च पूर्वमेवोक्तम् ।गौणत्वं च स्वार्थविशिष्टार्थान्तरसंक्रमः॥अभिधा संज्ञानिनु सर्वादिगणे सर्वविश्वादीनामेव पाठो न त्वतिसर्वातितदित्यादीनां तत्कथं तेषु सर्वादिकार्यातिप्रसंगशंकेति चेन्न । तदन्तग्रहणस्यात्रेष्टत्वात् । अन्यथा परमसर्वस्मै इत्यादावपि न स्यात् इति चेदुच्यते । सर्वादेः स्मडित्यत्र सर्वादरित्यावर्त्तते । आदिशब्दश्चात्रप्रकार । प्रकारश्च सादृश्यम् तच्च सर्वार्थाभिधानसामर्थ्यम्। तथा च सर्वार्थाभिधानसामर्थ्य विशिष्टानामेव गणे पाठस्यावश्यकतया प्रकारान्तरजुषां च पाठे प्रमाणाभावादेव विशेष व्यवस्थितानां संज्ञानामुपसर्जनानां च सर्वादित्वमेव नास्ति । तेन तेषां सर्वादिकार्यमन्तर्गणकार्य च न भवति ॥ यत्तु शब्दस्वरूपमात्राश्रयं न तु गणा पेक्षं तत्तूपसर्जनत्वेऽपि स्यादेव युष्मदस्मदोस्त्वमह