________________
[ स्वरान्तपुंलिंगाः ] टीकाद्वयोपेता।
(७५) मितिवत् । नचैवं युष्मदि चास्मदि चेत्यत्र त्वन्मदादिप्रसंगः । लोकप्रसिद्धार्थवाचकतायामेव तत्प्रसंगः नतु शब्दस्वरूपत्वे वाच्ये। नन्वेवमस इत्यादौ कथमतिसर्वे इति वद्गौणत्वेऽपि तत्कार्यसंभवः। अब्राह्मण इत्यादौ ब्राह्मणभिन्न इत्यादिपूर्वपदार्थप्राधान्येन विवरणसंभवादिति चेत्सत्यम् । वैयाकरणैर्नसमासे उत्तरपदार्थप्राधान्यस्यैवाभ्युपगमात् । तथा हि । आरोपितत्वं नअर्थः । तथा च मायामनुष्यः कपटब्राह्मण इतिवत् मिथ्याभूतो ब्राह्मण इत्येव शाब्दबोधः । ब्राह्मणभिन्न इत्याद्यर्थस्तु न शाब्दः । अत्राचतुर्णामिति निर्देशोऽनुकूलः ॥
(द्वन्द्वे सर्वादीनां न सर्वकार्यम् ) पूर्वपरावराणाम् ॥ (सुबोधिनी )-द्वन्द्वे सर्वादीनां न सर्वकार्यम् ॥ द्वन्द्वसमासे: सर्वादिसंज्ञा न भवति ॥ समुदायस्यायं निषेधो न त्ववयवानाम् ॥ वर्णाश्च आश्रमाश्च इतरे च ते वर्णाश्रमेतरे । तेषां वर्णाश्रमेतराणाम् । सर्वादिसंज्ञाऽभावान्न सुट् ॥
(तत्त्वदी०) द्वन्द्व सवादीनामिति ॥ एतन्मूलं तु पूर्वोक्तमेव ॥ वर्णेत्यादि । वर्णाश्च आश्रमाश्च इतरे च ते तथा ॥
( वा जसी) वर्णाश्रमेतरे-वर्णाश्रमेतराः ॥ ( सुबोधिनी)-वा जसी॥द्वन्द्वे उक्ता संज्ञा वा स्याज्जाति ई आदेशे कर्तव्ये॥
(तृतीयासमासे तृतीयासमासार्थवाक्येऽपि च न ) मासपूर्वाय । मासेन पूर्वाय ॥
(सुबोधिनी)-तृतीयासमासे तृतीयासमासार्थवाक्येपि च न ॥ तृतीयातत्पुरुषसमासे तृतीयासमासोऽर्थः प्रयोजनं यस्य तत् तृतीयासमाप्तार्थ तृतीयासमासाथै च तद्वाक्यं च तृतीयासमासार्थवाक्यं तस्मिन् तृतीयासमासार्थवाक्येऽपि च सर्वादिसंज्ञा न भवति ॥ मासेन पूर्वः मासपूर्वस्तस्मै मासपूर्वाय देहि । तृतीयासमासेत्रि सर्वादित्वाभावान्न स्मट् ॥
(तत्त्वदी०) तृतीयेत्यादि ॥व्यवस्थितविभाषाश्रयणात् अत्र निषेधः। शेष देववत् ॥ अथ 'कथं द्वयेषामपि मेदिनीभृताम्' इति माघः ॥ उच्यते । द्वयमिच्छन्तीति द्वयेषः तेषामिति क्विबन्तस्येच्छते रूपम् ॥
(प्रथमचरमतयडयडल्पार्द्धकतिपयनेमानां जसी वा) प्रथमेप्रथमा। चरमे-चरमाः॥ तयडयटौ प्रत्ययौ। ततस्तदन्ताः शब्दा ग्राह्याः। द्वितये-द्वितयाः। द्वये-दयाः। शेषं देववत् ॥ नेमे नेमाः। शेषं सर्ववत् ॥
(सुबोधिनी )-प्रथमचरमतयडयडल्पार्द्धकतिपयनेमाना जसी वा ॥ एतेषां सर्वादिसंज्ञा वा स्यात् जसी इतीत्वे कर्तव्ये । नेमशब्दस्य नित्यं प्राप्त अन्येषामप्राप्ते चायमारम्भः॥ तयडयटी प्रत्ययो । केवलयोः संज्ञायाः प्रयोजनाभावात्