________________
. (७६) सिद्धान्तचन्द्रिका। [ स्वरान्तपुंल्लिङ्गाः] तयडयडन्ता द्वितयद्वयादिका ग्राह्याः। 'संख्याया अवयवे' इति तयडयटौ । दाववयवौ यस्य सः द्वितयः द्वयः॥
(तीयस्य कित्सु वा सर्ववद्रूपम् ) द्वितीयस्मै-द्वितीयाय । द्वितीयस्मात्-द्वितीयात् । द्वितीयस्मिन्-द्वितीये ॥ एवं तृतीयः ॥ उभशब्दो नित्यं द्विवचनान्तः । उभौ । उभौ। उभा याम् । उभाभ्याम् । उभाभ्याम् । उभयोः । उभयोः ॥ उभयशब्दस्य दिवचनं नास्तीत्येके । अस्तीत्यन्ये । उभयः । उभये ॥ निर्जरः ॥
(सुबोधिनी)-तीयस्य ङित्सु वा सर्ववद्रपम् ॥ तीयप्रत्ययान्तस्य वा सर्वशब्दतुल्यं रूपं भवति डेङसिङिषु परतः । द्वित्रिभ्याम् इति तीयः । अर्थवद्ग्रहणानेह । पटुजातीयायेत्यत्र प्रकारे जातीयः इति जातीयः ॥ उभशब्दस्य आख्याताव्ययसर्वांदेः इत्यकार्थः सर्वादौ पाठः। द्विवचनपरत्वाभावे तु उभशब्दान्नित्यमयटू भवतीति न कप्रत्ययादिष्टसिद्धिः ॥ उभयशब्दस्य द्विवचनान्तानभिधानादिति कैयटः ॥ उभयशब्दस्य द्विवचनमस्ति अनभिधाने प्रमाणाभावादिति हरदत्तः॥ उभयशब्दस्यायट्प्रत्ययान्तत्वात् प्रथमचरम इति विकल्पे प्राप्त सर्वादौ पाठसामर्थ्यानित्यं संज्ञा भवति विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वाच्च । अयमर्थः । उभयशब्दे प्रथमचरमेति विकल्पस्य जसपेक्षया बहिरङ्गत्वं सर्वादिगणपाठसिद्धनित्यसंज्ञायास्तु विभत्यपेक्षारहितत्वेन अन्तरङ्गत्वम् । ततः अन्तरङ्गबहिरङ्गयोर्मध्येऽन्तरङ्गो विधिर्वलीयान् इति न्यायादत्र नित्यैव संज्ञा स्यान्न तु विकल्प इति ॥ निष्क्रान्तो जराया इति । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति तत्पुरुषः। अन्याथै इति ह्रस्वः । निर्जरः। 'अमरा निर्जराः देवाः' इत्यमरः ॥ (तत्त्वदी० ) उभये इति अयडन्तत्वेऽपि न जसि विकल्पः व्यवस्थितत्वात् ॥
(जरायाः स्वरादौ जरस वा वक्तव्यः) तदन्तविधिरत्र ॥ षष्ठीनिर्दिष्टस्योदेशस्तदन्तस्य ज्ञेयः ॥ गुरुः शिश्च सर्वस्य ॥ निर्दिश्यमानस्यादेशा भवन्ति ॥ एकदेशविकृतमनन्यवत् ॥ निर्जरसौनिर्जरौ । निर्जरसः-निर्जराः । पक्षे हसादौ च देववत् ॥
(सुबोधिनी)-जरायाः स्वरादौ जरस् वा वक्तव्यः ॥ जराशब्दस्य वा जरस् भवति स्वरादौ विभक्तौ परतः। तदन्तविधिरत्र जराया इत्यस्य नाम्नो विशेषणत्वात् । षष्ठीनिर्दिष्टस्येति परिभाषया निर्जरशब्दस्यान्तस्य स्थाने जरस् प्राप्तोऽत आह ॥ गुरुः शिञ्चेति ॥ अनया परिभाषया सोपपदस्य सर्वस्य स्थाने जरसादेशे प्राप्ते सत्याह ॥ निर्दिश्यमानस्यादेशा भवन्ति ॥ निर्दिश्यते इति निर्दिश्यमा: