________________
[ विसर्गसंधिः] . टीकाद्वयोपेता।
(४७) (तत्त्वदी० )कुप्वोः क४ पौ वेति ॥ कुश्च पुश्च कुपू तयोः । अत्रादेशनिमिचयोर्यथाक्रमम् । आदेशे कपावुच्चारणार्थों केवलयोरुच्चारणासम्भवात् । कखयोः कः। पफयोःपः । अन्यत्रोत्तरविधिर्बाधनात् ।। श्रीविद्यानगरस्थायी पौत्रो रामकरस्य हि । हससंधेय॑धाद्याख्यां स हि लोकेशसंज्ञकः ॥
इति तत्त्वदीपिकायां हससंधिः॥
अथ विसर्गसन्धिः । (विसर्जनीयस्य सः) खसे परे ॥ कस्तनोति ॥ (सुबोधिनी)-विसर्जनीयस्य सः॥ विसर्गस्य सकारः म्यात् खसे परे ॥ कस्तनोतीत्यत्र विसर्गस्य सत्वे कृते तस्य पुनर्विसर्गादेशो न असिद्धत्वाद्विधिसामर्थ्यादा ॥
(तत्त्वदी०)-विसर्जनीयस्य स इति ॥आसंधिसमाप्तीदं षष्ठयन्तमधिक्रियते। परिशे. षात् खसे एवास्य प्रवृत्तिः । अन्यत्र तूत्तरसूत्रैस्तत्र तत्र बाधः विसर्गस्य स इति नोक्तम् । पर्यायशब्दानां गौरवलाघवयोरनपेक्षणात् ॥ यत्तु प्राचामुपहासाथै विसर्जनीयादिग्रहणं प्राञ्चो लाघवं न जानन्तीत्युक्तम् । तत्रदमवधेयम् । प्राञ्चोऽत्र के विवरणकर्तारः सत्रकर्तारो वा। आये सूत्रस्थगौरवेण तेषामुपहासासंभवात् । अन्ते सरस्वत्याः सूत्रकर्तृत्वेन तदुपहासप्रत्यवायसंभवात् । न निन्देन्मनसा वाचा सर्वव्याधिपराङ्मुखः । इति निषेधदर्शनात् । अः सः इति सूत्रणीये यद्विसर्जनीयस्येत्युक्तं तत्संज्ञापूर्वकत्वेन सस्यानित्यताबोधनार्थम् । तेन कः साधुरित्यादि सिद्धम् । ननु कुप्वोः क पावित्यस्य वैकल्पिकत्वात् पक्षे सत्वं कुतो नेति चेन्न । 'शेषाः कार्ये ' इति निर्देशेन क पाभ्यां मुक्ते ' सत्वप्रवृत्त्यभावस्य ज्ञापनात् । अत्र वेत्यनुवृतस्य व्यवस्थितविभाषाश्रयणात् शसे वा सकारः॥
(शसपरे खसे विसर्जनीयस्य विसर्ग एव) कः सरुः । घनाघनः क्षाभणः ॥
(सुबोधिनी)-शसपरे खसे विसर्जनीयस्य विसर्ग एव ॥ शसः परो यस्मात्स शसपरस्तस्मिन् शसपरे खसे विसर्जनीयस्य विसर्जनीय एव भवति न त्वन्यत् ॥ यदि तु शसपरे खसे नेत्यवोच्येत तर्हि प्रकृते सत्त्वे निषिद्धेऽपिक४ पौ स्याताम् । विसर्गवचनात्तु विकारमात्रमाप निषिध्यते । तेन वासः क्षोमम् अद्भिः प्सातमित्यादी विसर्ग एव ॥ .
(तत्त्वदी)-शसपरे खसे इत्यादि ॥ शसः परो यत्मात्स शसपरः तस्मिन् ॥ (शसेवा) कश्शूरः कःशूरः। कष्पंढः- कः षण्डः। कस्साधुः-कः साधुः ॥
(सुबोधिनी)-शसे वा ॥ शसे परे विसर्जनीयस्य विसर्जनीय एव वा भवति ॥ पक्षे सः।कः शूरः। कस् शूरः। श्चुत्वं कश्शूरः। कः षण्ढः। कस् पंढः। ष्टुत्वं कष्षण्ढः॥