________________
[ तद्धितप्र० ] टीकाद्वयोपेता।
( ३२७) (सुबोधिनी )-बलादूल; ॥ बलशब्दादूलप्रत्ययः स्यात्तदसहनेऽर्थे । (वातात्समूहे च ) वातं न सहते वातानां समूहो वावातूलः ॥ (सुबोधिनी )-वातात्समूहे च ॥ वातशब्दादूलप्रत्ययः स्यात्तदसहनेऽर्थे समूहेऽर्थे च ॥ बलूलवातूलशब्दावस्त्यर्थे च व्युत्पादितौ ॥
(तः पर्वमरुद्भयाम् ) पर्वतः । मरुत्तः॥ (सुबोधिनी )-तः पर्वमरुद्भवाम् ॥ आभ्यां तः प्रत्ययोऽस्त्यथ ॥ पर्वास्यास्मिन्वाऽस्ति । नाम्नो न इति नलोपः पर्वतः । मरुदस्यास्मिन्वाऽस्ति मरुत्तः॥
( ऊर्णाहंशुभंभ्यो युः) ऊर्णायुः । अहंयुः । शुभंयुः॥ (सुबोधिनी )-ऊर्णाहंशुभंभ्यो युः॥ एभ्यो युः प्रत्ययः स्यादस्त्यर्थे ॥ ऊर्णाऽस्यास्मिन् वाऽस्ति ऊर्णायुः। अत्र निपातनाद्यस्येत्यालोपो न । अहमिति मान्तमव्ययमहंकारे । शुभमिति च शुभे । अहंयुरहंकारवान् । शुभंयुः शुभान्वितः ॥
( स्वादामिन्नैश्वर्यै ) स्वमैश्वर्यमस्यास्मिन्वाऽस्ति स्वामी ॥ (सुबोधिनी )-स्वादामिन्नैश्वर्ये॥ऐश्वर्य स्वशब्दादामिन् प्रत्ययः स्यादस्त्यर्थे । ईशिता हि ईश्वरस्तस्य भाव ऐश्वर्यम्॥ऐश्वर्ये किम्।स्ववान्।स्वंद्रव्यमस्यास्मिन्वास्ति॥ - ( वातातीसारपिशाचानामिनिः कुक् च ) वातकी । अतीसारकी। पिशाचकी ॥
(सुबोधिनी )-वातातीसारपिशाचानामिनिः कुक् च ॥ एभ्य इनिः प्रत्ययः स्यादस्त्यर्थे ॥ इकार उच्चारणार्थः ॥ एषां कुगागमश्च इनिप्रत्यये । वातोऽस्यास्मिन्वाऽस्ति वातकी । 'वातकी वातरोगी स्यात् ' इत्यमरः ॥ अतीसारोऽस्यास्मिन्वाऽस्ति अतीसारकी । रोगे चायमिनिरिष्यते नेह वातवती गुहा ॥ पिशाचोऽस्यास्मिन्वाऽस्ति पिशाचकी ॥
(ज्योत्स्नादिभ्योऽण् ) ज्योत्स्नः । तामिस्रः । तापसः । सैकतः । शार्करः॥
(सुबोधिनी )-ज्योत्स्नादिभ्योऽण् ॥ ज्योत्स्नादिभ्योऽण स्यादस्त्यर्थे ॥ किंच ज्योत्स्नातमिस्राङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसा अस्त्यर्थे निपात्यन्ते । ज्योतिरस्या अस्यां वाऽस्ति ज्योत्स्ना चन्द्रप्रभा । ज्योतिषशब्दस्य निपात