SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ [ युष्मदस्मत्प्रक्रिया] टीकाद्वयोपेता। (१७१) युष्मदस्मदोः साक्षात्संपन्धस्तत्राय निषेध इत्यर्थः। यथा । आवयोईयोर्युवयोईयोश्च समुच्चये हरिरीशः स्वामीत्यर्थः ॥वा विकल्पे । ह प्रसिद्धौ। अह पूजायाम् । एवावधारणे। परंपरासंबन्धे तु स्युरेव । यथा । हरो हरिश्च मे स्वामीत्यत्र चशब्दो हरहरिगतं समुच्चयं वक्ति । हरिहराभ्यां सहास्मदः संबन्धो न तु समुच्चयेन । किन्तु परंपरासंबन्धोऽस्ति । लक्षणं तु समुच्चीयमानादर्थान्तरसंबन्धः परंपरासंबन्धः ॥ (तत्त्वदी०)-चादिभिरिति ॥ लक्ष्यानुरोधाचादिपञ्चकस्यैव योगे नान्यस्येत्यर्थः । साक्षायोगे एवायं निषेधः। परंपरासंबन्धे तु आदेशाः स्युरेव । 'हरो हरिश्च मे स्वामी' इत्यादि ।। ( अचाक्षुषज्ञानार्थधातुभिर्योंगे च न ) चेतसा त्वां समीक्षते । भक्तस्तव रूपं ध्यायति । चाक्षुषज्ञाने तु भक्तस्त्वा पश्यति चक्षुषा । (सुबोधिनी )-अचाक्षुषज्ञानार्थधातुभियोगे च न ॥ अचाक्षुषज्ञानमर्थो येषां ते अचाक्षुषज्ञानार्थाः । अचाक्षुषज्ञानार्थाश्च ते धातवश्च अचाक्षुषज्ञानार्थधातवस्तैोंगे नैते आदेशा भवन्ति ॥ यथा स भक्तः चेतसा चित्तसंबन्धिध्यानेन त्वां समीक्षते पश्यतीत्यर्थः । परंपरासंबन्धेऽपि निषेधः। यथा भक्तस्तव रूपं ध्यायति ॥ (विद्यमानपूर्वात्प्रथमान्तात्परयोरन्वादेशेऽप्येत वा) 'भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम्' त्वा मेति वा ॥ इति युष्मदस्मत्प्रक्रिया ॥ __ (सुबोधिनी)-विद्यमानपूर्वात्प्रथमान्तात्परयोरन्वादेशेऽप्येते वा॥ विद्यमानं पदं पूर्व यस्य स विद्यमानपूर्वस्तस्मात् प्रथमान्तात्परयोर्युष्मदस्मदोरन्वादेशे अर्थेऽपि वाऽऽदेशा भवन्ति । अन्वादेशे नित्यमित्यविशेषोक्त्या नित्यत्वे प्राप्ते विकल्पार्थमिदं वचनम् । यथा त्वं भक्तोऽहमपि भक्तस्तेन हरिस्त्वां मांत्रायते पालयतीत्यर्थः॥ अत्र तेनेति पूर्व विद्यमानं पदं ततो हरिरिति प्रथमान्तं ततः परस्य युष्मच्छब्दस्य त्वादेशः। उत्तरत्र त्रायते इति विद्यमानं पदं ततः सः इति प्रथमान्तं ततः परस्यास्मच्छब्दस्य मादेशो बोध्यः ॥ इति सुबोधिन्यां युष्मदस्मत्प्रक्रिया ॥ (तत्त्वदी०)-भक्त इत्यादि ॥ अत्र केचित् । येन हरेस्त्वं भक्तस्तेनैव कारणेनाहमपि भक्त इति योज्यम् । यदि तेनेत्यनेन भक्तत्वं त्राणे हेतुर्निर्दिश्यते तदा सापेक्षत्वविधानत्वमेव तदिममितिवदन्वादेशो न स्यादिति तन्नेति दीक्षिताः । तथाहि । सापेक्षत्वविधानेऽन्वादेशत्वं नास्तीति तावदसङ्गतम् । आदेशो हि विधिः किंचिद्विधाय पश्चादितरविधिश्चान्वादेशः न तु निरपेक्षत्वगर्भः। अशब्दार्थत्वात् शास्त्रे तथा परिभाषितत्वाच्च । न च प्रयोगदर्शनादेव तथा कल्प्यत
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy