________________
(६०)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः] प्रकारम् । जातिगुणक्रियाद्रव्यस्वरूपमिति । गौः शुक्लः पाचकः डित्थः । लिंगं स्त्रीत्वादिः संख्या एकत्वादिः। कर्मादयः कारकविशेषाः । तत्र स्वाथों विशेषणम् । द्रव्यं तु विशेष्यमिति निर्गलितार्थः॥'आम्शसि' इति सूत्रेणीकारस्य स्थाने आत्वे कृते सति 'सो नः' इत्येतत्सूत्रं न प्रवर्तते इत्यर्थः ॥ कुतो न । उच्यते । पदावभागात् । यथा स् १ ओ २ - ३ अः ४ सः ५ इति पञ्च पदानि छित्त्वा पुँल्लिङ्गासमानाच्छसःसस्यन् स्यात् ओकारसंबन्धिनोऽवर्णात्तु विसर्गः स्यादिति व्याख्येयम्। अतो गाः पश्येत्यादौ नत्वं न ॥ पुंल्लिङ्गादिति किम् । बुद्धिः ॥ समानादिति किम्। रायः । ग्लावः । लोपविषये एवास्य प्रवृत्तिः । समानादमशसोरल्लोपस्यानिषेधात् ॥ अत एव बहुश इत्यत्र नत्वं न । स्यायधिकाराद्वा ॥
(तत्त्वदी०)-सोनः पुंस इति॥पञ्चमीत्याशयेनाह-पुंल्लिङ्गादिति ॥तथा च समानान्तानाम्न इति बोद्धव्यम् । यद्वा पुंल्लिङ्गात्समानादित्येकं पदम्। पुल्लिङ्गमततीति पुंल्लिङ्गात् स चासौ समानश्चेति स तथा तस्मादित्यर्थः ॥ तत्राम्शसोरित्यतः शस इत्यनुवृत्तं यद्यपि समासान्तर्गतं तथापि नामोऽनुवृत्तिस्तत्र तस्यासंभवादित्याह-शस इति ॥ ननु गा इत्यत्र नत्वं कुतो न अम्शसीत्यात्वेन समानात्परत्वादिति चेत्।अत्र केचित्सो न इत्यावर्त्य शसो नकारस्य सकार इति व्याख्येयम्। इष्टसिद्धयर्थमिदम् । तेन गा इत्यादि सिद्धम् ॥ यद्वा आवृत्या लब्धं यत्सो न इति सूत्रं तत्र शसो नस्येत्यनुवर्तते । स् इत्यविभक्तिको निर्देशः ओरिति षष्ठी ततश्च ओकारसंबन्धी योऽवर्णः तस्मात्परो यः शसः सकारस्तस्य नकार आदेशो भवतीत्यर्थो लभ्यतेऽतो नातिप्रसङ्गः। यद्वा स ओ न अः पुंस इति पञ्च पदानि छित्वा पुंल्लिङ्गात्समानात् शसः सस्य नकारः। ओकारसंबन्धिनोऽवर्णात्तु विसर्ग इति व्याख्येयम् ॥ अत्रेदं वक्तव्यम् ।गा इत्यत्र नत्ववारणे सन्निपातपरिभाषयैव सिद्धे तदर्थमेतावदावृत्त्याद्यनुसरणक्लेशन किम् । न च तानित्यादावपि सन्निपातपरिभाषया निषेध इति वाच्यम् । कानित्यादिलिंगेन त्यदादिषु शसो नत्वविधौ परिभाषानाश्रयणात्॥ यद्वा त्यदादेष्टेरः स्यादावित्यत्रादिपदगृहीतस्य शसो निमित्तत्वे लाक्षणिकत्वेनाम्शसीत्यत्र शसः साक्षाच्छ्रवणेन निमित्तत्वे प्रतिपदोक्तत्वात् लक्षणपतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् ॥ किञ्च परिभाषाश्रयणस्येष्टसिद्ध्यर्थत्वात् तानित्यादावनाश्रयणात्॥ यच्च पुंस्त्वादिविचारे " स्तनकेशवती स्त्री स्याल्लोमशः पुरुषो भेवत् । उभयोरन्तरं यच्च तदभावे नपुंसकम्" इतिलक्षणे खट्वावृक्षादावव्याप्तिवारणाय चेतनेषु स्तनादिमध्यक्तयादिस्त्रीत्वाभिव्यञ्जकम् । अचेतनेषु तु सर्वत्रोपदेश एवाभिव्यञ्जकः । उपदेशस्तु लिङ्गानुशासनादिष्वित्युक्तम् । तत्रापि चेतनाचेतनविषयविभागो व्यर्थः । अतिप्रसक्तस्य दारशब्दस्य स्त्रीवाचकस्य स्तनकेशवत्त्वत्य व्यञ्जकस्य सत्त्वेऽपि स्त्रीत्वादर्शनात्सर्वचेतनाचेतने उपदेश एव स्त्रीत्वादिव्यञ्जक इत्यलमतिविस्तेरण॥
(शसि ) शसि परे पूर्वस्य दीर्घो भवति ॥ यदादेशस्तवद्भवति । न तु वर्णमात्रविधौ । देवान् ।