________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता।
(१५९) (तत्त्वदी० )-त्वमहं सिनेति ॥ त्वम् अहं सिनेति च्छेदः। सिनेति सहयोगे तृतीया। स्वमहं साविति तु नोक्तम् । त इति सकारस्य सौ परेऽनिवार्यत्वात् । तकारोच्चारणस्य तु न सामर्थ्य तस्यातित्वमिति गौणे चरितार्थत्वात् । अत्राहुः । अत्र सावित्युक्ते स्त्रियां त्यदाद्यत्वे परत्वादाम सावित्यात्वं बाधित्वा आप्स्यादिति तन्निरासायेति । अत्रेदमवधेयम् । युष्मदस्मदोरलिगत्वात्स्त्रीत्वाभावादेवापो निवृत्तेस्तनिवृत्त्यर्थत्वस्य व्यर्थत्वात् । अथ लिङ्गयोगोऽस्ति युष्मदस्मदोरिति ब्रूषे तर्हि अस्मिन् ग्रन्थे युष्मदस्मदोः ष्णान्तसंख्यावाचिनां चालिङ्गत्वमेव स्वीकृतमिति स्वोक्त्या विरोधः । तयोश्च वाच्यलिङ्गत्वात्रिष्वपि लिङ्गेषु समानरूपमिति वदता वृत्तिकृताऽपि महानेव विरोधः । चवाच्यलिङ्गत्वादित्येकं पदम् । चस्य वाच्यं लिङ्गमिव लिङ्ग ययोस्ते तयोर्भावस्तत्त्वादव्ययवदलिङ्गत्वादित्याद्यर्थ वर्णयद्भिश्च विरोध एवेत्युपेक्षितम् ॥ (युयावौद्विवचने) व्यर्थवाचिनोयुष्मदस्मदोर्युवावावादेशौ भवतो विभक्तौ।
(सुबोधिनी)-युवावौ द्विवचने ॥ द्वयोरों द्वयर्थस्तं वक्त इति द्वयर्थवाचिनौ तयोर्युष्मदस्मदोर्युवावी स्तः स्यादौ विभक्ती॥त्यदादेरित्यतः स्यादावित्यपकृष्यते। द्वौ वक्त इति द्विवचने कर्तरि युट् । किंच द्विवचने इति प्रत्ययविशेषणे कृतेऽपि युवावौ सिद्ध यतः तथापि युवामतिक्रान्तान् अतियुवानित्यादौ युवावयोरप्रसङ्गवारणाय प्रकृत्यविशेषणं कृतम् ॥
(तत्त्वदी)-गुवावौ द्विवचने इति॥इह त्यदादेष्टेरित्यतःस्यादावित्यपकृष्यते । वक्त इति वचने कतीरे युर । द्वयोरर्थयोर्दिवचने प्रथमान्तम् । तथा च द्विवचने युष्मदस्मदी इति हरदत्तादिमते तयोरित्यध्याहारक्लेशः । कर्मणि युडिति पक्ष द्विवचन इति सप्तम्यन्तं द्वित्वे इत्यर्थकं तद्वाचिनोरित्यर्थः । अत्राहुः ॥ द्वित्वे या स्यादिर्विभक्तिस्तस्यामित्यर्थ इति । अत्रेदं वक्तव्यम् । एवं सति युवामावां वाऽतिक्रान्तानतियुवानत्यावानित्यत्राव्याप्तिः द्वित्वाभिधायिस्याद्यभावात् ॥
(आमौ ) युष्मदस्मयां पर औराम् भवति ॥ युवाम् । आवाम् ॥
(सुबोधिनी)-आमौ ॥ आभ्यामौ आम् स्यात् ॥ अत्र योगविभागाभिप्रायण विपरीतनिर्देशो बोध्यः । विपरीतनिर्देश इत्येतदर्थ व्याख्यानान्तरं क्रियते । अत्र अ अम् औ इतिच्छेदः। अइति योगविभागः कर्तव्यः। लोपः अन्तः युष्मदस्मदोरिति पद
यं चानुवर्तनीयम् । युष्मदस्मदोरकारान्तादेशोऽकारात्परस्याकारस्य लोपश्च स्यादित्येको योगः। युष्मदस्मद्भ्यां पर औकारोऽम् स्यादिति द्वितीयः। औकारस्यामि कृते
आ मस्भावित्यात्वम्। यद्वा सवर्णदीर्घः। न चाभशसोरिति लोपः। अकारोच्चारणसामर्थ्यात् । इति लघुभाष्ये। युवाम् । आवाम् । तदन्ते परमयुवाम् । परमावाम् । गौणत्वे तु त्यदादेरित्यत्वं न भवति । संज्ञोपसर्जनयो त्वमित्युक्तत्वात् । किं तर्हि आमावित्यत्र योगविभागेन।अनयोरन्तस्याकारोऽतो लोपश्च ।औकारस्य अमि कृते आम्स्भावि त्यात्वम्॥अतित्वाम् । अतिमाम्। अतियुवाम् ।अत्यावाम्। अतियुष्माम्। अत्यस्माम्॥