________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(७१) भ्योऽपि प्रतिषेधादित्याहुः । तत्रेदमवधेयम् । एकपदे एव णत्वविधानस्योक्तत्वेन द्वितीयपदस्थस्य नस्य णत्वाशङ्का निर्मूलेति सूरिभिर्विभावनीयम् ॥
( अवकुप्वन्तरेऽपि ) अवप्रत्याहारेण कवर्गेण पवर्गेणानुस्वारेण विसर्गेण : क : पायां च मध्ये व्यवधानेऽपि भवति नान्येन ॥ सर्वेण ॥
(सुबोधिनी)-अवकुप्वन्तरेऽपि ॥ अवश्च कुश्च पुश्च तेषां समाहारः अवकुपु। तेनान्तरम् अवकुप्वन्तरम् तस्मिन् । स्वराद्यदन्तस्य इति अवशब्दस्य पूर्वनिपातः। दन्तौष्ठयवकारेणापप्रत्याहारः । अन्तरशब्दो मध्यवाची । रुरित्यनुवर्तते । पञ्चमीनिर्देशाव्यवधाने सति णत्वं न प्राप्नोत्यत इदमारभ्यते । अत्रापिशब्दोऽनुक्तसमुच्चयार्थः। तेनानुस्वारविसर्गजिह्वामूलीयोपध्मानीया ज्ञेयाः । एतेषां व्यस्तानां यथासंभवं मिलितानां च मध्ये व्यवधाने सति ष्रुः परस्य नस्य णः स्यादनन्ते ॥ अवेत्यादि किम् । मृत्स्ना ॥ रुरिति किम् । भानुना ॥ अनन्ते किम् ॥ सर्वान् ॥ अनुस्वारा. दिव्यवधाने यथा। बृहणम् । उर केण-उर केण । उरः पेण-उर पेणेत्यादि ॥
(तत्त्वदी०)-अवकुप्वन्तरेऽपि ॥ अवश्व कुश्च पुश्च एतेषां समाहारः अवकुपु तेन अन्तरं तस्मिन् ॥ यदि गर्गाः शतं दण्डयन्तामितिवत्समुदाये वाक्यसमाप्तिराश्रीयते तदा कापि न प्राप्तिः । ब्राह्मणा भोज्यन्तामितिवद्यदि प्रत्येकं वाक्यपरिसमाप्तिस्तदा अवर्णेत्यादि न स्यात्। तस्मादेतैव्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने णत्वं भवति । यथा गर्गः सह न भोक्तव्यमिति प्रत्येकं च न सह भुज्यते समुदितैरपि तथेहापि व्यस्ताः समस्ताश्चावादयो व्यवायमुपलक्षयितुं शक्ताः। अपिशब्दोऽनुक्तसमुच्चयार्थः । तेनानुस्वारविसर्ग-क पव्यवायेऽपि णो भवति ॥ कुप्ववान्तरेऽपीति सुवचम् अल्पस्वरत्वादुकारान्तत्वात्कु पु एतयोरेव पूर्वनिपातस्य न्याय्यत्वात्। तथा च लाघवमपीति ध्येयम् । स्वराद्यदन्तस्येत्यस्य यदि परत्वाद्बलवत्त्वं तदेदम् ॥
( सर्वादेः स्मट ) सर्वादेरकारान्तात्परस्य डे इत्येतस्य स्मडागमो भवति ॥ सर्वस्मै ॥
(सुबोधिनी)-सर्वादेः स्मट् ॥ डे अगित्यस्यापवादोऽयम् । अदन्तात्सर्वादेर्डे इत्यस्य स्मट् स्यात् ॥ अदन्तादिति किम् । त्वते । भवते॥सर्वादेरिति किम् । रामाय ॥
( तत्त्वदी० )-सर्वादेः स्मडिति । अत्रात इत्यनुवृत्तेरदन्तादिति अतो भवते इत्यत्र न । तपरकरणं तु स्पष्टार्थमेव न त्वावन्तनिवृत्त्यर्थं तत्र यडादिनैव बाधात् ।। सर्वादेरिति किम् । देवाय ॥ अकोऽप्ययमपवादो येननाप्रप्तिन्यायात् । सर्व आदिर्यस्य स सर्वादिरिति तद्णसंविज्ञानो बहुव्रीहिरतः सर्वशब्दस्यापि लाभः । न च सर्वादिशब्दस्य समुदायवाचित्वात्कथं तदवयवे सर्वशब्दे इति वाच्यम् । समुदायस्य युगपलक्ष्ये प्रयोगाभावादानर्थक्यात्तदङ्गेष्विति न्यायेन तदवयवे एव तत्कार्यम् ।।
(अतः) सर्वादेरकारान्तात्परस्यातः स्मडागमो भवति ॥ सर्वस्मात् ॥