________________
[ हसान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(१३१) (तत्त्वदी०)-य्वो वि हस इति ॥ य्वोः विं हस इति च्छेदः । इश्व उश्च यू तयोः य्योः । र च व् च एतयोः समाहारः तस्मिन् वि । हस इति रेफवकारयोविशेषणमित्याशयेनाह-हसपरयोरिति ॥ __ (श्वादेः ) श्वादेर्व उत्वं प्रामोति शसादौ स्वरे ईपीकारे च ॥ शुनः । शुना, श्वायाम् ॥ यूनः। यूना, युवायाम् ॥ मघवा, मघवानौ, मघवानः। मघोना॥ - (सुबोधिनी)-श्वादेः॥ श्वयुवमघोनां व उः स्यात् शसादौ स्वरे ईपि प्रत्यये ईभावितीकारे च ॥ प्रातिपदिकग्रहणे लिङ्गाभिधायिस्त्रीप्रत्ययविशिष्टस्यापि ग्रहणमिति परिभाषा विभक्तिनिमित्त कार्य न प्रवर्त्तते । अतो युवतीः पश्येत्यादौ नोत्वम् । अकारसहितस्य वस्योत्वम् ॥ श्वा कुक्कुरः॥ युवा तरुणः। युवनशब्दे वस्योत्वे कृते दीर्घत्वम् । यूनः ॥ मघवा इन्द्रः। वस्योत्वे ओत्वे च कृते मघोनः॥ . ( तत्त्वदी०)-श्वादेरिति । ननु युवतीः पश्येत्यत्र कथं नोत्वं नामग्रहणे लिङ्गाभिधायकप्रत्ययविशिष्टस्य ग्रहणमिति परिभाषाश्रयणादिति चेत्सत्यम् । विभक्तिनिमित्त कार्ये लिङ्गविशिष्टग्रहणं नेति निषेधात् । सस्वरस्य वस्योत्वन् । अल्लोपेऽपि सिद्धे डौ विकल्पात् ॥
(अर्वणस्त्रसावनञः) नत्रा रहितस्यावन्नन्तस्य तृ इत्यन्तादेशः स्यान्न तु सौ ॥
(सुबोधिनी)-अर्वणस्त्रसावनमः ॥ ननु ऋधातोविच्प्रत्यये गुणे च अरिति रूपं तस्मादतुप्रत्यये अर्वन्तावित्यादि सेत्स्यति ऋधातोरेव वनिप्प्रत्यये त्वनर्वेति सेत्स्यति । रूढिशब्दश्चायम् । 'वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरोक्तत्वात्ततश्चार्थोऽपि न भिद्यते । किमनेन सूत्रेणेति चेत् उच्यते । नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्त सौ परे नञ्युपपदे च नान्तस्य प्रयोगोऽन्यत्र तु तान्तस्य प्रयोगो भवतीति व्यवस्थार्थ सूत्रम् ॥
(तत्त्वदी० )-अर्वणस्त्रसावनञ इति ॥ ऋधातोर्विचि गुणे च अरिति रूपं तस्माद्गतौ अर्वन्ताविति । रूढिशब्दश्चायम् । 'वाजिवाहार्वगन्धर्वयसैन्धवसप्तयः" इत्यमरकोशात् । तथा च श्रीहर्षः। 'वाहैरलुप्यत सहस्रहगर्वगर्वः' इति प्रायुक्त ॥ __ (वितो नुम् ) उकारानुबन्धस्य ऋकारानुबन्धस्य च नुमागमो भवति पुंसि पञ्चसु ॥ अर्वन्तौ, अन्तिः । अन्तिम्, अर्वन्तौ, अर्वतः । अर्बता, अर्वद्याम् ॥ अननः किम् । अनर्वाणौ ॥ असौ किम् । अर्वा ॥
(सुबोधिनी)-वितो नुम् ॥ उश्च आ च नौ व्रावितौ यस्य स वित् तस्य व्रितः। उदितः ऋदितश्च नुम् स्यात् । ‘मो नः पुंसः' इत्यतो मण्डूकप्लुत्या पुस इत्यनुवर्तते ।