SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ( ९२ ) सिद्धान्तचन्द्रिका | [ स्वरान्त पुंलिंगा: ] संबद्धमिति तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यादिति पुनः स्वरग्रहणमिति । तत्रेदमवधेयय् । न ह्यन्यसूत्रस्थपदसंबद्धस्यानुवृत्तिरिह दृष्टा एकयोगनिर्दिष्टानामेव प्रवृत्तिनिवृत्त्योर्दर्शनात् । किंतु बहुसूत्रव्यवधानादन्यत्र विधानात्तन्निवृत्तौ स्वरग्रहणमित्येव वक्तुमुचितम् । अत्रातो धातोरित्यतो धातोरिति लब्धेऽपि पुनर्धातुग्रहणं योगविभागेनार्थविशेषज्ञापनार्थम् । तत्तु इयेषेत्यादौ स्पष्टतयोपपादयिष्यते ।। अत्राहुः । वोरिति किमर्थम् । परिशेषादेव तल्लाभात् । तथा हि । ऋदन्तस्य तुक् ऋदतस्य तु इरुरौ । लदन्तस्य तु धातोरेव न संभवः । संध्यक्षरान्तस्य त्वात्वमेव । अदन्तस्य 1 यत इति लोप: । आदन्तत्य शसादौ लोपः । पञ्चसु तु आतः पञ्चसु नेति पदत्रयमनुवर्त्य पञ्चसु नेति निषेधः । हसान्तस्य गमामित्यादिनिर्देशान्नेति । श्रीपं कुलमित्यादौ तु अत इति नेति च पदद्वयमनुवर्त्य अतो नेति व्याख्यातुं शक्यत्वान्नेति । परिशेषात् य्वोरिति लब्धे किमर्थं तदितीति । अत्रेदमवधेयम् । आदन्तस्य वारणाय आतः पञ्चसु नेति अदन्तवारणाय अतो नेत्याद्यनुवृत्तिक्लेशतो य्खोरिति ग्रहणस्य स्पष्टप्रतिपत्तितया लघुत्वादिति तदुपेक्षितम् ॥ ( खौवा ) अनेकस्वरस्य नाम्नो धातोरिवर्णोवर्णयोर्य कारवकारौ भवतः स्यादौ स्वरे परे ॥ धातोरवयवसंयोगः पूर्वो यस्मात्तस्य तु न । सोपपदस्यानेकस्वरस्य चेदुपसर्गकारकपूर्वस्यैव नान्यपूर्वस्य । वर्षाकरहनपुनर्पूर्वस्य भूशब्दस्य वत्वम् । अन्यभूशब्दस्य सुधीशब्दस्य च यौन ॥ सेनान्यौ | सेनान्यः ॥ ( सुबोधिनी ) - वौ वा ॥ इयुवोरपवादोऽयम् । तस्मादितेि खोर्धातोः स्वरे इति चानुवर्तते । अनेकस्वरस्य नाम्नो धातोः संबन्धिनोविर्णोवर्णयोर्यकारवकारौ भवतः स्यादौ स्वरे । धात्ववयवसंयोगपूर्वयोरिवर्णोवर्णयोस्तु य्वौ न । चेद्यदि सोपपदस्य धातोविर्णो वर्णयोव स्यातां तदोपसर्गकारकपूर्वस्य धातोरिवर्णोवर्णयोरेव य्वौ स्तः । न तूपसर्गकार केतरपूर्वस्य धातोरिवर्णोवर्णयोरर्थादुपसर्गकारकपूर्वत्वेन योऽनेकस्वरो धातुस्तस्येवर्णोवर्णयोरेव खौ । उपसर्गकार केतरपूर्वत्वेन योऽनेकस्वरो धातुस्तस्ये वर्णयोवन ॥ अनेकस्वरस्य किम् । नियौ । लुवौ ॥ धातोः किम् । वातप्रम्यौ । हूौ ॥ स्वरे किम् । सेनानीभ्याम् । सुलूभ्याम् ॥ धात्ववयवसंयोग पूर्वत्वे सुश्रियौ । उपसर्गधात्ववयवसंयोगपूर्वत्वे तु य्वौ भवतः । उन्न्यौ । उल्ल्वौ । धात्ववयवसंयोगोऽत्र न । उपसर्गकारकाभ्यामितरपूर्वत्वे तु खौ न । परमनियौ । शुद्धधियौ । वर्षाकरन् पुनर्पूर्वस्य भुवो वत्वमितरपूर्वस्य भूशब्दस्य सुधीशब्दस्य च खौ न किंतु इव ॥ ( तत्त्वदी० ) - वौ वेति । अत्र तस्मात् स्वोर्धातोः स्वरे इति पदचतुष्टयमप्यनुवर्तते इत्यभिप्रेत्याह--नाम्नो धातोरित्यादि ॥ अत्र वाशब्दो व्यवस्थितः । ततश्च सर्वेष्टसिद्धि
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy