________________
[ समासप्र ० ]
टीकाद्वयोपेता ।
(२७१ )
तन्त्रः । कौटश्चासौ तक्षा च कौटतक्षः | अतेः शुनष्टस्तत्पुरुषे । श्वानमतिक्रान्तो जवेनेत्पतिश्वो वराहः । अतिश्वी सेनेत्यर्थः ॥ अप्राणिविषय कोपमानवाचिनः शुनष्टस्तत्पुरुषे । आकृष्यतेऽनेन खलादिगतं धान्यमित्याकर्षः । काष्ठविशेषः । आकर्षः इति आकर्षश्वः ॥ अप्राणिविषयकेति किम् । वानरः श्वेवेति वानरश्वा ॥ उत्तरमृगपूर्वोपमानात् सक्थ्नष्टस्तत्पुरुषे । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकसक्थम् ॥ नौशब्दान्तात् द्विगोष्टो न तु तद्धितलुकि । द्विनावम् । त्रिनावम् ॥ न तु तद्धितलुकीति किम् । पञ्चभिनभिः क्रीत इति पञ्चनौः । अत्र क्रीतार्थे इकस्तस्य लुक् च ॥ अर्द्धपूर्वान्नावष्टस्तत्पुरुषे । नावोऽर्द्धमित्यर्द्धनावम् | क्लीचत्वं लोकात् ॥ खारीशब्दान्ताद् द्विगोरर्द्धपूर्वात् । खार्यन्तात् तत्पुरुषाच्च वा टः । द्विखारम् । टाभावे । द्विखारि । क्लीवं लोकात् । अर्द्धखारम् ॥ इन्द्वतत्पुरुषयोरिति परपदलिंगे अर्द्धखारी ॥ द्विगौ द्वित्रिभ्यामष्टो वा न तु तद्धितलुकि । इयञ्जलम् । इयञ्जलि || न तु तद्धितलुकीति किम् । द्वाभ्यामञ्जलिभ्यां क्रीत इति द्वयञ्जलिः । क्रीतार्थे इकस्तस्य लुक् च ॥ ब्रह्मशब्दान्तात्तत्पुरुषाट्टो जानपदेऽर्थे । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥
मां ब्रह्मण वा तत्पुरुष कर्मधारये । कुत्सितो ब्रह्मा कुब्रह्मः - कुब्रह्मा । महाब्रह्मः । महाबला । ब्राह्मणपर्यायी ब्रह्मन् शब्दः || संख्यान्तात्तत्पुरुषाडु: । निर्गतानि त्रिंशत इति निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतत्रिंशतोऽङ्गुलिभ्य इति निस्त्रिंशः खड्गः ॥ इति द्विगु तत्पुरुष कर्मधारय समासान्ताः ॥ अथ सकलसमाससाधारणसमासान्ताः ॥ ऋक्पूरब्धूः पथामोऽक्षे या धूस्तत्र तु न ॥ ऋचोऽर्द्धमिति अर्द्धर्चः । अर्द्धर्चादय इति पुंस्त्वम् | अनृचबहूवृचशब्दावध्येतर्येव । नेह । अनृक् साम बहूवृक सुक्तम् । वैकल्पिकः कप्रत्ययस्तु भवत्येव । अनृक्कम बहूवृक्कामिति ॥ विष्णोः पूरिति विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥ इयन्तरुपसर्गेभ्यः कृतसमासान्तस्याऽपस्यादेरिः । द्विता आपो यस्मिन्निति द्वीपम् । अन्तर्गता आपोऽस्मिन्निति अन्तरीपम् । प्रतिकूला आपोऽस्मिन्निति प्रतीपम् । सङ्गता आपो ऽस्मिन्निति समीपम् । कथं तर्हि समापो देवयजनमिति । समा आपो यस्मिन्निति समापः । देवा इज्यन्तेऽस्मिन्निति देवयजनम् । यज्ञभूमिरिति ज्ञेयम् । कृतसमासान्तग्रहणान्नेह । स्वप् सरः । पूजनार्थेति निषेधात्समासान्ताभावः । अवर्णान्तादुपसर्गात्कृतसमासान्तस्यापस्यादेर्वा । प्रेपम् परेपम् । प्रापम् - परापम् ॥ अनोः कृतसमासान्तस्यापस्यादेरुः । अनुगता आपोऽस्मिन्निति अनूपो देशः । “जलप्रायमनूपं स्यात् ” इत्यमरः || राजधुरा || अक्षे इति किम् | अक्षधूः । दृढधूरक्षः । सखिपथो रम्यपथो देशः । प्रत्यन्ववपूर्वाभ्यां सामलोमभ्यामः । प्रतिसामम् | अनुसामम् । अव - सामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । बहुव्रीह्यव्ययीभावप्रादिसमासा अत्र ॥ कृष्णोदकपाण्डुसंख्यापूर्वाया भूमेरः । कृष्णभूमः । उद्गूभूमः । पाण्डुभूमः ।