________________
[ स्वरान्तनपुंसकलिंगाः] टीकाद्वयोपेता।
( ११९) विशेषणम् । तेन यदृच्छाशब्दानां पुँल्लिङ्गानां वारणम् । दधिर्नाम कश्चित्तदनुकरणस्य दधिनेत्येव यथा स्यादित्युक्तं तन्न । "अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु" इत्युक्तरेव तद्वारणसंभवात् ॥
(टादावुक्तपुंस्कं पुंवदा ) उक्तपुंस्कं नाम्यन्तं नपुंसकलिंगं टादौ स्वरे परे पुंवद्वा भवति ॥ ग्रामण्या-ग्रामणिना । ग्रामणीनाम्-ग्रामण्याम् । ग्रामणिनि-ग्रामण्याम् ॥ प्रधि । प्रध्या--प्रधिना ॥ सुधि। सुधिया--सुधिना॥ मधु । हे मधो--हे मधु ॥ एवमम्वादयः ॥ सानु, सानुनी,स्नूनि-सानूनि । स्नुना--सानुना, स्नुभ्याम् ॥ प्रियकोष्टु, प्रियक्रोष्टुनी, प्रियकोष्टूनि । प्रियक्रोष्ट्रा--प्रियकोष्टुना । प्रियकोष्ट्रे--प्रियक्रोष्टवे--प्रियकोष्टुने । प्रियकोष्टुः--प्रियकोष्टोः--प्रियक्रोष्टुनः ॥ सुलु, सुलुनी,सुलूनि । सुल्वा-सुलुना ॥ एवं खलप्वादयः ॥ धातृ, धातृणी, धातृणि । हे धातः-हे धातृ ॥ एवं ज्ञातृकादयः ।।
(सुबोधिनी ) टादावुक्तपुंस्कं पुंवद्वा ॥ प्रवृत्तिनिमित्तैक्ये उक्तपुंस्कं नाम्यन्तं नपुंसकं पुंवदा भवति टादौ स्वरे ॥ नपुंसकादित्युक्तपुंस्कमित्यनेन सह प्रथमान्तं सम्बध्यते । पुंवदिति पुंशब्देन तुल्यमित्यर्थः । केन प्रकारेण पुंशब्देन तुल्यं नुम्हस्वयोरभावात् । तेन नुम्हस्वयोरभावोऽतिदिश्यते । नपुंसके वर्तमानस्य यस्य शब्दस्य प्रवृत्तिनिमित्तं भिद्यते तस्य टादौ स्वरे न पुंवत् । यथा। मधुशब्दो मद्ये नपुंसकः। चैत्रदैत्ययोः पुंल्लिङ्गः । नात्र पुंवत् । प्रवृत्तिनिमित्तभेदात् । उक्तः पुमान् यस्मिन्नर्थे तद्भाषितपुंस्कं प्रवृत्तिनिमित्तं तदस्यास्तीति उक्तपुंस्कम् । अइको चेत्यप्रत्ययः । उक्तं हि । “शब्दप्रवृत्तर्निमित्तं यत् क्लीव तच्च पुंसि चेत् ॥ तदा भाषितपुस्कत्वं पटुने पटुवे यथा ॥ १॥" पुंल्लिङ्गपक्षे ग्रामणीशब्दो दीर्घान्त एव । ततो य्वौ वेति यः।निय इत्याम्। ग्रामण्याम्। नपुंसकपक्षे ह्रस्वः। ततो 'नामिनः स्वरे' इति नुम् ॥ पुनरुक्तं च एक एवेत्यादि । तन्नाम उक्तपुंस्कमाचार्येणोच्यते । तत्किम् । एक एव यः शब्दः हीति निश्चयेन त्रिषु लिङ्गेषु वर्तते यः शब्दः त्रिषु लिङ्गेषु एकमेवार्थमाख्याति कथयति । अर्थशब्देन प्रवृत्तिनिमित्तमुच्यते ॥१॥ प्रकृष्टा धीर्यस्य तत्प्रधि । प्रधिनी इत्यत्र पूर्वेणापि नुमा परमपि यत्वं बाध्यते प्रायश इत्युक्तत्वात् । अत्रापि प्रकृष्टज्ञानवत्त्वं पुनपुंसकयोरेकमेवेति उक्तपुंस्कत्वात्पुंवत्पक्षे य्वौ वेति यः। नपुंसकपक्षे नुम् ॥ सुष्टु धीर्यस्य तत् सुधि । सुधिनी इत्यत्र इयं वाधित्वा प्राग्वन्नुम् । शोभनज्ञानवत्त्वं प्रवृत्तिनिमित्तं पुन्नपुंसकयोरेकमेव । उक्तपुंस्कत्वात् पुंवत्पक्षे सुधीशब्दस्य च नेति निषेधादिय् । सुधिया ॥ मधु मद्ये पुष्परसे । मधुर्वसन्ते चैत्रे चेति