________________
[मङ्गलाचरणम् ] टीकाद्वयोपेता। नम् ॥ तत्त्वावबोधशब्दानां नास्ति व्याकरणाहते ॥ २॥" इत्युक्तत्वात्सर्वत उत्तम व्याकरणम् । तद्व्याकरणं सूत्रम्, सूत्रव्याख्यानम्, वाक्याध्याहारः, उदाहरणम् , प्रत्युदाहरणं चेति समुदितं भवति । तस्यैकदेशः सूत्रम् । तद्व्याख्यानं पञ्चधा। यथा-"पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना । आक्षेपस्य समाधान व्याख्यानं पञ्चधा स्मृतम्" इति ॥
तत्त्वदीपिकाप्रणम्य जगतां नाथं महेशं साम्बमव्ययम् ॥
सिद्धान्तचन्द्रिकाव्याख्या क्रियते तत्त्वदीपिका ॥१॥ प्रारिप्सितनिरन्तरायपरिसमाप्तये विहित मङ्गलं शिष्यशिक्षायै निबध्नन् चिकीर्षितं प्रतिजानीते। नमस्कृत्येत्यादिना ॥ अहं रामचन्द्राश्रमः वाणीप्रणीतसूत्राणां सिद्धान्तचन्द्रिकां कुर्वे । किं कृत्वा । महेशानं नमस्कृत्य । पुनः पतञ्जलेर्मतं बुद्ध्वेत्यन्वयः। नमो नतिं कृत्वा इति नमस्कृत्य । कृञः 'समासे क्यप्' इति पूर्वकाले क्यप् । हस्वस्येति तुक् । वाचस्पत्यादित्वाद्विसर्गस्य सः।नतिजन्यप्रीत्याश्रयत्वेन महेशानस्य कर्मत्वम् । ईष्टे इति ईशानः। ईश ऐश्वर्ये । शतृशानाविति शानप्रत्ययः। शिति चतुर्वदिति चतुर्ववादप् कर्तरीत्यप् । तस्यादादेरिति लुक् । ईशानाः सातिशयाः बहवः सन्ति तद्वयावृत्त्यर्थ विशेषणं महांधासावीशानश्चेति महेशानः।सहादित्वान्महत आत्वम् । सर्वापेक्षयोत्तमो यः परमेश्वरस्तम् । अनेन व्याकरणस्य सिद्धान्तः सूचितः। ध्वनिविशेषावच्छिन्नं ब्रह्मैव प्रतिपाद्यमिति । मन्यते इति मतम् । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने मन्यतेः कर्मणि तक् । इच्छाविषयभूतं ज्ञानविषयभूत वा बुद्ध्वा ज्ञात्वेत्यर्थः।बुध अवगमने।पूर्वकाले क्त्वा।पूर्वकालत्वं च क्त्वाक्यपोः कुर्वेक्रियापेक्षया । खले कपोतन्यायेन द्वयोस्तत्र संबन्धः । विशेषणानां परस्परं संबन्धानभ्युपगमात्,आख्यातान्तवाच्यायाःक्रियाया विशेष्यत्वस्वीकारात्।पतन्नञ्जलियस्मिन् सर्वेषां नमस्कार्यत्वात् पतञ्जलिः तस्य पतञ्जलेरिति । मननक्रियाऽपेक्षया कर्तृकार्ययोरिति कर्तरि षष्ठी ।न क्तादाविति निषेधः क्तस्य स निषेधो न तु तकः। अनेन प्रक्रियामात्रं दृष्ट्वाऽयं ग्रन्थो न इध्यःकिन्तु भाष्यपर्यन्तं ज्ञात्वेति सूचितम् । वणतिवेदशब्दमुच्चारयति इति वणो ब्रह्मा। 'वण शब्दे'पचाद्यः। तस्येयं शक्तिवाणी सरस्वती । 'देवतेदमर्थे' इत्यण् । व्रण ईप् । यद्वा वाणयति सर्वान् जीवान् शब्दोच्चारणे प्रेरयतीति ज्यन्तात्पचाद्यः।नदादेरितीप् । प्रणीयन्ते इति प्रणीतानि।णीञःकर्मणि तः। वाण्या प्रणीतानि वाणीप्रणीतानि । अमादाविति तत्पुरुषः। सीव्यन्तेऽन्तर्भाव्यन्ते अस्मिन्नर्था यैस्तानि सूत्राणि । षिवु तन्तुसंताने । सिवेरुच्चेत्यौणादिकस्त्रप्रत्ययः। यद्वा सूत्रयन्ति वेष्टयन्ति अल्पाक्षरैर्बहूनानिति सूत्राणि । 'सूत्र वेष्टने'चुरादिः। पचाद्यः । अल्पाक्षरैर्बह्वर्थसूचकानि।वाणीप्रणीतानि च तानि सूत्राणि चेति कर्मधारयस्तेषाम्। संबन्धसामान्ये षष्ठी। कुर्व इति कृो वर्तमाने जित्त्वादात्मनेपदम् । उत्तमपुरुषस्यैकवचनम्।तनादेरुप् । गुणः। ङित्यदुरित्युत्वम् । य्वोर्विं हस इति दीर्घस्तु न संभवति संज्ञापूर्वकत्वात्।संज्ञापूर्वको विधिरनित्यः। द्विमात्रो दीर्घ इति संज्ञा असेधीदिति सिद्धः।षिधू शास्त्रादौ । गत्यर्थेति क्तः। सिद्धो निष्पन्नोऽन्तो निश्चयोऽत्रेति सिद्धान्तः। अन्यार्थे बहुव्रीहिः। चन्द्रोऽस्त्याश्रयत्वेनास्या इति चन्द्रिका।अइकावितीकः। सिद्धान्तानांचन्द्रिकासिद्धान्त