________________
[तद्धितप्र०] टीकाद्वयोपेता।
(३०५) कारकः सङ्गीत्यत्र तु कर्तृमात्रे दृष्टस्तस्य कस्मान्न ग्रहणम् । उच्यते । अत्राद्यस्यैव ग्रहः । अन्यथा कर्तुरित्येवावक्ष्यत् । अथ का क्रिया किं च तद्युक्तम् । उच्यते । व्यापारो भावना सैवोत्पादना सैव च क्रियेति । उक्तं च " गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पितो भेदः क्रियेति व्यपदिश्यते ॥१॥” इति । स्वभावतो गुणीभूतैरवयवैरवान्तरलक्षणैर्युक्तः क्रमजन्मनां क्षणानां समूहः आचार्यः क्रिया व्यपदिश्यते । कीदृशः । संकलनात्मिकया बुद्धयाऽभेद एकत्वं प्रकल्पितं तद्युक्तमेतया क्रियया युक्तम् । क्रिया चोत्पत्त्युत्पादनरूपा। उत्पत्तिः फलम् । उत्पादना व्यापारः । व्यापारेण युक्तः कः । फलेन युक्तं कर्म । तस्मिन् क्रियायुक्त कर्तरि कर्मणि च ॥ तेन रक्तं रागात् । रज्यते अनेनति बाहुलकात् करणे घञ् । रागो रञ्जकद्रव्यम् । तृतीयान्ताद्रागवाचकात्प्रत्ययो रक्तमित्यर्थे । कुङ्कुमेन रक्तं वस्त्रं 'कौकुमम् । रञ्जनक्रियायाः करणकारकात् कुङ्कुमादणू । तद्युक्तमत्र वस्त्रं कर्मे. त्यादि ज्ञेयम् ॥ लाक्षया रक्तं लाक्षिकम् । रोचनया रक्तं रौचनिकम् । इकः॥ नील्या रक्तं नीलम् अण ॥ णितो वेति न वृद्धिः॥ पीतेन रक्तं पीतकम् । कः ॥ तेन परिवृतो रथः। समन्तादेष्टितः परिवृत उच्यते । तेनति तृतीयान्तादणादयः परिवतो रथ इत्यर्थ । वास्त्रो रथः। अश् ॥ कम्बलेन परिवृतो रथः काम्बलः ॥ अण् ।। दीपिनो विकारो द्वैपम् । द्वैपेन परिवृतो रथः द्वैपः ॥ व्याघ्रस्य विकारो वैयाघ्रम् । युड्वृद्धी। वैयाव्रण परिवृतो वैयाघ्रो रथः ॥
(तत्त्वदी०)-कारकात् क्रियायुक्ते इति ॥ कारकशब्दोयद्यपि द्वयर्थः कर्तृपरः सर्वकारकपरश्च तथाप्यत्र सर्वकारकार्थ एवं गृह्यते । अन्यथा कर्तुरित्येवावक्ष्यत् । क्रिया च धात्वर्थः । स च फलव्यापारात्मकः फलव्यापारयोर्द्धातुरित्युक्तत्वात् । ततश्च फलयुक्तं कर्म व्यापारयुक्तः कर्तेत्याशयेनाह-क्रियायुक्त कर्तरीत्यादि ॥ कुङ्कमेन रक्तमिति ॥ रञ्जनक्रियायाः करणकारकात् कुकुमादण् । तद्युक्तमत्र वस्त्रं कर्मेति ॥ माथुर इत्यत्रागमनक्रियाया अपादानकारकान्मथुराशब्दादण तद्युक्तोऽत्र कर्तेत्यादिकमूह्यम् ॥ कारकादिति किम् । फलानां सुहितः। क्रियायुक्ते किम् । काष्ठैः पाकः । नात्र पाकादिः क्रियायुक्तः किंतु क्रियैव ॥ क्रियेति किम् । गेहे घटः । अत्र घटत्वयुक्तो घटः न क्रियायुक्तः । क्रियायामित्युक्ते शब्दं करोति शाब्दिक इत्यादौ प्राधान्येन क्रियाया एव भानं स्यात्र तु कर्तुः । यदि कर्तृकार्यग्रहणं मण्डूकप्लुत्याऽनुवर्तते तदा कारकादित्येवास्तु ॥
(पाण्डुकम्बलादिनिः) पाण्डुकम्बलेन संवीतः पाण्डुकम्बली रथः। वसिष्ठेन दृष्टं वासिष्ठं साम । कालेयम् । वररुचिना कतो वाररुचो ग्रन्थः । मनुना प्रोक्ता मानवो धर्मः। मथुराया आगतो माथुरः । ग्रामादागतो ग्राम्यः । धुरं वहतीति धुर्यः-धौरेयः । सर्वधुरीणः एकधुरीणः ॥