________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(६५) रेत्यादावपि लोपेन बाधः। पचतितरामित्यादावपि यस्य लोपः परः। न चैवमपि मालांचकारेत्यत्र नु स्यादिति वाच्यम् । स्याद्यधिकारेण तद्वाधात् इति । अत्रेदमवधेयम् । स्याद्यधिकारस्य जागरूकत्वेन गुणाल्लोणदीनां परत्वानुधावनेन बाधान्वेषणस्य व्यर्थत्वात् ।। अत्र रामः कुतो न नुडिति चेन्न । स्त्रियामित्यादिलिङ्गेन विभक्त्युपदेशकाले विद्यमानस्यैवामोऽत्र ग्रहणात् । अत एव चतुराम् शौ च देव आमः देव आमि इत्यादौ नातिप्रसङ्गः। एतेनैतद्वारणायानर्थकत्वेन समानान्तान्नाम्नोऽभावेन वा प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमित्यादि समाधानं परास्तम् । ननु वारीणां स्त्रीणामित्यत्र परत्वान्नुमियौ भविष्यतः न नुट् । अथ नुमि न क्षतिरिति न वाच्यम् । नुट्सहित एवामि दीर्घविधानात् दीघताभावः प्रसज्येत । अत्रोच्यते । प्रायशो दृश्यतामिहेत्यत्र प्रायश इत्यस्य ग्रहणेन क्वचित्पूर्वेणापि परस्य बाधदर्शनात् । आमो मस्येत्त्वं तु गमां स्वर इत्यादि निर्देशान्न । ननु हाहामित्यादौ कुतो न नुट् । समानात्परत्वसंभवादित्याह॥ पुंसि त्वित्यादि । अयमाशयः । अत्र झ्नो ह्रस्वादिति सूत्रान्मण्डूकप्लुत्या ह्रस्वादिति पुंस इति चानुवर्त्य पुंसि तु ह्रस्वादेवेति व्याख्यानात्तत्र ह्रस्वात्परत्वाभावान्न नुट् । अत्रार्थे झपानां दां हौ इत्यादि लिङ्गम् ॥
(नामि) नामि परे पूर्वस्य दीर्थो भवति ॥ देवानाम् । देवे, देवयोः ॥
(मुबोधिनी)-नामि ॥ पूर्वस्य स्वरान्तस्य नाम्नो दीर्घः स्यात् नुट्सहिते आमि परे ॥ नुमसहिते आमि तु न दीर्घो भवति । यदि हि नुम्सहिते आम्यपि दीर्घः स्यात्तार्ह नुमं बाधित्वा नुइविधान व्यर्थं स्यात् । नुमचिरतृज्वद्भावेभ्यो नुट् पूर्ववि. प्रतिषेधेन इत्युक्तत्वान्नुटसहित एव आम् गृह्यते ॥
(तत्त्वदी०)-नामीति ।। नुटूसहित आम् नाम् तस्मिन् नामि परे पूर्वस्य दीर्घो भवति इत्यर्थः ॥ आमीति तु न सूत्रितं वर्मणामित्यादावपि दीर्घः स्यात् । तथा हि । यत्र नोपधाया इति सूत्रस्य प्राप्तिसम्भवः स्यात्तत्राण्यामीत्यस्यानुवृत्तेरामः सत्त्वात् ॥ यत्तु कैश्चिन्नामीत्युक्त्या वारीणामित्यत्र सनुम्यप्यामि दीर्घः सिध्यतीत्युक्तम् । तत्र नुटसहित आम् नाम् तस्मिन्नामीति व्याख्यानं सर्वसंमत्वेन स्वोक्त्यैव तद्विरोधेन चोपेक्षितम् ॥
(किलात्षःसःकृतस्य) कवर्गादिलाच्च प्रत्याहारात्परस्य केनचित्सूत्रेण कृतस्य सकारस्य षकारादेशो भवति अन्ते स्थितस्य न भवति ॥ देवेषु ॥
( सुबोधिनी)-क्विलात्वः सः कृतस्य ॥ कुश्च इलश्चानयोः समाहारः क्विलं तस्मात् क्विलात् । क्रियते स्म विधीयते स्मेति कर्मणि क्तः । कृतस्य शास्त्रेण विहितस्येत्यर्थः ॥ स इति षष्ठयन्तम् ॥ष इति प्रथमान्तम् ॥ आकार उच्चारणार्थः ॥ किलात्परस्य कृतस्यादेशरूपस्य प्रत्ययावयवस्य च सः स्थाने षः स्यात् ॥ 'स्नों णोऽनन्ते' इत्यतोऽनन्ते इत्यनुवर्तते। तेन पदान्ते स्थितस्य सस्य षत्वं न। क्विलात्किम् । देवस्य ॥ कृतस्येति किम्। सुपीः, सुपिसौ॥ पदान्ते स्थितस्य नेति किम् । हरिस्तत्र ॥ (तत्त्वदी०)-क्विलात्षः सः कृतस्येति ॥ कुश्च इलश्च क्विलं तस्मात् ॥ष इति प्रथ