Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
Catalog link: https://jainqq.org/explore/003230/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् संपादन टिप्पनकानिआचार्य विजय अभयशेखरसूरि www.Jainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ णमोत्थु णं समणस्स भगवओ महावीरस्स आर्चायप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचतया वृत्त्या विषमपदटिप्पनकेन च समलङ्कृतम् अनुयोगद्वारसूत्रम् टिप्पनककार न्यायविशारदाचार्यदेवश्रीमद्विजय भुवनभानुसूरीश्वरपट्टालङ्कार अध्यात्मरसिकाचार्यदेवश्रीमद्विजय धर्मजितसूरीश्वरशिष्यत्न श्रीसूरिमंत्रसुसाधकाचार्यदेवश्रीमद्विजय जयशेखरसूरीश्वरशिष्य आचार्यविजय अभयशेखरसूरिः प्रथमावृत्ति : वि.सं. २०६३ मूल्यम् रू. २५०/ प्रकाशक : दिव्यदेशन ट्रेस्टे __ ३९, कलिकुंड सोसायटी, धोलका-३८७८१० આ પુસ્તક જ્ઞાનખાતેથી છપાયું છે. માટે એનું મૂલ્ય જ્ઞાનખાતે ચૂકવ્યા વિના ગૃહસ્થ એની માલિકી કરવી નહીં. Page #3 -------------------------------------------------------------------------- ________________ પ્રકાશકીય શ્રી સર્વજ્ઞપ્રણીત આગમો એટલે વિશ્વનું સર્વશ્રેષ્ઠ વાડ્મય. એની શ્રેષ્ઠતા એની યથાર્થતાપૂર્વાપરઅવિરોધ-ત્રિકાળઅબાધિતતા-સર્વજનહિતકરતા-સર્વપદાર્થવ્યાપકતા વગેરેના કારણે છે. આ યથાર્થતા વગેરેને સમજવા માટે તે-તે દરેક સૂત્રોના અર્થો-રહસ્યો જાણવા પડે છે જે અનુયોગ દ્વારા જાણી શકાય છે. આ અનુયોગને સુગમ બનાવવા માટે પૂર્વાચાર્યોએ અનુયોગના ઉપક્રમ વગેરે ચાર દ્વારો અને એનું વિશદ વિવેચન શ્રી અનુયોગદ્વાર નામના ગ્રન્થમાં કર્યું છે. આ મૂળગ્રન્થના અને એની મલધારીશ્રી હેમચન્દ્રસૂરિમહારાજવિરચિત વૃત્તિગ્રન્થના અનેક પદાર્થો ૫૨ સૂક્ષ્મચિંતન કરીને નવા રહસ્યાર્થો કે નવા હેતુઓને ઉદ્ઘાટિત કરાયા છે, વિષમપદટિપ્પણમાં... ‘દ્રવ્યગુણપર્યાયનો રાસ’નું વિવેચન (ભા-૧), સપ્તભંગીવિંશિકા, કમ્મપયડી પદાર્થો, યોગવિંશિકા વગેરેના સૂક્ષ્મ-અપૂર્વ રહસ્યાર્થો પ્રકાશિત કરવા દ્વારા વર્તમાનમાં શ્રીસંઘમાં સુપ્રસિદ્ધ થયેલા પ.પૂ.આ.શ્રીવિજયઅભયશેખરસૂરીશ્વરજી મ.સાહેબ આ ટિપ્પણમાં પણ એટલા જ સફળ રહ્યા છે એ કોઈપણ અધ્યેતાને પ્રતીત થયા વિના રહેશે નહીં. સૂક્ષ્મરહસ્યાર્થોથી શ્રી જૈન વાડ્મયને સમૃદ્ધ કરનાર પૂજ્યશ્રીના ચરણોમાં વંદન સાથે આવા જ વધુ ને વધુ ગ્રન્થોનો ઉપહાર તેઓશ્રી તરફથી મળતો રહે એવી પ્રાર્થના. ન્થ પ્રકાશનનો સંપૂર્ણલાભ પોતાના જ્ઞાનનિધિમાંથી લેવા બદલ શ્રી જૈન શ્વેતાંબર મૂર્તિપૂજક સંઘ, ઈસ્લાંપુર, મહારાષ્ટ્રની ખૂબ અનુમોદના. ગ્રન્થનું સુંદર મુદ્રણ કરવા બદલ શ્રી પાર્શ્વ કોમ્પ્યુટર્સના શ્રી વિમલભાઈ વગેરેને ધન્યવાદ. આ ગ્રન્થ દ્વારા અનુયોગના બોધને વિશદ કરીને અધિકારી જીવો આગમોના રહસ્યો મેળવતા રહે એવી પ્રાર્થના.. -: પ્રાપ્તિસ્થાન : (૧) પ્રકાશક (૨) ડૉ. હેમંતભાઈ હસમુખભાઈ પરીખ ૨૧, તેજપાલ સોસાયટી, ફતેહપુરા બસ સ્ટેન્ડ સામે, પાલડી, (૪) અમદાવાદ-૭. ફોન : ૨૬૬૩૦૦૦૬ (૩) જગદીશભાઈ હીરાચંદ ઝવેરી ૪૦૩, ગિરિછાયા, મોતી પોળ, સુભાષચોક, ગોપીપુરા, સુરત-૩૯૫૦૦૧ નીતિનભાઈ અ ધામી એ-૬, શ્યામસર્જિત એપા., મથુરદાસ રોડ, ચવ્હાણ હાઈસ્કૂલની પાસે, કાંદીવલી (વેસ્ટ), મુંબઈ-૬૭. ફોન : ૨૮૦૭૮૮૩૩ દિવ્યદર્શન ટ્રસ્ટ વતી કુમારપાળ વી. શાહ Page #4 -------------------------------------------------------------------------- ________________ श्री नवखंडा पार्श्वनाथाय नमः ॥ वर्धमानतपोनिधिपूज्याचार्यश्रीविजयभुवनभानुसूरीश्वरो विजयतेतराम् ।। यत्किञ्चिद् वक्तव्यता हं भो भव्यजना ! इह खलु शारीरमानसाधने कदुःसहदुःखोमिभीषणे नारक - तिर्यगादिगतिनक्र वालेऽस्मिन् भवाब्धौ पटुप्रवहणकल्पं दुःषमाकालमरौ कल्पद्रुमायमाणं सकललोकातिशायिपरमसाम्राज्यं निखिलनयवीथिसंकुलं जैनेन्द्रप्रवचनं कथमपि समवाप्य विषयकषाय-प्रमादादिषु लालसमानसं कर्तुं युक्तम् । न च लौकिकतीर्थिकाचारप्रकरेषु जंभ्रमितव्यं, यतः एतत्प्रवचन विना सर्वेऽपि शिरस्तुण्डमुण्डनादिबाह्यक्रियाकलापाः मोक्षजननेऽन्यथासिद्धाः । __ अत्र प्रवचने बहवो योगाः मोक्षाख्यफलजनका यद्यपि सन्ति, तथाऽपि ते ज्ञानं विना न यथोक्तफलदा भवन्ति, अतः सम्यग्ज्ञाने यतितव्यमेव । सम्यग्ज्ञानं चार्थतस्तीर्थकरप्रणीतं सूत्रतश्च गणधरोपनिबद्धं द्वादशाङ्गीरूपम्। यतः सर्वे तीर्थकराः समस्तवस्तुस्तोमस्वभावावभासिकेवललोकावाप्तौ प्रथमं मातृकापदत्रयमुच्चारयन्ति, तदुपजीव्य च बीजबुद्धिस्वामिनो गणधरा द्वादशाङ्गीमंतर्मुहूर्त्तकालेनैव रचयन्ति । एतदनुयोगद्वारसूत्रं भगवद्वचनरूपागमनगरे सुखप्रवेशाय द्वारकल्पम् । श्रुतकेवलिचतुर्दशपूर्वधर श्री भद्रबाहुस्वामिपादैः सर्वत्राऽऽगमनियुक्तिषु अनुयोगद्वारविषयनिक्षेपादिप्ररूपणपूर्वक आगमसूत्राणि व्याख्यातानि । पूज्यपादश्रीजिनभद्रगणिक्षमाश्रमणैः श्रीविशेषावश्यकभाष्यनामकमहाग्रन्थे अनुयोगद्वाराणि विस्तरेण प्ररूपितानि । ततश्चागमरूपमहाप्रासादप्रवेशाय कपाटकल्पमनुयोगद्वारसूत्रं यावन्नोद्घाटितं, तावदागमप्रासादे प्रवेष्टुं वयं कथं समर्थाः? अतस्तदुद्घाटनमावश्यकम् । प्रकृतसूत्रोपरिपूर्वाचार्यश्रीजिनदासगणिग्रथिता चूर्णिः, याकिनीमहत्तरासुनुविरहांकांकितानेकग्रन्थप्रणेतृणां श्रीमद्धरिभद्रसूरिवर्याणां विवृतिश्च विद्येते, परंतु तयोः संक्षिप्तत्वादधुना श्रीमलधारगच्छीयश्रीहेमचन्द्रसूरीणां सरला बृहट्टीकाऽध्ययनाध्यापनेषु प्रचलिता वर्त्तते ।। तट्टीकागतेषु केषुचित् स्थानेषु प्रपश्चितज्ञधीषणानां मादृशजनानां हिताय तपागच्छीयाचार्यश्री विजयप्रेम-भुवनभानुसूरीश्वरसमुदायतिलकैः, कर्मशास्त्रनिपुणमति-सहजानंदि आचार्य श्री विजय धर्मजितसूरीश्वरप्रशिष्यैः, सूरिमंत्र पंचप्रस्थानसमाराधक-दक्षिणमहाराष्ट्रप्रभावकपूज्याचार्य श्री विजय जयशेखरसूरिवरशिष्यशेखरैः, अस्मद्विद्यागुरुवर्यैः स्मारितपूर्वाचार्यप्रतिभैः न्यायागमकर्मशास्त्रादिपरिशीलितमतिभिः चारित्रनिबध्दैककक्षैः पञ्चाचारपालनप्रवणैः श्री विजय अभयशेखरसूरिवरैः गूढरहस्योद्घाटकं नूनं टिप्पनकं रचितम् । Page #5 -------------------------------------------------------------------------- ________________ ४ टिप्पनकमिदं सूत्रवृत्त्यो रहस्योद्घाटने प्रदीपकल्पम् । निखिलानि टिप्पनकानि स्वतंत्रग्रन्थजातीयानि, सूत्रोक्तपदार्थेषु हेतुगवेषणार्थं स्वयमनुप्रेक्षितानां नैकेषां रहस्यानामाविष्कृतत्वात् । टिप्पणेऽस्मिन् चर्चितविषयाणां लेशतः प्रदर्शनप्रयासो विधीयते यतः स ग्रन्थेऽस्मिन् जिज्ञासूनां प्रवृत्तिहेतुर्भविष्यति । यत्किञ्चिद् वक्तव्यता (१) सम्यगधीताचाराङ्गादिसूत्रस्य साधोः यदैव सूत्रदानानुज्ञा क्रियते तदैव तदनुयोगदानानुज्ञा न दीयते, अपि तु अनुयोगाचार्य (पंन्यास) पदप्रदानावसरे सर्वानुयोगानुज्ञा समकालमेव दीयत इति शास्त्रोक्तविधाने यो हेतुः स तर्कपुरस्सरं सुष्ठु निर्णीतः सूरिवरैः । (२) नैगम-व्यवहारयोः आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्त्तन्ते इति भागद्वारविषयकसूत्रे 'शेष' इत्यत्र प्राकृतत्वादार्षत्वाद्वा 'अ'कारलोपो मत्वा अशेष इति पदं मन्तव्यम् इति सूचयित्वा सूत्रसङ्गतिर्दशिता । (३) द्रव्यतः अनानुपूर्वीद्रव्याणि अवक्तव्यकद्रव्येभ्यः अनन्तगुणानि इत्यक्षराणि सूत्र उपलभ्यन्ते, तथापि तत्रादर्शलेखकस्य कोऽपि प्रमादो मन्तव्यः, सङ्ख्याशास्त्रानुसारेण तेषामसंख्येयगुणानामेव संभवादिति किञ्चिदपूर्वं प्रदर्शितम् । (४) क्षेत्रतः अनानुपूर्वीद्रव्याणि अवक्तव्यकद्रव्येभ्यः अधिकानि अल्पानि वेत्यादि विचारप्रक्रमे सूत्रे त्वनानुपूर्वीद्रव्याणि अधिकानि एव कथितानि, तथाऽपि सूरिशेखरैः प्रतर- श्रेण्यादिस्थापनया प्रथममवक्तव्यकद्रव्याणां बाहुल्यं पूर्वपक्षद्वारेण स्थापितं पश्चाच्चानानुपूर्वीद्रव्याणां सूत्रोक्तस्य बाहुल्यस्य संगतिः कथं साधनीयेति दर्शयित्वा विपश्चितां मनांसि प्रीणितानि । (५) कालस्य सूक्ष्मतमांशः समयो विभाज्योऽविभाज्यो वेति प्रश्नमुत्थाप्य पश्चात् पैसक-तिलकचणकानां व्यावहारिकदृष्टान्तेन समयस्य कालापेक्षयाऽविभाज्यत्वं क्षेत्रापेक्षया च विभाज्यत्वं स्याद्वादशैल्या सुस्थापितम् । (६) सर्वजीवानामद्य यावदनन्ता औदारिकादिपुद्गलपरावर्त्ता अतीता इत्येतत्पदार्थस्य सर्वेषामेव अविगानेन प्रतिपत्तिः तथाऽपि संख्याशास्त्रानुसारेण चिन्त्यमाने कस्यापि जीवस्य नैकोऽपि पुद्गलपरावर्तो व्यतीतः संभवत्यतः शास्त्रेऽनन्ताः पुद्गलपरावर्त्ता व्यतीता इति यत् श्रूयते तत्र पुद्गलपरावर्त्तस्य काचिदन्यैव परिभाषा भवेदिति तर्निणयार्थमाचार्यवर्यैः बहुश्रुतगीतार्था एव प्रमाणीकृताः । (७) क्रोडीकृतसर्वदृष्टौ नैगमनये सूत्रोक्तशुद्धत्व - अशुद्धत्व - विशुद्धतरत्वादिकं किमिति प्रश् टिप्पनककारैः व्यवहारनयापेक्षयास्याऽशुद्धतरत्वादिकं ज्ञापितम् । तथा व्यवहारादस्य विशेषोऽपि स्पष्टीकृतः । Page #6 -------------------------------------------------------------------------- ________________ यत्किञ्चिद् वक्तव्यता अन्येषु च शताधिकस्थानेषु टिप्पनकानि ग्रन्थेऽस्मिन् आलेखितानि येषु अदृष्टपूर्वाः स्वयमनुप्रेक्षिताः पदार्थाः विद्यन्ते, तथाऽपि तान् दृष्ट्वा न कोऽपि संमोहः कर्त्तव्यः, यतोऽ कर्त्तारो मार्गस्थतर्कविशुद्धक्षयोपशमाः सन्ति, तथा पूज्यपादसिद्धांतदिवाकर - गीतार्थमूर्धन्यवर्तमानगच्छाधीशा श्रीविजयजयघोषसूरीश्वरा अस्य संशोधयितारः सन्ति । अपरं च टिप्पनककृतामपरा अपि कृतयस्सप्तभंगीविंशिका, निक्षेपविंशिकादयः सन्ति या अतिगभीरदुर्गमविषये प्रवेशाय तारिकाकल्पा भवेयुः । किं बहुना ? स्वानुप्रेक्षाफलं नूनं ग्रन्थेऽस्मिन् यत्प्रपञ्चितम् । तर्कपुष्टमहोभावजनकं विदुषां कुले ।। सङ्घसमक्षं नवीनमुपस्कर्तॄनाचार्यान् शतशः वन्दे, अन्यरचनाद्वारा सङ्घमुपकुर्वन्तु चेति प्रार्थये । यावद् स्वर्भानुः समयक्षेत्रं प्रकाशते तावदयं सटिप्पनकग्रन्थभानुरागमक्षेत्रं दीपयतु । शुभं भवतु श्री श्रमणसङ्घस्य । मुनि हृदयवल्लभविजयः पोषशुक्लपूर्णिमा, वि.सं. २०६३ घोघातीर्थ- सौराष्ट्र. આ ગ્રન્થ પ્રકાશનનો સંપૂર્ણ લાભ પોતાના જ્ઞાનનિધિમાંથી લેવા બદલ શ્રી જૈન શ્વેતાંબર મૂર્તિપૂજક સંઘ ઈસ્લામપુર ને લાખ લાખ ધન્યવાદ Page #7 -------------------------------------------------------------------------- ________________ -> इस्लांपुर का इतिहास <। दक्षिण महाराष्ट्र में सांगली जिल्हे में धन-धान्य से समृद्ध एवं धर्मभावना से समृद्ध नगरे है इस्लांपुर। यहां पूर्वकाल से अजैन धर्मीओं के पुष्कल मंदिर थे । अतः ईश्वरपुर नाम से यह नगर प्रसिद्ध था । लेकिन कालांतर में राज्य परिवर्तन होने के कारण नाम परिवर्तन हो गया..... इस्लामपुर । करीब 65 साल पूर्व यहां व्यवसायार्थ आये हुए श्रावकों के 15-20 घर थे । जहां जैन वहां जिनमंदिर.... धनराशि अल्प होने पर भी भावना का प्राबल्य अनल्प था । जिन के वंशज होने का हमें भारी गौरव है, ऐसे हमारे पूर्वजोंने हाथ में हथोडी-कुल्हाडी इत्यादि स्वयं उठाकर एक जिनमंदिर का निर्माण किया । नजदीक के पेठ गांव से श्री वासुपूज्य स्वामी की प्रभावपूर्ण प्रतिमा प्राप्त हुई और विक्रम संवत 2006 ज्येष्ठ शुक्ल पंचमी सोमवार ता.22-5-1950 के शुभदिन पू. पंन्यास प्रवरश्री नविन विजयजी गणिवर्य की शुभनिश्रा में महोत्सवपूर्वक प्रतिष्ठा हुई । प्रभु के प्रभाव से सारे शहर की और श्रीसंघ की सभी दृष्टि से वृद्धि होने लगी । श्रावक परिवारों की संख्या भी बढने लगी । अनेक बार साधु साध्वीजी भगवंतों के चातुर्मास होने से धर्मभावना में वृद्धि होने लगी, जिसके प्रभाव से श्री संघ में दीक्षा, उपधान, छरीपलित संघ, सुवर्ण महोत्सव आदि अनुष्ठान उल्लास से हुए । श्रावकों की संख्या एवं समृद्धि को नजर में लेकर पूज्य गुरुदेवों ने नूतन शिखरबद्ध जिनमंदिर के लिये प्रेरणा की । श्री संघ ने भव्य शिखरबद्ध जिनमंदिर का निर्माण करवाया, जिसकी अंजनशलाका-प्रतिष्ठा का ऐतिहासिक महोत्सव पूज्यपाद गुरुदेव श्री विजय अभयशेखरसूरीश्वरजी म.सा. की पावन निश्रामें बडे ठाठ से हुआ। हमारे पूरे संघ के परमश्रद्धेय इन्हीं गुरुदेव का सिद्धितप-वर्धमानतपपायाउपधानतप आदि से यशस्वी चातुर्मास वि. सं. 2062 में हुआ। पूज्यपाद गुरुदेव की प्रेरणा एवं कृपा से ही हमें श्री अनुयोगद्वार जैसे महत्त्वपूर्ण आगम ग्रन्थ के प्रकाशन में हमारे ज्ञाननिधि से सम्पूर्ण अर्थसहयोग का लाभ मीला है, जिसको हम हमारा महान् सौभाग्य समजते है । पूज्य गुरुदेव हमें भविष्य में पुनः भी ऐसा लाभ दे ऐसी विनंती के साथ गुरुदेव के चरणों में कोटिशः वन्दना। श्री जैन श्वेताबंर मूर्तिपूजक संघ, इस्लांपुर Page #8 -------------------------------------------------------------------------- ________________ Oાપ) RT d O Dહી વાર જો છો છે. છે. de U) PSC : 0 0 0 0 9 8 દર© 0 CE ઈરલાલપુરાંડણિશા વાસુપૂજાસ્વામી Gણાવાવ પ્રતિષ્ણl 8 વિ. સી. ૨પલવIII સુદ ૯ તારી| 8 ૧૦-પ-2003 Page #9 -------------------------------------------------------------------------- ________________ સિદ્ધાંતદિવાકર ગચ્છાધિપતિ પ. પૂ. આ. શ્રી વિજય જયઘોષસૂરીશ્વરજી મારી. For & Personal Use Omy Page #10 -------------------------------------------------------------------------- ________________ મણિ ........ SE) • જેઓ ૧૪ વર્ષની બાલ્યવયે પિતાજી સાથે દીક્ષિત થયા.. નાની વય - નાના પર્યાયમાં આગમ ગ્રન્થો - પ્રકરણ ગળ્યો - છેદ ગ્રંથોના પારગામી બન્યા... બધા જ ગ્રન્થોની અભૂત ઉપસ્થિતિ, પૂર્વાપર અવ્વલ અનુસંધાન, ઊંડી અનુપ્રેક્ષા, અને એના પ્રભાવે નવા નવા સેંકડો અપૂર્વ રહસ્યોદ્ઘાટનો આની પ્રતીતિના પ્રભાવે સ્વ. પૂ. પ્રેમસૂરીશ્વરજી મહારાજાએ પટ્ટકમાં એક કલમ દ્વારા સમુદાયના મૂર્ધન્ય ગીર્થોને પણ અવસરે શાસ્ત્રીય બાબતોમાં જેમને પૂછવાનું સૂચન કરેલું ને ત્યારે જેઓ માત્ર મુનિ હતા ને પર્યાય પણ કાંઈ બહુ મોટો નહોતો.. • અને એટલે જ તેઓશ્રીએ ત્યારે જ સ્વ. પૂ. ભુવન ભાનુસૂરીશ્વરજી (એ વખતે પં. શ્રી ભાનુ વિજયજી ગણિવર) મ.સા.ના ઉત્તરાધિકારી તરીકે જેમને ઘોષિત કર્યા હતા... બંધવિધાન મહાગ્રન્થના જેઓ મુખ્ય સૂત્રધાર હતા. જ્ઞાનના સાગર હોવા છતાં અભૂત નમ્રતા-સરળતા-આત્મલક્ષિતા ઝળહળતા વિરાગ્ય-નિર્મળ બ્રહ્મચર્ય વગેરેની અનુપમ પરિણતિના જેઓ ધારક છે... • મારા અનેક ગ્રંથોનું જેઓશ્રીએ સંશોધન કરેલું છે.. • અને અન્ય પણ અનેક દૃષ્ટિએ જેઓ મારા ઉપકારી છે.. • વર્તમાનમાં સર્વાધિક શ્રમણોના સમુદાયના જેઓ અધિપતિ છે... તે સિદ્ધાન્તદિવાકર ગચ્છાધિપતિ ૫. પૂ. આ શ્રી વિજય જયઘોષસૂરીશ્વરજી મ. સા. ના કરકમલમાં સાદર સમર્પણ.... Education International Page #11 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના વિ.સં. ૨૦૬૦ ચાતુર્માસ દરમ્યાન શ્રી અનુયોગદ્વારસૂત્ર પર વાચના આપવાનો પ્રસંગ આવ્યો. મૂળસૂત્ર અને મલધારી શ્રી હેમચન્દ્રસૂરિ મહારાજાની વૃત્તિને અનુસરીને વિવેચન ચાલી રહ્યું હતું. એમાં અનેક સ્થળે સ્પષ્ટીકરણ માટે કે હેતુની ગવેષણા માટે જે વિચારણા થઈ એ પદાર્થને સ્પષ્ટ ખોલનારી કે હેતુપૂર્વક ખોલનારી જણાવાથી વિચાર આવ્યો કે આ વિચારણાઓને ટીપ્પણરૂપે પ્રકાશિત કરવી જોઈએ જેથી વર્તમાન જિજ્ઞાસુઓને તથા ભાવી પેઢીને ઘણો ઉપકાર થશે...ને થયું આ ટિપ્પણ ગ્રંથનું સર્જન..... દેવગુરુની વરસી રહેલી અનુપમ કૃપાના પ્રભાવે ક્યાંક ક્યાંક ખૂબ જ સુંદર-પૂર્વના ગ્રન્થોમાં નહીં મળતું એવું પણ સ્પષ્ટીકરણ થયું છે જે અધ્યેતાની શ્રીજિનાગમો પ્રત્યેની શ્રધ્ધા વધારીને વિશેષ પ્રકારે આદર બહુમાન વધા૨શે એવી શ્રદ્ધા છે. એમાં નિક્ષેપટ્ટારની સૂક્ષ્મ વિચારણા...ચાર નિક્ષેપની સર્વવ્યાપિતા....આ અંગે જે સૂક્ષ્મ વિચારણા ચાલી....આ સર્વવ્યાપિતાના નિયમઅંગે અન્ય ગ્રન્થોમાં ઊઠાવવામાં આવેલી વ્યાભિચારની શંકા....એનું નિવારણ વધારે તર્કસંગત રીતે કરનાર અપૂર્વ સમાધાન...વગેરે વિશેષ ઉપયોગી લાગવાથી તથા એનું વિશદ-સ્પષ્ટીકરણ કરવામાં ખૂબ ગ્રન્થવિસ્તાર થવાની સંભાવના લાગવાથી એનો સ્વતંત્ર ગ્રન્થ રચવો એમ નિર્ણય કર્યો.. અને તઅનુસાર સ્વોપક્ષવૃત્તિ-ગુજરાતી ભાવાનુવાદ સહિત નિક્ષેપવિંશિકા ગ્રન્થનું સર્જન કર્યું. જે અલગ રીતે પ્રકાશિત થયેલ છે. સપ્તભંગીવિંશિકા ગ્રન્થે જેમ સપ્તભંગી પર ઘણો નવો પ્રકાશ પાથર્યો છે. એમ નિક્ષેપવિંશિકાગ્રન્થ ચાર નિક્ષેપાઓ પર અનેક સ્થળે અપૂર્વ પ્રકાશ પાથરશે... એવી શ્રદ્ધા છે. એ જ રીતે પ્રસ્તુત ટીપ્પણ પણ અનુયોગદ્વાર સૂત્રના અનેક પદાર્થો પર એક જુદા જ પ્રકારનો વિશદ પ્રકાશ પાથરશે એવી આશા છે. ઘણી ઘણી નવી વિચારણાઓ હોય એટલે સંશોધન આવશ્યક જ નહીં, અતિ આવશ્યક.... ને તેથી વર્તમાનમાં આગમોના અવ્વલ જ્ઞાતા સિદ્ધાન્ત દિવાકર પૂજ્યપાદ ગચ્છાધિપતિ શ્રી વિજય જયઘોષસૂરીશ્વરજી મ.સા. ને એ માટે વિનંતી કરી. સ્વ-પર આરાધનાની જવાબદારીપૂર્ણ અનેક વ્યસ્તસ્તાઓ વચ્ચેથી પણ અવકાશ કાઢીને તેઓશ્રીએ શ્રુત પ્રત્યેની ભક્તિથી અને મારા પ્રત્યેની લાગણીથી ગ્રન્થનું સૂક્ષ્મતાપૂર્વક સંશોધન કર્યું છે ને એ રીતે ટીપ્પણોની ઉપાદેયતામાં જબરદસ્ત વધારો કર્યો છે. તેઓશ્રીએ કરેલી ઉપકાર શ્રૃંખલામાં આ એક નવો મણકો ઉમેરાયો છે. તેઓશ્રીના ચરણોમાં કોટિ કોટિ વંદના. Page #12 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના સિદ્ધાન્ત મહોદધિ સુવિશાળગચ્છનિર્માતા સ્વ.પૂ. આ. શ્રી વિજય પ્રેમસૂરીશ્વરજી મ.સા., ન્યાય વિશારદ વર્ધમાનતપોનિધિ સ્વ.પૂ.આ.શ્રી વિજય ભુવનભાનુસૂરીશ્વરજી મ.સા., અધ્યાત્મરસિક સહજાનંદી સ્વ. પૂ. આ.ભ. શ્રી વિજય ધર્મજિતસૂરીશ્વરજી મ.સા. તથા દક્ષિણ મહારાષ્ટ્ર પ્રભાવક શ્રી સૂરિમંત્રના પરમ સાધક સ્વ. પૂ. આ.શ્રી વિજય જયશેખરસૂરીશ્વરજી મ.સા.... આ સુવિહિત ગુરુ પરંપરાને આ પળે ભાવપૂર્વક વંદન કરું છું. સંસ્કૃત ભાષામાં સુંદર પ્રસ્તાવના લખનાર મુનિરાજ શ્રી હૃદયવલ્લભ વિજયજીને તથા સંયમ સાધનાના અને શ્રુતસાધનાના દરેક તબક્કે અનેક રીતે સહાયક બનનાર સહવર્તી શિષ્યાદિવૃન્દને પણ કેમ ભૂલી શકાય? પરમ પરમાત્મભક્ત, ગુરુભક્ત અને શ્રુતભક્ત દીર્થસંયમી પૂજ્યપાદ પ્રવર્તક શ્રી જંબૂવિજયજી મ.સા. દ્વારા સંપાદિત શ્રી મહાવીર જૈન વિદ્યાલય દ્વારા પ્રકાશિત પ્રકાશનને મૂળ અને વૃત્તિગ્રન્થના આધારભૂત પ્રકાશન તરીકે રાખ્યું છે, ને તેથી મેં નથી કોઈ હસ્તલિખિત પ્રત વગેરેનો આધાર લીધો કે નથી કોઈ પાઠાન્તર વગેરે આપ્યા. પૂજ્યશ્રીના ચરણોમાં ભાવભરી વંદના. શ્રી જિન આગમોના રહસ્યો પામવા માટે નિયુક્તિ-ભાષ્ય વગેરે ગ્રન્થોનો આધાર લીધા વિના છૂટકો નથી એ સુપેરે જ્ઞાત છે. આ પંચાંગી જિનાગમોમાં પ્રવેશ માટે શ્રી અનુયોગદ્વાર એ ખરેખર દ્વાર સમાન છે. એના રહસ્યો પામવા માટે શ્રી જિનદાસમહત્તરવિરચિત ચૂર્ણિ, સૂરિપુરંદર શ્રી હરિભદ્રસૂરિ મહારાજ વિરચિત વિવૃતિ તથા મલધારી શ્રી હેમચન્દ્રસૂરિ મહારાજ વિરચિત વૃત્તિની સાથે પ્રસ્તુત ટિપ્પણીનો પણ આધાર લઈને અધિકારી જિજ્ઞાસુઓ સ્વકીયબોધને વિશદ રીતે નિર્મળ કરે એવી નમ્ર વિનંતી સાથે, તથા આ ટિપ્પણીઓમાં ક્યાંય પણ પરમ પવિત્ર શ્રી જિનાજ્ઞાથી વિપરીત ટિપ્પણ થયું હોય તો એનું હાર્દિક મિચ્છામિ દુક્કડ દેવા સાથે સંવિગ્ન ગીતાર્થ મહાત્માઓને એનું સંશોધન કરી મને જણાવવાની વિનંતી સાથે. ..... ગુરુપાદપઘરેણુ, અભયશેખર સોળમાં શ્રી શાંતિનાથદાદાની પ્રતિષ્ઠાનો મંગળ દિવસ. મહાસુદ-૬ વિ.સં. ૨૦૬૩ ભોર. (જિ. પુના) Page #13 -------------------------------------------------------------------------- ________________ १० विषयानुक्रमः पृष्ठ नं| विषय विषय मङ्गालसूत्रम् २ ४२ आवश्यकानुयोगप्रतिज्ञा. प्रेक्षावत्प्रवृत्त्यर्थं द्वादपि सम्बन्धा आवश्यकौ ३ आवश्यकस्यैकार्थिकाः शब्दा निरुक्तं च... ४५ व्यवहारे श्रुतस्य प्राधान्यं कथम् ? सूत्रसमुद्देशः कदा ? ४ श्रुतनिक्षेपाः . .४६ ६ अण्डजादिपञ्चविधं सूत्रम् .४८ .५३ .५३ ११ सचित्तादित्रिविधस्तद्व्यतिरिक्तद्रव्यस्कन्धः .. ५५ . १७ कृत्स्नादित्रिविधस्तद्व्यतिरिक्तद्रव्यस्कन्धः . १७ भावस्कन्धस्यैकार्थिकाः शब्दाः .५६ ५९ .५९ .६१ ६२ ६२ अनुयोगदानानुज्ञैकयैव हेलया कथम् ? अनुयोगविधिः कालग्रहणादयः सूत्रापेक्षा एव आवश्यकादिपदनिक्षेपप्रतिज्ञा नामावश्यकम् नामनिक्षेपे पर्यायाभिधेयत्वशङ्कासमाधाने .... स्थापनाऽऽवश्यकम् नामस्थापनयोः प्रतिविशेषः नामनिक्षेपस्यापि पूजाप्रवृत्त्यादयः ? नाम-स्थापनादयः कस्य भदा:. नामादिनिक्षेपचतुष्कस्यावश्यविधेयत्वम् . .१९ षड्विधावश्यकश्रुतस्यार्थाधिकाराः . १९ चत्वारि अनुयोगद्वाराणि २० प्रथममुपक्रमानुयोगद्वारम् . २२ उपक्रमस्य षनिक्षेपाः .२३ तद्व्यतिरिक्तद्रव्योपक्रमस्य सचित्तादिभेदत्रयम्. द्रव्यावश्यकम् द्रव्येन्द्रत्वं कस्य ? आगमतो द्रव्यावश्यकम् सप्तनयानाश्रित्यागमतो द्रव्यावश्यकविभजनम् ऋजु सूत्रयतीति कोऽर्थः ज्ञशरीरद्रव्यावश्यकम् भव्यशरीरद्रव्यावश्यकम् तद्व्यतिरिक्तद्रव्यावश्यके लौकिकं द्रव्यावश्यकम् कुप्रावचनिकद्रव्यावश्यकम् लोकोत्तरिकं द्रव्यावश्यकम् १ आगमतो नोआगमतश्चेति भावावश्यकद्वैविध्यम् ७ श्रुतस्यैकार्थिकाः शब्दाः ९ स्कन्धनिक्षेपाः . २४ . २५ क्षेत्रकालोपक्रमौ . २५ नोआगमतोऽप्रशस्त भावोपक्रमः २६ प्रशस्त भावोपक्रमः विषयानुक्रमः उपक्रमानुयोगद्वारस्य आनुपूर्वी नामादीनि षट् प्रतिद्वाराणि २९ . ३१ आनुपूर्व्या दश निक्षेपाः ३२ द्रव्यानुपूर्वी. . ३५ तद्व्यतिरिक्तद्रव्यानुपूर्व्या द्वैविध्यम् . | अनौपनिधिकत्वं कथम् ? . ३६ नैगमव्यवहारसंमताया अनौपनिधिक्या .३८ द्रव्यानुपूर्व्या अर्थपदप्ररूपणतादयः ४० पञ्चप्रकाराः पृष्ठ नं .६३ .६५ ६६ ६७ ६८ .६९ ६९-१०५ ६९ ६९ ७२ Page #14 -------------------------------------------------------------------------- ________________ विषयानुक्रमः विषय ........ पृष्ठ नं | विषय ............. ............... पृष्ठ नं अर्थपदप्ररुपणता तत्प्रयोजनं च .............७३ | अल्पबहुत्वद्वारम् . ..........११६ आनुपूर्वीपदस्य प्रवृत्ति-व्युत्पत्तिनिमित्ते ......७४ | अवक्तव्यकापेक्षयाऽनानुपूर्वीणां विशेषाधिकत्वे भङ्गसमुत्कीर्तनता तत्पयोजनं च ............७५ शङ्का तत्समाधानं च .............११७ भङ्गोपदर्शनता समवतारश्च ..................७७ | सङ्ग्रहाभिमता अनौपनिधिकी क्षेत्रानुपूर्वी .. १२० भङ्गसमुत्कीर्तनताद्वारोपन्यासे कारणान्तरम् ...७७ औपनिधिकी क्षेत्रानुपूर्वी .................. १२३ सत्पदप्ररूपणादीनि नवानुगमद्वाराणि .........८० | बहुसमभूभाग इत्यस्य कोऽर्थः ? ........ अचित्तमहास्कन्धस्य लोकस्य संख्यातत- | रुचकस्याष्टप्रदेशत्वं किमर्थम् ? ....... मभागावगाहनासंगति-प्रदर्शनम् .......८१ | अधोलोकक्षेत्रानुपूर्वी ..... परमाणोः संस्थानपरिणामाभावः ............८४ | तिर्यग्लोकक्षेत्रानुपूर्वी ............. १२७ भागद्वारे अकारलोपो द्रष्टव्यः ..............८८ | ऊर्ध्वलोकक्षेत्रानुपूर्वी .. १२८ अल्पबहत्वद्वारम् ...........................९० कालानुपूर्वी ....................१२९-१४० आनुपूर्वीद्रव्यप्रदेशा अवक्तव्यद्रव्येभ्यो नैगमव्यवहार-अनौप० कालानुपूर्व्या ___नानन्तगुणाः, किन्त्वसंख्येयगुणा एव .. ९२ अर्थपदप्ररूपणतादयः पञ्चप्रकाराः .. १३० सप्रसङ्गमन्यदल्पबहुत्वम् ....................९४ द्रव्य-क्षेत्राद्यानुपूर्वीणां संवेधः ............. सङ्ग्रहसम्मताया अनौपनिधिक्या अर्थपद- नवानुगमद्वाराणि प्ररूपणतादयः पञ्च प्रकाराः .........९५ | तत्र क्षेत्रद्वारम् . अनुगमद्वारेषु अल्पबहुत्वद्वाराभावः ..........९७ | काल-अन्तरद्वारे .................. औपनिधिकी द्रव्यानुर्पूवी ...................९९ भाग-भाव-अल्पबहुत्वद्वाराणि ........... पूर्वानुपूर्व्यादिलक्षणं तत्रैविध्यम् ............९९ | सङ्ग्रहाभिमता अनौपनिधिकी 'अधर्म'स्य प्रवृत्ति-व्युत्पत्तिनिमित्ते ........ १०० कालानुपूर्वी . १३७ अनानुपूर्वीभङ्गकस्वरूपानयनार्थं करणम् ... १०३ | औपनिधिकी कालानुपूर्वी ............ प्रकारान्तरेण औपनिधिक्याः औपनिधिक्यां नयविचाराभावः पूर्वानुपूर्व्यादिभेदत्रयम् .............. १०५ किमर्थम् ? ..................... क्षेत्रानुपूर्वी .....................१०५-१२९ समयावलिकातः प्रारभ्य सर्वाद्धान्तं नैगमव्यवहार-अनौपनिधिक्याः क्षेत्रानुपूर्व्या यावत्कालप्ररूपणम् अर्थपदप्ररूपणतादयः पञ्चप्रकाराः .. १०६ | चतुर्विंशतिजिननामान्याश्रित्य सत्पदप्ररूपणतादीनि नवानुगमद्वाराणि ..... १०९ / उत्कीर्तनानुपूर्वी .... क्षेत्र-स्पर्शनाद्वारे . .......... १०९ | एकं दश शतमित्यादिसंख्यामाश्रित्य काल-अन्तरद्वारे गणनानुपूर्वी ........१४२ भाग-भावद्वारे ....... .१३२ ..................... ...१३५ ....१३६ ......... १३८ १३८ ..............१३९ ........१४१ ........११२ Page #15 -------------------------------------------------------------------------- ________________ १२ विषयानुक्रमः .............१८२ विषय ... पृष्ठ नं विषय .... ........पृष्ठ न संस्थानानुपूर्वी .....१४२ | अष्टविधविभक्तिभेदैरष्टविधनाम्नो सामाचार्यानुपूर्वी .......... ... १४४ निरूपणम् औदयकिादिषड्भावानाश्रित्य भावानुपूर्वी .. १४५ | वीर-शृङ्गार-अद्भूत-रौद्र-व्रीडनक-बीभत्सउपक्रमानुयोगद्वारे द्वितीयं हास्य-करुण-प्रशान्ताख्यकाव्यरनामाख्यं प्रतिद्वारम् ................ १४६ | सभेदैर्नवनाम्नो निरूपणम् ......... १८४ एकनामव्याख्यानम् ....................... १४६ गौण-नोगौण-आदान-प्रतिपक्ष-प्राधान्यताद्विनामव्याख्यानम् (एकानेकाक्षरिकनाम).. १४७ अनादिसिद्धान्त-नाम-अवयव-संयोगप्रकारान्तरेणद्विनामव्या. (जीवाजीवनाम) . १४७ | प्रमाणनामभैदेर्दशनामनिरूपणम् .....१९० पुनश्च प्रकारान्तरेण द्विनाम० अविशेषित- नामप्रमाणनामनिरूपणम् ...................१९५ विशेषितनाम) ................... १४८ नक्षत्र-देवतादिसप्तभेदैः त्रिनामव्याख्यानाम् (द्रव्य-गुण-पर्यायनाम). १५१ स्थापनाप्रमाणनामनिरूपणम् ........ १९६ प्रकारान्तरेण त्रिनाम द्रव्यप्रमाणनामनिरूपणम् .................. १९८ (स्त्री-पुरुष-नपुंसकनाम) ........... १५४ सामासिकादिचतुर्भेदैः चतुर्नामव्याख्यानम् (आगम-लोप-प्रकृति- भावप्रमाणनामनिरूपणम् ........... १९८ विकारतः) ...... १५५ | तत्र द्वन्द्वबहुव्रीह्यादिभेदैः पञ्चनामव्याख्यानम् (नामिक नैपातिक सामासिकभावप्रमाणनामनिरूपणम् .. १९९ आख्यातिक-औपसर्गिक कर्म-शिल्प-श्लोक-संयोग-समीप-संयूथमिश्रभेदतः).......................१५६ ऐश्वर्य-अपत्यभेदैस्ताद्धितिक० .........२०० औदयिकादिषण्णामव्या०, तत्र औद. | धातुजभावप्रमाणनामनिरूपणम् ............ २०२ ___भावनिरूपणम् .................. नैरुक्तिकभावप्रमाणनामनिरूपणम्........... २०२ औपशमिकभावनिरूपणम् ............. | उपक्रमान्तर्गतं तृतीयं प्रमाणद्वारम् ........ क्षायिकभावनिरूपणम् ... मानोन्मानादिप्रमाणानि क्षायोपशमिकभावनिरूपणम् ......... | क्षेत्रप्रमाणम् .......... ...२०८ प्रचलादीनां व्याख्याविशेषः . १६१ अङ्गलस्वरूपम् ......... ............. "क्षपणा शब्दस्य मुख्योऽर्थः आत्माङ्गुलम् पारिणामिकभावनिरूपणम् ....... १६५ उत्सेधाङ्गलम् 'क्षयोपशम'स्य मुख्योऽर्थः ... नारकादीनां शरीरावगहनाः ............ सान्निपातिकभावनिरूपणम् ........... १६७ लब्धि-करणपर्याप्तत्रसाणां जघन्याऽवगाहना २२१ षड्जादिसप्तनामनिरूपणम् .. ........... १७४ | सूत्रगतेर्विचित्रतायां हेतुः .................. गीतस्य शेषगुणादयः ............... १८० | प्रमाणागुलम् ... ..... २२६ ......२०४ ..२०९ २१३ २२५ ......... Page #16 -------------------------------------------------------------------------- ________________ विषयानुक्रमः विषय प्रमाणाङ्गलस्य चतुःशतगुणत्वं सहस्रगुणत्वं वा ?. कालप्रमाणम् समयनिरूपणम् . समयो विभाज्योऽविभाज्यो आवलिकादीनां निरूपणम्.. पल्योपमनिरूपणम् वा ? नारकादीनामायुःस्थितिनिरूपणम् उरपरिसर्पादीनामयुग्मधर्मित्वम्.. पल्येऽस्पृष्टानां नभः प्रदेशानामसंख्यातगुणत्वसंभवः कथम्? द्रव्यद्वैविध्यम् . शरीरपञ्चकनिरूपणम् पृष्ठ नं| विषय | द्विविधमुपमानप्रमाणम् २२८ तत्र त्रिविधं साधर्म्यापनीतम् २३१ त्रिविधं वैधर्म्यापनीतम् . १२३२ | लौकिक-लौकोत्तरागमप्रमाणम्.. २३५ | अथवा सूत्रागमादि आत्मागमादि त्रिविधमागमप्रमाणम्. २३७ २३९ | दर्शनगुणप्रमाणम्.. २४४ चारित्रगुणप्रमाणम् .. २४७ नयप्रमाणे प्रस्थकदृष्टान्तः नौगमे शुद्धयशुद्धी . २५३ वसतिदृष्टान्तः २५५ नैगमव्यवहारयोर्विशेषः. २५७ | प्रदेशदृष्टान्तः नारकादीनां बद्धमुक्तशरीरनिरूपणम् . २५७ नामाद्यष्टविधं संख्याप्रमाणम् बद्ध-मुक्तौदारिकादिशरीरसंख्यानिरूपणम् २५९ एकभविकादित्रिविधतद्व्यतिरिक्त २६० पुद्गलपरावर्तलक्षणे विशेषो विचारः . नारकादीनां बद्ध-मुक्तौदारिकादिशरीरसंख्यानिरूपणम् द्रव्यशङ्खनिरूपणम् औपम्यादिसंख्यानिरूपणम् २६३ एकस्य संख्याऽसंख्यात्वविचारः उत्कृष्टसंख्येयकनिरूपणम् नारकेषु कृतोज्झिताहारकाणां . २६४ नवविधमसङ्ख्येयकम् . जीवानां सर्वदा सम्भवः गर्भजमनुष्यसंख्या २७० | अष्टविधानन्तकनिरूपणम्. २७४ वक्तव्यताद्वारम् त्रिविधा वक्तव्यता. २७४ | वक्तव्यतायां नयविचारणा भावप्रमाणम् तत्र गुणप्रमाणम् वर्णादिपञ्चविधमजीवगुणप्रमाणम् ज्ञान-दर्शन-चारित्रलक्षणं जीवगुणप्रमाणम्. २७५ अर्थाधिकारद्वारम् प्रत्यक्षज्ञानप्रमाणभेदाः . पूर्व-शेष- दृष्टसाधर्म्यवद् अनुमानप्रमाणम् . २७६ शेषवतोऽनुमानस्य पञ्चविधत्वम् तन्तूनां पटपरिणामित्वे चालना- प्रत्यवस्थाने दृष्टसाधर्म्यवतो द्विविधत्वम् . २७५ समवतारद्वारम् - समवतारस्य नामादिषड्विधत्वम्. निक्षेपद्वारम्-तस्यौघनिष्पन्नादयस्त्रयो २७८ विधाः २८१ | अध्ययननिक्षेपाः २७७ |उपक्रमद्वारसमाप्ति: १३ नं पृष्ठ २८३ २८३ २८४ २८५ २८६ २८६ २८७ २८९ २८९ २९३ २९४ २९६ ३०१ ३०३ ३०५ ३०८ ३०९ ३१२ ३१५ ३१८ ३१९ ३२१ ३२१ ३२५ ३२५ ३२६ Page #17 -------------------------------------------------------------------------- ________________ १४ विषय अक्षीणनिक्षेपाः आयनिक्षेपाः क्षपणानिक्षेपाः नामनिष्पन्ननिक्षेपनिरूपणम् तत्र नोआगमतो भावसामायिकम् . अनुगमाख्यं तृतीयमनुयोगद्वारं. उपोद्घातनिर्युक्त्यनुगमे द्वे द्वारगाथे द्वात्रिंशत्सूत्रदोषाः पृष्ठ नं| विषय २३२७ | सूत्रस्याष्टौ गुणाः ३२९ | षड्विधं व्याख्यालक्षणम् ३३० नयाख्यं चतुर्थमनुयोगद्वारम् ३३२ ज्ञाननयवक्तव्यता ३३३ क्रियानयवक्तव्यता ३३५ | स्थितपक्षवक्तव्यता ३३६ | वृत्तिग्रन्थप्रशस्तिः. ३३९ टिप्पणीग्रन्थप्रशस्तिः. ચાર અનુયોગની અપૃથા અને પૃથતા એટલે શું ? શ્રી આર્યરક્ષિતસૂરિ મહારાજે દુર્બલિકા પુષ્યમિત્રના નિમિત્તે પંચમકાળના પ્રભાવે ધૃતિ-મેધા વગેરેનો હ્રાસ જોઈને અનુયોગને પૃથક્ કર્યા. એ પહેલાં અનુયોગ પૃથક્ નહોતો. અર્થાત્ દરેક સૂત્રનો ચાર પ્રકારે અનુયોગ થતો. જેમ શ્રીયોગશાસ્ત્રના પ્રથમ શ્લોક નમો દુર્વારરાગાદિ... ના ૧૦૮ અર્થ થયેલા છે. વિવક્ષિત અક્ષરને પહેલાં પૂર્વના શબ્દનો ઘટક માની એક અર્થ કર્યો. . પછી એ શબ્દમાંથી અલગ કરીને એને પાછળના શબ્દનો ઘટક બનાવીને નવો અર્થ મેળવવામાં આવ્યો. એમ સંધિ વગેરે જુદી રીતે કરીને અર્થ તદ્દન જુદો મેળવાય. આવું જ પૂર્વના કાળમાં થતું... દા.ત. આચારાંગજીનું એક સૂત્ર લીધું... એનો એક અર્થ એવો કરવામાં આવ્યો કે જેથી ચરણસિત્તરિનું સમર્થન થાય. સૂક્ષ્મ માર્ગદર્શન મળે.. આને ચરણકરણાનુયોગ કહેવાય. પછી એ જ સૂત્રનો અર્થ એવી રીતે કરવામાં આવતો કે જેથી ગણિત-સંખ્યા વગેરેની મુખ્યતા થાય ... આ ગણિતાનુયોગ થયો. એ જ રીતે એ જ સૂત્રનો જુદી જુદી રીતે અર્થ એવી રીતે કરાતો કે જેથી ધર્મકથા-ઉપદેશ ધ્વનિત થાય અને દ્રવ્યોનું સ્વરૂપ સ્પષ્ટ થાય. આ જ રીતે પ્રત્યેક સૂત્રની ચાર-ચાર વ્યાખ્યા થતી. એટલે કે સૂત્રે સૂત્રે ચારે અનુયોગ સાથે ચાલતા. विषयानुक्रमः पृष्ठ नं ३४१ ३४२ ३४३ ३४९ ३५० ३५१ ३५३ ३५४ આમાં તે તે શબ્દોના અતિપરિચિત જે અર્થ હોય તે અર્થ દ્વારા મળતો અનુયોગ સમજવામાં ને સમજ્યા પછી યાદ રાખવામાં સરળ રહેતો. પણ બાકીના ત્રણ અનુયોગ મેળવવા માટે ભલે વ્યાકરણના નિયમોને કે ભાષાની મર્યાદાને ચાતરવાનું નહોતું... છતાં તે તે શબ્દોના અલ્પપરિચિત કે અપરિચિત અર્થો કરવા પડતા.. ને એના કારણે સૂત્રે સૂત્રે એને ગ્રહણ કરવા અને ગ્રહણ કર્યા પછી ધારી રાખવા એ અતિ-અતિ મુશ્કેલ કાર્ય હતું.. એટલે પંચમકાળના પ્રભાવે બુદ્ધિધારણાશક્તિમાં જ્યારે ઘણો ઘણો હ્રાસ થઈ ગયો ત્યારે આ કાર્ય અશક્ય જેવું બની ગયું. ચારે અનુયોગને સમજવા-ધારવાની મથામણમાં એક પણ અનુયોગને વ્યવસ્થિત રીતે સમજવો-ધારવો મુશ્કેલ બની ગયો. એટલે શ્રીઆર્યરક્ષિતસૂરિ મહારાજે ભાવીના જીવો પર કરુણા કરીને અનુયોગને પૃથક્ કર્યો. ‘તે તે સૂત્રગત શબ્દોના પ્રચલિત અર્થ પરથી જે અનુયોગ મળે એ જ એક અનુયોગ તે તે સૂત્રનો કરવો. બાકીના ત્રણ અનુયોગ કરવા નહીં.' આવું તેઓએ ઠેરવ્યું... આ રીતે વ્યાખ્યા કરવાથી શ્રીઆચારાંગ વગેરે સૂત્રો પરથી ચરણકરણાનુયોગ મળ્યો. શ્રીચન્દ્રપ્રજ્ઞતિ વગેરે પરથી ગણિતાનુયોગ મળ્યો. એમ, શ્રી જ્ઞાતાધર્મકથા વગેરે પરથી તથા શ્રીસૂત્રકૃતાંગ વગેરે પરથી ક્રમશઃ ધર્મકથાનુયોગ અને દ્રવ્યાનુયોગ મળ્યા. Page #18 -------------------------------------------------------------------------- ________________ ।। णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।। ॥ णमोऽत्थु णं अणुओगधराणं थेराणं ।। अणुओगद्दाराई। णमो अरिहंताणं ॥ णमो सिद्धाणं ।। णमो आयरियाणं ॥ णमो उवज्झायाणं ॥ णमो लोए सव्वसाहूणं ।। एसो पंचनमुक्कारो सव्वपावप्पणासणो मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ।। (सू० १) नाणं पंचविहं पण्णत्तं । तंजहा- आभिणिबोहियणाणं १, सुयणाण २, ओहिणाणं ३, मणपज्जवणाणं ४, केवलणाणं ५ । आचार्यप्रवर मलधारिश्रीहेमचन्द्रसूरिविरचिता वृत्तिः। ऐं नमः । श्रीवीतरागाय नमः ॥ सम्यक्सुरेन्द्रकृतसंस्तुतिपादपद्ममुद्दामकामकरिराजकठोरसिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि वीरं विशुद्धतरबोधनिधिं सुधीरम् ।।१।। अनुयोगभृतां पादान् वन्दे श्रीगौतमादिसूरीणाम् । निष्कारणबन्धूनां विशेषतो धर्मदातृणाम् ।।२।। यस्या: प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः । अनुयोगवेदिनस्तां प्रयत: श्रुतदेवतां वन्दे ।।३।। इहातिगम्भीरमहानीरधिमध्यनिपतितानर्घ्यरत्नमिवातिदुर्लभं संप्राप्य मानुषं जन्म, ततोऽपि लब्ध्वा त्रिभुवनैकहितश्रीमज्जिनप्रणीतबोधिलाभम्, समासाद्य विरत्यनुगुणं परिणामम्, प्रतिपद्य चरणधर्मम्, अधीत्य विधिवत् सूत्रम्, समधिगम्य तत्परमार्थम्, विज्ञाय स्व-परसमयरहस्यम्, तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यम्, तस्यैव ॥ ऐ नमः ।। ।। श्रीमातगसिद्धायिकापरिपूजिताय श्रीवर्धमानस्वामिने नमः ।। ।। श्रीगौतम-सुधर्मादिगणभृद्भ्यो नमः ।।। || श्रीचूर्णिकृद्-हरिभद्र-हेमचन्द्रसूरिवृत्तिकृदभ्यो नमः ।। ।। श्रीविजयप्रेम-भुवनभानु-जयघोष-धर्मजित-जयशेखरसूरिसदगुरुभ्यो नमः ।। वीरं गणधरान् नत्वा भुवन-धर्मजित्-जयान्। वाग्देवीं चानुयोगे हि टिप्पणी रच्यते मया ।।१।। * श्रीवीरं जिनं गौतमादिगणधरान भुवनभानु-धर्मजित-जयशेखरसूरीन स्वगुरून वाग्देवीं च नत्वा श्रीमन्मलधारिहेमचन्द्रसूरिसन्दृब्धवृत्तियुतानुयोगद्वारसूत्रविषयिणी टिप्पणी मया(= विजयअभयशेखरसूरिणा)रच्यत इत्यर्थः । Page #19 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमग्रसामग्रीफलत्वात् । स चानुयोगो यद्यप्यनेकग्रन्थविषय: संभवति तथापि प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात् प्रथममनुयोगद्वाराणामेव विधेय: । जिनवचने ह्याचारादि श्रुतं प्राय: सर्वमप्युपक्रम-निक्षेपा-ऽनुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात् प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः । स च यद्यपि चूर्णि-टीकाद्वारेण वृद्धैरपि विहितः तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौत्सुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च कर्तुमारभ्यते। अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोरूपत्वात् संभाव्यमानविघ्नत्वात् तदुपशमार्थं शिष्टसमयपरिपालनार्थं चादौ मङ्गलरूपं सूत्रमाह - नाणं पंचविहमित्यादि । व्याख्या - ज्ञातिर्ज्ञानम्, कृत्यल्युटो बहुलम् (पा० ३।३।११३) इति वचनाद् भावसाधन:, ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्निति वा ज्ञानम्, जानाति स्वविषयं परिच्छिनत्तीति वा ज्ञानं ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः । पंचविहं ति पञ्चेति सङ्ख्यावचन:, विधानानि विधा: भेदा:, पञ्च विधा अस्येति पञ्चविधं पञ्चप्रकारमित्यर्थः, पण्णत्तं ति प्रज्ञप्तम्, अर्थतस्तीर्थकरैः सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मन: स्वमनीषिका परिहता भवति, अथवा प्राज्ञात् तीर्थकरादाप्तं प्राप्तं गणधरैरिति प्राज्ञाप्तम्, अथवा प्राज्ञैः गणधरैस्तीर्थकरादात्तं गृहीतमिति प्राज्ञात्तम्, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञाप्तम्, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, ह्रस्वत्वं तु सर्वत्र प्राकृतत्वादित्यवयवार्थः । अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभि: प्रज्ञप्तमिति सम्बन्धः । कतिविधम् ? इति, अत्रोच्यते-पञ्चविधमिति । तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- तंजहेत्यादि, तद्यथेत्युपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मन:पर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी 'नियत इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोध: अभिनिबोध इति भावसाधन:, स्वार्थिकतद्धितोत्पादात् स एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति कर्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनिबोधिकमिति तथैव, आभिनिबोधिकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम्, इन्द्रियपञ्चक १. नियत... बोध इति। चक्षुषा रूपादिविषय एव बोधः, रसनेन्द्रियेण रसादिविषय एव बोधः, इत्यादिप्रकारेण नियतो बोधोऽत्र ज्ञेयः। अन्यत्र त्वभिमुखोऽसन्दिग्धत्वेन निश्चितो बोध इत्यभिनिबोध इत्यपि व्युत्पत्तिर्दृश्यते । Page #20 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१] मनोनिमित्तो बोध इत्यर्थः । श्रवणं श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेष:, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयत इति श्रुतं शब्दः, स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानम्, शब्दो हि श्रोतु: साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते। अवधानमवधि: इन्द्रियाद्यनपेक्षमात्मन: साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् । अथवा अवधि: मर्यादा, तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् । संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसां पर्याया: चिन्तनानुगुणा: परिणामाः, तेषु ज्ञानं मन:पर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति अवगच्छतीति मन:पर्यायमिति कर्मण्यण् (पा० ३।२।१), तच्च तद् ज्ञानं च मन:पर्यायज्ञानम् । केवलं संपूर्णज्ञेयविषयत्वात् संपूर्णम्, तच्च तद् ज्ञानं च केवलज्ञानमिति । अवग्रहादिभेदचिन्ता त्वेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनाम्न एव सकाशात् प्रतीयते, उपक्रमाद्यनुयोगद्वाराणामेवेहाभिधास्यमानत्वात् । प्रयोजनं तु प्रकरणकर्तृ-श्रोत्रो: प्रत्येकमनन्तर-परम्परभेदाच्चिन्तनीयम्, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रह: प्रयोजनम्, श्रोतुश्च प्रकरणार्थपरिज्ञानम्, परम्परं तु द्वयोरपि परमपदप्राप्ति:, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि- सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्ति: प्रतीतैव, श्रोताऽपि गुरुभ्य: प्रस्तुतप्रकरणार्थं विजानाति, तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयान्, उपादाय उपादेयान्, संप्राप्य प्रकर्षवच्चरणकरणम्, कृत्वाऽतिदुष्करतपश्चरणम्, अनुभूय विशदकेवलालोकत: सकलत्रिलोकीतलसाक्षात्करणम्, प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणम्, सकलमुक्तजनशरणं परमपदमधिगच्छतीति । सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव - वचनरूपापन्नं २. सम्बन्धोऽप्यु... एव । अयञ्च तर्कानुसारिणं प्रति, श्रद्धानुसारिणं प्रति तु गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि नैकेषु शास्त्रेषु प्रतिपादितो वर्तते। वस्तुतस्तु प्रेक्षावान् तर्कानुसारी वा भवतु, श्रद्धानुसारी वा, तस्य प्रवृत्त्यर्थं सर्वत्र द्वयोरपि सम्बन्धयोरावश्यकत्वमेव । तथाहि- सर्वज्ञोक्तं सर्वज्ञमूलमेव वा वचनं प्रमाणमित्यस्मद्दर्शने स्वीकृतम्, अत एव गणधरैर्गुम्फिता द्वादशाङ्ग्यपि सर्वज्ञतीर्थकृद्दत्तयानुज्ञयैव प्रमाणं भवति । अत एव सर्वेऽपि ग्रन्थकर्तारः स्वकीये ग्रन्थे सर्वज्ञमूलकत्वं प्रयत्नपूर्वं प्रस्थापयन्ति । स च प्रयत्न ईदृशो भवति-अस्माभिरस्मद्गुरुपादमूल एतच्छ्रुतं, तैस्तु स्वकीयगुरुपादमूले, तैरपि गुरुभिः स्वकीयगुरुपादमूले... इत्येवं गुरुपरम्परयाऽस्य ग्रन्थस्य मूलं सर्वज्ञ एवेति । अयमेव च गुरुपर्वक्रमलक्षणः सम्बन्धः। प्रस्थापितश्चायं सम्बन्धो Page #21 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २) तत्थ चत्तारि णाणाई ठप्पाई ठवणिज्जाइं, णो उद्दिस्संति णो समुद्दिस्संति णो अणुण्णविज्जंति, सुयणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्त | हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकाराणां समयः परिपालितो भवति, उक्तं च तै:- संबंध-ऽभिधेय-पओयणाई तह मंगलं च सत्थम्मि । ४ सीसपवित्तिनिमित्तं निव्विग्घत्थं च चिंतेजा || १ || ( ) इत्यलं विस्तरेण । यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किम् ? इत्याह- तत्थेत्यादि, तत्र तस्मिन् ज्ञानपञ्चके आभिनिबोधिकाऽवधि-मन: पर्याय- केवलाख्यानि चत्वारि ज्ञानानि ठप्पाइं ति स्थाप्यानि असंव्यवहार्याणि, व्यवहारनयो हि यदेव लोकस्योपकारे वर्त्तते तदेव संव्यवहार्यं मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्ति - प्रवृत्तिद्वारेण प्राय: श्रुतमेव साक्षादत्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणीति भावः । यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किम् ? इत्याह- ठवणिज्जाई ति तत: स्थापनीयानि एतानि तथाविधोपकाराभावतोग्रन्थस्य प्रमाणतां ख्यापयति । ख्यातायाञ्च प्रमाणतायामध्ययनाध्यापनप्रवृत्तिः प्रेक्षावताम् । इत्येवं प्रेक्षावत्प्रवृत्त्यर्थं गुरुपर्वक्रमलक्षणः सम्बन्ध आवश्यकः । न चैतावतैव प्रेक्षावन्तस्तद्ग्रन्थाध्ययनादौ प्रवर्तन्ते, प्रस्तुतग्रन्थवन्नैकेष्वन्येष्वपि ग्रन्थेषु गुरुपर्वक्रमलक्षणेन सम्बन्धेन प्रमाणतायाः ख्यापितत्वात् । ततश्च येषामर्थानां ज्ञानमुपेयं तेषामर्थानां वाचकः प्रतिपादक उपायभूत इति यावद्यो ग्रन्थः प्रतीयते तस्मिन् प्रवृत्तिर्भवति । इयञ्च प्रतीतिर्वाच्यवाचकभावापरपर्यायोपायोपेयभावसम्बन्धेन जायत इति स्पष्टमेवेति प्रेक्षावत्प्रवृत्त्यर्थमुपायोपेयलक्षणः सम्बन्धोऽप्यावश्यक इति । ३. गौणवृत्त्येति... अयमाशयः दानश्राद्धेन केनचिच्छ्रावकेण साधुमुद्दिश्यैव किञ्चिदुपस्कृतम् । अज्ञातोञ्छं चरन् कश्चित्तं व्यतिकरमजानानो गीतार्थः तद्गृहं भिक्षार्थं प्रविष्टः । निर्दम्भं श्रुतोपयोगं दत्तवान् स मुनिस्तं पिण्डं निर्दोषं मत्वा गृहीतवान् । वसतिमागत्य यथाविधि केवलिनं गुरुं तं पिण्डं दर्शितवान् । साधुमुद्दिश्यैव कृतोऽयं पिंड इति केवलज्ञानेन जानानोऽपि केवली तं पिंडं विशुद्धमेव व्यवहृतवान् श्रुतोपयोगेन तस्य विशुद्धत्वात् । सरःस्थितं जलं केवलाभोगेनाचित्तं जानानेनापि श्रीवीरेण तृषिता अपि साधवः पातुं नानुज्ञाताः शस्त्रानुपहततया श्रुतोपयोगेन तस्य सचित्तत्वव्यवहारात् । तथा च व्यवहारे श्रुतस्यैव बलवत्त्वं न तु केवलादेरिति तानि गौणवृत्त्या लोकोपकारीणीत्युक्तमत्र । ४. तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्त्विति । यद्वा मतिज्ञानादीनां स्थापनीयत्वेऽन्योऽप्यादानप्रदानविषयत्वाभावरूपो हेतुर्बोध्यः । तथाहि - शिष्यस्य यद्विषयकस्य ज्ञानस्यादानमिष्टं Page #22 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२] ऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देश-समुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि अमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति स्व-परस्वरूपप्रतिपादने श्रुतमेव समर्थम्, "स्वरूपकथनं चेदम्, अत: स्थाप्यानि अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किम्? इत्याह- अनुपयोगित्वात् स्थापनीयानि अनधिकृतानि, यत्रैव ह्युद्देश-समुद्देशा-ऽनुज्ञा: क्रियन्ते तत्रैवानुयोग: तद्द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानि इत्यतोऽत्रानधिकृतानि । अत्राह-अनुयोगो व्याख्यानम्, तच्च शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वम् ?, ननु समयचर्यानभिज्ञतासूचकमेवेदं वचः, यतो हन्त तत्रापि तज्ज्ञानप्रतिपादक: सूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति । अथवा स्थाप्यानि गुर्वनधीनत्वेनोद्देशाद्यविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकार्थों द्वावपि, इदमुक्तं भवति- अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नत्वाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानम्, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादय: प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरणकर्मक्षय-क्षयोपशमाभ्यां स्वत एव जायमानानि नोद्देशादिप्रक्रममपेक्षन्ते । यतश्चैवमत आह- नो उद्दिस्संतीत्यादि, नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायन्ते, तत्र इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव गुरोश्च प्रदानं तस्यैवोद्देशादयः प्रवर्तन्त इति तु मोक्षमार्गे स्थितानां स्थितिः। यथाऽऽचाराङ्गस्यादानप्रदाने यदेष्टे तदा तस्यैवोद्देशादयः क्रियन्ते, न सूत्रकृताङ्गादीनाम् । मत्यादीनां चतुर्णा ज्ञानानामादानं प्रदानं वा न केनचिदपि कर्तुं पार्यते, आदानप्रदानाविषयत्वात्तेषाम् । ततश्च तेषामुद्देशादीनां न कदाचिदप्यवसरः। अत एवोद्देशादीनपेक्ष्य मत्यादीनां सार्वदिकं स्थापनीयत्वमेव। ५. स्वरूपकथनं चेदमिति कोऽर्थः ? चत्तारि नाणाई ठप्पाइं ठवणिज्जाइंति सूत्रगतवाक्यखण्डेन मत्यादीनि चत्वारि ज्ञानान्युद्दिश्य स्थाप्यत्वस्य स्थापनीयत्वस्य च विधानं नाभिप्रेतम्, किन्तर्हि ? चत्वारि स्थाप्यानि ज्ञानानि स्थापनीयानीत्येवं केवलस्य स्थापनीयत्वस्यैव विधानं, रथाप्यत्वं तूद्देश्यकोटावेव चतुर्णां ज्ञानानां विशेषणत्वेन प्रविष्टम् । ततश्च प्रश्नः समुत्तिष्ठति “स्थाप्यत्वमिति यद्विशेषणं तत्किं व्यावर्तकं स्वरूपकथनं वेति" अस्य प्रश्नस्योत्तरं दत्तवान् वृत्तिकारः स्वरूपकथनं चेदमित्यनेन । चतुर्षु ज्ञानेष्वस्थाप्यत्वस्य कदाचिदप्यसम्भवाद् व्यावर्त्यस्याभाव एव । ततश्च विशेषणे व्यावर्तकत्वासम्भवात्स्वरूपदर्शकत्वमेवेति । Page #23 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं शिष्येण अहीनादिलक्षणोपेतेऽधीते गुरोर्निवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथा कृत्वा गुरोर्निवेदिते सम्यगिदं धारयाऽन्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा । सुयणाणस्सेत्यादि, श्रुतज्ञानस्योद्देश: समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्त्तते।। __ तत्रोद्देशादीनां त्रयाणां स्वरूपं संक्षेपत उक्तमपि विनेयानुग्रहार्थं किञ्चिद्विस्तरत उच्यतेतत्राऽऽचाराद्यङ्गस्य उत्तराध्ययनादिकालिकश्रुतस्कन्धस्य औपपातिकाद्युत्कालिकोपाङ्गाध्ययनस्य चायमुद्देशविधि:- इहाऽऽचाराङ्गाद्यन्यतरश्रुतमध्येतुमिच्छति यो विनेय: स: स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति- 'भगवन् ! अमुकं मम श्रुतमुद्दिशत' । गुरुरपि भणति- ‘इच्छामः' इति, ततो विनेयो वन्दनकं ददाति १ । ततो गुरुरुत्थाय चैत्यवन्दनं करोति, तत ऊर्ध्वस्थितो वामपार्कीकृतशिष्यो योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्छ्वासमानं कायोत्सर्गं करोति, चंदेसु निम्मलयरे'ति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः, तत: पारितकायोत्सर्ग: संपूर्णं चतुर्विंशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारं वारत्रयमुच्चार्य 'नाणं पञ्चविहं पण्णत्त'मित्यादि उद्देशनन्दी भणति, तदन्ते च ६. अहीनादिलक्षणोपेतेऽधीत इत्यादि । हीनाक्षरादिदोषोपेतं यथा स्यात्तथाऽधीतेऽपि सूत्रे यदि गुरुणा स्थिरपरिचितं कुर्विदमिति समुद्देशः क्रियते, तदा शिष्यस्य तथैव दोषोपेतं सूत्रं स्थिरपरिचितं भवति । ततश्चानुज्ञापि यदि दीयते गुरुणा तदा तेन शिष्येण स्वशिष्यपरंपरायै तथैव दोषोपेतस्य सूत्रस्य दीयमानत्वाद् दोषोपेतस्यैव सूत्रस्य परंपरेति सूत्रनाशाख्यो महान् दोषः स्यात्। तन्निवारणार्थमयं क्रमो मन्तव्यः। गुरूद्दिष्टं सूत्रं वाचनापृच्छनाख्यस्वाध्यायद्वयेनाहीनादिलक्षणोपेतं यथा स्यात्तथाऽध्येतव्यं शिष्येण । तथाऽधीते सूत्रे शिष्यो गुरुं निवेदयति। ततश्च गुरुः शिष्येणोच्चार्यमाणं सूत्रं शृणोति । अहीनादिलक्षणोपेतत्वं यदि प्रतीयते, तदा गुरुः स्थिरपरिचितं कुर्विदमिति समुद्दिशति । ततश्च परावर्तनाख्यस्वाध्यायेन शिष्यस्तत्सूत्रं तथैव स्थिरपरिचितं करोति। अहीनादिलक्षणोपेतं यथा स्यात्तथा स्थिरपरिचिते सूत्रे गुरुस्तस्य शिष्यस्य स्वशिष्यपरंपरायै तत्सूत्रदानमनुजानाति। तथा चाहीनादिलक्षणोपेतस्यैव सूत्रस्य परंपरेति न सूत्रनाशदोषः । ननु वाचनापृच्छनाख्यस्वाध्यायद्वयेनाध्ययनं, परावर्तनाख्यस्वाध्यायेन च स्थिरपरिचयः सूत्रस्योक्तो भवता, अनुप्रेक्षाधर्मकथाख्यस्वाध्यायद्वयेन तर्हि किं कर्तव्यं सूत्रस्येति चेत् ? न किञ्चित्, अनुयोगविषयत्वात्तयोः। ७. तत्रोद्देशादीनामिति-उद्देशादीनां त्रयाणामेवेदं स्वरूपं, न. त्वनुयोगस्यापि... तथा च ज्ञायतेऽनुयोगे कालग्रहणादिविधिर्नापेक्षितः। नन्वनुज्ञाऽनुयोगयोः कः प्रतिविशेष इति चेत् ? इदमिति गृहाण, अनुज्ञा सूत्रस्य भवत्यनुयोगस्त्वर्थस्येति । यदा सूत्रानुज्ञा (सूत्रदानस्यानुज्ञा) दीयते तदा तया सह तत्सूत्रस्य सामान्यार्थस्य दानस्य अनुज्ञा दत्तैव भवति । Page #24 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२] 'इदं पुन: प्रस्थापनं प्रतीत्य अस्य साधोरिदमङ्गममुं श्रुतस्कन्धम् इदमध्ययनं वा उद्दिशामि, क्षमाश्रमणानां हस्तेन सूत्रमर्थ: तदभयं च उद्दिष्टम्' इत्येवं वदति, क्षमाश्रमणानाम्' इत्यादि त्वात्मनोऽहङ्कारवर्जनार्थमभिधत्ते। ततो विनेय इच्छामी'ति भणित्वा वन्दनकं ददाति २ । तत उत्थितो ब्रवीति'संदिशत किं भणामि' इति, ततो गुरुर्वदति- वन्दित्वा प्रवेदय' इति, ततो विनेय ‘इच्छामि' इति भणित्वा वन्दनकं ददाति ३ । तत: पुनरुत्थितः प्रतिपादयति- ‘भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्तिम्', ततो गुरुः प्रत्युत्तरयति ‘योगं कुरु' इति, एवं सन्दिष्टो विनेय ‘इच्छामि' इति भणित्वा वन्दनकं ददाति ४, ततोऽत्रान्तरे नमस्कारमुच्चारयन्नसौ गुरुं प्रदक्षिणयति, तदन्ते च गुरोः पुरत: स्थित्वा पुनर्वदति- ‘भवद्भिर्ममामुकं श्रुतमुद्दिष्टम्, इच्छाम्यनुशास्तिम्', ततो गुरुराह- ‘योगं कुरु' इति, एवं च संदिष्ट 'इच्छामि' इति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरु-शिष्ययोर्वचन-प्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः, एतानि च चतुर्थवन्दकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति । ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, निषण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति - ‘युष्माकं प्रवेदितम्, संदिशत, साधूनां प्रवेदयामि', ततो गुरुराह - ‘प्रवेदय' इति, तत ‘इच्छामि' इति भणित्वा विनेयो वन्दनकं ददाति ५ । प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिनमस्कार: पुनर्वन्दनकं ददाति ६ । पुनरुत्थितो वदति 'युष्माकं प्रवेदितम्, साधूनां प्रवेदितम्, सन्दिशत करोमि कायोत्सर्गम्', ततो गुरुरनुजानीतेचालनाप्रत्यवस्थानादिपूर्व प्रसङ्गानुप्रसङ्गतो विस्तरपूर्वं यदनुयोगदानं तस्य त्वनुज्ञा सर्वस्याप्यनुयोगस्यैकयैव हेलया पन्न्यासपदप्रदानावसरे दीयते । पन्न्यासपदप्रदानस्य यो विधिः स एवानुयोगानुज्ञाविधिज्ञेयः । नन्वेकयैव हेलयेति किमर्थम् ? यथा सम्यगधीताचाराङ्गसूत्रस्य साधोस्तत्सूत्रदानानुज्ञापि क्रियते, तथा सम्यगधीततदनुयोगस्य साधोस्तदनुयोगदानानुज्ञाऽपि कर्तव्यैवेति चेत् ? न, तदनुयोगदानसामर्थ्याभावात् । अयम्भावः अनधीतसूत्रकृताङ्गादिसूत्रोऽपि स्थिरपरिचिताचाराङ्गसूत्रः साधुराचाराङ्गसूत्रदाने समर्थो भवत्येव, सूत्रकृताङ्गादिसूत्रलेशस्यापि तत्रानपेक्षणात् । परन्तु सम्यगधीताचाराङ्गानुयोगोऽपि साधुः सूत्रकृताङ्गाद्यनुयोगाध्ययनं विनाऽऽचाराङ्गसूत्रस्याप्यनुयोगदाने समर्थो न भवत्येव, सूत्रकृताङ्गाद्यनुयोगापेक्षणात्। तथाहि- आचाराङ्गे क्वचित् किञ्चिद्यदुक्तमापातदृष्ट्या तद्विपरीतमेव क्वचित् सूत्रकृताङ्गादिसूत्रे कथितं स्यादिति नासम्भवि । ततश्च गृहीतसूत्रकृताङ्गाद्यनुयोगस्यैव साधोः 'आचाराङ्गसूत्र एवमुक्तं, सूत्रकृताङ्गादिषु त्वन्यथा, तथा च कथं न मिथो विरोधः ?' इति प्रश्नात्मिका चालनोद्भवति, 'आचाराङ्गे यदुक्तं तन्निश्चयनयाभिप्रायेण, अन्यत्र तु यदुक्तं तद्व्यवहारनयाभिप्रायेण... यद्वाऽऽचाराङ्गोक्तिरुत्सर्गविषयिणी, अन्यसूत्रोक्तिस्त्वपवादविषयिणी इत्यादि प्रत्यवस्थानं च स्फुरति । Page #25 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं 'कुरु' इति, तत: पुनरपि वन्दनकं ददाति ७ । एतानि सप्त छोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति, तत: प्रत्युत्थितोऽभिधत्ते- 'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छसितात्' इत्यादि यावद् 'व्युत्सृजामि' इति, तत: कायोत्सर्गस्थित: सप्तविंशतिमुच्छ्वासांश्चिन्तयति, सागरवरगम्भीरा इति यावच्चतुर्विंशतिस्तवं चिन्तयति इत्यर्थः, उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए (जीतक० गा० २२) इति वचनात्, तत: पारितकायोत्सर्ग: संपूर्णं चतुर्विंशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वाद् गुरो: छोभवन्दनकं ददाति, तच्च न श्रुतप्रत्ययम्, किं तर्हि ?, श्रुतदातृत्वादिना गुरु: परमोपकारीति तद्विनयप्रतिपत्तिनिमित्तमिति । अङ्गादिसमुद्देशेऽप्येवमेव विधिर्वक्तव्य:, नवरं पूर्वं प्रवेदिते ‘योगं कुरु' इत्युक्तम्, अत्र तु स्थिरपरिचितं कुरु' इति वदति, योगोत्क्षेपकायोत्सर्गो नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्च न क्रियते, शेष: सप्तवन्दनकादिको विधिस्तथैव । अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्ज: सर्वोऽप्युद्देशविधिवद्वक्तव्यः, नवरं प्रवेदिते गुरुर्वदति- 'सम्यग् धारयान्येषां च प्रवेदय', अन्यानपि पाठयेत्यर्थः। आवश्यकादिषु तन्दुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापन योगोत्क्षेपकायोत्सर्गश्च न क्रियते, एवं सामायिकाद्यध्ययनेषूद्देशकेषु च चैत्यवन्दन-प्रदक्षिणात्रयादिविशेषक्रियारहित: सप्तवन्दनकप्रदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ता: समुपलभ्यन्ते, न च तथोपलभ्य सम्मोहः कर्त्तव्यः, विचित्रत्वात् सामाचारीणामिति। अनधीतसूत्रकृताङ्गाद्यनुयोगस्य तु चालनाप्रत्यवस्थानासम्भवात् सूत्रस्योपदेशपदप्रसिद्धपदार्थाख्यो यो यथाश्रुतोऽर्थस्तत्कथनसम्भवेऽपि वाक्यार्थादिकथनासम्भव एव, ततश्चानुयोगस्य न्यूनतैव स्यात्। किञ्च निश्चयव्यवहारनयादिविनियोजनासम्भवात् श्रोतुस्तद्विषयकस्य भ्रमस्यापि सम्भवः स्यादेवेति न तस्यानुयोगदानानुज्ञा । अत एवाधीतसूत्रकृताङ्गाद्यनुयोगस्यापि यस्य साधोस्तादृक्प्रतिभाशून्यत्वेन पूर्वापरानुसन्धानासम्भवात् न चालनादिस्फुरणं, तस्यापि नानुयोगदानानुज्ञा । केवलं तादृक्प्रतिभावतः, अत एव चाचार्यपदप्रस्थानार्हस्यैव सर्वानुयोगाध्ययनानन्तरमेकयैव हेलया तदनुज्ञा दीयते। 'प्रतिपद्य चरणधर्म, अधीत्य विधिवत्सूत्रम्, समधिगम्य तत्परमार्थम्, विज्ञाय स्व-परसमयरहस्यं, तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यम्' (पृ.१) इत्युक्तवद्भिर्वृत्तिकारैः श्रीमद्भिर्हेमचन्द्रसूरिभिरप्येतत्सूचितमेव । तदनुज्ञानन्तरं स साधुरनुयोगाचार्यः कथ्यते । यद्यपि साम्प्रतं पन्न्यासपदानारूढा अप्युदूढकल्पसूत्रयोगा महात्मानः पर्युषणापर्वणि कल्पसूत्रव्याख्यानं कुर्वन्तीति दृश्यते । तथाऽऽवश्यकादेरनुयोगं कुर्वाणा अपि दृश्यन्ते । अतोऽनुयोगदाने समर्थस्य शिष्यस्य पन्न्यासपदात्प्रागपि गृहीतानुयोगस्य तत्तत्सूत्रस्यानुयोगकरणमनुज्ञातमेवेति मन्तव्यमित्यपि केचित्। तेषां च मते तत्तत्सूत्रानुज्ञाप्रदानावसर Page #26 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२] 'इदानीमनुयोगविधिरुच्यते तत्रानुयोगो वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्याचार्यपद - स्थापनायोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधिः - प्रशस्तेषु तिथि - नक्षत्र - करण - - मुहूर्तेषु प्रशस्ते च जिनायतनादौ क्षेत्रे भुवं प्रमार्ण्य एका गुरूणामेका त्वक्षाणामिति निषद्याद्वयं क्रियते, ततः प्राभातिकका प्रवेदिते निषद्यानिषण्णस्य गुरोश्चोलपट्टक- रजोहरण-मुखवस्त्रिकामात्रोपकरणो विनेयः पुरतोऽवतिष्ठते, ततो द्वावपि गुरुशिष्यौ मुखवस्त्रिकां प्रत्युपेक्षयतः, तया च समग्रं शरीरं प्रत्युपेक्षयतः, ततो विनेयो गुरुणा सह द्वादशावर्त्तवन्दनकं दत्त्वा वदति- 'इच्छाकारेण संदिशत, स्वाध्यायं प्रस्थापयामि, ततश्च द्वावपि स्वाध्यायं प्रस्थापयत:, ततः प्रस्थापिते स्वाध्याये गुरुर्निषीदति, ततः शिष्यो द्वादशावर्त्तवन्दनकं ददाति, ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कायोत्सर्गं करोति, ततो गुरुर्निषीदति, ततस्तं शिष्यो द्वादशावर्त्तवन्दनकेन वन्दते, ततो गुरुरक्षानभिमन्त्रयोत्तिष्ठति, उत्थाय च निषद्यां पुरतः कृत्वा वामपार्श्वीकृतशिष्यश्चैत्यवन्दनं करोति, ततः समाप्ते चैत्यवन्दने पुनः गुरुरूर्ध्वस्थित एव नमस्कारपूर्व्वं नन्दिमुच्चारयति, तदन्ते चाभिधत्ते - 'अस्य साधोरनुयोगमनुजानामि, क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैरनुज्ञात:' । ततो विनेयश्छोभवन्दनकेन वन्दते, उत्थितश्च ब्रवीति - 'संदिशत एवानुयोगदानमप्युपलक्षणादनुज्ञातमेवेति मन्तव्यम् । न चैवं 'इच्छकारी भगवन् ! तुम्हे अम्हं सव्वं अणुओगं अणुजाणह' इति शिष्यवचनस्य 'अणुजाणामि' इति गुरुत्तरस्य चानुपपत्तिः, तत्तत्सूत्रानुयोगस्य पूर्वमेवानुज्ञातत्वादिति वाच्यं, 'सर्वान् अनुयोगान् अनुजानीत' इत्यादेः 'सर्वान् अवशिष्टान् अनुयोगान् अनुजानीत' इत्याद्यर्थकत्वकल्पनादिति । यद्वा पूर्वमुपलक्षणादेव तदनुज्ञा दत्ता, साक्षादक्षरैस्तु न दत्ता, अतस्तद्दानार्थं 'सर्वान् अनुयोगान्..' इत्युच्यते । ततश्च यथाश्रुतार्थकरणेऽपि न दोष इति । ततश्च पन्यासपदप्रदानावसर एकयैव हेलया सर्वानुयोगानुज्ञेति पूर्वकालीना सामाचारी, तत्तत्सूत्रानुज्ञाऽवसरे निर्युक्त्यादिकमनुसृत्य तत्तत्सूत्रानुयोगकरणानुज्ञेति तु सम्प्रति प्रवर्तमाना सामाचारीति कल्पने दोषाभाव इत्यस्माकमाभाति । ८. इदानीमनुयोगविधिरुच्यत इति । नन्वनुयोगविधिरिति कोऽर्थः ? अनुयोगानुज्ञाविधिरिति, न त्वनुयोगग्रहणविधिरिति, तस्य मज्जणणिसेज्जअक्खा इत्यादि क्रमेण प्रसिद्धत्वाद्, अधीतसूत्राणां सर्वेषां शिष्याणां तत्राधिकाराद्, अत्र त्वाचार्यपदप्रस्थानयोग्यस्यैव शिष्यस्याधिकारादिति । तथा चेदमपि ज्ञायते यद्वाचनादिक्रमेण स्थिरपरिचितसूत्राणां सर्वेषां शिष्याणां यथा सूत्रदानेऽनुयोगाऽऽदाने चानुज्ञा, न तथा गृहीतानुयोगानां सर्वेषां शिष्याणामनुयोगदानेऽनुज्ञा, किन्तर्हि ? आचार्यपदप्रस्थानयोग्यस्यैव शिष्यस्य तदनुज्ञेति । ननु सूत्रादानप्रदानकाले यथा कालग्रहणादिविधिस्तथानुयोगादानप्रदानकाले कोऽपि विधिर्भवति न वेति चेत् ? भवत्येव । श्रीकल्पसूत्रस्य कल्पलताख्यायामन्तर्वाचनायां महोपाध्यायश्रीगुणविजयगणिना स विधिरेवं कथितः । Page #27 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ३) जइ सुयणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं किं भणामि ? ' ततो गुरुराह - 'वन्दित्वा प्रवेदय', ततो वन्दते शिष्यः, उत्थितस्तु ब्रवीति- 'भवद्भिर्ममानुयोगोऽनुज्ञातः', इच्छाम्यनुशास्तिम्' । ततो गुरुर्वदति - 'सम्यग् धारय अन्येषां च प्रवेदय', अन्येषामपि व्याख्यानं कुर्व्वित्यर्थः । ततो वन्दतेऽसौ वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणा च ‘भवद्भिर्ममानुयोगोऽनुज्ञातः' इत्याद्युक्तिप्रत्युक्तिर्द्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयापि तथैव, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, तत्पुरः स्थितश्च विनेयो वदति - 'युष्माकं प्रवेदितम्, सन्दिशत साधूनां प्रवेदयामि' इत्यादि, शेषमुद्देशविधिवद्वक्तव्यं यावदनुयोगानुज्ञानिमित्तं कायोत्सर्गं करोति, तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति, तदन्ते च वन्दते, पुनः प्रदक्षिणयति, एवं तिम्रो वारा:, ततो गुरोर्दक्षिणभुजासन्ने निषीदति, ततो गुरुपारम्पर्यागतानि मन्त्रपदानि गुरुः तिम्रो वाराः शिष्यस्य कथयति, तदनन्तरं यथोत्तरं प्रवर्द्धमानाः प्रवरगन्धमिश्रास्तिस्रोऽक्षमुष्टीस्तस्मै ददाति, ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य यथासन्निहितसाधुभिः सह तस्मै वन्दनकं ददाति, ततो विनेयो स्थि नाणं पंचविहं पण्णत्तमित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति, तदन्ते च साधवो वन्दनकं ददति, ततः शिष्यो निषद्यात उत्तिष्ठति, गुरुरेव पुनस्तत्र निषीदति, ततो द्वावप्यनुयोगविसर्गार्थं कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्गं कुरुत:, ततः शिष्यो निरुद्धं प्रवेदयते, निरुद्धं करोतीत्यर्थः । एवं श्रुतस्यैव उद्देशादयः प्रवर्त्तन्ते, न शेषज्ञानानाम्, अत्र चानुयोगेनैवाधिकारो न शेषैः, अनुयोगद्वारविचारस्यैवेह प्रक्रान्तत्वाद् । १० " अत्र यथाभिहितमुपजीव्याह शिष्यः 'यदीत्यादि, यद्युक्तक्रमेण श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्त्तते, तर्हि किमसावङ्गप्रविष्टस्य प्रवर्त्तते, उताङ्गबाह्यस्येति ?, तत्राङ्गेषु बृहत्कल्पदिने (पर्युषणाख्याष्टाह्निकायाश्चतुर्थदिने) प्रातः सम्यग् वसतिः शोधनीया, तदनुगुरूणां स्थापनागुरूणां वा पुरः प्रवेदनीया, पश्चात् श्रीवत्साकारधारिस्थापनाचार्यनवकं वा स्थापनाचार्यपञ्चकं वा महत्यासने कम्बल्यादौ वा संस्थाप्य तत्पुरोऽनुयोगः प्रारभ्यते । तद्यथा ईरियापथिकी प्रतिक्रम्यते, ततः क्षमाश्रमणेन मुखवस्त्रिका प्रतिलिख्यते, ततो वन्दनद्विकं दीयते, तत इच्छाकारेण संदिसह भगवन् ! अनुयोग आढवुं ? इच्छं पुनः क्षमाश्रमणेन, इच्छाकारेण संदिसह भगवन् ! अनुयोग आढावणी काउस्सग्ग करूं ? इच्छं, अनुयोग आढावणी करेमि काउस्सग्गमित्यादिना पाठेन नमस्कारेण कायोत्सर्गः (अष्टोच्छ्वासमानः कायोत्सर्गः क्रियते) पारयित्वा च प्रगटनमस्कारकथनेनाविधेर्मिथ्यादुष्कृतं दीयते चेत्यनुयोगः प्रभाते दिनपञ्चके यावत्प्रत्यहं गृह्यते सन्ध्यायां व्याख्यानानन्तरं च दिवसचरिमप्रत्याख्यानं विधाय पूर्वविधिनैव प्रतिक्रमणात् प्राक् इच्छाकारेण संदिसह भगवन् अनुयोग पडिक्कमुं ? इच्छं, पुनः क्षमाश्रमणेन इच्छाकारेण संदिसह भगवन् ! अनुयोग पडिक्कमावणी काउस्सग्ग करूं ? इत्यादिना तेनैव विधिनाऽनुयोगः प्रतिक्रम्यतेऽविधेर्मिथ्यादुष्कृतं च ( दीयते) इति । Page #28 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०३] ११ अंगपविट्ठस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तड़ ? अंगबाहिरस्स उद्देसो समुद्देस अणुण्णा अणुओगो य पवत्तइ ? अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्त, अंगबाहिरस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । इमं पुण पट्टवणं पडुच्च अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । (सू० ४) जइ अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओग प्रविष्टम् अन्तर्गतमङ्गप्रविष्टं श्रुतम् आचारादि, तद्वाह्यं तु उत्तराध्ययनादि, अत्र गुरुर्निर्वचनमाहअंगपविट्ठस्स वीत्यादि, अपिशब्दौ परस्परसमुच्चयार्थी, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्त्तते, तद्बाह्यस्यापि, इदं पुन: प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्य आश्रित्याङ्गबाह्यस्य प्रवर्त्तते नेतरस्य आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः । अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह- जइ अंगबाहिरस्सेत्यादि, यद्यङ्गबाह्यस्योद्देशादिः तर्हि किमसौ कालिकस्य प्रवर्त्तते उत्कालिकस्य वा ? द्विधाऽप्यङ्गबाह्यस्य संभवादिति भावः, तत्र ९दिवस - निशा प्रथम - चरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम् उत्तराध्ययनादि, यत्तु कालवेलामात्रवर्जं शेषकालानियमेन पठ्यते तदुत्कालिकम् आवश्यकादि । अत्र गुरुः प्रतिवचनमाह- कालियस्स वीत्यादि, कालिकस्याप्यसौ प्रवर्त्तते, उत्कालिकस्यापि इदं ९. दिवसनिशाप्रथम...इत्यादि । सूत्रापेक्ष एवायं नियमो ज्ञेयः, न त्वनुयोगापेक्षोऽपि तस्य द्वितीय-तृतीयपौरुष्योरप्यनुज्ञानात् । नन्वनुयोगे प्रवर्तमानेऽन्तराऽन्तरा सूत्रमपि पठनीयं स्यादेव, सूत्रेण विनाऽनुयोगस्यासम्भवात् । तथा च सूत्रापेक्षोऽपि स नियमो ध्वस्त एवेति चेत् ? न, केवलस्य सूत्रस्य वाचनादावेव तस्य नियमस्य चरितार्थत्वात् । अनुयोगे त्वर्थस्यैव प्राधान्यात् क्वचित् किञ्चित् सूत्रपाठेऽपि न दोषः, गौणत्वात् । अत एव न तत्र कालग्रहणस्वाध्यायप्रस्थापनादिविधिरपि क्रियते । इत्थञ्च कालग्रहणादिविधेः सूत्रसंलग्नत्वात्, कालिकसूत्रस्य च द्वितीयतृतीयपौरुष्योरननुज्ञानान्नार्धरात्रिकं (अधरत्ति) कालग्रहणं कालिकसूत्रयोगोद्वहने शास्त्रसम्मतमिति ज्ञायते । साम्प्रतं तु तदपि कदाचिद् गृह्यमाणं दृश्यत इति ध्येयम् । ननु कालग्रहणादिविधिः सूत्रवाचनादावेवापेक्षते, न त्वनुयोगवाचनादौ । दिवसनिशाप्रथमचरमपौरुषीलक्षणकालनियमोऽपि कालिकसूत्रवाचनादावेवापेक्षितः, न तु तदनुयोगवाचनादौ । ततश्चास्वाध्यायविचारोऽपि सूत्रवाचनादावेव कर्तव्यः स्यान्नत्वनुयोगवाचनादाविति चेत् ? सत्यं, उच्चार्यमाणाक्षरश्रवणस्खलितदेवकृतच्छलनादिरूपो यो दोषोऽस्वाध्यायकाले स्वाध्यायकरण Page #29 -------------------------------------------------------------------------- ________________ १२ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटप्पणीसमेतं पवत्तइ, उक्कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । इमं पुण पट्टणं पडुच्च उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तर | ( सू० ५) जइ उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तड़, किं आवस्सस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? आवस्सगवइरित्तस्स उद्देस सो अण्णा अणुओगो य पवत्तइ ? आवस्सस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्त, आवस्सगवइरित्तस्स वि उद्देसो समुद्देसो अणुण्णा अणुयोगो य पवत्त । इमं पुण पट्टवणं पडुच्च आवस्सगस्स अणुओगो । पुन: प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्य उत्कालिकस्यासौ मन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम् । उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति - जइ उक्कालियस्से - त्यादि, यद्युत्कालिकस्योद्देशादिस्तत् किमावश्यकस्यायं प्रवर्त्तते उताऽऽवश्यक - व्यतिरिक्तस्य ?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः । तत्र श्रमणैः श्रावकैश्चोभयसन्ध्यमवश्यं करणादावश्यकं सामायिकादिषडध्ययनकलाप:, तस्मात्तु व्यतिरिक्तं भिन्नं दशवैकालिकादि, गुरुराह - आवस्सगस्स वीत्यादि, द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किन्त्विदं प्रकृतं प्रस्थापनं प्रारम्भ प्रतीत्यावश्यकस्यानुयोगो नेतरस्य सकलसामाचारीमूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्, उद्देश-समुद्देशा -ऽनुज्ञास्त्वावश्यकस्य प्रवर्त्तमाना अप्यत्र नाधिकृताः, अनुयोगावसरत्वात्, अतस्तत्परिहारेणोक्तम् - अणुओगो त्ति, अयमत्र भावार्थ:- अनुयोगस्य प्रक्रान्तत्वात् तद्वक्तव्यताप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथा " स्योच्यते तस्य सूत्रस्वाध्याय एव सम्भवात्, गणधरादिसन्दृब्धसूत्राणामेव मन्त्राक्षरगर्भितत्वात्, न तु निर्युक्ति-भाष्य-चूर्णि-वृत्तिलक्षणानुयोगस्वाध्याये, निर्युक्त्यादीनां तदगर्भितत्वात्, अत एव ओघनिर्युक्तिवृत्तौ (२०४ ) - जइ रत्तिं आगया ताहे कालं न गिण्हंति, निज्जुत्तीओ संगहणीओ य सणिअं गुणंति इत्युक्तम् । कियदन्तरे च जइ पुण कालभूमी पडिलेहिआ ताहे कालं गिण्हंति, यदि सुद्धो कालो, करेंति सज्झायं, अह न सुद्धो, न पडिलेहिआ वा वसही तानिज्जुत्तीओ गुणिति इत्युक्तम् । तथा, कल्पसूत्रे वाच्यमाने पार्श्वेऽस्वाध्यायो भवेत्तदपनयनं च कर्तुं न शक्यते तदा तद्वाचनं शुद्धयति न वेति प्रश्नोऽत्रोत्तरं पार्श्वेऽस्वाध्यायो भवति तथाप्यवश्यकरणीयत्वात्कल्पसूत्रवाचनं शुद्ध्यतीति ।। सेनप्रश्न-तृतीयोल्लासे १८९ तमः प्रश्नः ।। एतद्वचनमनुसृत्यैव सकलागमरहस्यवेदिभिः श्रीमद्दानसूरिभिः गुर्जरभाषानिबद्धे विविधप्रश्नोत्तरग्रन्थे द्वितीये खण्डे (प्रश्न- १६१) कल्पसूत्रवाचनस्यावश्यकरणीयतया तत्र सूर्यग्रहणनिमित्त Page #30 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५] निक्खेवेगट्ठ निरुत्त विहि पवित्ती य केण वा कस्स ? । तद्दार भेय लक्खण तदरिहपरिसा य सुत्तत्थो ।।१।। (कल्पभा० १४९, दशवै०नि० ५) अस्या विनेयानुग्रहार्थं व्याख्या- इहानुयोगस्य निक्षेपो नाम-स्थापनादिको वक्तव्य: १ । तथाऽनुयोगस्यैकार्थिकानि वक्तव्यानि, यदाहअणुओगो य निओगो भास विभासा य वत्तियं चेव। एते अणुओगस्स य नामा एगट्टिया पंच ॥१।। (आवश्यकनि० १३१, कल्पभा० १८७) २। तथाऽनुयोगस्य निरुक्तं वक्तव्यम्, तद्यथा- स्वाभिधायकसूत्रेण सहार्थस्य अनुनियत: अनुकूलो वा योग: अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्य: प्रतिपादनमनुयोग:, सूत्रार्थकथनमित्यर्थः, अथवा एकस्यापि सूत्रस्यानन्तोऽर्थ इत्यर्थो महान्, सूत्रं त्वणु, ततश्चाणुना सूत्रेण सहार्थस्य योगो अणुयोग:, तदुक्तम् - निययणुकूलो जोगो सुत्तस्सऽत्थेण जो य अणुयोगो। सुत्तं च अणुं तेणं जोगो अत्थस्स अणुओगो ॥१॥ ( ) ३ । तथाऽनुयोगस्य विधिर्वक्तव्यः, यथा प्रथमं सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि निर्युक्त्यर्थकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागत: सर्वोऽप्यर्थो वाच्यः, तदुक्तम् - सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसतो भणितो । तइओ य निरवसेसो एस विही होइ अणुओगे ।।१।। (आवश्यकनि० २४) इत्याद्यन्योऽपि अत्र विधिर्वाच्यो, दिङ्मात्रत्वादस्येति ४।। तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथा वाच्यम्, तत्रोद्यमी सूरिरुद्यमिन: शिष्या: १, उद्यमी सूरिरनुद्यमिन: शिष्या: २, अनुद्यमी सूरिरुद्यमिन: शिष्या: ३, अनुद्यमी सूरिरनुद्यमिन: शिष्या: ४ इति चतुर्भङ्गी, अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीय-तृतीययोस्तु काचित् कथञ्चिद्भवत्यपि ५। तथानुयोग: केन कर्त्तव्य इति तद्योग्य: कर्ताऽभिधानीयो, यदाहकस्यास्वाध्यायस्य बाधकत्वाभावः कथितः। एते च प्रश्नोत्तरे यदि केवलसूत्रविषयिण्येव मन्येयातां, तदाऽनुयोगवाचनादावस्वाध्यायाभावः सिध्येदेव । तथाप्येतन्निश्चयस्तु श्रमणसचेनैव कर्तव्यः, साम्प्रतमस्वाध्यायकाले निर्युक्त्यादिस्वाध्यायवर्जनस्यापि प्रायः सर्वत्र दृश्यमानत्वात् । अत्रोक्तयोः प्रश्नोत्तरयोाख्यानविषयत्वसम्भावनाच्च। सूत्रवाचनेन सह व्याख्यानस्यापि क्रियमाणत्वात्, व्याख्याने च क्रियमाणे तस्यैव प्राधान्यात्। ततश्च कल्पसूत्रव्याख्यानेऽप्यस्वाध्यायविचारस्य कर्तव्यत्वसिद्धेरनुयोगवाचनादावपि तस्य सिध्यमानत्वादिति । Page #31 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं देसकुलजातिरूवी संघयण-धिईजुओ अणासंसी। अविकंथणो अमाई थिरपरिवाडी गहियवक्को ।।१।। 'थिरपरिवाडि'त्ति अविस्मृतसूत्रः। जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासण्णू ।।२।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू । आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो ।।३।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥४।। (कल्पभा० २४१-२४४) सिवो त्ति मन्त्रादिसामर्थ्यादुपशमितोपद्रवः, युक्त: उचित: प्रवचनसारं परिकथयितुम् ६। तथा अयमनुयोग: कस्य शास्त्रस्यैवंभूतेन गुरुणा कर्त्तव्य इत्यपि वाच्यम् ७ । तथा तद्दारत्ति तस्य अनुयोगस्य द्वाराणि उपक्रमादीन्यत्रैव वक्ष्यमाणस्वरूपाणि वाच्यानि ८। तथा भेदत्ति तेषामेव द्वाराणामानुपूर्वी-नाम-प्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्य: ९। तथाऽनुयोगस्य लक्षणं वाच्यम्, यदाह - संघिया य पदं चेव, पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१।। (कल्पभा० ३०२) पसिद्धित्ति चालनायां सत्यां प्रसिद्धिः समाधानम्, 'विद्धि'त्ति जानीहि । व्याख्येयसूत्रस्य वा अलियमुवघायजणयं (कल्पभा० २७८-२८१, आवश्यकनि० ८८१-८८४) इत्यादिद्वात्रिंशद्दोषरहितत्वादिकं लक्षणमत्र वक्तव्यम् १० । तथा तस्यैव अनुयोगस्य अर्हा योग्या परिषद्वक्तव्या, सा च सामान्यतस्त्रिधा भवति, तद्यथाजाणंतिया अजाणंतिया य तह दुब्वियड्डिया चेव । तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं ॥१॥ गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमएसु । सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ।।२।। खीरमिव रायहंसा जे घुटुंती गुणे गुणसमिद्धा । दोसे वि य छड्डेत्ता(न्ता ?) ते वसभा धीरपुरिसत्ति ।।३।। इति ज्ञायकपरिषत् । जे हुंति पगइमुद्धा मिगछावग-सीह-कुक्कुडगभूया । रयणमिव असंठविया सुहसण्णप्पा गुणसमिद्धा ॥४॥ (कल्पभा० ३६४-३६७) Page #32 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०६] (सू०६) जइ आवस्सयस्स अणुओगो आवस्सयण्णं किमंगं, अंगाइं? सुयक्खंधो, छावगशब्दः सर्वत्र संबध्यते, ततो मृग-सिंह-कुर्कुटशावो लघु मृगाद्यपत्यम्, तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता, सुहसण्णप्प त्ति सुखप्रज्ञापनीया। जा खलु अभाविया कुस्सुईहिं न य ससमए गहियसारा ।। अकिलेसकरा सा खलु वइरं छक्कोडिसुद्धं व ।।५।। (कल्पभा० ३६८) षट्कोणशुद्धं वज्रमिव हीरक इव विशुद्धा या सा खलु ‘अज्ञायकपरिषत्' इति वाक्यशेष:। इदानीं दुर्विदग्धपरिषदुच्यते - न य कत्थवि निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थिव्व वायपुण्णो फुट्टइ गामिल्लगवियड्ढो ।।६।। [कल्पभा० ३७१] किंचिम्मत्तग्गाही १ पल्लवगाही य २ तुरियगाही य ३ । दुविड्डिया उ एसा भणइ तिविहा इमा परिसा ।। [कल्पभा० ३६९ ] अत्राद्यपरिषद्वयमनुयोगार्हम्, तृतीया त्वयोग्येति ११ । एतत् सर्वमभिधाय तत: सूत्रार्थो वक्तव्य: १२ इति लेशतो व्याख्यातेयं गाथा। विस्तरार्थिना तु कल्पपीठिकाऽन्वेषणीयेति । एवं चानुयोगस्य द्वादश द्वाराणि वक्तव्यानि भवन्ति । तत्र शेषद्वारोपलक्षणार्थं कस्य शास्त्रस्यायमनुयोग इति सप्तमं द्वारं चेतसि निधाय जइ सुयनाणस्स उद्देसो समुद्देसो इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता- इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग इति। पुनरप्याह विनेय:- जइ आवस्सगस्सेत्यादि, यद्यावश्यकस्य प्रस्तुतोऽनुयोग:, तर्हि आवश्यक १०. आवस्सयण्णं किमंगं ? इत्यादि । ननु श्रुतमङ्गरूपं भवति, यद्वाऽङ्गकलापरूपं भवति, एवं श्रुतस्कन्धरूपं, श्रुतस्कन्धकलापरूपं, अध्ययनरूपं, अध्ययनकलापरूपं, उद्देशकरूपं उद्देशककलापरूपं वा भवति। ततश्च श्रुतस्यैतेभ्योऽष्टरूपेभ्यो विवक्षितं शास्त्रं किंस्वरूपमिति निर्णयार्थमेते प्रश्ना इति ज्ञायते। परंतु त्रिषष्टिशलाकापुरुषचरित्रादीनां शास्त्राणां पर्वसर्गकलापात्मकत्वात् पर्व वा ? पर्वाणि वा ? सर्गो वा सर्गा वा ? इत्यादिप्रश्ना अपि किं न समुद्भाविताः ? पर्वादीनामपि श्रुतरूपत्वादिति चेत् ? येषामुद्देशादयः प्रवर्तन्ते तेषामेवानुयोगस्य प्रस्तुतत्वात्ते प्रश्ना न समुद्भाविता इति गृहाण। ततश्च नन्दीसूत्रोक्तानामङ्गप्रविष्टादीनामेव शास्त्राणां यत उद्देशादयो योगोद्वहनं च प्रवर्तन्ते नान्येषां शास्त्राणामतस्तेषामेवानुयोगस्य प्रस्तुतत्वं, तेषामेव च श्रुतज्ञानत्वेनात्र विवक्षा। तेषां चाङ्गाद्यष्टस्वरूपत्वादष्टावेव प्रश्ना अत्र समुद्भाविता इति ज्ञायते। ननु तर्हि पूर्वं पूर्वाणि वा ? प्राभृतं प्राभृतानि वा? प्राभृतप्राभृतं प्राभृत-प्राभृतानि वा ? इति प्रश्नाः किमर्थं न समुद्भाविता? Page #33 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सुयक्खंधा ? अज्झयणं, अज्झयणाई ? उद्देसगो, उद्देसगा ? आवस्सयण्णं णो अंगं, णो अंगाई, सुयक्खंधो, णो सुयक्खंधा, णो अज्झयणं, अज्झयणाई, णो उद्देसगो, णो उद्देसगा। णमिति वाक्यालङ्कारे, किमिति परिप्रश्ने, किमेकं द्वादशाङ्गान्तर्गतमङ्गमिदम् उत बहून्यङ्गानि, अथैक: श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ प्रश्ना: । तत्र श्रुतस्कन्ध: अध्ययनानि चेदमिति प्रतिपत्तव्यम्, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट् प्रश्ना अनादेया:, अनङ्गादिरूपत्वादिति, एतदेवाह-आवस्सयण्णमित्यादि। ___ अत्राह- नन्वावश्यकं किमङ्गमङ्गानीत्येतत् प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गबाटोत्कालिकक्रमेणानन्तरमेवोक्तत्वादिति, अत्रोच्यते - यत्तावदुक्तं 'नन्द्यध्ययन एवे'त्यादि तदयुक्तम्, यतो नावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति नियमोऽस्ति, कदाचिदनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहाङ्गानङ्गप्रविष्टचिन्तासूत्रोपन्यासेनेति । मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येय इति चेत्, न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति । यच्चोक्तम् ‘अत्राप्यङ्गबाटोत्कालिकक्रमेणे'त्यादि तत्रापि समुदितानामुद्देश-समुद्देशाऽनुज्ञाऽनुयोगानां प्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावे त्विदमेवोक्तम्'इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोगः' इत्यतो भिन्नप्रस्तावत्वात् पृच्छा क्रियते- आवस्सयण्णं किमित्यादि, विस्मरणशीलाल्पबुद्धिमाषतुषादिकल्पसाध्वनुग्रहार्थं वेत्यदोषः । तदेवं यस्माद् इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग:' इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतं यस्माच्चाष्टस्वनन्तरोक्तप्रश्नेष्वावश्यकं श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं तस्मात् किमित्याह- तम्हा इत्यादि । यस्मात् प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणाऽऽवश्यकादिरूपतया निर्णीतं तस्मादावश्यकं निक्षेप्स्यामि, श्रुतं निक्षेप्स्यामि, स्कन्धं निक्षेप्स्यामि, अध्ययनं निक्षेप्स्यामि, दृष्टिवादाख्यस्य चरमाङ्गस्य पूर्वादिमयत्वादिति चेत् ? दृष्टिवादस्य साम्प्रतमुद्देशादयो यतो न प्रवर्तन्तेऽत एव तस्याप्यत्राधिकाराभावादेते प्रश्ना न समुद्भविता इति मन्तव्यम् । ननु तथापि शतकं शतकानि वा ? इति प्रश्नस्तु समुद्भाव्य एव, व्याख्याप्रज्ञप्त्याख्यस्य पञ्चमाङ्गस्य शतकमयत्वादिति चेत् ? न, शतकस्याध्ययनानन्तरत्वात्। ननु तस्य तदनर्थान्तरत्वनिर्णयः कथमिति चेत् ? इत्थं, शतकं शतकानि वा ? इति प्रश्नस्य यदनुद्भावनं तेन, यच्चाध्ययनस्येव शतकस्याप्युद्देशकसमूहमयत्वं, तेन तन्निर्णयः किमशक्यः? Page #34 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०७] (सू० ७) तम्हा आवस्सयं णिक्खिविस्सामि, सुयं णिक्खिविस्सामि, खंधं णिक्खिविस्सामि, अज्झयणं णिक्खिविस्सामि । इदमुक्तं भवति-आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थो निरूपणीयः, स च निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अतोऽमीषां निक्षेपः क्रियते। तत्र ११निक्षेपणं निक्षेपो यथासंभवमावश्यकादेर्नामादिभेदनिरूपणम् । तत्र जघन्यतोऽप्यसौ चतुर्विध इति नियमार्थमाह- जत्थ य गाहा। व्याख्या- यत्र च जीवादौ वस्तुनि यं जानीयात् निक्षेपं न्यासम्, यत्तदोर्नित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं निक्षिपेत् निरूपयेत् निरवशेष समग्रम्, यत्रापि च न जानीयान्निरवशेषं निक्षेपभेदजालं तत्रापि नाम-स्थापना ११. निक्षेपणं निक्षेप इति कोऽर्थः ? निश्चितः क्षेपो निक्षेपो न्यास इत्यर्थः। कस्य कुत्रेति चेत् ? वाचकस्य शब्दस्य वाच्यार्थे इति गृहाण । किमुक्तं भवति ? विवक्षितः शब्दो वाचकतयाऽस्मिन्नस्मिन्वाच्येऽर्थे न्यस्तः शिष्टपुरुषैरिति प्रतिपादनं निक्षेपः । इदमुक्तं भवति सूत्रगतस्याधिकृतस्य शब्दस्य श्रवणे सति नैकस्यैव कस्यचिदर्थस्य प्रतिपत्तिरपि तु प्रकरणभेदेन नानार्थानां प्रतिपत्तिः । तथाहि- 'धम्मो मंगलमुक्किट्ठमिति सूत्रगतस्य मङ्गलशब्दस्य वाच्यत्वेन 'मङ्गलोऽयं गच्छती ति वाक्ये मङ्गलाख्यदारकस्य, 'भित्तिचित्रे स मङ्गलं पश्यतीति वाक्ये चित्रगतस्य साधोः, महतः कार्यस्य प्रारम्भे वरमिदं मङ्गलमभूद्यत्कन्ययाऽऽनीयमानः पूर्णकलशो दृष्ट इति वाक्ये पूर्णकलशस्य, धम्मो मङ्गलमुक्किट्ठमिति सूत्रवाक्येऽहिंसादिमयस्य धर्मस्य प्रतीतिर्भवतीत्यनुभवसिद्धम्। ततश्च सूत्रगतस्याधिकृतस्य शब्दस्य वाच्यत्वेन प्रकरणभेदेन यावतामर्थानां प्रतिपत्तिर्भवितुं शक्या तावतामर्थानामुल्लेखो यः क्रियते नियुक्तिकृदादिभिः स निक्षेपः कृत इत्येवं व्यवह्रियते। किञ्च तेऽस्तिस्य शब्दस्य निक्षेपा इति व्यवहारो, तस्य शब्दस्य तावन्तो निक्षेपा इत्यपि च व्यवहारोऽत्र ज्ञेयः । एषाञ्च मङ्गलाख्यदारकादीनां क्रमशः नाममङ्गलं, स्थापनामङ्गलं, द्रव्यमङ्गलं, भावमङ्गलमित्याख्या प्रसिद्धा शास्त्रे। अथ सूत्रगतस्य शब्दस्य प्रकरणलभ्यो योऽर्थः स एव वक्तव्यो नियुक्तिकृदादिभिः, किमर्थं सर्वेषामर्थानां कथनमिति चेदाशङ्का तह-दं समाधानं ज्ञेयं यत्सूत्रगतस्य तस्य शब्दस्य वाच्यत्वेन प्रतीयमानानामर्थानां मध्ये कोऽर्थः प्रकरणलभ्यः कश्च न तथेति निर्णेतुं तत्शब्दवाच्यानां सर्वेषामर्थानामुपस्थितिरपेक्षिता। सा चोपस्थितिरनुल्लेखे तेषां कथं शक्येति सर्वेषामुल्लेखः क्रियत इति। तथा च मङ्गलाख्यदारकादयो ये येऽर्था मङ्गलपदवाच्यास्तेषु तेष्वर्थेषु वाचकतया मङ्गलपदं शिष्टपुरुषैय॑स्तम्-निक्षिप्तमित्यर्थो लभ्यते। ननु नामादयो निक्षेपा य उच्यन्ते ते कस्य भवन्ति ? आवश्यकेत्यादिवर्णावल्यात्मकस्य वाचकस्य शब्दस्योत सामायिकादिषडध्ययनकलापादिलक्षणस्य तद्वाच्यस्य वस्तुनो वेति । न Page #35 -------------------------------------------------------------------------- ________________ १८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं तत्र प्रथमो विकल्पः श्रेयः, नामस्थापनादिनिक्षेपेष्वावश्यकेत्यादिवर्णावल्यात्मकस्य शब्दस्यांशमात्रेणापि भेदाभावाच्चातुर्विध्यानुपपत्तेः, 'यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेवे 'त्यादि वृत्तौ यदुक्तं तद्विरोधाच्च । कथं तद्विरोध इति नाशङ्कनीयं, तत्र वस्तुनश्चिन्तनीयत्वेनोक्तत्वात् न तु शब्दस्येति । नापि द्वितीयः, षडध्ययनकलापलक्षणस्यावश्यकस्यावश्यकाख्यदारकादेः प्रकारत्वाभावादित्युभयतः पाशारज्जुरिति चेत् ? न, आवश्यकपदप्रतिपाद्यत्वेन प्रतिपाद्या ये पदार्थास्तेषां चतुर्विधत्वात्तेषामयं निक्षेपो मन्तव्य इत्यस्माकं मतिः । इत्थञ्च ‘से किं तं आवस्सयं ? आवस्सयं चउव्विहं पण्णत्तं, तं जहा-नामावस्सयं इत्यादिवक्ष्यमाणसूत्रे आवस्स्यंति शब्दस्य आवश्यकपदप्रतिपाद्यमित्यर्थो लभ्यते, तथा च अथ किं तदावश्यकपदप्रतिपाद्यम् ? आवश्यकपदप्रतिपाद्यं चतुर्विधं प्रज्ञप्तं, तद्यथा... इत्यादि सूत्रार्थस्य प्राप्यमाणत्वान्न काप्यनुपपत्तिः, अन्यथाऽऽवश्यके' तिशब्दस्य सामयिकादिषडध्ययनकलापलक्षणस्यावश्यकस्य च चतुर्विधत्वाभावात्सूत्रानुपपत्तिः स्यादेव । अत एवानन्तरमेव वक्ष्यमाणस्य 'जत्थ वि अ न जाणेज्जा चउक्कयं निक्खिवे तत्थ'त्ति सूत्रांशस्य विवरणे 'न हि किमपि तद्वस्त्वस्ति यन्नामादिचतुष्टयं व्यभिचरती'त्यादि यदुक्तं वृत्तिकृता तस्यापि न हि किमपि पदप्रतिपाद्यं तद्वस्त्वस्ति यन्नामादिचतुष्टयं व्यभिचरतीत्यादिरूपेण पर्यवसानात् निर्दोषत्वसङ्गतिः, अन्यथाऽनभिलाप्यानां वस्तूनामन्यत्र शास्त्रे नामनिक्षेपासम्भवो यः कथितस्तेन स्फुट एव व्यभिचारः । ननु तथापि जीवेतिपदप्रतिपाद्यं यद्वस्तु तस्य द्रव्यनिक्षेपासम्भवात्स्फुट एव व्यभिचार इति चेत् ? न, तस्यावस्तुत्वादेव व्यभिचाराभावात् । ननु किमिदमश्रुतपूर्वमपूर्वमत्यसमजसमुच्यते यज्जीवस्यावस्तुत्वमिति, यतो नवतत्त्वप्रकरणादिषु नैकेषु शास्त्रेषु सत्पदप्ररूपणायां जीवेति यच्छुद्धं व्युत्पत्तिमत्पदं तत्प्रतिपाद्यस्य जीवस्य सत्त्वस्य = वस्तुत्वस्य ख्यापितत्वात्, शिष्टजनेषु च जीवतत्त्वस्य चिरपरिचितत्वादिति चेत्? न, तस्य ख्यापितस्य चिरपरिचितस्य च जीवाख्यवस्तुनो भिन्नत्वाद् द्रव्यनिक्षेपासम्भववतो जीवेतिपदप्रतिपाद्यस्य भवत्कल्पनाविषयस्य च भिन्नत्वाद् । अयम्भावः जीवेतिपदप्रतिपाद्यत्वेन किं रमते भवत्कल्पनायाम् ? अवस्थाविशेषलक्षणपर्यायापन्नः कश्चित्पदार्थस्तच्छून्यो वा ? यद्याद्यो विकल्पस्तर्हि तदवस्थाविशेषकारणीभूतपूर्वकालीनावस्थाविशेषापन्नस्य पदार्थस्यैव द्रव्यनिक्षेपत्वसम्भवान्न व्यभिचारः । अथ द्वितीयो विकल्पस्तर्हि स्फुटमेव तस्यावस्तुत्वं, पर्यायवियुक्तस्य कल्पनाविषयस्य वस्तुतोऽवस्तुत्वात्, अवस्तुत्वेऽपि पदप्रतिपाद्यतया कल्पनारूढत्वमात्रेण यदि निक्षेपैर्भवितव्यं, तर्हि शशशृङ्गादेरपि निक्षेपैर्भवितव्यतापत्तिः स्फुटैव । ननु शशशृङ्गादेस्तु नैकस्यापि निक्षेपस्य सम्भवः, जीवस्य तु न तथा, तस्य केवलस्य द्रव्यनिक्षेपस्यैवासम्भवादिति चेत् ? न, Page #36 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०८, ९] ( सू० ८ ) जत्थ य जं जाणेज्जा णिक्खेवं णिक्खिवे णिरवसेसं । जत्थवि जाणेज्जा चउक्कयं निक्खिवे तत्थ ॥ १ ॥ (सू० ९) से किं तं आवस्सयं ? आवस्सयं चउव्विहं पण्णत्तं । तंजहा- नामावस्सयं १, ठवणावस्सयं २, दव्वावस्सयं ३, भावावस्सयं ४ । १९ द्रव्य-भावलक्षणं चतुष्कं निक्षिपेत्, इदमुक्तं भवति - यत्र तावन्नाम - स्थापना - द्रव्य-क्षेत्र-काल-भवभावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थ: । तत्र ‘यथोद्देशं निर्द्देश:' इत्यावश्यकनिक्षेपार्थमाह-से किं तं आवस्सयमित्यादि । अत्र सेशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः, तथा चोक्तम्अथ प्रक्रिया-प्रश्ना-ऽऽनन्तर्य-मङ्गलोपन्यास-प्रतिवचन - समुच्चयेषु ( ) इति, किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे, ततश्चायं समुदायार्थ:- अथ किंस्वरूपं तदावश्यकम् ?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थं प्रत्युच्चार्य निर्दिशति - आवस्सयं चउव्विहमित्यादि, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानाम् आ समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम्, यथा अन्तं करोतीति अन्तकः, अथवा आवस्सयं ति प्राकृतशैल्या आवासकम्, तत्र वस निवासे (पा० धा० १००५, का० धा० १।६१४) इति गुणशून्यमात्मानम् आ समन्तात् वासयति गुणैरित्यावासकम्, चउव्विहं पण्णत्तं ति चतस्रो विधा भेदा अस्येति चतुर्विधं प्रज्ञप्तं प्ररूपतमर्थतस्तीर्थकरैः सूत्रतो गणधरै:, तद्यथा - नामावस्सयमित्यादि, नाम अभिधानम्, तद्रूपमावश्यकं नामावश्यकम्, आवश्यकाभिधानमेवेत्यर्थः, अथवा नाम्ना नाममात्रेणावश्यकं नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं चेदम् यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ ( विनेयानुग्रहार्थमेतद्व्याख्या-यद् वस्तुनः इन्द्रादेः अभिधानम् इन्द्र इत्यादिवर्णावली-मात्रमिदमेव पर्यायवियुक्तस्य जीवस्यापि नैकस्यापि निक्षेपस्य सम्भवः, भवत्कल्पनायां ये निक्षेपा अवतरन्ति ते तु पर्यायविशेषापन्नस्य जीवस्यैवेति सूक्ष्मधिया विभावनीयमिदम् । वस्तुतो जीवस्य न मनुष्यादेरिव वस्तुत्वं नापि शशशृङ्गादेरिव सर्वथा तुच्छत्वं, अपि तु वस्त्वंशत्वम् । तथापि पदप्रतिपाद्यत्वे सत्यपि यो निक्षेपासम्भवस्तत्र तस्य शशशृङ्गतुल्यत्वमेवेति शशशृङ्गतुल्यतया स असम्भवोऽत्र साधित इति ध्येयम् । अधिकं निक्षेपविंशिकायां विवरितुकामोऽधुनाऽहम् । Page #37 -------------------------------------------------------------------------- ________________ २० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं वा आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नित्याभिसंबन्धात् तन्नामेति संटङ्क: । अथ प्रकारान्तरेण नाम्नो लक्षणमाह- स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति, तदपि नाम, यत कथंभूतमित्याहअन्यश्चासावर्थश्चान्यार्थो गोपालदारकादिलक्षण: तत्र स्थितम्, अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्ध सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत एवाह- तदर्थनिरपेक्षमिति, तस्य इन्द्रादिनाम्नोऽर्थः परमैश्वर्यादिरूपस्तदर्थः, स चासावर्थश्चेति वा तदर्थः, तस्य निरपेक्षम्, गोपालदारकादौ तदर्थस्याभावात्, पुन: किंभूतं तदित्याह- १२पर्यायानभिधेयमिति, पर्यायाणां शक्र-पुरन्दरादीनामनभिधेयम् अवाच्यम्, गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्यादिरिव शक्र-पुरन्दरादि-शब्दै भिधीयन्ते, अतस्तन्नामापि नाम- तद्वतोरभेदोपचारात् पर्यायानभिधेयमित्युच्यते । चशब्दो नाम्न एव लक्षणान्तरसूचकः । शचीपत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्यम् । तृतीयप्रकारेणापि तल्लक्षणमाह- यादृच्छिकं च तथेति, तथा यत् तथाविधव्युत्पत्तिशून्यं डित्थ-डवित्थादिरूपं यादृच्छिकं स्वेच्छया नाम क्रियते तदपि नामेत्यार्यार्थः। ___ उपनिषच्चात्रेदं - सामान्यतो देवमनुजगत्यादीनां सर्वेषां पर्यायाणामाधारभूतं केवलं (= पर्यायवियुक्तं) जीवद्रव्यं जीवेतिपदप्रतिपाद्यत्वेनावतार्यतेऽस्माभिः कल्पनायां, तस्य तु त्रैकालिकत्वात्कूटस्थनित्यत्वान्न किञ्चित्पूर्वकालीनं कारणीभूतं वस्तु विद्यते यत्तद्र्व्यनिक्षेपत्वेन व्यवहर्तुं शक्यते। ततश्च जीवेतिपदप्रतिपाद्यस्य वस्तुनो द्रव्यनिक्षेपासम्भवोऽस्माकमाभाति । किन्तूत्पादव्ययध्रौव्ययुक्तस्यैव सत्त्वाद् एतस्य कल्पनाविषयस्योत्पादव्ययशून्यत्वेनावस्तुत्वमेव (वस्त्वंशत्वमेव)। तथा च कथं व्यभिचारगन्धोऽपि ? अयमेव च समाधिर्धर्मास्तिकायादिष्वपि ज्ञेयः, अन्यथा तत्रापि द्रव्यनिक्षेपासम्भवाशकासम्भवोऽनाबाध एव । ___१२. पर्यायानभिधेयमिति पर्यायाणां शक्रपुरन्दरादीत्यादि... ननु पर्यायानभिधेयत्वं कथम् ? नैकेषु ग्रन्थेषु पर्यायाभिधेयत्वस्य दृश्यमानत्वात् । अयं भाव:- आवश्यकनियुक्ति-त्रिषष्टिशलाकापुरुषचरित्रादिषु ग्रन्थेष्वष्टमतीर्थकृतो नाम्नः कुत्रचिद् चन्द्रप्रभेत्येवंरूपेणोल्लेखः कुत्रचित्तु शशिप्रभेत्यादिरूपेण दश्यते। यदक्तं ससि पप्फदंत सीअलं इत्यादि (आ.नि.३७०)। एवमन्येषामपि नाम्नां पर्यायान्तराभिधेयत्वं लोकेऽपि दृश्यत एवेति चेत् ? अथ किमत्राशङ्कनीयं ? शक्रस्य पुरन्दरादिशब्दाभिधेयत्वस्येव चन्द्रस्य शश्यादिशब्दाभिधेयत्वे दोषाभावादिति नाशङ्कनीयम्, यतश्चन्द्रस्य शश्यादिशब्दाभिधेयत्वे न कोऽपि विरोधोऽस्माकम्, नभोगतस्य चन्द्रस्य भावनिक्षेपत्वात्, केवलं यस्य कस्यचिन्मनुजादेश्चन्द्र इति नाम यदि कृतं स्यात्, तदा तस्य नामनिक्षेपत्वं स्फुटमेव, तथापि यदि स मनुजः शश्यादिशब्दाभिधेयः स्यात् तदा नामनिक्षेपस्य पर्यायानभिधेयत्वोक्तेर्जलाञ्जलिरेव दातव्यः स्यादिति । उच्यतेऽत्र समाधानं चन्द्रेतिपदप्रतिपाद्यानामर्थानां मध्ये चन्द्राख्यमनुजादे मनिक्षेपत्वेन शशाङ्कादिपर्यायानभिधेयत्वेऽपि चन्द्रप्रभेतिपदप्रतिपाद्या Page #38 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१० (सू० १०) से किं तं नामावस्सयं ? २(=नामावस्सयं) जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सये त्ति नाम कीरए। सेतं नामावस्सयं। नामावश्यकस्वरूपनिरूपणार्थं सूत्रकार एवाह- से किं तं नामावस्सयमित्यादि । अथ किं तन्नामावश्यकम् इति प्रश्ने सत्याह- नामावस्सयं जस्स णमित्यादि, अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयं ति पदं द्रष्टव्यम्, एवमन्यत्रापि यथासम्भवमभ्यूह्यम्, णमिति वाक्यालङ्कारे, यस्य वस्तुनो जीवस्य वा अजीवस्य वा जीवानां वाऽजीवानां वा तदुभयस्य वा तदुभयानां वा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यकं चेति व्युत्पत्तेः, अथवा यस्य जीवाऽजीवादिवस्तुन: आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यकम्, नाम्ना नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दा: पक्षान्तरसूचका इति समुदायार्थः । तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते- यथा लोके जीवस्य स्वपुत्रादेः कश्चित् सीहको देवदत्त इत्यादि नाम करोति तथा कश्चित् स्वाभिप्रायवशादावश्यकमित्यपि नाम करोति । अजीवस्य कथमिति चेत्, उच्यते- इहावश्यकाऽऽवासकशब्दयोरेकार्थता प्रागुक्ता, ततश्चोर्ध्वशुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविध: कश्चित् पदार्थविशेष: सर्पादेरावासोऽयमिति लौकिकैर्व्यपदिश्यत एव, स च वृक्षादिर्यद्यप्यनन्तै: परमाणुलक्षणैरजीवद्रव्यैर्निष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिककप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धम्, जीवानामपि बहूनामावासकनाम दृश्यते, यथा इष्टकापाकाद्यग्निर्मूषकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिका: संमूर्च्छन्ति, अतस्तेषामसंख्येयानामग्निजीवानां पूर्ववदावानामर्थानां मध्ये चन्द्रप्रभाख्यस्याष्टमतीर्थकृतो भावनिक्षेपत्वमेव, चन्द्रस्य प्रभेव प्रभा यस्य स चन्द्रप्रभ इति व्युत्पत्तिलभ्यस्यार्थस्य तत्र विद्यमानत्वात्, अन्यथा चन्द्रस्यापि मृगांकपदाभिधेयत्वेन हरिणाङ्कपदानभिधेयत्वापत्तेः, इष्टापत्तिरिति चेन्न, शिष्टैः हरिणाङ्कपदस्यापि प्रयुज्यमानत्वात् । तथा च मृगोऽके यस्य स इति व्युत्पत्तिलभ्यस्यार्थस्य विद्यमानत्वाच्चन्द्रस्य यथा मृगाकपदवाच्यानामर्थानां मध्ये भावनिक्षेपत्वं हरिणाङ्कादिपदाभिधेयत्वञ्च, तथैवात्रापि मन्तव्यम्। ननु लक्ष्मीपत्याख्यस्य मनुजादेः श्रीपत्यादिपदाभिधेयत्वं स्यान्न वेति चेत् ? तस्य मनुजादेर्वस्तुतः श्रीमत्त्वे लक्ष्म्याः पतिरिति व्युत्पत्तिलभ्यस्यार्थस्य सत्त्वाद् भावनिक्षेपत्वेन श्रीपत्यादिपदाभिधेयत्वं निर्बाधम् । तस्य निर्धनत्वे तु तदर्थस्यासत्त्वाद् नामनिक्षेपत्वेन श्रीपत्यादिपदानभिधेयत्वं मन्तव्यमेव स्यादिति । तथापि यदि लक्ष्मीपत्याख्यस्य निर्धनस्यापि श्रीभ दिपदाभिधेयत्वं शिष्टानामिष्टं स्यात् तर्हि भूत-भाविधनवत्त्वं वर्तमान उपचर्य, संभावनासत्त्वं वाऽन्यद्वा किञ्चित् पुरस्कृत्य Page #39 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ११) से किं तं ठवणावस्सयं ? ठवणावस्सयं - जण्णं कट्ठकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगो वा सब्भावठवणाए वा असब्भावठवणाए वा आवस्सए त्ति ठवणा ठविज्जति सेतं ठवणावस्सयं । सकनाम सिद्धम्, अजीवानां तु यथा नीडं पक्षिणामावास उच्यते, तद्धि बहुभिस्तृणाद्यजीवैर्निष्पद्यते इति बहूनामजीवानामावासकनाम भवति, इदानीमुभयस्यावासकसंज्ञा भाव्यते-तत्र गृहदीर्घिकाऽशोकवनिकाद्युपशोभित: प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधर्मादिविमानं वा देवानामावासोऽभिधीयते, अत्र च जल-वृक्षादय: सचेतनरत्नादयश्च जीवा:, इष्टका-काष्ठादयोऽचेतनरत्नादयश्चाऽजीवा:, तन्निष्पन्नमुभयम्, तस्य कप्रत्ययोपादाने आवासकसंज्ञा सिद्धा। उभयानां त्वावासकसंज्ञा यथा- संपूर्णनगरादिकं राजादीनामावास उच्यते, संपूर्ण: सौधर्मादिकल्पो वा इन्द्रादीनामावासोऽभिधीयते, अत्र च पूर्वोक्तप्रासादविमानयोर्लघुत्वादेकमेव जीवाजीवोभयं विवक्षितम्, अत्र तु नगरादीनां सौधर्मादिकल्पानां च महत्त्वाद् बहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो द्रष्टव्य:, एवमन्यत्रापि जीवादीनामावासकसंज्ञा यथासंभवं भावनीया, दिग्मात्रप्रदर्शनार्थत्वादस्य । निगमयन्नाह- सेत्तमित्यादि, सेतमित्यादि वा क्वचित् पाठः, तदेतन्नामावश्यकमित्यर्थः । इदानीं स्थापनावश्यकनिरूपणार्थमाह- से किं तमित्यादि । अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह- ठवणावस्सयं जण्णमित्यादि, तत्र स्थाप्यते ‘अमुकोऽयम्' इत्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना काष्ठकर्मादिगतावश्यकवत्साध्वादिरूपा, सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकम्, स्थापनालक्षणं च सामान्यत इदम् यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥१॥ ( ) इति, विनेयानुग्रहार्थमत्रापि व्याख्या- तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः, स चासावर्थश्च तदर्थो भावेन्द्र-भावावश्यकादिलक्षणस्तेन वियुक्तं रहितं यद्वस्तु तदभिप्रायेण भावेन्द्राद्यभिप्रायेण क्रियते स्थाप्यते तत् स्थापनेति सम्बन्ध:, किंविशिष्टं यदित्याह-यच्च तत्करणि, तेन भावेन्द्रादिना सह करणि: सादृश्यं यस्य तत् तत्करणि, तत्सदृशमित्यर्थः । चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, अतत्सदृशमित्यर्थः । किं पुनस्तदेवंभूतं वस्त्वित्याह- लेप्यादिकर्मेति, लेप्यपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारम् । कियन्तं कालं तत् क्रियत इत्याह-अल्प: कालो यस्य तदल्पकालम्, इत्वरकालमित्यर्थः । चशब्दाद्यावत्कथिकं व्युत्पत्तिलभ्यस्यार्थस्य सत्त्वं मत्त्वा भावनिक्षेपत्वं पर्यायाभिधेयत्वं चोपपादनीयमित्यस्माकमाभाति । अधिकं निक्षेपविंशिकायाम् । Page #40 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०१२] २३ (सू० १२) नाम - ट्ठवणाणं को पइविसेसो ? णामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । च शाश्वतप्रतिमादि । यत् पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदभिप्रायेण क्रियते तत् स्थापने तात्पर्यमित्यार्यार्थः । इदानीं प्रकृतमुच्यते - जंणं ति, णमिति वाक्यालङ्कारे, यत् काष्ठकर्मणि वा चित्रकर्मणि वा यावत् वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनावा आवस्सए त्ति आवश्यक-तद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेके वा, कथंभूताः ? अत उच्यते-आवश्यकक्रियावानावश्यकक्रियावन्तो वा, ठवणा ठविज्जति त्ति स्थापनारूप: स्थाप्यते क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपाः स्थाप्यन्ते क्रियन्ते, तत् स्थापनावश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकर्म्मादिष्वावश्यकक्रियां कुर्व्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत् स्थापनावश्यकमिति तात्पर्यम् । अधुना अवयवार्थ उच्यते तत्र क्रियत इति कर्म, काष्ठे कर्म काष्ठकर्म, काष्ठनिकुट्टितं रूपकमित्यर्थः । चित्रकर्म चित्रलिखितं रूपकम् । पोत्थकम्मे वत्ति, अत्र पोत्थं पोतं वस्त्रमित्यर्थः, तत्र कर्म्म, तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं पुस्तकम्, तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म्म, तन्मध्ये वर्त्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं ताडीपत्रादि तत्र क तच्छेदनिष्पन्नं रूपकम्। लेप्यकर्म्म लेप्यरूपकम् । ग्रन्थिमं कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकम्। वेष्टिमं पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम्, अथवा एकं द्व्यादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकम् उत्थापयति तद्वेष्टिमम् । पूरिमं भरिमं पित्तलादिमयप्रतिमावत् । संघातिमं बहुवस्त्रादिखण्डसंघातनिष्पन्नं कञ्चुकवत् । अक्ष: चन्दनकः । वराटक: कपर्दकः । अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दा: पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि । एतेषु काष्ठकर्मादिषु आवश्यकक्रियां कुर्व्वन्त: एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम्, तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना, साध्वाद्याकारस्य तत्र सद्भावात् । अक्षादिषु त्वनाकारवती असद्भावस्थापना, साध्वाद्याकारस्य तत्रासद्भावादिति । निगमयन्नाह - सेत्तमित्यादि, तदेतत् स्थापनावश्यकमित्यर्थः । अत्र नाम-स्थापनयोरभेदं पश्यन्निदमाह - नाम-ठवणाणं को पविसेसो त्ति । नाम-स्थापनयोः कः प्रतिविशेषः ?, न कश्चिदित्यभिप्रायः, तथाहि आवश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमात्रे क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेष:, अत्रोत्तरमाह - नामं आवकहियमित्यादि, नाम यावत्कथिकं स्वाश्रयद्रव्यस्याऽस्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराऽप्युपरमते, स्थापना Page #41 -------------------------------------------------------------------------- ________________ २४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पुनरित्वरी स्वल्पकालभाविनी वा स्याद् यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठत इति भावः, तथाहि- नाम आवश्यकादिकं मेरु-जम्बूद्वीप-कलिङ्ग-मगध-सुराष्ट्रादिकं वा यावत् स्वाश्रयो गोपालदारक देहादि: शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्ष: स्थापित: स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते, पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा तु यावत्कथिका, तस्याश्च ‘अर्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना' इति १३व्युत्पत्ते: स्थापनात्वमवसेयम्, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयो: कालकृतो विशेष: । अत्राह- ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात्, सत्यम्, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु क्वचिदन्यथोपलम्भ: सोऽल्पत्वान्नेह विवक्षित इत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डला-ऽङ्गदादिविभूषित: सन्निहितशची-वज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शना भावः समुल्लसति नैवमिन्द्रादिनामश्रवणमात्रात्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छा-पूजाप्रवृत्ति-समीहितलाभादयो दृश्यन्ते १४नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति । १३. यद्वा ‘दर्शकादिना स्वबुद्धावाहार्यारोपेणार्हदादिरूपेण स्थाप्यत इति स्थापना' इत्येवं 'स्थाप्यत इति स्थापना' इति व्युत्पत्तेरपि स्थापनात्वं प्राप्यते इति ध्येयम् । १४. नैवं नामेन्द्रादावित्यादि । ननु ‘नामाकृतिद्रव्यभावैः पुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ।।' इत्यत्र नामनिक्षेपस्यापि पूजाप्रवृत्तिसमीहितलाभादिहेतुत्वं सूचितमेव । न च तेऽतिशयवतामर्हतामेव नामनिक्षेपे सम्भवन्ति, नान्यत्रेति समाधानं मनःसमाधानकरं, ‘यस्याभिधानं मुनयोऽपि सर्वे गृह्णन्ति भिक्षाभ्रमणस्य काले। मिष्टान्नपानाम्बरपूर्णकामा, स गौतमो यच्छतु वांछितं मे ।।' इति श्री गौतमस्वामिनो नामनिक्षेपेऽपि तत्सम्भवस्य कथितत्वात् । तथा नेतुः श्रेष्ठिनोऽन्यस्यापि वा नाम्नापि कार्याणि सिध्यमानानि दृश्यन्त एवेति चेत्? न, अभिप्रायापरिज्ञानात्, ‘स्थितमन्यार्थे तदर्थनिरपेक्षमि'त्यादिनेन्द्राद्याख्यस्य गोपालदारकादेर्नामेन्द्रादित्वं यदुक्तं तदभिप्रायेणैव तस्य निषिद्धत्वात्, न तु भावेन्द्राभिप्रायेणोच्चार्यमाण इन्द्अ इतिवर्णावलीनिष्पन्नो य 'इन्द्र' इति शब्दस्तदभिप्रायेण। भावनिक्षेपाभिप्रायिकतादृक्शब्दलक्षणस्य नामनिक्षेपस्योपास्यत्वादिकं तु नैवानिष्टमिति। नन्वेवं तु भावनिक्षेपसम्बन्धिन्याः स्थापनाया यथोपास्यत्वादिकं तथैव भावनिक्षेपसम्बन्धिनो नामनिक्षेपस्यापि तत्प्राप्तमेवेति कोऽनयोः प्रतिविशेषः सिद्ध इति चेत् ? अहो विस्मरणशीलताऽऽयुष्मतो यद् Page #42 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१३] (सू० १३) से किं तं दव्वावस्सयं ? दव्वावस्सयं दुविहं पण्णत्तं । तंजहा- आगमतो य १, णोआगमतो य २ । ___ उक्त स्थापनावश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्नं कारयति- से किं तमित्यादि । अथ किं तत् द्रव्यावश्यकमिति पृष्टे सत्याह- दव्वावस्सयं दुविहमित्यादि । तत्र द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यं विवक्षितयोरतीत-भविष्यद्भावयो: कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभा वा वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं च द्रव्यावश्यकम्, अनुभूतावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा साधुदेहादीत्यर्थः। द्रव्यलक्षणं च सामान्यत इदम् भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१|| ( ) व्याख्या- तद् द्रव्यं तत्त्वज्ञैः कथितम्, यत् कथंभूतमित्याह-यत् कारणं हेतुः, कस्येत्याहभावस्य पर्यायस्य, कथंभूतस्येत्याह-भूतस्य अतीतस्य भाविनो वा भविष्यतो वा, लोके आधारभूते, तच्च सचेतनं पुरुषादि अचेतनं च काष्ठादि भवति । एतदुक्तं भवति- १५य: पूर्वं स्वर्गादिष्विन्द्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणत: सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात् साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स 'गोपालदारकादिलक्षणस्य नामनिक्षेपस्योपास्यत्वादिकं नास्ति, स्थापनायास्तु तदस्तीति सूक्तमपि विस्मरसि । अपरञ्च स्थापना भावनिक्षेपाभिप्रायिकैव भवति, नाम्नि तु न तथा नियम इत्ययमपि प्रतिविशेषोऽनयोरेतेन प्राप्यत इति ध्येयम् । १५. यः पूर्वं स्वर्गादिष्विन्द्रादित्वेन भूत्वेदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयत... इति। ननु कोऽत्र द्रव्येन्द्रत्वेनाभिप्रेतः ? अयमाशयः कस्यचिज्जीवस्य क्रमशः संयतो मनुष्यः, इन्द्रः, मनुष्य इति भवपरंपराऽभूत्... तत्र संयतमनुष्यस्य द्रव्येन्द्रत्वे न कोऽपि प्रश्नः, तस्य तत्कारणत्वात्। किन्तूत्तरकालीनस्य मनुष्यस्य कथं द्रव्येन्द्रत्वम् ? तस्य तत्कारणत्वाभावात्, उत्तरकालीनत्वेनाव्यवहितपूर्वकालीनत्वाभावात्। अथ किमिदं प्रश्न्यते भवता ? यो मनुष्यादित्वेन परिणतः स द्रव्यत इन्द्रादिरभिधीयते इति निरूपयता वृत्तिकारेण मनुष्यादित्वेन परिणतस्य जीवस्यैव द्रव्येन्द्रत्वमुक्तं, न तु मनुष्यस्य, तथा च कथं प्रश्नावकाशः ? तज्जीवस्येन्द्रकारणत्वे विरोधाभावादिति चेत् ? न, तज्जीवस्येन्द्रकारणत्वं यदभिप्रेतं तत्पर्यायविशेषापन्नत्वमपेक्षते न वेति द्वौ विकल्पौ। तत्राद्ये विकल्पे पूर्वकालीनसंयतमनुष्यलक्षणः पर्याय एव पर्यायविशेषत्वेन ग्राह्यः स्यात्, तथा च संयतमनुष्यस्यैव कारणत्वमापतितं, न तूत्तरकालीनस्य मनुष्यस्य । Page #43 -------------------------------------------------------------------------- ________________ २६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १४) से किं तं आगमतो दव्वावस्सयं ? आगमतो दव्वावस्सयं जस्स णं आवस्सए त्ति पदं सिक्खितं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिइदानीमपि भविष्यदिन्द्रादिपदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूत-भविष्यत्पर्यायकारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः । ___ इत: प्रकृतमुच्यते-तच्चेह द्रव्यरूपमावश्यकं प्रकृतम्, तत्रावश्यकोपयोगाधिष्ठित: साध्वादिदेहो वन्दनकादिसूत्रोच्चारणलक्षणश्चागम: आवर्तादिका क्रिया चावश्यकमुच्यते, आवश्यकोपयोगशून्यास्तु ता एव देहा-ऽऽगम-क्रिया द्रव्यावश्यकम्, तच्च द्विविधं प्रज्ञप्तमिति, तद्यथा- आगमत: आगममाश्रित्य नोआगमत: नोआगममाश्रित्य, नोशब्दार्थं यथावसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि स्वस्वविषये तुल्यप्राधान्यख्यापनार्थौ । अत्राद्यभेदजिज्ञासुराह- से किं तमित्यादि । अथ किं तदागमतो द्रव्यावश्यकमिति । आहआगमतो दव्वावस्सयं जस्स णमित्यादि, णमिति पूर्ववत्, जस्स त्ति यस्य कस्यचित् आवस्सए त्ति पयं ति आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्रं शिक्षितं स्थितं जितं यावत् वाचनोपगतं भवति, से णं तत्थेति स जन्तुस्तत्र आवश्यकशास्त्रे वाचना-प्रच्छना अथ नापेक्षत इति द्वितीयो विकल्पस्तानन्तकालपश्चाद्भाविपर्यायोपेतस्याऽपि तज्जीवस्य द्रव्येन्द्रत्वेन व्यवहार्यत्वापत्तिरिति चेत् ? द्वितीयमेव विकल्पं गृहाण, तत्र च यदि कार्यकारणभावानुसन्धान केनाप्युपायेन भवेत्तदा त्वदुक्तो व्यवहार इष्ट एव, अत एव कोटाकोटिसागरलक्षणसुदीर्घकालपश्चाद्भाविचरमतीर्थकृज्जीवत्वेनानुसन्धीयमानो मरीचिस्त्रिदंडिकवेशोऽपि भरतचक्रवर्तिना वन्दितः। ननु तेन बुद्धावारोप्य भावजिन एव वन्दित इति चेत्? तथापि मरीचिजीव एव किमर्थं तेन वन्दित इति विचार्यताम्, अन्यथा बुद्धावारोपितस्य भावजिनस्यैव वन्दनाभिप्राये यः कोऽपि जीवस्तेन चरमजिनं बुद्धावारोप्य वन्दितः स्यात् । न चैवंभूतम्। ततश्च भाविजिनजीवत्वेन मरीचिजीवोऽपि वन्दित एवेति मन्तव्यमेव । यत्तु तेन 'अहं भावजिनं वन्दामि' इत्युक्तं, यथा गूर्जरभाषायां २७ भव स्तवने- नवि वंदु त्रिदंडिकवेश, नमुं भक्तिए वीरजिनेश इति। तत्तु न मरीचिजीवलक्षणस्य द्रव्यजिनस्य वन्द्यतानिषेधार्थं, अपि तु त्रिदंडिक-वेशस्य वन्द्यतानिषेधार्थमेवेति। तदुक्तं- त्रिषष्टिशलाकापुरुषचरित्रे दशमे पर्वणि प्रथमे सर्गे....। त्रिश्च प्रदक्षिणीकृत्य वन्दित्वैवमवोचत ।।५२ ।।.... पारिवाज्यं न ते वन्द्यं भाव्यर्हन्निति वन्द्यसे ।।५४।। अत्र ‘यतस्त्वं भाव्यर्हन्, अतो वन्द्यसे' इत्यर्थस्य प्राप्यमाणत्वात् मरीचेर्द्रव्यजिनत्वेन, वन्द्यता ज्ञायत एव । अधिकं निक्षेपविंशिकायाम्। Page #44 -------------------------------------------------------------------------- ________________ २७ श्रीअनुयोगद्वारसूत्रम् [सू०१४] पुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं । सेणं तत्थ वायणाए पुच्छणाए परियणाए धम्मकहाए, णो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कटु । परिवर्तना-धर्मकथाभिर्वर्तमानोऽप्यावश्यकोपयोगे अवर्तमान: आगमत: आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थ: । अत्राह-नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एतच्चायुक्तम्, यत आगमो ज्ञानम्, ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते ?, सत्यमेतत्, किन्त्वागमस्य कारणमात्मा तदधिष्ठितो देह: शब्दश्चोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः, एतच्च त्रितयमागमकारणत्वात् कारणे कार्योपचारादागम उच्यते, कारणं च विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः। तत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तच्छिक्षितमुच्यते, तदेवाविस्मरणत-श्चेतसि स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्व्वत: परेण वा क्वचित् पृष्टस्य यच्छीघ्रमागच्छति तजितम्, विज्ञातश्लोक-पद-वर्णादिसंख्यं मितम्, परि समन्तात् सर्वप्रकारैर्जितं परिजितम्, परावर्त्तनं कुर्खतो यत् क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम अभिधानम्, तेन समं नामसमम्, इदमुक्तं भवति- यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा उदात्तादयः, तैर्वाचनाचार्याभिहितघोषैः समं घोषसमम्, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद्घोषसममिति भाव:, एक-द्वयादिभिरक्षहीन हीनाक्षरम्, न तथा अहीनाक्षरम्, एकादिभिरक्षरैरधिकमत्यक्षरम्, न तथा अनत्यक्षरम्, अव्वाइद्धक्खरं ति विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि विपर्यस्तान्यक्षराणि यत्र तद् व्याविद्धाक्षरम्, न तथाऽव्याविद्धाक्षरम्, अव्वाइद्धमिति क्वचित् पाठः, तत्रापि व्याविद्धाक्षरयोगाद् व्याविद्धम्, न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लाङगलमिव स्खलति यत्तत् स्खलितम्, न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मीलितम्, न तथाऽमीलितम्, एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्यानेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्यानेडितम्, अस्थानविरतिकं वा व्यत्यानेडितम्, न तथाऽव्यत्यामेडितम्, सूत्रतो बिन्दु-मात्रादिभिरन्यूनमर्थतस्त्वध्याहाराऽऽकाङ्क्षादिरहितं प्रतिपूर्णम्, उदात्तादिघोषैरविकलं प्रतिपूर्णघोषम् । अत्राह- घोषसममित्युक्तमेव तत् क इह विशेष इति, उच्यते, १६घोषसममिति शिक्षाकालमधिकृत्योक्तम्, प्रतिपूर्णघोषं तु परावर्तनादिकालमधिकृत्येति विशेष:, कण्ठश्चौष्ठश्च १६. घोषसममिति शिक्षाकालमधिकृत्योक्तमित्यादि । तथा च समुद्देशात्पूर्वं तद् घोषसमं भवति, पश्चात्तु प्रतिपूर्णघोषमिति व्यक्त एव विशेषः । Page #45 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं कण्ठौष्ठमिति प्राण्यङ्गत्वात् समाहार:, तेन विप्रमुक्तं कण्ठौष्ठविप्रमुक्तम्, बाल-मूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतम्, न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात् स्वयमेवाधीतमिति भावः । तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भव स जन्तुस्तत्रावश्यकशास्त्रे वाचनया शिष्याध्यापनलक्षणया प्रच्छनयाऽनवगतार्थादेर्गुरुं प्रति प्रश्नलक्षण परावर्त्तनया पुन: पुन: सूत्रार्थाभ्यासलक्षणया धर्मकथया अहिंसादिधर्म्मप्ररूपणस्वरूपया वर्त्तमानोऽपि, अनुपयुक्तत्वात्' इति साध्याहारम् आगमतो द्रव्यावश्यकमित्यनेन सम्बन्धः । २८ ननु यथा वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि वर्त्तमानस्तद्भवति ?, नेत्याह- नो अणुप्पेहाए त्ति, अनुप्रेक्षया ग्रन्थार्थानुचिन्तनरूपया तत्र वर्त्तमान न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावात्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भाव: । अत्राह परः- कम्ह त्ति, ननु कस्माद्वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकम् ? कस्माच्चानुप्रेक्षया तत्र वर्त्तमानो न तथा ? इति प्रच्छकाभिप्राय:, एवं पृष्टे सत्याह- अणुवओगो दव्वमिति कट्टु त्ति अनुपयोगो द्रव्यमिति कृत्वा, उपयोजनमुपयोगो जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोगः पदार्थः, विवक्षितोपयोगस्य कारणमात्रत्वात् द्रव्यमेव भवति इति कृत्वा अस्मात् कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं भवति-उपयोगपूर्व्वका अनुपयोगपूर्वकाश्च वाचना- प्रच्छनादयः संभवत्येव, तह द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्व्वका गृह्यन्ते, अत एव सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः, अनुपयोगस्तु भावशून्यता, तच्छून्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्विकैव संभवति, अतस्तत्र वर्त्तमानो न तथेति भावार्थ: । स अत्राह- नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टसिद्धेः शिक्षितादिश्रुतगुणसमुत्कीर्त्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्त्तनं कुर्व्वन्निदं ज्ञापयति-यदुतैवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव च भवति, किं पुनः सदोषम् ?, उपयुक्तस्य तु स्खलितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति । एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्यनुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपयुक्तस्य तु मतिवैकल्यादित: सदोषा अप्यमी कर्ममलापगमायैवेत्यलं विस्तरेण । अत्राह- ननु भवत्वेवम्, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो येनोक्तमहीनाक्षरमिति, अत्रोच्यते- लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धान्ते ? तथाहि - राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दनार्थं विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययौ । ततो भगवदन्तिके धर्मं Page #46 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१५] (सू० १५) (१) णेगमस्स एगो अणुवउत्तो आगमओ एगं दव्वास्सयं, दोण्णि अणुवउत्ता आगमओ दोण्णि दव्वावस्सयाई, तिण्णि अणुवउत्ता आगमओ तिण्णि दव्वावस्सयाई, एवं जावइया अणुवउत्ता तावइयाई ताई णेगमस्स आगमओ दव्वावस्सयाई। श्रुत्वा प्रतिनिवृत्तायां परिषदि कस्यचिद्विद्याधरस्य गगनोत्पतनहेतुविद्यासंबन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन् किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ, पुनरुत्पतति पुनश्च निपतति। एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः- किमित्ययं महाभाग: खेचरो विधुरितपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतती-ति ? भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदित:, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यैवमवादीत्-भो: खेचर ! यदि मां समानसिद्धिकं करोषि तदा त्वद्विद्याऽक्षरमुपलभ्य कथयामि । प्रतिपन्नं च तेन । अभयकुमारस्य चैकस्मादपि पदादनेकपदाभ्यूहनशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितं खेचरस्य । सोऽपि संजातसंपूर्णविद्यो हृष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गत: समीहितप्रदेशमिति एष दृष्टान्तः । उपनयस्त्वयम् - यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतम्, तदुपरमे च व्यर्थैव विद्या, तथेहापि हीनाक्षरतायामर्थभेदः, तद्भेदे क्रियाभेदः, तद्भेदे च मोक्षाभाव:, तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति । एवमधिकाक्षरादिष्वपि दोषा: सदृष्टान्ता अभ्यूह्य वाच्याः । इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, नत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥१।। ( आवश्यकनि० ७६१) इति वचनात् । अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते । ते च मूलभेदानाश्रित्य नैगमादय: सप्त । तदुक्तम् - नेगम-संगह-ववहार-उज्जुसुए चेव होइ बोधव्वे । सद्दे य समभिरूढे एवंभूते य मूलनया ॥१॥ (आवश्यकनि० ७५४ ) तत्र नैगमस्तावत् कियन्ति द्रव्यावश्यकानीच्छतीत्याह - नेगमस्सेत्यादि, सामान्य-विशेषादिप्रकारेण नैक: अपि तु बहवो गमा वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारस्य लोपान्नैगम:, सामान्य-विशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः । तस्य नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकम्, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो द्वे द्रव्यावश्यके, त्रयो देवदत्त-यज्ञदत्त-सोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि। किं बहुना ? एवं यावन्तो देवदत्तादयोऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवर्तीनि नैगमस्यागमतो द्रव्यावश्यकानि। एतदुक्तं भवति - नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत् Page #47 -------------------------------------------------------------------------- ________________ ३० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) एवमेव ववहारस्स वि । (३) संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वास्सयं वा दव्वावस्सयाणि वा से एगे दव्वावस्सए। सामान्यरूपमेव, ततो विशेषवादित्वस्येह प्राधान्येन विवक्षितत्वाद्यावन्त: केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुन: संग्रहवत् सामान्यवादित्वादेकमेवेति भावः। एवमेव ववहारस्स वि त्ति, व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपः, तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि एवमेव नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यम्, इदमुक्तं भवति- व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान्, लोकव्यवहारे च जलाहरण-व्रणपिण्डीप्रदानादिके घट-निम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते, न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुसत्त्वेन प्रतिपद्यतेऽसौ, न सामान्यम्, व्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः । अत्र चातिदेशेनैवेष्टार्थसिद्धेस्रन्थलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यास: कृत इति भावनीयम् । संगहस्सेत्यादि, सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं संगृह्णाति सामान्यरूपतयाऽध्यवस्यतीति संग्रहः, २७तस्य मते एको वा अनेके वा अनुपयुक्तो वाऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं वा द्रव्यावश्यकानि वा तत् किमित्याह - से एगे त्ति तदेकं द्रव्यावश्यकम् । इदमत्र हृदयम्- संग्रहनय: सामान्यमेवाभ्युपगच्छति, न विशेषान्, अभिदधाति च - सामान्याद्विशेषा व्यतिरिक्ता वा स्यु: अव्यतिरिक्ता वा ? यद्याद्य: पक्षस्तर्हि न सन्त्यमी, नि:सामान्यत्वात्, खरविषाणवत् । अथापर: पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यस्वरूपवत् । तस्मात् सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिद् द्रव्यावश्यकानि तानि तत्सामान्याव्यतिरिक्तत्वादेकमेव संग्रहस्य द्रव्यावश्यकमिति। १७. तस्य मते एको वेत्यादि... नन्वत्र सङ्ग्रहस्य मतेऽनेकेऽनुपयुक्ता यान्यागमतो द्रव्यावश्यकानि तान्येकं द्रव्यावश्यकमित्यर्थो लभ्यते, स तु कथं सङ्गच्छते, सङ्ग्रहमतेऽनेकत्वस्यैवासङ्गतत्वादिति चेत् ? न, उद्देश्यकोटावनेकत्वं यदुक्तं तद् व्यवहारनयमाश्रित्येत्यदोषः । अथ, सङ्ग्रहनयनिरूपणावसरे व्यवहारनयेन कथनं किमर्थमिति चेत् ? यत्प्रसिद्धं भवति तदेवोद्देश्यकोटौ प्रविशति। प्रतिदिनं शतशो भवतो व्यवहारस्य व्यवहारनयानुसारित्वाद् गुरुशिष्यबुद्धौ व्यवहारनय एव चिररूढो भवतीति लोकस्थितिः । अतो व्यवहारनयानुसार्यनेकत्वस्य प्रसिद्धत्वादुद्देश्यकोटौ तत्प्रवेश इति । Page #48 -------------------------------------------------------------------------- ________________ ३१ श्रीअनुयोगद्वारसूत्रम् [सू०१५] (४) उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइ । (५) तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते ण भवति । सेतं आगमओ दव्वावस्सयं । उज्जुसुयस्सेत्यादि, ऋजु अतीता-ऽनागत-परकीयपरिहारेण १८प्राञ्जलं वस्तु सूत्रयति अभ्युपगच्छतीति ऋजुसूत्र: । अयं हि वर्तमानकालभाव्येव वस्त्वभ्युपगच्छति, नातीतं विनष्टत्वात्, नाप्यनागतम्, अनुत्पन्नत्वात्, वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात्, स्वधनवत्, परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति, पुहत्तं नेच्छइ त्ति अतीतानागतभेदत: परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ, किं तर्हि ? वर्तमानकालीनं स्वगतमेव चाभ्युपैति, तच्चैकमेवेति भावः । तिण्हं सद्दनयाणमित्यादि, शब्दप्रधाना नया: शब्दनया: शब्द-समभिरूद्वैवम्भूता:, ते हि १९शब्दमेव प्रधानमिच्छन्ति, अर्थं तु गौणम्, शब्दवशेनैवार्थप्रतीतेः । तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीदमित्यर्थः । कम्ह त्ति कस्मादेवमुच्यते इत्याह - जईत्यादि, यदि ज्ञायकस्तर्खनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वात् । इदमत्र हृदयम्आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग् निर्णीतम्, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्त: ? अनुपयुक्तश्चेत् कथं जानाति, ज्ञानस्योपयोगरूपत्वात् ? यदप्यागमकारणत्वादात्म-देहादिकमागमत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात् । तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति । निगमयन्नाह- सेत्तमित्यादि, तदेतदागमतो द्रव्यावश्यकम् । १८. प्राञ्जलं वस्तु सूत्रयतीति...। अत्र प्राञ्जलमिति क्रियाविशेषणं, न तु वस्तुविशेषणं, तथा च यः ऋजु = प्राञ्जलं सूत्रणं करोति स ऋजुसूत्र इत्यर्थो लभ्यते। ननु सूत्रणे प्राञ्जलत्वं किम् ? शृणु-कूटस्य रूप्यकस्य रूप्यत्वेन व्यवहारे न ऋजुता, अपि तु वक्रतेति यत्सर्वैरङ्गीक्रियते तत्र किं कारणमिति प्रश्न इदमेवोत्तरं दातव्यं भवति यद् कूटं रूप्यकं कार्यसाधकं न भवति, यत्तु परमार्थतो रूप्यकं तत्तु कार्यसाधकं भवत्येव । तथा चेयं व्याप्तिः पर्यवस्यति-कार्यासाधकस्य कार्यसाधकत्वेन व्यवहारे वक्रता, न तु ऋजुता। अतीतस्य, अनागतस्य परकीयस्य वा वस्तुनः स्वकार्यासाधकत्वं तु स्पष्टमेव । तथापि तस्य तत्तद्वस्तुत्वेन व्यवहारे वक्रतैतद्व्याप्तिसिद्धा । ततश्च तस्या वक्रतायाः परिहारेण स्वकार्यसाधकस्य स्वकीयस्य वर्तमानस्य वस्तुन एव तत्तद्वस्तुत्वेन यो व्यवहारस्तस्मिन् ऋजुता सुगमैवेति। १९. शब्दमेव प्रधानमित्यादि...। तथा चैकस्मिन्नप्यर्थे वचन-लिङ्ग-वर्णावल्यादिभेदादर्थभेदं मन्यन्ते ते। Page #49 -------------------------------------------------------------------------- ________________ ३२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १६) से किं तं नोआगमतो दव्वावस्सयं ? नोआगमतो दव्वावस्सयं तिविहं पण्णत्तं। तंजहा- जाणगसरीरदव्वावस्सयं १ , भवियसरीरदव्वावस्सयं २, जाणगसरीरभवियसरीरवतिरित्तं दव्वावस्सयं ३ । (सू० १७) से किं तं जाणगसरीरदव्वावस्सयं ? जाणगसरीरदव्वावस्सयं- आवस्सए उक्तं सप्रपञ्चमागमतो द्रव्यावश्यकम्, इदानीं नोआगमतस्तदुच्यते - से किं तमित्यादि । अथ किं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः । उत्तरमाह - नोआगमओ दव्वावस्सयं तिविहं पण्णत्तमित्यादि, नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेधे देशनिषेधे २०वा वर्त्तते । यत उक्तं पूर्वमुनिभि: - आगमसव्वनिसेहे नोसद्दो अहव देसपडिसेहे । सव्वे जह णसरीरं भव्वस्स य आगमाभावा ।।१।। ( ) व्याख्या- आगमस्य आवश्यकादिज्ञानस्य सर्वनिषेधे वर्त्तते नोशब्द:, अथवा तस्यैव देशप्रतिषेधे वर्तते, तत्र सव्वे त्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने, णसरीरं ति ज्ञस्य जानतः शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकम् , भव्यस्य च योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यकम् । कुत इत्याह- आगमस्य आवश्यकादिज्ञानलक्षणस्य सर्वथाऽभावात् । इदमुक्तं भवतिज्ञशरीरं भव्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं नो-आगमत: सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षे सर्वनिषेधवचनत्वादिति गाथार्थः । देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा - किरियागमुच्चरंतो आवासं कुणइ भावसुन्नो उ। किरियाऽऽगमो न होई तस्स निसेहो भवे देसे ॥१।। ( ) व्याख्या- क्रियाम् आवर्तादिकां कुर्वन्' इत्यध्याहारः, आगमं च वन्दनकसूत्रादिकमुच्चारयन् भावशून्यो य आवश्यकं करोति सोऽपि नोआगमत:, इह द्रव्यावश्यकमिति शेषः । अत्र च क्रिया आवर्तादिकाऽऽगमो न भवति, जडत्वात्, आगमस्य च ज्ञानरूपत्वात्, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति, क्रिया आगमो न भवतीत्यर्थ: । अतो नोआगमत इति इह किमुक्तं भवति? देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थः । तदेवं नोआगमत आगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा- ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् । तत्राऽऽद्यभेदं विवरीषुराह- से किं तमित्यादि । अथ किं तत् ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह - जाणगसरीरदव्वावस्सयं आवस्सए त्तीत्यादि, ज्ञातवानिति ज्ञः, प्रतिक्षणं शीर्यत २०. अन्यत्र नोशब्दस्य देशवाचित्वं मिश्रवाचित्वं चोक्तमिति ध्येयम्। तच्च कथमिति तदर्थं विलोकनीया निक्षेपविंशिका । Page #50 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१७] ३३ त्ति पदत्थाधिकारजाणगस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ भणेज्जा- अहो ! णं इमेणं इति शरीरम्, ज्ञस्य शरीरं ज्ञशरीरम्, तदेव अनुभूतभावत्वाद् द्रव्यावश्यकं ज्ञशरीरद्रव्यावश्यकम्, किं तदित्याह - यच्छरीरकं संज्ञायां कन् (पा० ५।३।७६, ८७) वपुरित्यर्थः, कस्य सम्बन्धीत्याहआवस्सए तीत्यादि, आवश्यकमिति यत् पदम्, आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गता अर्थाधिकारा गृह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि । कथंभूतं सदिदं ज्ञशरीरद्रव्यावश्यकं भवतीत्याह- व्यपगत-च्युत-च्यावितत्यक्तदेहं जीव-विप्रमुक्तमित्यक्षरयोजना। इदानीं भावार्थ: कश्चिदुच्यते- तत्र व्यपगतं चैतन्य-पर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तम्, अत एव च्युतम् उच्छ्वासनि:श्वासजीवितादिदशविधप्राणेभ्य: परिभ्रष्टम्, अचेतनस्य उच्छ्वासाद्ययोगात्, अन्यथा लेष्ट्रवादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंश: स्वभाववादिभि: कैश्चित् स्वभावत एव अभ्युपगम्यते, तदपोहार्थमाह- च्यावितं बलीयसाऽऽयु:क्षयेण तेभ्य: परिभ्रंशितम्, न तु स्वभावतः, तस्य सदाऽवस्थितत्वेन सर्वदा तत्प्रसङ्गात्, एवं च सति कथंभूतं तदित्याह- त्यक्तदेहम् । दिह उपचये (पा० धा० १०८५, का० धा० २।६२) त्यक्तो देह: आहारपरिणतिजनित उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहण-परिणत्योरभावात् । एवमुक्तेन विधिना जीवेन आत्मना विविधम् अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तम् । तदेतदावश्यकज्ञस्य शरीरकमतीतावश्यकभावस्य कारणत्वाद् द्रव्यावश्यकम् । अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात् नोशब्दस्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भाव: । ननु यदि जीवविप्रमुक्तमिदं कथं तीस्य द्रव्यावश्यकत्वम् ? लेष्ट्वादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपि कदाचिदावश्यकवेत्तृभिर्गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाहसेज्जागतमित्यादि, यस्मादिदं शय्यागतं वा संस्तारगतं वा सिद्धशिलातलगतं वा दृष्ट्वा कोऽपि ब्रूयात्- अहो ! अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेन आवश्यकमित्येतत् पदम् आगृहीतमित्यादि यावदुपदर्शितमिति, तस्मादतीत-वर्तमानकालभाविवस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनां सम्भवाद् यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते, लेष्ट्वादिदर्शने पुनर्नेत्थम्भूत: प्रत्यय: कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः, तेनैव कर-चरणोरु-ग्रीवादिपरिणामेनानन्तरमेवाऽऽवश्यककारणत्वेन व्यापृतत्वात् तदेव तथाविधप्रत्ययजनकं द्रव्यावश्यकम्, न लेष्ट्वादय इति भाव इति समुदायार्थः । __इदानीमवयवार्थ उच्यते- तत्र शय्या महती सर्वाङ्गप्रमाणा, तां गतं शय्यागतम्, शय्यास्थितमित्यर्थः । संस्तारो लघुकोऽर्धतृतीयहस्तमानः, तं गतम्, तत्रस्थमित्यर्थः । यत्र साधवस्तप:परिकर्मितशरीरा: स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वा: प्रतिपद्यन्ते प्रतिपत्स्यन्ते च Page #51 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं आवस्सए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी । सेतं जाणगसरीरदव्वावस्सयं । I ३४ तत् सिद्धशिलातलमुच्यते, क्षेत्रगुणतो यथाभद्रकदेवतागुणतो वा साधूनामाराधना: सिद्ध्यन्ति तत्रेि कृत्वा । अन्ये तु व्याचक्षते - यत्र महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलम्, तद्गतं तत्रस्थितं सिद्धशिलातलगतम् । इह निसीहियागयं वेत्यादीन्यपि पदानि वाचनान्तरे दृश्यन्ते तानि च सुगमत्वात् स्वयमेव भावनीयानि । नवरं नैषेधिकी शबपरिस्थापनभूमिः । अपरं चात्रान्तरे पासित्ता णं कोइ भणेज्जेति ग्रन्थः क्वचिद् दृश्यते । स च समुदायार्थकथनावसरे योजित एव, न दृश्यते तत्राध्याहारो द्रष्टव्यः । अहोशब्दो दैन्य- विस्मया -ऽऽमन्त्रणेषु वर्तते, स चेह त्रिष्वपि घटते । तथाहि- अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्यं पार्श्वस्थितमामन्त्रयमाणस्याऽऽमन्त्रणे, अनेन प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन जिनदृष्टेन तीर्थकराभिमतेन भावेन कर्मनिर्जरणाभिप्रायेण अथवा भावेन तदावरणकर्मक्षयक्षयोपशमलक्षणेन आवश्यकपदाभिधेयं शास्त्रम्, आघवियं ति प्राकृतशैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतम्, प्रज्ञापितं सामान्यतो विनेयेभ्यः कथितम्, प्ररूपितं तेभ्य एव प्रतिसूत्रमर्थकथनतः, दर्शितं प्रत्युपेक्षणादिक्रियादर्शनतः, 'इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते' इत्येवं विनेयेभ्यः प्रकटितमिति भाव:, निदर्शितं कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितम्, उपदर्शितं सकलनययुक्तिभिः । आह- नन्वनेन शरीरसमुच्छ्रयेणाऽऽवश्यकमागृहीतमित्यादि नोपपद्यते, ग्रहण- प्ररूपणादीनां जीवधर्मत्वेन शरीरस्याघटमानत्वात्, सत्यम्, किन्तु भूतपूर्वगत्या जीव-शरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः । पुनरप्याह- ननु यद्यपि तच्छरीरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवन्ति तथापि कथं (तस्य) द्रव्यावश्यकता यत आवश्यकस्य कारणमेव द्रव्यावश्यकं भवितुमर्हति, भूतस्य भाविनो वा ( ) इत्यादिपूर्वोक्तवचनात् कारणं चाऽऽगमस्य चेतनाधिष्ठितमेव शरीरम्, न त्विदम्, चेतनारहितत्वात्, तस्यापि तत्कारणत्वेऽतिप्रसङ्गात्, सत्यम्, किन्त्वतीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽस्योच्यत इत्यदोषः । स्यादेवम्, यद्यत्रार्थे कश्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति - यथा कोऽत्र दृष्टान्त: ? इति पृष्टे सत्याह - यथाऽयं मधुकुम्भ आसीदित्यादि । एतदुक्तं भवति - यथा मधुनिव प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भः अयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत Page #52 -------------------------------------------------------------------------- ________________ ३५ श्रीअनुयोगद्वारसूत्रम् [सू०१८] (सू० १८) से किं तं भवियसरीरदव्वावस्सयं ? भवियसरीरदव्वावस्सयं- जे जीवे जोणिजम्मणणिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवदितुणं भावेणं आवस्सए त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिटुंतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ । सेतं भवियसरीरदव्वावस्सयं । इति भावः । निगमयन्नाह - सेतमित्यादि, तदेतद् ज्ञशरीरद्रव्यावश्यकम् । उक्तो नोआगमतो द्रव्यावश्यकप्रथमभेद:, अथ द्वितीयभेदनिरूपणार्थमाह- से किं तमित्यादि। अथ किं तद् भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह- भवियसरीरदव्वावस्सयं जे जीवे इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायार्हः, तद्योग्य इत्यर्थः, तस्य शरीरम्, तदेव भाविभावावश्यककारणत्वाद् द्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकम्, किं पुनस्तत् ? इत्यत्रोच्यते- यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदम् आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः। साम्प्रतमवयवार्थ उच्यते- तत्र य: कश्चिद् जीवो जन्तु: योन्या योषिदवाच्यदेश-लक्षणाया: परिपूर्णसमस्तदेहो जन्मत्वेन जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्त:, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वा समुच्छ्रयस्तेन आत्तेन आदत्तेन वा गृहीतेन, प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, सेयकाले त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते अध्येष्यते, साम्प्रतं तु न तावदद्यापि शिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकम् । नोआगमत्वं चात्राप्यागमाभावमाश्रित्य मन्तव्यम्, तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वादिति । अत्राऽऽहनन्वावश्यककारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम् ? न हि कार्याभावे वस्तुन: कारणत्वं युज्यते, अतिप्रसङ्गात्, अत: कथमस्य द्रव्यावश्यकता? सत्यम्, किंतु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तन्नयानुसारिण: पठन्ति- भाविनि भूतवदुपचार: (कातन्त्र- परि०) इति । अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति- यथा कोऽत्र दृष्टान्त इति । निर्वचनमाह- यथाऽयं मधुकुम्भो भविष्यतीत्यादि । एतदुक्तं भवति - यथा मधुनि घृते वा प्रक्षेप्नुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि लोकेऽयं मधुकुम्भो घृतकुम्भो वेत्यादिव्यपदेशो दृश्यते, तथाऽत्राप्यावश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः । निगमयन्नाह - सेत्तमित्यादि, तदेतद् भव्यशरीरद्रव्यावश्यकमिति। Page #53 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० १९) से किं तं जाणगसरीरभवियसरीरवतिरित्ते दव्वावस्सए ? जाणगसरीरभवियसरीरवतिरित्ते दव्वावस्सए तिविधे पण्णत्ते । तंजहा- लोइए १, कुप्पावयणिते २, लोउत्तरिते ३। (सू० २०) से किं तं लोइयं दव्वावस्सयं? लोइयं दव्वावस्सयं -जे इमे राईसर-तलवरमाडंबिय-कोडुंबिय-इन्भ-सेट्टि-सेणावइ- सत्थवाह-प्पभितिओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पल-कमलकोमलुम्मिल्लियम्मि अह पंडुरे पभाए उक्तो नोआगमतो द्रव्यावश्यकद्वितीयभेदः, तत्तृतीयभेदनिरूपणार्थमाह - से किं तमित्यादि। अथ किं तत् ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ? निर्वचनमाह- जाणगसरीरभवियसरीरवइरित्ते दव्वावस्सए तिविहे इत्यादि । यत्र ज्ञशरीर- भव्यशरीरयो: सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यावश्यकमुच्यते । तच्च त्रिविधं प्रज्ञप्तम्, तद्यथालौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदं जिज्ञासुराह - से किं तमित्यादि । अत्र निर्वचनमाह - लोइयमित्यादि । लोके भवं लौकिकम्, शेषं तथैव । अत्र य एते राजेश्वर-तलवरादयः प्रभातसमये मुखधावनादि कृत्वा तत: पश्चाद् राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । तत्र राजा चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च । ईश्वरो युवराज: सामान्यमण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते - अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर: । परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषितशिरास्तलवरः । यस्य पार्श्वत आसन्नमपरं ग्राम-नगरादिकं नास्ति तत् सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः । कतिपयकुटुम्बप्रभुः कौटुम्बिकः । इभो हस्ती, तत्प्रमाणं द्रव्यमर्हतीतीभ्य:, यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः । श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्ग: पुरज्येष्ठो वणिग्विशेष: श्रेष्ठी। हस्त्यश्व-रथपदातिसमुदायलक्षणाया: सेनाया: प्रभु: सेनापतिः । गणिमं धरिमं मेज्जं पारिच्छेज्जं च दव्वजायं तु । घेत्तूणं लाभत्थं वच्चति जो अन्नदेसं तु ॥१॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहनामं धणो व्व लोए समुव्वहइ ।।२।। ( ) एतल्लक्षणयुक्तः सार्थवाहः । प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः । कल्लं पाउप्पभाताए इत्यादि, कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते। प्रभातस्यैव विशेषावस्था: प्राह - पाउ Page #54 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२०] ३७ रत्तासोगप्पगास- किंसुय - सुयमुह- गुंजद्धरागसरिसे कमलागर-नलिणिसंडबोहर उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते मुहधोयण - दंतपक्खालण- तेल्ल - फणिहसिद्धत्थय - हरियालिय- अद्दाग-धूव - पुप्फ-मल्ल-गंध- तंबोल- वत्थमाइयाई दव्वावस्सयाई इत्यादि, प्रादुः प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्याम्, किञ्चिदुपलभ्यमानप्रकाशायामिति भावः । तदनन्तरं सुविमलायां तस्यामेव किञ्चित्परिस्फुटतरप्रकाशायाम् । अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते । कथंभूत इत्याह- फुल्लोत्पलकमलकोमलोन्मीलिते, फुल्लं विकसितं तच्च तदुत्पलं च फुल्लोत्पलम्, कमल: हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पल - कमलौ, तयोः कोमलम् अकठोरं दलानां नयनयोश्चोन्मीलितम् उन्मीलनं यत्र प्रभाते तत् तथा, अनेन च प्रागुक्ताया: सुविमलतायाः वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनीं पूर्वस्यां दिश्यरुणप्रभावस्थामाह । तदनन्तरम् उट्ठिए सूरिए त्ति अभ्युद्गते आदित्ये, कथम्भूते इत्याह - रक्ताशोकप्रकाश- किंशुक शुकमुखगुञ्जार्धरागसदृशे, रक्ताशोकप्रकाशस्य किंशुकस्य पुष्पितपलाशस्य शुकमुखस्य गुञ्जार्धस्य च रागेण सदृशो यः स तथा तस्मिन्, आरक्ते इत्यर्थः । तथा कमलाकरनलिनीषण्डबोधके, कमलानामाकरा उत्पत्तिभूमयो ह्रदादिजलाशयविशेषास्तेषु यानि नलिनीषण्डानि तेषां बोधको यः स तथा तस्मिन् । पुनः किंभूते तस्मिन्नित्याह - सहस्ररश्मौ, दिनं करोतीति दिनकरस्तस्मिन्, तेजसा ज्वलति, तत्रैते भावाः सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम् । अनेन चोत्तरोत्तरकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्ट-मध्यम- जघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह । तथाहि - केचित् प्रकृष्टोद्यमिनः किञ्चित् प्रकाशमात्रायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्यमिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितति । मुहधोवणेत्यादि, मुखधावनं च दन्तप्रक्षालनं च तैलं च फणिहश्च सिद्धार्थाश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां स्नानाऽऽभरण-परिधानादीनां तानि तथा । तत्र फणिहः कङ्कतकः, तं मस्तकादौ व्यापारयन्ति । सिद्धार्थाः सर्षपा:, हरितालिका दूर्वा, एतद्द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति । आदर्शे तु मुखादि निरीक्षन्ते। धूपे तु वस्त्रादि धूपयन्ति । अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम्, अथवा विकसितानि पुष्पाणि, तान्येवाविकसितानि माल्यम्, एतेषां च मस्तकादिषूपयोगः । शेषं स्वरूपत उपयोगतश्च प्रतीतमेव । एतानि द्रव्यावश्यकानि कृत्वा ततः पश्चाद् राजकुलादौ गच्छन्ति । रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्राऽऽरमन्ति स विविधपुष्पजात्युपशोभित आरामः । वस्त्राऽऽभरणादिसमलङ्कृतविग्रहाः सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति य Page #55 -------------------------------------------------------------------------- ________________ ३८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं करेत्ता ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जाणं वा सभं वा पवं वा गच्छंति। सेतं लोइयं दव्वावस्सयं। (सू० २१) से किं तं कुप्पावयणियं दव्वावस्सयं ? कुप्पावयणियं दव्वावस्सयं जे इमे तच्चम्पकादितरुषण्डमण्डितमुद्यानम् । भारतादिकथाविनोदेन यत्र लोकस्तिष्ठति सा सभा । शेष प्रतीतम् । अत्राह- ननु राजादिभिः प्रभातेऽवश्यं क्रियन्त इति व्युत्पत्तिमात्रेणाऽऽवश्यकत्वं भवतु मुखधावनादीनाम्, द्रव्यत्वं तु कथममीषाम् ? विवक्षितभावस्य हि कारणं द्रव्यं भवति, भूतस्य भाविनो वा भावस्य हि ( ) इत्यादिवचनात्, न च राजादिभिः क्रियमाणानि मुखधावनादीनि भावावश्यककारणं भवन्ति, सत्यम्, किन्तु भूतस्य भाविनो वा ( ) इत्याद्येव द्रव्यलक्षणं न मन्तव्यम्, किं तर्हि ? अप्पाहण्णे वि दव्वसद्दो ती (पञ्चाशके ६।१३) ति वचनादप्रधानवाचकोऽपि द्रव्यशब्दोऽवगन्तव्य:, अप्रधानानि च मोक्षकारणभावावश्यकापेक्षया संसारकारणानि राजादिमुखधावनादीनि, ततश्च द्रव्यभूतानि अप्रधानभूतान्यावश्यकानि द्रव्यावश्यकानि एतानीत्यदोषः । नोआगमत्वं चेहाप्यागमाभावान्नोब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण । निगमयन्नाह- सेतं लोइयमित्यादि, तदेतज्ज्ञशरीर-भव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः । ___ उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकप्रथमभेदः । अथ तद्वितीयभेदनिरूपणार्थमाह - से किं तमित्यादि। अथ किं तत कप्रावचनिकं द्रव्यावश्यकम् ? अत्र निर्वचनम् - कुप्पावयणियं दव्वावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते कुप्रवचनास्तेषामिदं कुप्रावचनिकं द्रव्यावश्यकम्। किं पुनस्तदित्याह - जे इमे इत्यादि, य एते चरकचीरिकादय: प्रभातसमये इन्द्र-स्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकमिति समुदायार्थः। तत्र धाटिवाहका: सन्तो ये भिक्षां चरन्ति ते चरका:, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः। रथ्यापतितचीरपरिधानाचीरिका:, अथवा येषां चीरमयमेव सर्वमुपकरणं ते चीरिका: । चर्मपरिधानाश्चर्मखण्डिका:, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः । ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डा:, सुगतशासनस्था इत्यन्ये । पाण्डुराङ्गा भस्मोद्धूलितगात्रा: । विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचर्चितवृषभकोपायत: कणभिक्षाग्राहिणो गौतमा: । गोचर्यानुकारिणो गोव्रतिका:, ते हि वयमपि किल तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरुपविशन्ति । भुजानाभिस्तद्वदेव तृण-पत्र-पुष्प-फलादि भुञ्जते । तदुक्तम् - Page #56 -------------------------------------------------------------------------- ________________ ३९ श्रीअनुयोगद्वारसूत्रम् [सू०२१] चरग-चीरिग-चम्मखंडिय-भिच्छंडग-पंडरंग-गोतम-गोव्वतिय- गिहिधम्म-धम्मचिंतगअविरुद्ध-विरुद्ध-वुड्ड-सावगप्प-भितयो पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते इंदस्स वा खंदस्स वा रुदस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विभावंता ॥१॥ ( ) गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः। तथा च तदनुसारिणां वच:गृहाश्रमसमो धर्मो न भूतो न भविष्यति । तं पालयन्ति ये धीरा: क्लीबा: पाषण्डमाश्रिता: ॥१॥ ( ) इति । याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्तीति धर्मचिन्तका: । देवता-क्षितीश-मातापितृ-तिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा वैनयिका: । पुण्य-पापपरलोकाद्यनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाषण्डिभि: सह विरुद्धचारित्वात् । अत्राऽऽहननु यद्येते पुण्याद्यनभ्युपगमपरा: कथं तद्देषां वक्ष्यमाणमिन्द्राद्युपलेपनं संभवति, पुण्यादिनिमित्तमेव तस्य सम्भवात् ? सत्यम्, किन्तु जीविकादिहेतोस्तेषामपि तत् संभवतीत्यदोषः । प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धा: तापसाः । श्रावका ब्राह्मणा:, प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभावात् । अन्ये तु वृद्धश्रावका इत्येकमेव पदं ब्राह्मणवाचकत्वेन व्याचक्षते । एतेषां द्वन्द्वसमास: । प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः । पाषण्डं व्रतम्, तत्र तिष्ठन्तीति पाषण्डस्था: । कल्लं पाउप्पभाताए इत्यादि पूर्ववद् यावत्तेजसा ज्वलतीति । इंदस्स वेत्यादि, तत्रेन्द्रः प्रतीत:, स्कन्दः कार्तिकेय:, रुद्रो हर:, शिवस्त्वाकारविशेषधर: स एव व्यन्तरविशेषो वा, वैश्रवणो यक्षनायकः, देव: सामान्य:, नागो भवनपतिविशेष:, यक्षभूतौ व्यन्तरविशेषौ, मुकुन्दो बलदेवः । आर्या प्रशान्तरूपा दुर्गा, सैव महिषारूढा तत्कुट्टनपरा कोदृक्रिया। अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यते, अतस्तस्येन्द्रादेरुपलेपन-सम्मार्जनाऽऽवर्षण-पुष्प-धूप-गन्ध-माल्यादीनि द्रव्यावश्यकानि कुर्वन्ति । तत्र उपलेपनं छगणादिना प्रतीतमेव, सम्मार्जनं दण्डपुञ्छनादिना, आवर्षणं गन्धोदकादिना, शेषं गतार्थम् । तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकम् । अत्र द्रव्यत्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोक्तमिव भावनीयम् । निगमयन्नाह - सेत्तमित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुप्रावचनिकं द्रव्यावश्यकमित्यर्थः । उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकद्वितीयभेदः । अथ तत्तृतीयभेदनिरूपणार्थमाह - से किं तमित्यादि । अथ किं तल्लोकोत्तरिकं द्रव्यावश्यकम् ? अत्र Page #57 -------------------------------------------------------------------------- ________________ ४० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं वा जक्खस्स वा भूयस्स वा मुगुदस्स वा अज्जाए वा कोदृकिरियाए वा उवलेवण-सम्मज्जणा-ऽऽवरिसण-धूव-पुप्फ-गंध-मल्लाइयाई दव्वावस्सयाइं करेंति । सेतं कुप्पावयणियं दव्वावस्सयं । (सू० २२) से किं तं लोगोत्तरियं दव्वावस्सयं ? लोगोत्तरियं दव्वावस्सयं निर्वचनमाह - लोउत्तरियं दव्वावस्सयं जे इमे इत्यादि, लोकस्योत्तरा: प्रधाना: लोकोत्तरा: साधवः, अथवा लोकस्योत्तरं प्रधानं लोकोत्तरं जिनशासनम्, तेषु तस्मिन् वा भवं लोकोत्तरिक द्रव्यावश्यकमिति व्याख्यातमेव । किं पुनस्तदित्याह- जे इमे इत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टा: साध्वाभासा जिनानामनाज्ञया स्वच्छन्दं विहृत्योभयकालमावश्यकाय प्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक द्रव्यावश्यकमिति समुदायार्थः। इदानीमवयवार्थ उच्यते- तत्र श्रमणा: साधवस्तेषां गुणा मूलोत्तरगुणरूपा:, तत्र जीववधविरत्यादयो मूलगुणा:, पिण्डविशुद्ध्यादयस्तूत्तरगुणा:, तेषु मुक्तो योगो व्यापारो यैस्ते सर्वधनादेराकृतिगणत्वात् श्रमणगुणमुक्तयोगिन: । एते च जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदाचित् सानुकम्पा अपि स्युरित्याह - षट्सु कायेषु पृथिव्यादिषु विषये निर्गता अपगता अनुकम्पा मन:सार्द्रता येभ्यस्ते तथा । निरनुकम्पताचिह्नमेवाऽऽह- हया इव तुरगा इव उद्दामा:, चरणनिपातजीवोपमर्दनिरपेक्षत्वाद् द्रुतचारिण इत्यर्थः । किमित्येवंभूतास्ते इत्याह - यतो गजा इव दुष्टद्विरदा इव निरङ्कशा:, गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः । अत एव घट्ट त्ति येषां जचे श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः । तथा मट्ट त्ति तैलोदकादिना येषां केशा: शरीरं वा मृष्टं ते तथैव मृष्टाः, अथवा केशादिषु मृष्टं विद्यते येषां मृष्टवन्तः, वन्तुप्रत्ययलोपान्मृष्टाः। तथा तुप्पोट्ठ त्ति तुप्रा म्रक्षिता मदनेन वा वेष्टिता: शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः । तथा मलपरीषहसहिष्णुतादूरीकृतत्वात् पाण्डुरो धौत: पट: प्रावरणं (च) येषां ते तथा। जिनानामनाज्ञया स्वच्छन्दं विहत्य तीर्थकराज्ञाबाह्या: स्वस्वरुच्या विविधचेष्टाः कृत्वा ततश्चोभयकालं प्रभातसमयेऽस्तमयसमये च, चतुर्थ्यर्थे षष्ठीति कृत्वा आवश्यकाय प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्तरिकं द्रव्यावश्यकम् । अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाच्चाप्रधानतयाऽवसेयं । नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावानोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति। अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम् - वसन्तपुरे नगरेऽगीतार्थसंविग्नो गच्छ एको विचरति । तत्र च श्रमणगुणमुक्तयोगी संविग्नाभास: साधुरेकः प्रतिदिनं पुर:कर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति । तस्मै च गच्छाचार्योऽगीतार्थत्वात् Page #58 -------------------------------------------------------------------------- ________________ ४१ श्रीअनुयोगद्वारसूत्रम् [सू०२२] जे इमे समणगुणमुक्कजोगी, छक्कायनिरणुकंपा, हया इव उद्दामा, गया इव निरंकुसा, घट्टा, मट्ठा, तुप्पोट्ठा, पंडरपडपाउरणा जिणाणं अणाणाए सच्छंदं विहरिऊणं उभओकालं आवस्सगस्स उवटुंति । सेतं लोगुत्तरियं दव्वावस्सयं । से तं जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं । सेतं नोआगमतो दव्वावस्सयं । सेतं दव्वावस्सयं । प्रायश्चित्तं प्रयच्छन् भणति - पश्यत, अहो ! कथमसौ भावमगोपयन् अशठतया सर्वं समालोचयति । सुखं हि आसेवना क्रियते, दु:खं चेत्थमालोचयितुम्, तस्मादशठतयैव शुद्धोऽसौ । तथा च तं प्रशस्यमानं दृष्ट्वा तत्र अन्येऽप्यगीतार्थश्रमणा: प्रशंसन्ति चिन्तयन्ति च - गुरोश्चेदित्थमालोच्यते तर्हि दोषासेवनायामसकृत् कृतायामपि न कश्चिद्दोष:, आलोचनाया एव साध्यत्वात् । एवं चान्यदा तत्र संविग्नगीतार्थ: साधुः कश्चिदायातः । तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तः - त्वमित्थमस्य प्रशंसा कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे । तथाहि - गिरिनगरवासी कश्चिदग्निभक्तो वणिक् पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्षं वह्निना प्रदीपयति । तं चाविवेकितया तन्नगरनरपतिर्लोकश्च श्लाघते - अहो ! धन्योऽयं वणिग् यो भगवन्तं हुतभुजमित्थमौदार्यभक्त्यतिशयाद् रत्नस्तर्पयति । अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहन: सराजप्रासादं समस्तमपि तन्नगरं दहति स्म । ततोऽसौ राज्ञा दण्डितो नगराच्च निष्कासितः । तदेवं यथा राज्ञा तस्य प्रशंसा कुर्वता आत्मा नगरलोकश्च नाशितस्तथा त्वमपि अस्याऽविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि । यदि पुनरमुमेकं शिक्षयसि तदा तथाविधनृप इव सपरिकरो निरपायतामनुभवसि । तथाहि - अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद् वणिगाकर्णितः । ततो नगरदाहापायदर्शिना क्षितीशेन ‘अरण्यं गत्वा किमित्थं न करोषि ?' इत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च। एवं त्वमपीत्याधुपनयो गतार्थः । इत्यादि बहु प्रकारं भणितोऽपि यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधुना शेषसाधवोऽभिहिता: - एष गणाधिपो महानिर्धर्मताऽऽस्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति । तदेवं तत् साध्वावश्यकप्रकारं सर्वं लोकोत्तरिक द्रव्यावश्यकमिति । निगमयन्नाह- सेतमित्यादि, तदेतल्लोकोत्तरिकं द्रव्यावश्यकम् । एतद्भणने च ज्ञशरीर-भव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रव्यावश्यक समर्थितं भवत्यतस्तदपि निगमयति - सेत्तमित्यादि । एतत्समर्थने च नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति - सेतं नोआगमतो इत्यादि । एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत् सोत्तरभेदमप्यवसितमतो निगमयति - सेत्तं दव्वावस्सयमिति तदेतत् द्रव्यावश्यक समर्थितमित्यर्थः। Page #59 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २३) से किं तं भावावस्सयं ? भावावस्सयं दुविहं पण्णत्तं । तंजहा- आगमत य १, णोआगमतो य २ । ४२ (सू० २४) से किं तं आगमतो भावावस्सयं ? आगमतो भावावस्सयं जाणए उवउत्ते । सेतं आगमतो भावावस्सयं । ( सू० २५) से किं तं नोआगमतो भावावस्सयं ? नोआगमतो भावावस्सयं तिविहं पण्णत्तं । तंजहा - लोइयं १, कुप्पावयणियं २, लोगुत्तरियं ३ । उक्तं सप्रपञ्चं द्रव्यावश्यकम्, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह - से किं तमित्यादि । अथ किं तद् भावावश्यकमिति । अत्र निर्वचनमाह- भावावस्सयं दुविहमित्यादि । वक्तृविवक्षितपरिणामस्य भवनं भावः । उक्तं च - भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनाक्रियाऽनुभवात् ॥ १॥ ( ) व्याख्या - वक्तुर्विवक्षितक्रियायाः विवक्षितपरिणामस्य इन्दनादेरनुभवनम् अनुभूतिस्तया युक्तो योऽर्थः स भाव- तद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः । निदर्शनमाह - इन्द्रादिवदित्यादि । यथा इन्दनादिक्रियानुभवात् परमैश्वर्यादिपरिणामेन परिणतत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः इत्यार्यार्थः । भावश्चासौ आवश्यकं च भावमाश्रित्य वा आवश्यकं भावावश्यकम् । तच्च द्विविधं प्रज्ञप्तम्, तद्यथा - आगमतः आगममाश्रित्य नोआगमतः आगमाभावमाश्रित्य । - तत्राऽऽद्यभेदनिरूपणार्थमाह से किं तमित्यादि । अथ किं तदागमतो भावावश्यकम् ? अत्राह - आगमओ भावावस्सयं जाणए इत्यादि, ज्ञायक उपयुक्त आगमतो भावावश्यकम् । इदमुक्तं भवति - आवश्यक पदार्थज्ञस्तज्जनितसंवेगेन विशुद्धयमानपरिणामस्तत्रैवोपयुक्तः साध्वादिरागमत भावावश्यकम्, आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावात् । भावावश्यकता चात्राSsarयकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्तेः, अथवाऽऽवश्यकोपयोगपरिणामानन्यत्वात् साध्वादिरपि भाव:, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्येति । सेतमित्यादि निगमनम् । अथ भाववश्यक द्वितीयभेदनिरूपणार्थमाह से किं तमित्यादि । अथ किं तन्नो आगमतो भावावश्यकम् ? अत्राऽऽह - नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्तम् । तद्यथा - लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदनिर्णयार्थमाह- से किं तं लोइयमित्यादि, अथ किं तल्लौकिकं भावावश्यकमिति ? अत्राह - लोइयं भावावस्सयं पुव्वण्हे इत्यादि । लोके भवं लौकिकम् । यदिदं लोकः पूर्वा Page #60 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२६,२७] (सू० २६) से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं पुव्वण्हे भारहं अवरण्हे रामायणं । सेतं लोइयं भावावस्सयं । (सू० २७) से किं तं कुप्पावयणियं भावावस्सयं ? कुप्पावयणियं भावावस्सयं ? जे इमे चरग-चीरिय जाव पासंडत्था इज्जंजलि-होम-जप्प-उंदुरुक्क-नमोक्कारमाइयाई भारतमपराह्ने रामायणं वाचयति शृणोति वा तल्लौकिकं भावावश्यकम्, लोके हि भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्नापराह्णयोरेव रूढम्, विपर्यये दोषदर्शनात् । ततश्चेत्थमनयोर्लोकेऽवश्यकरणीयत्वादावश्यकत्वम्, तद्वाचकश्रोतृणां च तदर्थोपयोगपरिणामसद्भावाद् भावत्वम्, तद्वाचकश्रोतारश्च पत्रकपरावर्तन-हस्ताभिनय-गात्रसंयतत्व-करकुड्मलमीलनादिक्रियायुक्ता भवन्ति, क्रिया च अनागमत्वेन प्रागिहोक्ता(पृ.३२), किरियाऽऽगमो न होइ ( ) त्ति वचनात्, ततश्च क्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वमपि भावनीयम्, नोशब्दस्यात्र देशनिषेधवचनत्वात्, देशे त्वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात्, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्य भारतादि वाचयन्ति शृण्वन्ति वा तल्लौकिकं भावावश्यकमिति स्थितम्, भावमाश्रित्याऽऽवश्यकं भावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं विस्तरेण । सेतमित्यादि निगमनम् । उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्वितीयभेदनिरूपणार्थमाह - से किं तं कुप्पावयणियमित्यादि । अत्र च निर्वचनमाह- कुप्पावयणियं भावावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते तथा, तेषु भवं कुप्रावचनिकं भावावश्यकम्, किं तत् ? उच्यते, य एते चरक-चीरिकादय: पाषण्डस्था यथावसरम् इज्याञ्जलि-होमादीनि भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकमिति सम्बन्धः । तत्र चरकादिस्वरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिस्वरूपं तूच्यते- तत्र यजनमिज्या याग इत्यर्थः, तद्विषयो जलस्याञ्जलिरिज्याञ्जलिर्यागदेवतापूजावसरभावीति हृदयम् । अथवा यजनमिज्या पूजा गायत्र्यादिपाठपूर्व विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलि: इज्याञ्जलि: । अथवा देशीभाषया इज्ज त्ति माता, तस्या नमस्कारविधौ तद्भक्तैः क्रियमाण: करकुड्मलमीलनलक्षणोऽञ्जलिरिज्याञ्जलि: । होमः अग्निहोत्रिकै: क्रियमाणमग्निहवनम् । जपो मन्त्राद्यभ्यास:। उंदुरुक्कंति देशीवचनत उन्दु मुखम्, तेन रुक्कं वृषभादिशब्दकरणमुन्दुरुक्कं देवतादिपुरतो वृषभगर्जितादिकरणमित्यर्थः । नमस्कारो नमो भगवते दिवसनाथाय' इत्यादिकः । एतेषां द्वन्द्वे इज्याञ्जलि-होम-जपोन्दुरुक्क-नमस्कारा:, ते आदिर्येषां तानि तथा, आदिशब्दात् स्तवादिपरिग्रहः । एतेषां च चरकादिभिरवश्यं क्रियमाणत्वादावश्यकत्वम् । एतत्कर्तृणां च तदर्थोपयोगश्रद्धादिपरिणामसद्भावाद् भावत्वम् । अन्यच्च, चरकादीनां तदर्थोपयोगलक्षणो देश आगम:, देशस्तु कर-शिरोव्यापारादिक्रियालक्षणोऽनागमः, ततो देशे आगमाभावमाश्रित्य Page #61 -------------------------------------------------------------------------- ________________ ४४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं भावावस्सयाई करेंति । से तं कुप्पावयणियं भावावस्सयं । (सू० २८) से किं तं लोगोत्तरियं भावावस्सयं ? लोगोत्तरियं भावावस्सयं जण्णं इमं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे तल्लेसे तयज्झवसिते तत्तिव्वज्झवसाणे तयट्ठोवउत्ते तयप्पियकरणे तब्भावणाभाविते अण्णत्थ कत्थइ मणं अकरेमाणे उभओकालं आवस्सयं करेति । सेतं लोगोत्तरियं भावावस्सयं । सेतं नोआगमतो नोआगमत्वमवगन्तव्यम्, नोशब्दस्येहापि देश-निषेधपरत्वात् । तस्माच्चरकादयस्तदुपयुक्ता यथावसरं यदवश्यमिज्याञ्जल्यादि कुर्वन्ति तत् कुप्रावनिकं भावावश्यकम् । भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव । सेतमित्यादि निगमनम् । उक्तो नोआगमतो भावावश्यकद्वितीयभेदः, अथ तत्तृतीयभेदनिरूपणार्थमाह- से किं तं लोउत्तरियमित्यादि । अत्र निर्वचनम्- लोउत्तरियं भावावस्सयं जं णमित्यादि । जंणं ति, णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः । तत्र श्राम्यतीति श्रमण: साधुः, श्रमणी साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक: श्रमणोपासकः, श्राविका श्रमणोपासिका, वाशब्दा: समुच्चयार्थाः । तस्मिन्नेवाऽऽवश्यके चित्तं सामान्योपयोगरूपं यस्येति स तच्चित्त: । तस्मिन्नेव मनो विशेषोपयोगरूपं यस्य स तन्मना: । तत्रैव लेश्या शुभपरिणामरूपा यस्येति स तल्लेश्य: । तथा तदध्यवसित:, इहाध्यवसायोऽध्यवसितम्, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः । तथा तत्तीव्राध्यवसान:, तस्मिन्नेवाऽऽवश्यके तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा । तथा तदर्थोपयुक्तः, तस्य आवश्यकस्यार्थस्तदर्थः, तस्मिन्नुपयुक्तस्तदर्थोपयुक्त: प्रशस्ततरसंवेगविशुद्ध्यमान:, तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः । तथा तदर्पितकरणः, करणानि तत्साधकतमानि देह-रजोहरण-मुखवस्त्रिकादीनि, तस्मिन् आवश्यके यथोचितव्यापारनियोगेनाऽर्पितानि नियुक्तानि तानि येन स तथा, सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः । तथा तद्भावनाभावित:, तस्य आवश्यकस्य भावना अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुन: पुनस्तदनुष्ठानरूपा तया भावित: अङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावित: । तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि । अमूनि च लिङ्गविपरिणामत: श्रमणी-श्राविकयोरपि योज्यानि । तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादय: उभयकालम् उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकम्, भावमाश्रित्य भावश्चासावावश्यकं चेति वा Page #62 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२९] भावावस्सयं । सेतं भावावस्सयं । (सू० २९) तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा णामधेज्जा भवंति। तंजहाआवस्सयं १, अवस्सकरणिज्ज २, धुवणिग्गहो ३, विसोही य ४ । अज्झयणछक्कवग्गो ५, नाओ ६, आराहणा ७, मग्गो ८ ॥२॥ समणेण सावएण य अवस्सकायव्वयं हवति जम्हा । अंतो अहो-निसिस्स उ तम्हा आवस्सयं नाम ॥३॥ सेतं आवस्सयं । भावावश्यकम् । अत्राप्यवश्यंकरणादावश्यकत्वं तदुपयोगपरिणामस्य च सद्भावाद् भावत्वं मुखवस्त्रिकाप्रत्युपेक्षण-रजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वाद् नोआगमत्वं भावनीयम् । सेतमित्यादि निगमनम् । ___तदेवं स्वरूपत उक्तं भावावश्यकम् । अनेनैव चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह- तस्स णं इमे इत्यादि । तस्य आवश्यकस्य अमूनि वक्ष्यमाणानि एकार्थिकानि परमार्थत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नककाराद्यक्षराणि नामधेयानि पर्यायध्वनयो भवन्ति, तद्यथा-आवस्सयं गाहा। ___ व्याख्या-श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम्, अथवा ज्ञानादिगुणा मोक्षो वा आ समन्तादृश्य: क्रियतेऽनेनेत्यावश्यकम्, अथवा आ समन्ताद्वश्या इन्द्रिय-कषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम्, अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यम्, पूर्वमपि च व्युत्पादितमिदम् । तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयम् । तथा ध्रुवनिग्रह इति , अत्रानादित्वात् क्वचिदपर्यवसितत्वाच्च ध्रुवं कर्म तत्फलभूतः संसारो वा, तस्य निग्रहहेतुत्वान्निग्रहो ध्रुवनिग्रहः । तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः । तथा सामायिकादि-षडध्ययनकलापात्मकत्वादध्ययनषड्वर्गः । तथाऽभिप्रेतार्थसिद्धेः सम्यगुपायत्वात् न्याय:, अथवा जीवकर्मसम्बन्धापनयनान्न्यायः, अयमभिप्राय:यथा कारणिकैदृष्टो न्यायो द्वयोरर्थि-प्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनमप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसम्बन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । तथा मोक्षाराधनाहेतुत्वादाराधना । तथा मोक्षपुरप्रापकत्वादेव मार्ग इति गाथार्थः ।।२।। उक्तगाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाह- समणेण० गाहा, श्रमणादिना अहोरात्रस्य मध्ये यस्मादवश्यं क्रियते तस्मादावश्यकम् । एवमवश्यकरणीयादिपदानामपि व्युत्पत्तिर्द्रष्टव्या, उपलक्षणत्वादस्या इति गाथार्थः ।।३।। सेत्तमित्यादि निगमनम्, तदेतदावश्यकं निक्षिप्तमित्यर्थः । Page #63 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० ३०) से किं तं सुयं ? सुयं चउव्विहं पण्णत्तं । तंजहा - नामसुयं १, ठवणासुयं २, दव्वसुयं ३, भावसुयं ४ । (सू० ३१) से किं तं नामसुयं ? नामसुयं जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा सुए इ नाम कीरति से तं नामसुयं ।। (सू० ३२) से किं तं ठवणासुयं ? ठवणासुयं जण्णं कट्ठकम्मे वा जाव सुए इ ठवणा ठविज्जति से तं ठवणासुयं । (सू० ३३) नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । (सू० ३४) से किं तं दव्वसुयं ? दव्वसुयं दुविहं पण्णत्तं । तं जहा - आगमतो य १, नोआगमतो य २। तदेवं नामादिभेदैनिक्षिप्तमावश्यकम्, तन्निक्षेपे च यदुक्तम् ‘आवश्यकं निक्षेप्स्यामि' इति तत् सम्पादितम्, साम्प्रतं पुनर्यदुक्तं श्रुतं निक्षेप्स्यामि' इति तत्सम्पादनार्थमाह- से किं तं सुतमिति । अथ किं तत् श्रुतमिति प्रश्नः । अत्र निर्वचनं सुतं चउव्विहमित्यादि, श्रुतं प्राग्निरूपितशब्दार्थं चतुर्खिधं प्रज्ञप्तम्, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भावश्रुतं च । तत्राऽऽद्यभेदनिर्णयार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्-नामश्रुतं जस्स णमित्यादि, यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा श्रुतमिति यन्नाम क्रियते तन्नामश्रुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः । अथवा यस्य जीवादेः श्रुतमिति नाम क्रियते तज्जीवादिवस्तु नामश्रुतम्, नाम्ना नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः । तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवमभ्यूह्य वाच्या । सेत्तमित्यादि निगमनम् । उक्तं नामश्रुतम्, अथ स्थापनाश्रुतनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्ठवणासुतं जं णमित्यादि, अत्र व्याख्यानं यथा स्थापनावश्यके तथा सप्रपञ्चं द्रष्टव्यम्, नवरमावश्यकस्थाने श्रुतमुच्चारणीयम्, काष्ठकर्मादिषु श्रुतपठनादिक्रियावन्तः एकादिसाध्वादयः स्थाप्यमाना: स्थापनाश्रुतमिति तात्पर्यम् । सेत्तमित्यादि निगमनम् । ___ नामठवणाणं को पइविसेसो ? इत्यादि पूर्वं भावितमेव । वाचनान्तरे तु नामठवणाओ भणिताओ इत्येतदेव दृश्यते,आवश्यकनाम-स्थापनाभणनेन प्रायोऽभिन्नार्थत्वात् श्रुतनाम-स्थापने अप्युक्ते एव भवत इत्यतो नात्र ते उच्यते इति भावः । द्रव्यश्रुतनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्- दव्वसुतं दुविहमित्यादि, Page #64 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३५-३७] (सू० ३५) से किं तं आगमतो दव्वसुयं ? आगमतो दव्वसुयं जस्स णं सुए त्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव कम्हा ? जइ जाणते अणुवउत्ते ण भवइ । से तं आगमतो दव्वसुयं । (सू० ३६) से किं तं णोआगमतो दव्वसुयं ? णोआगमतो दव्वसुयं तिविहं पन्नत्तं । तंजहा- जाणयसरीरदव्वसुयं १ , भवियसरीरदव्वसुयं २, जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं ३। (सू० ३७) से किं तं जाणयसरीरदव्वसुतं ? जाणयसरीरदव्वावस्सयं* सुतत्तिपदत्थाहिकारजाणयस्स जं सरीरयं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा सिद्धसिलायलगयं वा, अहो ! णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं सुए इ पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिटुंतो ? अयं मधुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणयसरीरदव्वसुतं । द्रव्यश्रुतं द्विविधं प्रज्ञप्तम्, तद्यथा-आगमतश्च नोआगमतश्च । तत्राऽऽद्यभेदनिर्णयार्थमाह-से किं तमित्यादि । अत्र निर्वचनम्-आगमओ दव्वसुतमित्यादि। यस्य कस्यचित् श्रुतमिति पदं श्रुतपदाभिधेयमाचारादिशास्त्रं शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तत्र वाचना-प्रच्छनादिभिर्वर्तमानोऽपि श्रुतोपयोगेऽवर्तमानत्वादागमत: आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थ: । शेषोऽत्राऽऽक्षेप-परिहारादिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवद् द्रष्टव्या, अत एव सूत्रेऽप्यतिदेशं कुर्वता जाव कम्हा ?, जइ जाणए इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्बन्धी सूत्रालापको गृहीत: । एतच्च काञ्चिदेव वाचनामाश्रित्य व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते । सेतमित्यादि निगमनम् । उक्तमागमतो द्रव्यश्रुतम्, इदानीं नोआगमतस्तदेवोच्यते- से किं तमित्यादि। अत्र निर्वचनम्नोआगमतो दव्वसुतं तिविहमित्यादि। अत्राऽऽद्यभेदज्ञापनार्थमाह- से किं तमित्यादि। अत्रोत्तरम्- जाणगसरीरदव्वसुतं सुयत्तीत्यादि। ज्ञातवानिति जस्तस्य शरीरं तदेवानुभूतभावत्वाद् द्रव्यश्रुतं ज्ञशरीरद्रव्यश्रुतम्, श्रुतमिति यत् पदं तदर्थाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं तज्ज्ञशरीरद्रव्यश्रुतमित्यर्थः । ननु यदि जीवविप्रमुक्तमिदं कथं तद्यस्य द्रव्यश्रुतत्वम् ?, लेष्ट्वादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपि कदाचित् श्रुतवेत्तृभिः गृहीत्वा मुक्तत्वसम्भवादित्याशयाऽऽह- सेजागयमित्यादि, शेषोऽत्रावयवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत् श्रुताभिलापतो वाच्य: यावत् सेतमित्यादिनिगमनम् । *. अत्र 'जाणयसरीरदव्वसुतं' इति स्वीकर्तव्यः पाठः। Page #65 -------------------------------------------------------------------------- ________________ ४८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० ३८) से किं तं भवियसरीरदव्वसुतं ? भवियसरीरदव्वसुयं जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवइटेणं भावेणं सुए इ पयं सेकाले सिक्खिस्सति, ण ताव सिक्खति। जहा को दिटुंतो? अयं मधुकुंभे भविस्सति, अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वसुतं । (सू० ३९) से किं तं जाणयसरीरभवियसरीरवतिरित्तं दव्वसुतं ? जाणयसरीरभव्वसरीरवतिरित्तं दव्वसुतं पत्तय-पोत्थयलिहियं । (सू० ४०) अहवा सुत्तं पंचविहं पण्णत्तं । तं जहा - अंडयं १, बोंडयं २, कीडयं ३, वालयं ४, वक्कयं ५। द्वितीयभेदनिरूपणार्थमाह- से किं तमित्यादि। अत्र प्रतिवच:- भवियसरीरदव्वसुअंजे जीवे इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायार्हः, तद्योग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतम् । किं पुनस्तदिति, अत्रोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत् पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यश्रुतमित्यर्थः । शेषं भव्यशरीरद्रव्यावश्यकवत् श्रुताभिलापेन सर्वं वाच्यं यावत् सेतमित्यादि निगमनम् ।। तृतीयभेदपरिज्ञानार्थमाह- से किं तमित्यादि। अत्र निर्वचनम्- जाणगसरीरभवियसरीरवइरित्तं दव्वसुतमित्यादि । यत्र ज्ञशरीर-भव्यशरीरयोः सम्बन्धि अनन्तरोक्तं स्वरूपं न घटते तत् ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यश्रुतम् । किं पुनस्तदित्याह- पत्तयपोत्थयलिहियं ति । पत्रकाणि तलताल्यादिसंबन्धीनि, तत्संघातनिष्पन्नास्तु पुस्तकाः, ततश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपुस्तकलिखितम्, अथवा पोत्थयं ति पोतं वस्त्रम्, पत्रकाणि च पोतं च, तेषु लिखितं पत्रकपोतलिखितं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्, अत्र च पत्रकादिलिखितश्रुतस्य भावश्रुतकारणत्वाद् द्रव्यत्वमवसेयम्, नोआगमत्वं तु आगमतो द्रव्यश्रुत इव आगमकारणस्याऽऽत्मदेहशब्दत्रयरूपस्याभावाद् भावनीयम् । तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुक्तम्, साम्प्रतं तदेव प्रकारान्तरेण निरूपयितुमाह- अहवेत्यादि, अथवा सूत्रं पञ्चविधं प्रज्ञप्तम्, तद्यथा- अंडयमित्यादि । अत्राऽऽहननु श्रुते प्रक्रान्ते सूत्रस्य प्ररूपणमप्रस्तुतम्, सत्यम्, किन्तु प्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्य च सुत्तलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोष:, प्रसङ्गतोऽण्डजादिसूत्रस्वरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति । अत एव भावश्रुते प्रक्रान्ते नामश्रुतादिप्ररूपणमप्रस्तुतमित्याद्यपि प्रेर्यमपास्तम्, तस्यापि शिष्यव्युत्पादनादिफलत्वात्, न च भावश्रुत Page #66 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् सू०४१-४३] (सू० ४१) से किं तं अंडयं ? अंडयं हंसगब्भादि । सेतं अंडयं । (सू० ४२) से किं तं बोंडयं ? बोंडयं फलिहमादि । सेतं बोंडयं । (सू० ४३) से किं तं कीडयं ? कीडयं पंचविहं पण्णत्तं । तंजहा - पट्टे १, मलए २, अंसुए ३, चीणंसुए ४, किमिरागे ५ । सेतं कीडयं ।। प्रतिपक्षस्य नामश्रुतादेः प्ररूपणमन्तरेण भावश्रुतस्य निर्दोषत्वादिस्वरूपनिश्चय: कर्तुं पार्यते, जे सव्वं जाणइ से एग जाणति (आचा ० १।३।४।१) त्ति वचनादित्यलं विस्तरेण । अत्राऽऽद्यभेदज्ञापनार्थमाह- से किं तमित्यादि । अत्रोत्तरम्- अंडयं हंसगब्भादि त्ति, अण्डाज्जातमण्डजम्, हंस: पतङ्गश्चतुरिन्द्रियजीवविशेष:, गर्भस्तु तन्निर्वर्तितकोसिकार:, हंसस्य गर्भो हंसगर्भः, तदुत्पन्नं सूत्रमण्डजमुच्यते, आदिशब्दः स्वभेदप्रख्यापनपरः । ननु यदि हंसगर्भोत्पन्नं सूत्रमण्डजमुच्यते तर्हि सूत्रे अण्डजं हंसगर्भादीति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव, सत्यम्, कारणे कार्योपचारात् तदविरोध:, कोशिकारभवं सूत्रं वटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयम्, पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये । सेतमित्यादि निगमनम् । अथ द्वितीयभेद उच्यते- से किं तमित्यादि, अत्र निर्वचनम्- बोंडयं फलिहमादि त्ति, बोंड वमनीफलम्, तस्माज्जातं बोण्डजम्, फलिही वमनी, तस्याः फलमपि फलिहं कर्पासाश्रयकोशकरूपम्, तदिहापि कारणे कार्योपचाराद् बोण्डजं सूत्रमुच्यते इति भावः । सेत्तमित्यादि निगमनम् । अथ तृतीयभेद उच्यते- से किं तमित्यादि । अत्रोत्तरम्- कीडयं पंचविहमित्यादि । कीटाज्जातं कीटजं सूत्रं तत् पञ्चविधं प्रज्ञप्तम्, तद्यथा- पट्टे त्ति पट्टसूत्रम्, मलयम्, अंशुकम्, चीनांशुकम्, कृमिरागम् । अत्र वृद्धव्याख्या-किल यत्र विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुञ्जा: क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्त: पतङ्गकीटा: समागत्य मांसाद्यामिषोपभोगलुब्धा: कीलकान्तरेष्वितस्तत: परिभ्रमन्तो लाला: प्रमुञ्चन्ति, ताश्च कीलकेषु लग्ना: परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधीयते । अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम् । इत्थमेव चीनविषयबहिस्तादुत्पन्नं तदेवांशुकम् । इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते । क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात्तु पट्टसूत्रादिव्यपदेशविशेष इति भावः । एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूता: कृमय: समुत्पद्यन्ते, ते च वाताभिलाषिणो भाजनच्छिद्रैर्निर्गत्य तदासन्नं पर्यटन्तो यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति-यदा तत्र शोणिते कृमय: समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्यते, तत्र च कश्चिद् योग: प्रक्षिप्यते, ततस्तेन Page #67 -------------------------------------------------------------------------- ________________ ५० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४४) से किं तं वालयं ? वालयं पंचविहं पण्णत्तं । तंजहा - उण्णिए १, उट्टिए २, मियलोमिए ३, कुतवे ४, किट्टिसे ५ । सेतं वालयं । (सू० ४५) से किं तं वक्कयं ? वक्कयं सणमाई । सेतं वक्कयं । सेतं जाणगसरीरभवियसरीरवतिरित्तं दव्वसुयं । से तं नोआगमतो दव्वसुयं । सेतं दव्वसुयं । (सू० ४६) से किं तं भावसुयं ? भावसुयं दुविहं पन्नत्तं । तंजहा - आगमतो य १, नोआगमतो य २। (सू० ४७) से किं तं आगमतो भावसुयं ? आगमतो भावसुयं जाणते उवउत्ते । सेतं आगमतो भावसुयं । यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागं न मुञ्चति । सेतमित्यादि निगमनम्। अथ चतुर्थभेद उच्यते- से किं तमित्यादि। अत्रोत्तरम्- वालयं पंचविहमित्यादि, वालेभ्यः ऊरणिकादिलोमभ्यो जातं वालजम्, तत् पञ्चविधं प्रज्ञप्तम्, तद्यथा-ऊर्णाया इदमौर्णिकम्, उष्ट्राणामिदमौष्ट्रिकम्, एते द्वे अपि प्रतीते, ये मृगेभ्यो ह्रस्वका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोमिकम् । उन्दुररोमनिष्पन्नं कौतवम् । ऊर्णादीनां यदुद्वरितं किट्टिसं तन्निष्पन्नं सूत्रमपि किट्टिसम् । अथवा एतेषामेवोर्णादीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिसम्, अथवा उक्तशेषश्वादिजीवलोमनिष्पन्नं किट्टिसम् । सेतमित्यादि निगमनम् । अथ पञ्चमभेदोऽभिधीयते- से किं तमित्यादि, वल्काज्जातं वल्कजम्, तच्च सणप्रभृति, क्वचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवकादिदेशप्रसिद्धम् । सेत्तमित्यादि निगमनम् । उक्तं पञ्चविधमण्डजादिसूत्रम्, तद्भणनेनोक्तं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्, अतस्तदपि निगमयति-सेतं जाणगेत्यादि, एतद्भणने च समर्थित नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयतिसे तं नोआगमओ इत्यादि । एतत्समर्थने च समर्थितं द्विविधमपि द्रव्यश्रुतमतस्तदपि निगमयतिसे तं दव्वसुतमिति । अथ भावश्रुतनिरूपणार्थमाह- से किं तमित्यादि । अत्रोत्तरम् - भावसुअं दुविहमित्यादि। विवक्षितपरिणामस्य भवनं भाव:, स चासौ श्रुतं चेति भावश्रुतं भावप्रधानं वा श्रुतं भावश्रुतम्, तद् द्विविधं प्रज्ञप्तम्- आगमतो नोआगमतश्च । तत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि । अत्रोत्तरम्- श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमत: आगममाश्रित्य भावश्रुतं श्रुतोपयोगपरिणामस्य सद्भावात् तस्य चाऽऽगमत्वादिति भावः । सेतमित्यादि निगमनम् । Page #68 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४८-५०] (सू० ४८) से किं तं नोआगमतो भावसुयं ? नोआगमतो भावसुयं दुविहं पन्नत्तं । तंजहा - लोइयं १, लोउत्तरियं च २ । (सू० ४९) से किं तं लोइयं भावसुयं ? लोइयं भावसुयं जं इमं अण्णाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धि-मइविगप्पियं । तंजहा- भारहं रामायणं हंभीमासुरुक्कं कोडिल्लयं घोडमुहं सगभद्दिआओ कप्पासियं नागसुहुमं कणगसत्तरी वइसेसियं बुद्धवयणं वेसियं काविलं लोयाययं सद्वितंतं माढरं पुराणं वागरणं नाडगादी, अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा। सेतं लोइयं भावसुयं । (सू० ५०) से किं तं लोगोत्तरियं भावसुयं ? लोगुत्तरियं भावसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाण-दंसणधरेहिं तीत-पडुप्पन्न-मणागतजाणएहिं सव्वन्नूहिं सव्वदरि अथ द्वितीयभेद उच्यते - से किं तं नोआगमओ इत्यादि । अत्रोत्तरम् - नोआगमओ भावसुतं दुविहमित्यादि। __ अत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम् - लोइयं भावसुतं जं इममित्यादि । लोकैः प्रणीतं लौकिकम्, किं पुनस्तदित्याह-यदिदमज्ञानिकर्मिथ्यादृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितं तल्लौकिकं भावश्रुतमिति सम्बन्धः । तत्राल्पज्ञानभावतोऽधनवदशीलवद् वा सम्यग्दृष्टयोऽप्यज्ञानिका: प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभि: स्वच्छन्दबुद्धिमतिविकल्पितम्, इहाऽवग्रहेहे बुद्धिः, अपाय-धारणे तु मति:, स्वच्छन्देन स्वाभिप्रायेण तत्त्वत: सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धि-मतिभ्यां विकल्पित स्वच्छन्दबुद्धिमतिविकल्पितम्, स्वबुद्धिकल्पनाशिल्पिनिर्मितमित्यर्थः । तत्प्रकटनार्थमेवाऽऽह- तद्यथा- भारतमित्यादि एतच्च भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धिगम्यम् । अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थमाह - अहवा बावत्तरिकलाओ इत्यादि, तत्र कलनानि वस्तुपरिज्ञानानि कला:, ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धा:, चत्वारश्च वेदा: (ग्रन्थाग्रम् १०००) सामवेद-ऋग्वेद-यजुर्वेदा-ऽथर्ववेदलक्षणा: साङ्गोपाङ्गाः, तत्राङ्गानि शिक्षा १ कल्प २ व्याकरण ३ च्छन्दो ४ निरुक्त ५ ज्योतिष्कायन ६ लक्षणानि षट्, उपाङ्गानि तद्व्याख्यानरूपाणि, तैः सह वर्तन्ते इति साङ्गोपाङ्गाः । सेतमित्यादि निगमनम् । उक्तं नोआगमतो लौकिकं भावश्रुतम्, अथ लोकोत्तरिकं तदेवाऽऽह - से किं तमित्यादि । लोकोत्तरै: लोकप्रधानैरर्हद्भिः प्रणीतं लोकोत्तरिकम् । किं पुनस्तदित्याह-लोउत्तरियं भावसुतं जं इममित्यादि, यदिदमर्हद्भिादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिकं भावश्रुतमिति सम्बन्धः, तद्यथाआयारो सूयगडमित्यादि, तत्र सदेव-मनुजा-ऽसुरलोकविरचितां पूजामर्हन्तीति अर्हन्तस्तैः, एवं Page #69 -------------------------------------------------------------------------- ________________ ___ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सीहिं तेलोक्कचहिय-महिय-पूइएहिं अप्पडिहयवरनाण-दसणधरेहिं पणीतं दुवालसंगं गणिपिडगं । तंजहा- आयारो १, सूयगडो २, ठाणं ३, समवाओ ४, वियाहपण्णत्ती ५, नायाधम्मकहाओ ६, उवासगदसाओ ७, अंतगडदसाओ ८, अणुत्तरोववाइयदसाओ ९, पण्हावागरणाई १०, विवागसुयं ११, दिट्ठिवाओ १२ य । सेतं लोगोत्तरियं भावसुयं । सेतं नोआगमतो भावसुयं । सेतं भावसुयं । भूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यतस्तीर्थकरप्रतिपत्तये प्राह- भगवद्भिरिति समग्रैश्वर्यनिरुपमरूप-यश:-श्री-धर्म-प्रयत्नवद्भिरित्यर्थः, इत्थंभूताश्च अनाद्यप्रतिघज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभि: ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्ध चतुष्टयम् ।।१।। ( ) इत्यादि, अतस्तद्व्यवच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने, न तु सहजे, ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधरास्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, सहसिद्धं चतुष्टयम् ( ) इत्यादिवचनविरोधप्रसङ्गात् । तर्हि सुगता इत्थंभूता अपि भविष्यन्तीति चेत्, अत्रोच्यतेतीतपडुपण्णेत्यादि, अतीत-वर्तमान-भविष्यदर्थज्ञायकैरित्यर्थः, न च सुगतानामतीत-भविष्यदर्थज्ञातृत्वसम्भव: एकान्तक्षणभङ्गवादित्वेन तदसत्त्वाभ्युपगमात् असतां च ग्रहणेऽतिप्रसङ्गात् । अथ सन्तानद्वारेण कालत्रयेऽप्यर्थानां सद्भावादतीता(द्य)र्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशङ्क्याऽऽहसर्वज्ञैः सर्वदर्शिभिरिति, सर्वम् एकेन्द्रिय-द्वीन्द्रियजीवादि वस्तु केवलज्ञानेन जानन्तीति सर्वज्ञा:, तैः, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिन:, तैः, शाक्यानां त्वतीताद्यर्थ-ज्ञातृत्वेऽपि सर्वज्ञादित्वं नोपपद्यते कतिपयधर्माद्यभीष्ट-पदार्थवेत्तृत्वस्यैव तेष्वभ्युपगमात्, यत उक्तं तच्छिष्यैः सर्वं पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तत्र(स्य) न: क्वोप युज्यते ? ॥१॥ (प्रमाणवा०१।३३-३५) इत्यादि । यथोक्तगुणविशिष्टा एव तिलुक्कचहियमहियेत्यादि, चहिय त्ति विगलद्बहलानन्दाश्रुदृष्टिभिः सहर्षं निरीक्षिता:, यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिता अभिष्टुता:, सुगन्धिसुमन:प्रकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः, तत एषां द्वन्द्वे त्रैलोक्येन भवनपतिव्यन्तर-नर-विद्याधर-वैमानिकादिसमुदायलक्षणेन चहितमहित-पूजिता(स्त्रैलोक्यचहितमहितपूजिता)स्तैः, आह- ननूत्पन्नज्ञानदर्शनधरैरित्युक्तम्, उत्पत्तिमच्च सप्रतिघं दृष्टं यथा मूर्तेष्ववध्यादिज्ञानम्, उत्पन्ने च तज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां ते सप्रतिघज्ञानिन: प्राप्नुवन्ति, तथा च पूर्वोक्तसर्वज्ञत्वादिहानिरित्याशङ्कयाऽऽह- अप्रतिहतवरज्ञानदर्शनधरैरिति, समस्तावरणक्षय Page #70 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५१,५२] (सू० ५१) तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति। तंजहासुय सुत्त गंथ सिद्धंत सासणे आण वयण उवदेसे । पण्णवण आगमे या एगट्ठा पज्जवा सुत्ते ॥४॥ सेतं सुयं ।। (सू०५२) से किं तं खंधे ? खंधे चउव्विहे पण्णत्ते । तंजहा- नामखंधे १, ठवणाखंधे सम्भूतत्वादप्रतिहते मूर्तामूर्तेषु समस्तवस्तुष्वस्खलिते, अत एव वरे प्रधाने केवलज्ञान-दर्शनलक्षणे ज्ञान-दर्शने धरन्ति ये ते तथा तैः, यत्त्ववध्यादे: सप्रतिघत्वं तन्नोत्पत्तिमत्त्वेन, किं तर्हि ? आवरणसद्भावात्, अतोऽप्रतिघे केवलज्ञानदर्शने समस्तावरणक्षयसम्भूतत्वात्, तत्क्षयेऽपि सप्रतिघत्वाभ्युपगमेऽतिप्रसङ्गात्, इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र । तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि, अन्यथा वाऽविरोधत: सुधिया व्याख्येयानि । तैरर्थकथनद्वारेण प्रणीतं प्ररूपितम्, किं तत् ? द्वादशाङ्गं श्रुतम्, परमपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गानि आचारादीनि यत्र तद् द्वादशाङ्गम्, किंभूतम् ? गणिपिटकम्, गुणगणोऽस्यास्तीति गणी आचार्यः, तस्य पिटकं सर्वस्वं गणिपिटकं तद्यथा-आचार इत्यादि सुगमम् । अत्र द्वादशाङ्गश्रुतस्य चरणगुणसमन्वितस्य विवक्षितत्वान्नोआगमत्वं भावनीयम्, देशस्य चरणगुणलक्षणस्यानागमत्वानोशब्दस्य च देशप्रतिषेधत्वेनाश्रयणात्, एवं पूर्वत्रापि लौकिकभावश्रुते वाच्यम् । निगमयन्नाह-से तं लोउत्तरियमित्यादि । एतद्भणने च समर्थितं द्विविधमपि नोआगमतो भावश्रुतम्, अतस्तदपि निगमयतिसे तं नोआगमतो इत्यादि। एतद्भणने चोक्तं सर्वमपि भावश्रुतमतो निगमयति-सेतं भावसुतमिति । तदेवं स्वरूपत उक्तं भावश्रुतम् । अनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह- तस्स णमित्यादि । तस्य श्रुतस्य अमूनि अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि एकार्थिकानि तत्त्वत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नाक्षराणि नामधेयानि पर्यायध्वनिरूपाणि भवन्ति, तद्यथा- सुत गाहा, व्याख्या-गुरुसमीपे श्रूयत इति श्रुतम्, अर्थानां सूचनात् सूत्रम्, विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः, सिद्धं प्रमाणप्रतिष्ठितमर्थमन्तं संवेदननिष्ठारूपं नयतीति सिद्धान्त:, मिथ्यात्वा-ऽविरति-कषायादिप्रवृत्तजीवानां शासनात् शिक्षणाच्छासनम्, प्रवचनमिति पाठान्तरम्, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनम्, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हिता-ऽहितप्रवृत्ति-निवृत्त्युपदेशनादुपदेश:, यथावस्थित-जीवादिपदार्थप्रज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं वाऽऽगम इति, सूत्रे सूत्रविषये एकार्था: पर्याया इति गाथार्थः । सेतं सुतमिति, तदेतन्नामादिभेदैरुक्तं श्रुतमित्यर्थः । साम्प्रतं यदुक्तं स्कन्धं निक्षेप्स्यामि' इति तत्सम्पादनार्थमुपक्रमते- से किं तमित्यादि । अथ Page #71 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं २, दव्वखंधे ३, भावखंधे ४ । (सू० ५३) से किं तं नामखंधे ? नामखंधे जस्स णं जीवस्स वा अजीवस्स वा जाव खंधे ति णामं कज्जति । से तं णामखंधे । (सू० ५४) से किं तं ठवणाखंधे ? ठवणाखंधे जण्णं कट्ठकम्मे वा जाव खंधे इ ठवणा ठविज्जति । सेतं ठवणाखंधे । (सू० ५५) णाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा।। (सू० ५६) से किं तं दव्वखंधे ? दव्वखंधे दुविहे पण्णत्ते । तंजहा- आगमतो य १, नोआगमतो य २। (सू० ५७) (१) से किं तं आगमओ दव्वखंधे ? आगमओ दव्वखंधे जस्स णं खंधे इ पयं सिक्खियं ठियं जियं मियं जाव णेगमस्स एगे अणुवउत्ते आगमओ एगे दव्वखंधे, दो अणुवउत्ता आगमओ दो(ण्णि) दव्वखंधाइं, तिण्णि अणुवउत्ता आगमओ तिण्णि दव्वखंधाइं, एवं जावइया अणुवउत्ता तावइयाइं ताई दव्वखंधाई। (२) एवमेव ववहारस्स वि । (३) संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा दव्वखंधे वा दव्वखंधाणि वा से एगे दव्वखंधे । (४) उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगे दव्वखंधे, पुहत्तं णेच्छति । (५) तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए कहं अणुवउत्ते भवति ? । सेतं आगमओ दव्वखंधे । किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह- खंधे चउविहे इत्यादि । अत्र नामस्कन्धप्रतिपादनसूत्रं स्थापनास्कन्धप्रतिपादकसूत्रं च नाम-स्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण स्वयमेव भावनीयम् । ___ द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीयम्, प्रायस्तुल्यवक्तव्यत्वादिति। से किं तं जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे इति प्रश्ने निर्वचनमाह- जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे तिविहे इत्यादि, ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविध: प्रज्ञप्त:, तद्यथा-सचित्तोऽचित्तो मिश्रः । तत्राऽऽद्यभेदं जिज्ञासुः पृच्छति-से किं तमित्यादि, अनोत्तरम्- सचित्तदव्वखंधे अणेगविहे Page #72 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५८-६३] (सू० ५८) से किं तं णोआगमतो दव्वखंधे ? णोआगमतो दव्वखंधे तिविहे पण्णत्ते। तंजहा- जाणगसरीरदव्वखंधे १, भवियसरीरदव्वखंधे २, जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे ३। (सू० ५९) से किं तं जाणगसरीरदव्वखंधे ? जाणगसरीरदव्वखंधे खंधे इ पयत्थाहिगारजाणगस्स जाव खंधे इ पयं आघवियं पण्णवियं परूवियं जाव सेतं जाणगसरीरदव्वखंधे। (सू० ६०) से किं तं भवियसरीरदव्वखंधे ? भवियसरीरदव्वखंधे जे जीवे जोणिजम्मणनिक्खंते जाव खंधे इ पयं सेकाले सिक्खिस्सइ । जहा को दिटुंतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वखंधे । (सू० ६१) से किं तं जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे ? जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे तिविहे पण्णत्ते । तंजहा सचित्ते १, अचित्ते २, मीसए ३ । (सू० ६२) से किं तं सचित्तदव्वखंधे ? सचित्तदव्वखंधे अणेगविहे पण्णत्ते । तंजहाहयखंधे गयखंधे किन्नरखंधे किंपुरिसखंधे महोरगखंधे उसभखंधे। सेतं सचित्तदव्वखंधे। (सू० ६३) से किं तं अचित्तदव्वखंधे ? अचित्तदव्वखंधे अणेगविहे पण्णत्ते । तंजहादुपएसिए खंधे तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपएसिए खंधे असंखेज्जपएसिए पण्णत्ते इत्यादि, चित्तं मनो विज्ञानमिति पर्याया:, सह चित्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, अनेकविधो व्यक्तिभेदतोऽनेकप्रकार: प्रज्ञप्त: । तद्यथाहयस्कन्ध इत्यादि, हय: तुरगः, स एव विशिष्टैकपरिणामपरिणतत्वात् स्कन्धो हयस्कन्धः, एवं गजस्कन्धादिसमास:, नवरं किन्नर-किम्पुरुष-महोरगा व्यन्तरविशेषाः, उसभत्ति वृषभः, क्वचिद् गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं पसु-पसय-विहग-वानरखंधे त्ति क्वचिद् दृश्यते, तत्र पशुः छगलकः, पसयस्तु आटविको द्विखुर: चतुष्पदविशेष:, विहग: पक्षी, वानरः प्रतीत:, स्कन्धशब्दस्तु प्रत्येकं द्रष्टव्य: । इह च सचित्तस्कन्धाधिकाराज्जीवानामेव च परमार्थतः सचेतनत्वात् कथञ्चिच्छरीरैः सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता:, न तु तदधिष्ठितशरीराणीति सम्प्रदाय: । न च जीवानां स्कन्धत्वं नोपपद्यते, प्रत्येकमसङ्खयेयप्रदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति । हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धम्, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यम्, किन्तु पृथविभिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्यद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्तेतरादिव्यवहारोच्छेदप्रसङ्गात् । सेतमित्यादि निगमनम् । Page #73 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं खंधे अणंतपएसिए खंधे । से तं अचित्तदव्वखंधे । (सू० ६४) से किं तं मीसदव्वखंधे ? मीसदव्वखंधे अणेगविहे पण्णत्ते । तंजहासेणाए अग्गिमखंधे, सेणाए मज्झिमखंधे, सेणाए पच्छिमखंधे । सेतं मीसदव्वखंधे । (सू० ६५) अहवा जाणगसरीर-भवियसरीरवतिरित्ते दव्वखंधे तिविहे पन्नत्ते । तंजहा - कसिणखंधे १, अकसिणखंधे २,अणेगदवियखंधे ३ । (सू० ६६) से किं तं कसिणखंधे ? कसिणखंधे से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे । सेतं कसिणखंधे । अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्- अचित्तदव्वखंधे इत्यादि, अविद्यमानचित्तोऽचित्तः, स चासौ द्रव्यस्कन्धश्चेति समासः, अयमनेकविध: प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकस्कन्ध: इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेश: प्रदेश:, परमाणुरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः, स चासौ स्कन्धश्च द्विप्रदेशिकस्कन्धः, एवमन्यत्रापि यथायोगं समासः। सेत्तमित्यादि निगमनम्। अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह- से किं तमित्यादि । अत्रोत्तरम्- मीसदव्वखंधे सेणाए इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः, स चासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः, कोऽसावित्याहसेनाया: हस्त्यश्व-रथ-पदाति-सन्नाह-खड्ग-कुन्तादिसमुदायलक्षणाया अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकम्, पश्चिमस्कन्ध: पश्चिमानीकम्, एतेषु हि हस्त्यादय: सचित्ता: खड्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भावनीयमिति । सेत्तमित्यादि निगमनम् । तदेवमेकेन प्रकारेण तद्व्यतिरिक्तो द्रव्यस्कन्ध: प्ररूपितः । अथ तमेव प्रकारान्तरेण प्ररूपयितुमाह- अहवा जाणगेत्यादि । अथवा अन्येन प्रकारेण ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविध: प्रज्ञप्त:, तद्यथा-कृत्स्नस्कन्धः अकृत्स्नस्कन्धोऽनेकद्रव्यस्कन्धः । ___ तत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि, अत्रोत्तरम्- कसिणक्खंधेत्यादि, यस्मादन्यो वृहत्तर: स्कन्धो नास्ति स कृत्स्न: परिपूर्ण: स्कन्ध: कृत्स्नस्कन्धः, कोऽयमित्याह- से चेवेत्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिस्कन्ध: कृत्स्नस्कन्धः । आह- यद्येवं प्रकारान्तरत्वमसिद्धम्, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, नैतदेवम्, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्ध्या निष्कृष्य जीवा एवोक्ता:, इह तु जीव-तदधिष्ठितशरीरावयवलक्षण: समुदाय: कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । यद्येवं तर्हि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवम्, यतोऽसंख्येयप्रदेशात्मको जीव: तदधिष्ठिताश्च Page #74 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०६७,६८] (सू० ६७) से किं तं अकसिणखंधे ? अकसिणखंधे से चेव दुपएसियादी खंधे जाव अणंतपदेसिए खंधे । से तं अकसिणखंधे।। (सू० ६८) से किं तं अणेगदवियखंधे ? अणेगदवियखंधे तस्सेव देसे अवचिते तस्सेव शरीरावयवा इत्येवंलक्षण: समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासङ्ख्येयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद् गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम्, यदि हि जीवप्रदेश-पुद्गलसमुदाय: सामस्त्येन वर्द्धत तदा स्याद् ग़जादिस्कन्धस्य बृहत्त्वम्, तच्च नास्ति, समुदायवृद्ध्यभावात्, तस्मादितरेतरापेक्षया जीवप्रदेश-पुद्गलसमुदायस्य हीनाधिक्याभावात् २१सर्वेऽपि हयादिस्कन्धा: परिपूर्णत्वात् कृत्स्नस्कन्धाः। अन्ये तु पूर्वं सचित्तस्कन्धविचारे जीव-तदधिष्ठितशरीरावयवसमुदाय: सचित्तस्कन्धः, अत्र तु शरीरात् बुद्ध्या पृथक्कृत्य जीव एव केवल: कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते । अत्र च व्याख्याने प्रेर्यमेव नास्ति, हय-गजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादित्यलं प्रसङ्गेन । सेत्तमित्यादि निगमनम् । ___ अथाकृत्स्नस्कन्धनिरूपणार्थमाह- से किं तमित्यादि। अत्रोत्तरम्- अकसिणखंधे से चेवेत्यादि, न कृत्स्नोऽकृत्स्नः, स चासौ स्कन्धश्चाकृत्स्नस्कन्धः, यस्मादन्योऽपि बृहत्तर: स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः । कश्चायमित्याह-से चेवेत्यादि, स एव दुपदेसिए खंधे तिपदेसिए खंधे इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नस्कन्ध इत्यर्थः द्विप्रदेशिकस्य त्रिप्रदेशिकापेक्षयाऽकृत्स्नत्वात् त्रिप्रदेशिकस्यापि चतुष्पदेशिकापेक्षयाऽकृत्स्नत्वाद् एवं तावद्वाच्यं यावत् कात्यू नापद्यत इति । पूर्वं द्विप्रदेशिकादि: सर्वोत्कृष्टप्रदेशश्च स्कन्ध: सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः । सेत्तमित्यादि निगमनम्। अथानेकद्रव्यस्कन्धनिरूपणार्थमाह - से किं तमित्यादि । अत्रोत्तरम् - अणेगदवियखंधे तस्सेवेत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्सेवेत्यत्रानुवर्तमानं स्कन्धमात्रं संबध्यते, ततश्च तस्यैव यस्य कस्यचित् स्कन्धस्य यो देशो नख-दन्त-केशादिलक्षण: अपचितो जीव २१. सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः । अथवाऽन्यथाऽपि परिपूर्णत्वमत्रोपपद्यते। तच्चैवं-अगुल्याः स्वावयवापेक्षयाऽवयवित्वं हस्तापेक्षया त्ववयवत्वमेव, हस्तस्याप्यनुल्यपेक्षयाऽवयवित्वं, शरीरापेक्षया त्ववयवत्वमेव, किन्तु शरीरस्य त्ववयवित्वमेव, न कस्याप्यवयवत्वमपि । ततश्चावयवभिन्नत्वे सत्यवयवित्वमन्त्यावयवित्वम् । योऽन्त्योऽवयवी स अन्यावयवापेक्षाशून्यत्वेन परिपूर्णत्वात् कृत्स्नस्कन्धः। हयादिस्कन्धाश्च ईदृशा एव अतः कृत्स्नस्कन्धाः। Page #75 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं देसे उवचिए। सेतं अणेगदवियखंधे। सेतं जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे । सेतं नोआगमतो दव्वखंधे । सेतं दव्वखंधे । (सू० ६९) से किं तं भावखंधे ? भावखंधे दुविहे पण्णत्ते । तंजहा- आगमतो य १, नोआगमतो य २। (सू० ७०) से किं तं आगमतो भावखंधे ? आगमतो भावखंधे जाणए उवउत्ते । सेतं आगमतो भावखंधे। (सू० ७१) से किं तं नोआगमओ भावखंधे ? नोआगमओ भावखंधे एएसिं चेव सामाइयमाइयाणं छण्हं अज्झायणाणं समुदयसमिइसमागमेणं निप्पन्ने आवस्सगसुयक्खंधे प्रदेशैर्विरहितो यश्च तस्यैव देश: पृष्ठोदर-चरणादिलक्षण उपचितो जीवप्रदेशाप्त इत्यर्थः तयोर्यथोक्तदेशयोर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्य: समुदाय: सोऽनेकद्रव्यस्कन्ध इति विशेष:, सचेतनाचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूत: सामर्थ्यात्तुरगादिस्कन्ध एव प्रतीयते । यद्येवं करनस्कन्धादस्य को विशेष इति चेत्, उच्यते-स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो जीवप्रदेशाव्याप्तनखाद्यपेक्षयाऽपि, अयं तु नखाद्यपेक्षयाऽपीति विशेष: । पूर्वोक्तमिश्रस्कन्धादस्य नर्हि को विशेष इति चेत्, उच्यते-तत्र खड्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । सेत्तमित्यादि निगमनम् । तदेवमुक्तो जशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमतो द्रव्यस्कन्धविचार:, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति । अथ भावस्कन्धनिरूपणार्थमाह - से किं तमित्यादि । अत्रोत्तरम्- भावखंधे दुविहे इत्यादि । भावश्चासौ स्कन्धश्च भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च द्विविध: प्रज्ञप्त:, तद्यथा - आगमतश्च नोआगमतश्च, तत्रागमत: स्कन्धपदार्थज्ञस्तत्र चोपयुक्तस्तदुपयोगानन्यत्वाद् भावस्कन्धः । नोआगमतस्तु एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदाय: । स च तेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव स्यादत उच्यते- समुदयस्य समिति: नैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापिताय:शलाकानामिव परस्परनिरपेक्षाणामपि स्यादत उच्यतेतस्या: समुदयसमितेर्य: समागम: परस्परं सम्बद्धतया विशिष्टैकपरिणाम: समुदयसमिति-समागमस्तेन निष्पन्नो य आवश्यकश्रुतस्कन्धः स भावस्कन्ध इति लभ्यते प्राप्यते, भवति इति हृदयम् । इदमुक्तं भवति-सामायिकादिषडध्ययनसंहतिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवस्त्रिका-रजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भावस्कन्धः, नोशब्दस्य देशे आगम Page #76 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०७२,७३] भावखंधे त्ति लब्भइ । सेतं नोआगमतो भावखंधे । से तं भावखंधे । (सू० ७२) तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति । तंजहागण काय निकाय खंध वग्ग रासी पुंजे य पिंड नियरे य । संघाय आकुल समूह भावखंधस्स पज्जाया ||५|| सेतं खंधे | (सू० ७३) आवस्सगस्स णं इमे अत्थाहिगारा भवंति । तं जहा - सावज्जजोगविरती १, उक्कित्तण २, गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४, वणतिगिच्छ ५, गुणधारणा ६ चेव ||६|| निषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः । सेत्तमित्यादि निगमनम् । तदेवं प्रतिपादितो द्विविधोऽपि भावस्कन्ध इति निगमयति- सेतं भावखंधे ति । इदानीं त्वस्यैव एकार्थिकान्यभिधित्सुराह - तस्स णमित्यादि गतार्थं यावद् गण काय गाहा । व्याख्या-मल्लादिगणवद् गणः । पृथिवीकायादिवत् काय: । षड्जीवनिकायवन्निकायः । त्र्यादिपरमाणुस्कन्धवत् स्कन्धः । गोवर्गवद् वर्ग: । शालिधान्यादिराशिवद् राशि: । विप्रकीर्णपुञ्जीकृतधान्यादिपुञ्जवत् पुञ्जः । गुडादिपिण्डवत् पिण्डः । हिरण्यद्रव्यादिनिकरवन्निकरः । तीर्थादिषु संमिलितजनसङ्घातवत् सङ्घातः । राजगृहाङ्गणजनाकुलवदाकुल: । पुरादिजनसमूहवत् समूह: । एते भावस्कन्धस्य पर्यायाः वाचकध्वनय इति गाथार्थ: । सेतमित्यादि निगमनम् । आह - नन्वावश्यके किमिति षडध्ययनानि ? अत्रोच्यते, षडर्थाधिकारयोगात् । के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह- आवस्सगस्स णमित्यादि । आवश्यकस्य एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथा सावज्जजोग गाहा । व्याख्या - प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिरर्थाधिकारः १ । उक्त्तिणत्ति द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणात्वाल्लब्धबोधिविशुद्धि हेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थकराणां गुणोत्कीर्तनाऽर्थाधिकारः । गुणवओ य पडिवत्ति त्ति, गुणा मूलोत्तरगुणरूपा व्रत- पिण्डविशुद्ध्यादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्ति: वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः । चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्ति: कर्तव्येति द्रष्टव्यम् । उक्तं च - परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउं । कारणजाए जाए जहारिहं जस्स जं जोगं || १ || (आवश्यकनि० ११२८ ) ति ३ | खलियस्स निंदण त्ति स्खलितस्य मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्ध्यमानाध्यवसायस्याऽकार्यमिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः ४ । वणतिगिच्छ ५९ Page #77 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ७४) आवस्सगस्स एसो पिंडत्थो वण्णितो समासेणं । एत्तो एक्केक्कं पुण अज्झयणं कित्तइस्सामि ॥७॥ तंजहा- सामाइयं १, चउवीसत्थओ २, वंदणं ३, पडिक्कमणं ४, काउस्सग्गो ५, पच्चक्खाणं ६ । त्ति व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः । इदमुक्तं भवति - चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते ५ । गुणधारणा चेव त्ति गुणधारणा प्रत्याख्यानाध्ययने अर्थाधिकार: । अयमत्र भावार्थ: - मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते ६ । चशब्दादन्येऽप्यपान्तरालार्थाधिकारा विज्ञेया:, एवकारोऽवधारण इति गाथार्थः । तदेवं यदादौ (सू० ७) प्रतिज्ञातम् आवश्यकं निक्षेप्स्यामीत्यादि, तत्रावश्यक- श्रुतस्कन्धलक्षणानि त्रीणि पदानि निक्षिप्तानि । साम्प्रतं त्वध्ययनपदमवसरायातमपि न निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्स्यमानत्वात्, अत्रापि भणने च ग्रन्थगौरवापत्तेरिति । इदानीमावश्यकस्य यद् व्याख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह- आवस्सयस्स गाहा । व्याख्या- आवश्यकस्य आवश्यकपदाभिधेयस्य शास्त्रस्य एषः पूर्वोक्तप्रकार: पिण्डार्थ: समुदायार्थो वर्णित: कथित: समासेन संक्षेपेण । इदमत्र हृदयम्- आवश्यकश्रुतस्कन्ध इति शास्त्रनाम पूर्वं व्याख्यातम्, तच्च सान्वर्थम्, ततश्च यथा सान्वर्थादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादिलक्षण: समुदायार्थः प्रतिपादितो भवति, एवमत्राप्यावश्यकश्रुतस्कन्ध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति । इत ऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि भणिष्यामीति गाथार्थः। तत्कीर्तनार्थमेवाऽऽह- तद्यथा- सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्ग: प्रत्याख्यानम् । तत्र तेषु अनन्तरोद्दिष्टेषु षट्सु अध्ययनेषु मध्ये प्रथमम् आद्यमध्ययनं सामायिकम्, आधुपन्यासश्चास्य नि:शेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात्, उक्तं च सामायिकं गुणानामाधार: खमिव सर्वभावानाम् । न हि सामयिकहीनाश्चरणादिगुणान्विता येन ।।१।। तस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीर-मानसानेकदुःखनाशस्य मोक्षस्य ।।२।। () Page #78 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०७५] (सू० ७५) तत्थ पढमज्झयणं सामाइयं । तस्स णं इमे चत्तारि अणुओगद्दारा भवंति । तंजहा- उवक्कमे १, णिक्खेवे २, अणुगमे ३, णए ४।। तत्र बोधादेरधिकमयनं प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थम् । सामायिकमित्यत्र य: सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः, तस्याऽऽय: प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्ति: समाय:, समो हि प्रतिक्षणमपूर्वैः ज्ञान-दर्शन-चरण-पर्यायैर्भवाटवीभ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभि: संयुज्यते । समाय: प्रयोजनमस्याध्ययनस्य ज्ञान-क्रियासमुदायरूपस्येति सामायिकम्, समाय एव वा सामायिकम्, तस्य सामायिकस्य, णमिति वाक्यालङ्कारे, इमे त्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्य, अनुयोगार्थं व्याख्यार्थं द्वाराण्यनुयोगद्वाराणि । ___ अत्र नगरदृष्टान्तं वर्णयन्त्याचार्या: - यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशोपायाभावतोऽनधिगमनीयत्वात् । कृतैक-द्विकादिद्वारमपि दुरधिगम कार्यातिपत्तये च भवति । चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च संपद्यते । एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं स्यात्, एकादिद्वारानुगतमपि दुरधिगमं भवेत्, सप्रभेदचतुरानुगतं तु सुखाधिगमं भवति, अतः फलवाँस्तदधिगमार्थो द्वारोपन्यासः । कानि पुनस्तानीति तदर्शनार्थमाह- तद्यथेत्यादि । तत्रोपक्रमणं दूरस्थस्य वस्तुनस्तै: तै: प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रम:, उपक्रान्तं हि उपक्रमान्तर्गतभेदैविचारितं हि निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुवागयोगेनेत्युपक्रम:, अथवा उपक्रम्यते अस्मिन् शिष्यश्रवणभावे सतीत्युपक्रम:, अथवा उपक्रम्यते अस्माद्विनीतविनेयविनयादित्युपक्रम:, विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं करोतीति भावः । तदेवं करणाऽधिकरणाऽपादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ता: । यदि त्वेकोऽप्यन्यतरोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः । एवं निक्षेपणं शास्त्रादेर्नाम-स्थापनादिभेदैर्व्यसनं व्यवस्थापन निक्षेपः, निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निक्षेप:, वाच्यार्थविवक्षा तथैव। एवमनुगमनं सूत्रस्यानुकूलमर्थकथनमनुगमः, अथवा अनुगम्यते व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव । एवं नयनं नय:, नीयते परिच्छिद्यते अनेनास्मिन्नस्मादिति वा नयः, सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्त:, Page #79 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ७६ ) से किं तं उवक्कमे ? उवक्कमे छव्विहे पण्णत्ते । तंजहा - नामोवक्कमे १, ठवणोवक्कमे २, Gaalaक्कमे ३, खेत्तोवक्कमे ४, कालवक्कमे ५, भावोवक्कमे ६ । ६२ नामादिभेदैर्निक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयैर्विचार्यते नान्य तदनन्तरं नय इति यथोक्तक्रमेणोपन्यासः फलवानिति । तत्रोपक्रमो द्विधा - शास्त्रीय इतरश्च लोकप्रसिद्ध: । तत्रेतराभिधित्सया प्राह से किं तं उवक्कमे ? उवक्कमे छव्विहे पण्णत्ते इत्यादि । अत्र क्वचिदेवं दृश्यते - उवक्कमे दुविहे पण्णत्ते इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, 'अहवा उवक्कमे छव्विहे पण्णत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात् । यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं स्यात् से किं तं सत्थोवक्कमे ? सत्थोवक्कमे छव्विहे पण्णत्ते इत्यादि, न चैवम्, तस्मान्नेह सूत्रे द्वैविध्यप्रतिज्ञा, किन्त्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण । प्रकृतं प्रस्तुमः - तत्र नाम-स्थापनोपक्रमव्याख्या नाम-स्थापनावश्यकव्याख्यानुसारेण कर्तव्या । द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् से किं तं जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे ? इत्यादि । तत्र द्रव्यस्य नटादेरुपक्रमणं कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायविशेषतः संयोजनं द्रव्योपक्रमः, अथवा द्रव्येण घृतादिना द्रव्ये भूम्यादौ द्रव्याद् घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथा- सचित्तद्रव्यविषय: सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयस्तु मिश्रः, द्रव्योपक्रम इति वर्तते । तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा द्विपदानां नट-नर्तकादीनाम्, चतुष्पदानाम् अश्वहस्त्यादीनाम्, अपदानाम् आम्रादीनाम्, तत्रैकैकः पुनरपि द्विधा - परिकर्मणि वस्तुविनाशे च । तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशेषैरुपक्रम्यते तदा वस्तुनाशे वस्तुनाशविषयो द्रव्योपक्रमः । तत्र द्विपदानां नट-नर्तकादीनां घृताद्युपयोगेन बल-वर्णादिकरणं कर्ण-स्कन्धवर्धनादिक्रिया वा परिकर्मणि सचित्तद्रव्योपक्रमः । द्विविधमप्येतमुपक्रमं बिभणिषुराह से किं तमित्यादि । अत्र निर्वचनम् - दुपाणं नडाणमित्यादि, तत्र नाटकानां नाटयितारो नटास्तेषाम् । नट्टाणं ति नृत्यविधायिनो नर्तकास्तेषाम्, जल्लाणं ति जल्ला वस्त्राखेलकास्तेषाम्, राजस्तोत्रपाठकानामित्यन्ये । मल्लाणं ति मल्लाः प्रतीतास्तेषाम् । मुट्ठियाणं ति मौष्टिका ये मुष्टिभि: प्रहरन्ति मल्लविशेषा एव तेषाम् । वेलंबगाणं ति विडम्बका विदूषका नानावेषादिकारिण इत्यर्थ:, तेषाम्, कहगाणं ति कथकानां प्रतीतानाम् । पवगाणं ति प्लवका ये उत्प्लवन्ते गर्तादिकं झम्पाभिर्लङ्घयन्ति नद्यादिकं वा तरन्ति तेषाम् । Page #80 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०७७-८० ] ( सू० ७७) नाम - ठवणाओ गयाओ । (सू० ७८) से किं तं दव्वोवक्कमे ? दव्वोवक्कमे दुविहे पण्णत्ते । तंजहा- आगमओ १, नोआगमओ य २, जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे तिविहे पण्णत्ते । तंजा सचित्ते १, अचित् २, मीस ३ । ( सू० ७९ ) से किं तं सचित्तदव्वोवक्कमे ? सचित्तदव्वोवक्कमे तिविहे पण्णत्ते । तंजा - दुपाणं १, चउप्पयाणं २, अपयाणं ३ । एक्केक्के दुविहे - परिकम्मे य १, Sagar २ । (सू० ८०) से किं तं दुपए उवक्कमे ? दुपए उवक्कमे दुपयाणं नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं खाणं तूणइल्लाणं तुंबवीणियाणं कायाणं मागहाणं । सेतं 'दुपए उक् I ६३ लासगाणं ति लासका ये रासकान् गायन्ति तेषाम्, जयशब्दप्रयोक्तृणां वा भण्डानामित्यर्थः । आइक्खगाणं ति ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषाम् । लंखाणं ति ये महावंशाग्रमारोहन्ति ते लङ्खास्तेषाम् । मंखाणं ति ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषाम् । तूणइल्लाणं ति तूणाभिधानवाद्यविशेषवताम् । तुंबवीणियाणंति वीणावादकानाम् । काताणंति कावडिवाहकानाम् । मागहाणं ति मङ्गलपाठकानाम् । एषां सर्वेषामपि यद् घृताद्युपयोगेन बल - वर्णादिकरणं कर्णस्कन्धवर्द्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रम:, यस्तु खड्गादिभिरेषां नाश एवोपक्रम्यते संपाद्यते स वस्तुनाशे 'सचित्तद्रव्योपक्रम:' इति वाक्यशेषः । अन्ये तु शास्त्र - गन्धर्वनृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्योपक्रम इति व्याचक्षते, एतच्चायुक्तम्, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते २२तर्ह्येतदप्यदुष्टमेवेति । सेतमित्यादि निगमनम् । २२. तर्ह्येतदप्यदुष्टमेवेति । तथा च यथा नृत्यादिकलासम्पादनमत्र परिकर्मणि द्रव्योपक्रमत्वेन सम्मतं, तथा नटादेरनाशेऽपि मद्यपानादिद्वारा नृत्यादिकलाविनाशकरणमपि वस्तुनाशे सचित्तद्रव्योपक्रमत्वेन शक्यव्याख्यानमेव । नन्वत्र व्याख्याने नटादेः खड्गादिना विनाशो यदि न कृतस्तर्हि वस्तुविनाशाभाव एवेति चेत् ? न नृत्यादिकलानाशे तस्य मनुष्यत्वादिनैवाऽनाशः, नटत्वेन तु नाशो भवत्येवेति न दोषः । मनुष्यत्वादिना नाशाभावमात्रादेवानाशविवक्षणे तु, कृतेऽपि खड्गादिप्रहारे जीवत्वादिना तु नाशाभावादेव नाशे द्रव्योपक्रमस्य वार्ताया एव नाशः स्यादिति । न चैवं व्याख्या काचिदपूर्वैव, गजेन्द्रमूत्रपुरीषादिना दग्धत्वेन बीजवपनादियोग्यताया नाशस्यैव वस्तुनाशे क्षेत्रोपक्रमत्वेनाग्रे व्याख्यास्यमानत्वात् । Page #81 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ८१ ) से किं तं चउप्पए उवक्कमे ? चउप्पए उवक्कमे चउप्पयाणं आसाणं हत्थीणं इच्चाइ | से तं चप्प उवक्कमे । (सू० ८२) से किं तं अपए उवक्कमे ? अपए उवक्कमे अपयाणं अंबाणं अंबाडगाणं इच्चा | सेतं अपए उवक्कमे । सेतं सचित्तदव्वोवक्कमे । (सू० ८३) से किं तं अचित्तदव्वोवक्कमे ? अचित्तदव्वोवक्कमे खंडाईणं गुडादीनं मत्स्यंडीणं । सेतं अचित्तदव्वोवक्कमे । ६४ (सू० ८४ ) से किं तं मीसए दव्वोवक्कमे ? मीसए दव्वोवक्कमे से चेव थासग - आयंसगाइमंडिते आसादी । सेतं मीसए दव्वोवक्कमे । से तं जाणयसरीरभवियसरीरवइरित्ते दव्वोवक्कमे । सेतं नोआगमओ दव्वोवक्कमे । सेतं दव्वोवक्कमे । - अथ चतुष्पदानां द्विविधमप्युपक्रमं बिभणिषुराह से किं तमित्यादि । अत्र निर्वचनम् चउप्पयाणं आसाणं हत्थीणमित्यादि । अश्वादय: प्रतीता एव, एतेषां शिक्षागुणविशेषकरणं परिकर्मणि, खड्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशे, 'सचित्तद्रव्योपक्रमः' इतीहापि वाक्यशेषः । सेत्तमित्यादि निगमनम् । - अथापदानां द्विविधमप्युपक्रमं बिभणिषुराह से किं तमित्यादि । अत्र निर्वचनम् - अपयाणं अंबाणं अंबाडगाणमित्यादि । इहाऽऽम्रादयो देशप्रतीता एव, नवरं चाराणं तियेषु चाकुलि उत्पद्यन्ते ते चारवृक्षाः | आम्रादिशब्दैश्च वृक्षास्तत्फलानि वा गृह्यन्ते । तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रक्षेप- कोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि, शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे 'सचित्तद्रव्योपक्रम:' इत्यत्रापि वाक्यशेष: सेत्तमित्यादि निगमनद्वयम् । अथाचित्तद्रव्योपक्रमं विवक्षुराह से किं तं अचित्तदव्वोवक्कमे इत्यादि । खण्डादयः प्रतीता एव, नवरं मत्स्यण्डी खण्डशर्करा, एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि, सर्वथा विनाशकरणं वस्तुनाशे, 'अचित्तद्रव्योपक्रम:' इति शेषः । सेत्तमित्यादि निगमनम् । - अथ मिश्रद्रव्योपक्रममाह- से किं तमित्यादि । स्थासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणम्, आदिशब्दात् कुङ्कुमादिपरिग्रहः । ततश्च तेषामश्वादीनामेडकान्तानां कुङ्कुमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्गादिभिर्विनाशो वा 'मिश्रद्रव्योपक्रम:' इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते तेऽप्युक्तानुसारेण भावनीयाः । Page #82 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०८५-८६] ६५ (सू० ८५) से किं तं खेत्तोवक्कमे ? खेत्तोवक्कमे - जण्णं हल - कुलियादीहिं खेत्ताई वक्कामिज्जति । सेतं खेत्तोवक्कमे । ( सू० ८६ ) से किं तं कालोवक्कमे ? कालोवक्कमे कालस्सोवक्कमणं कीरति । सेतं कालोवक्कमे । - सेतमित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः । I इतः क्षेत्रोपक्रममभिधित्सुराह से किं तमित्यादि । क्षेत्रस्योपक्रमः परिकर्म - विनाशकरणं क्षेत्रोपक्रमः, स क इत्याह- खेत्तोवक्कमे जं णं हल - -कुलियादीहिं खेत्ताइं उवक्कामिज्जति त्ति, तत्र हलं प्रतीतम्, अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं मयिकाल्लघुतरं काष्ठं तृणादिच्छेदार्थं यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदत्र हलकुलिकादिभिः क्षेत्राण्युपक्रम्यन्ते बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद् गजेन्द्रबन्धनादिभिः क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु हि क्षेत्रेषु बीजानामप्ररोहणाद् विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते । आह- यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेव एतौ परिकर्म-विनाशौ, इत्थं च द्रव्योपक्रम एवायम्, कथं क्षेत्रोपक्रमः ? इति, सत्यम्, किन्तु क्षेत्रमाकाशं तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्यते, दृश्यते च आधेयधर्मोपचार आधारे, यथा मञ्चाः क्रोशन्ति इति, उक्तं च खित्तमरूवं निच्वं न तस्स परिकम्मणं न य विणासो । आहेयगयवसेण उ करणविणासोवयारोऽत्थ || १ || (विशेषावश्यकभा० ९२४) इत्यादि । सेत्तमित्यादि निगमनम् । इदानीं कालोपक्रमः । तत्र कालो द्रव्यपर्याय एव, द्रव्य - पर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा समयावलियमुहुत्तेत्यादिरूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह सूत्रकारः - से किं तमित्यादि । कालस्योपक्रमः कालोपक्रमः, सक इत्याह- जं णं नालिआईहिं कालो उवक्कमिज्जड़ त्ति, णमिति वाक्यालङ्कारे, यदिह नाडिकादिभिरादिशब्दात् शङ्कुच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेष:, तत्र नाडिका ताम्रादिमयघटिका, तया, शङ्कुच्छायादिना वा एतावान् पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रम:, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्तु नक्षत्रादिचारै: कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः, तथाहि - अनेन ग्रह-नक्षत्रादिचारेण विनाशितः कालः, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्त्येवेति, उक्तं च पूज्यै: जं णं नालियादीहिं Page #83 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ८७) से किं तं भावोवक्कमे ? भावोवक्कमे दुविहे पण्णत्ते । तं जहा- आगमतो य १, नोआगगमतो य २। (सू० ८८) ( से किं तं ) आगमओ भावोवक्कमे ? आगमओ भावोवक्कमे जाणए उवउत्ते । ( सेतं आगमओ भावोवक्कमे )। (सू० ८९) ( से किं तं ) नोआगमतो भावोवक्कमे ? नोआगमतो भावोवक्कमे दुविहे पण्णत्ते । तंजहा - पसत्थे य १, अपसत्थे य २। छायाएँ नालियाए व परिकम्मं से जहत्थविन्नाणं ।। रिक्खाइचारेहिं व तस्स विणासो विवज्जासो ॥१॥ ( विशेषावश्यकभा०९२७ ) इत्यादि । सेत्तमित्यादि निगमनम् । अथ भावोपक्रमाभिधानार्थमाह- से किं तमित्यादि । भावोपक्रमो द्विविध: प्रज्ञप्त:, तद्यथाआगमतश्च नोआगमतश्च, तत्रोपक्रमशब्दार्थज्ञ: तत्र चोपयुक्त आगमतो भावोपक्रम: । से किं तं नोआगमओ इत्यादि, अत्रोत्तरम्- नोआगमओ भावोवक्कमे दुविहे इत्यादि, इहाभिप्रायाख्यो जीवद्रव्यपर्यायो भावशब्देनाभिप्रेत:, उक्तं च- भावाभिख्या: पञ्च स्वभाव-सत्ता-ऽऽत्म-योन्यभिप्राया: ( ) ततश्च भावस्य परकीयाभिप्रायस्योपक्रमणं यथावत् परिज्ञानं भावोपक्रमः । स च द्विविध:प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्ताभिधित्सया आह- से किं तमित्यादि। अत्र निर्वचनम्- अप्पसत्थो डोडिणि-गणिआ-अमच्चाईणं ति, इदमिह तात्पर्यम्-ब्राह्मण्या वेश्यया अमात्येन च यत् परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तो भावोपक्रमः, संसारफलत्वात् । तत्र कथं ब्राह्मण्यादिभि: परभावोपक्रमणमकारीति ?, अत्रोच्यते - ____ एकस्या ब्राह्मण्यास्तिस्र: पुत्रिका: । तासां च परिणयनानन्तरं तथा करोमि यथैता: सुखिता भवन्तीति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत्-यदुत त्वया वासभवनसमागमे स्वभर्ता कञ्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण हन्तव्य:, हतश्च यदनुतिष्ठति तन्ममाऽऽख्येयम्, कृतं च तया तथैव, सोऽप्यतिस्नेहतरलितमना ‘अयि प्रियतमे! पीडितस्ते सुकुमालश्चरणो भविष्यति' इत्यभिधानपूर्वक तस्याश्चरणोपमर्दनं चकार, अमुं च व्यतिकरं सा मात्रे निवेदितवती, साऽप्युपक्रान्तजामातृभावा हृष्टा दुहितरं प्रत्यवादीत्- पुत्रिके ! यद् रोचते तत् तदीयगृहे कुरु त्वम्, न तवाऽवचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता, तयाऽपि च तथैव स्वभर्ता शिरसि प्रहतः, केवलमसौ नैतच्छिष्टानां युज्यते' इत्यादि किञ्चित् क्षणमेकं झषित्वा उपरत:, तस्मिंश्च तया मातुर्निवेदिते मात्रा प्रोक्तम् - वत्से ! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व, केवलं त्वद्भर्ता क्षणमेकं झषित्वा स्थास्यति । एवं च तृतीययाऽपि प्रहत:, केवलममुना समुच्छलदतुच्छकोपेन ‘नूनमकुलीना त्वम् ?, यैवं शिष्टजनानुचितं विचेष्टसे' Page #84 -------------------------------------------------------------------------- ________________ ६७ श्रीअनुयोगद्वारसूत्रम् [सू०९०,९१] । (सू० ९०) ( से किं तं ) अपसत्थे भावोवक्कमे ? अपसत्थे भावोवक्कमे डोडिणिगणियाऽमच्चाईणं । ( सेतं अपसत्थे भावोवक्कमे ।) (सू० ९१) ( से किं तं ) पसत्थे भावोवक्कमे ? पसत्थे भावोवक्कमे गुरुमादीणं। (सेतं पसत्थे भावोवक्कमे । सेतं नोआगमतो भावोवक्कमे । सेतं भावोवक्कमे ।) इत्याद्यभिधाय गाढं कुट्टयित्वा गृहान्निष्काशिता । तया चाऽऽगत्य सर्वं मात्रे निवेदितम्, तयाऽपि विज्ञातजामातृभावया गत्वा तत्समीपं 'वत्स ! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थं कर्तव्यम्' इत्यादि किञ्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्तया समाराधनीय इति । तथैकस्मिन्नगरे चतुःषष्टिविज्ञानसहिता गणिका, तया च पराभिप्रायपरिज्ञानार्थं रतिभवनभित्तिषु स्वस्वव्यापारं कुर्वत्य: सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद् राजपुत्रादिरागच्छति स तत्रैव कृताभ्यासतया स्वकीयस्वकीयव्यापारमेव बाढं प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोपचरति, आनुकूल्येनोपचरिताश्च भुजङ्गाः प्रचुरमर्थजातं तस्यै प्रयच्छन्तीति । तथैकस्मिन्नगरे कश्चिद्राजा अमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथि गच्छता राजतुरङ्गमेन क्वचित् खिलप्रदेशे प्रश्रवणमकारि, तच्च तत्प्रदेशपृथिव्या: स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत्, चिरावस्थायिजलं शोभनमत्र प्रदेशे तडागं भवतीति चिन्तयश्चिरमवलोकितवाँश्च, तदिङ्गिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापि विदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिता: सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहा:, अन्यदा च तेनैव प्रदेशेन गच्छता भूपेन दृष्टं पृष्टं चाहो ! मानससरोवद्रमणीयं केनेदं खानितं सर: ?, अमात्यो जगाद देव ! भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्कारणाय निरूपित इति, अत: सचिवो यथावृत्तं सर्वं कथितवान्, अहो ! परचित्तोपलक्षकत्वममात्यस्येति विचिन्त्य परितुष्टो राजा तस्य वृत्तिं वर्द्धयामासेति । तदेवमित्यादिक: संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः। ___ अथ प्रशस्तभावोपक्रममाह- पसत्थो गुरुमाईणं ति, तत्र श्रुतादिनिमित्तं गुर्वादीनां यद् भावोपक्रमणं स प्रशस्तभावोपक्रमः । आह-नन्वनुयोगद्वारविचारोऽत्र प्रक्रान्त:, अनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारि किञ्चित् तदेव वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुत:, व्याख्यानानुपकारित्वात्, तदेतदयुक्तम्, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात्, उक्तं च Page #85 -------------------------------------------------------------------------- ________________ ६८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ९२) अहवा उवक्कमे छव्विहे पण्णत्ते । तंजहा-आणुपुव्वी १, नामं २, पमाणं ३, वत्तव्वया ४, अत्थाहिगारे ५, समोयारे ६ । (सू० ९३) से किं तं आणुपुव्वी ? आणुपुव्वी दसविहा पण्णत्ता । तं जहागुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ।।१।। (प्रशम० ६९) ,अन्यच्चजुत्तं गुरुमयगहणं नाऊण तयं जहट्टियं तत्तो । जह होइ सुप्पसन्नं तह जइयव्वं गुणत्थीहिं ।।१।। गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं । तेण जह सुप्पसन्नं होइ तयं तं तहा कुज्जा ।।२।। आगारिंगियकुसलं जइ सेयं वायसं वए पुज्जा । तह वि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ।।३।। निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहइ ? । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ।।४।। (विशेषावश्यकभाष्ये ९३५, ९३१, ९३३, ९३४) इत्यादि । भवत्वेवं तर्हि भावोपक्रमस्य सार्थकत्वम्, शेषास्तु नाम-स्थापना-द्रव्याधुपक्रमा अनर्थका एव, नैतदेवम्, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थमेवाशन-पान-वस्त्र-पात्रौषधादिद्रव्यं व्याख्यास्थानादिक्षेत्रं प्रव्रज्यालग्नादिकालमुपक्रामतो विनेयस्य द्रव्य-क्षेत्र-कालोपक्रमा अपि सार्थका एव, नाम-स्थापनोपक्रमौ तु प्रकृतानुपयोगित्वेऽप्युपक्रमसाम्यादत्रोक्तौ, अथवा सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्ते उपक्रमसाम्याच्चात्रोक्ता इत्यदोषः। तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमः, साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह- अहवा उवक्कमे इत्यादि। अथवा अनन्तरं य: प्रशस्तभावोपक्रम: उक्त: स द्विविधो द्रष्टव्य:-गुरुभावोपक्रम: शास्त्रभावोपक्रमश्च, शास्त्रलक्षणो भाव: शास्त्रभावस्तस्योपक्रमः शास्त्रभावोपक्रम:, तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः, अथ द्वितीयेन शास्त्रभावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह- अहवा उवक्कमे इत्यादि, अथवेति पक्षान्तरसूचक: उपक्रम:, प्रथमपातनापक्षे शास्त्रीयोपक्रमो द्वितीयपातनापक्षे तु शास्त्रभावोपक्रमः, षविध: षट्प्रकार: प्रज्ञप्त:, तद्यथा-आनुपूर्वी १, नाम २, प्रमाणम् ३, वक्तव्यता ४, अर्थाधिकारः ५, समवतार: ६ । एतेषां च शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं पुरस्तादेव वक्ष्यामः । तत्राऽऽनुपूर्वीस्वरूपनिरूपणार्थमाह- से किं तमित्यादि । अथ किं तदानुपूर्वीवस्त्विति प्रश्नार्थः । Page #86 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०९४-९५] नामाणुपुव्वी १, ठवणाणुपुव्वी २, दव्वाणुपुव्वी ३, खेत्ताणुपुव्वी ४, कालाणुपुव्वी ५, उक्कित्तणाणुपुव्वी ६, गणणाणुपुव्वी ७, संठाणाणुपुव्वी ८, सामायारियाणुपुव्वी ९, भावाणुपुव्वी १० । (सू० ९४) से किं तं णामाणुपुव्वी ? नाम-ठवणाओ तहेव । (सू० ९५) दव्वाणुपुव्वी जाव से किं तं जाणगसरीर-भवियसरीरवइरित्ता दव्वाणुपुव्वी ? जाणगसरीरभवियसरीरवइरित्ता दव्वाणुपुव्वी दुविहा पण्णत्ता । तंजहा- उवणिहिया य १, अणोवणिहिया य २। अत्र निर्वचनम्- आणुपुव्वी दसविहेत्यादि, इह हि पूर्वं प्रथममादिरिति पर्याया:, पूर्वस्य अनु पश्चादनुपूर्वम्, तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी, अनुक्रमोऽनुपरिपाटीति पर्याया:, त्यादिवस्तुसंहतिरित्यर्थः । इयमानुपूर्वी दशविधा दशप्रकारा प्रज्ञप्ता, तद्यथा- नामानुपूर्वी, स्थापनानुपूर्वी, द्रव्यानुपूर्वी, क्षेत्रानुपूर्वी, कालानुपूर्वी, उत्कीर्तनानुपूर्वी, गणनानुपूर्वी, संस्थानानुपूर्वी, सामाचार्यानुपूर्वी, भावानुपूर्वीति। अत्र नाम-स्थापनानुपूर्वीसूत्रे नाम-स्थापनावश्यकसूत्रव्याख्यानुसारेण व्याख्येये, द्रव्यानुपूर्वीसूत्रमपि द्रव्यावश्यकवदेव भावनीयं यावत् जाणगसरीरभवियसरीरवइरित्ता दव्वाणुपुव्वी दुविहेत्यादि। तत्र निधानं निधिर्निक्षेपो न्यासो विरचना प्रस्तार: स्थापनेति पर्यायाः, तथा च लोके निधेहीदं निहितमिदमित्यत्र निपूर्वस्य धास्रो निक्षेपार्थः प्रतीयत एव, उप सामीप्येन निधिरुपनिधिः, एकस्मिन् विवक्षितेऽर्थे पूर्वं व्यवस्थापिते तत्समीप एवापरापरस्य वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण यनिक्षेपणं स उपनिधिरित्यर्थः, उपनिधि: प्रयोजनं यस्या आनुपूर्व्या: सा औपनिधिकीति प्रयोजनार्थे इकण्प्रत्यय:, सामायिकाध्ययनादिवस्तूनां वक्ष्यमाणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना आनुपूर्वी औपनिधिकीत्युच्यत इति तात्पर्यम् । अनुपनिधि: वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेणाविरचनं प्रयोजनमस्या इत्यनौपनिधिकी, यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा त्र्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी २३अनौपनिधिकीत्युच्यते इति भाव: । आह- नन्वानुपूर्वी परिपाटिरुच्यते, भवतां च त्र्यणुकादिको २३. अनौपनिधिकीत्युच्यते इति भाव इति । ननु पूर्वस्य अनु = पश्चाद् अनुपूर्वं, तस्य भाव आनुपूर्वीत्यानुपूर्वीशब्दस्य व्युत्पत्तिः । अग्रे च ९९ तम सूत्रव्याख्यायां त्र्यणुकादावादिमध्यान्तलक्षणसम्पूर्णगणनानुक्रमस्योपपत्तिर्वक्ष्यते । ततश्च त्र्यणुकादावानुपूर्वीत्वस्य सत्त्वात् पूर्वानुपूर्व्यादिक्रमेण विरचनाऽभावः कथम् ? त्रयाणां परमाणूनां मध्ये यः परमाणुस्तदपेक्षया पूर्व-पश्चाद्भावस्यान्ययोर्द्वयोः परमाण्वोः सम्भवात्पूर्वानुपूर्वीक्रमस्यापि सम्भवादिति चेत् ? न, कथमिति चेदित्थं-वयमसत्कल्पनां कुर्मः | त्रयाणां परमाणूनां क्रमशः क, ख, ग इति संज्ञाः कल्पनीयाः। ततश्च त्रयः परमाणवो Page #87 -------------------------------------------------------------------------- ________________ ७० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ९६) तत्थ णं जा सा उवणिहिया सा ठप्पा । ऽनन्ताणुकावसान एकैक: स्कन्धोऽनौपनिधिक्यानुपूर्वीत्वेनाभिप्रेतः, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित् परिपाटिरस्ति विशिष्टैकपरिणामपरिणतत्वात् तेषाम्, तत् कथमिहानुपूर्वीत्वम् ? सत्यम्, किन्तु त्र्यादिपरमाणूनामादिमध्याऽवसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्यते । तत्थ णमित्यादि, तत्र याऽसावौपनिधिकी द्रव्यानुपूर्वी सा स्थाप्या सांन्यासिकी, तिष्ठतु तावदल्पतरवक्तव्यत्वेन तस्या उपरि वक्ष्यमाणत्वादिति भावः । अनौपनिधिकी तु पश्चानिर्दिष्टाऽपि यदि कखगक्रमेणावस्थिताः स्युस्तदा वयं तं क्रमं परावृत्त्य गखक-खकग इत्यादिक्रमेण तेषामवस्थानं कर्तुं न पारयामः । अतः पूर्वानुपूर्व्यादिक्रमेण विरचनाऽभावस्यैव भावादनौपनिधिकत्वम् । नन्वित्थं त्वावश्यकश्रुतस्कन्धस्याप्यनौपनिधिकत्वमेव स्याद्, तत्रापि सामायिक-चतुर्विंशतिस्तववन्दनादिक्रमं परित्यज्य चतुर्विंशतिस्तवसामायिकेत्यादिक्रमेण तदनुष्ठानेऽस्माकमधिकाराभावादिति चेत् ? न, अनुष्ठाने क्रमपरावर्तनाधिकाराभावेऽपि निरूपणे तदभावाभावात्। अयमाशयः प्रज्ञापकः शिष्यबुद्धिवैशद्यादिकं प्रयोजनमपेक्ष्य प्रत्याख्यानकायोत्सर्गेत्यादिपश्चानुपूर्वीक्रमेण यदि वा कायोत्सर्ग-प्रत्याख्यानेत्याद्यनानुपूर्वीक्रमेण यदि षडध्ययनानां प्ररूपणां करोति, न तत्र कश्चित् दोषो न वा कश्चित् प्रतिषेद्धा । अतः पूर्वानुपूादिक्रमेण विरचनस्यात्र सम्भवादेवौपनिधिकत्वं, न त्वनौपनिधिकत्वम् । स्कन्धगतपरमाणुत्रये तु निरूपणेऽपि नैवं विरचनस्य सम्भवः, अयं 'क' परमाणुः स चेदृग्वर्णाद्यापन्नः, एष 'ख' परमाणुः, स त्वेतादृग्वर्णाद्यापन्न इत्यादिवाग्व्यवहारस्यासम्भवाद्। . ___ यदि सम्पूर्णपुद्गलास्तिकायस्य निरूपणमभिलषितं, तर्हि कदाचिन्निरूपयिता प्रथम परमाणुमुक्त्वा तदनन्तरं द्यणुकं कथयति, तत्पश्चात् त्र्यणुकमित्येवं क्रमेण सर्वोत्कृष्टमचित्तमहास्कन्धं यावत् निरूपयति । अस्मिंस्तु निरूपणप्रस्तावे तेन निरूपयित्रा परमाणुसमीपे ट्यणुको व्यवस्थापितः, तत्समीपे च त्र्यणुकः... इत्येवं पूर्वानुपूर्वीक्रमेण सम्पूर्णः पुद्गलास्तिकायो व्यवस्थापितः। कदाचित्तु स एव निरूपयिताऽन्यो वा शिष्यबुद्धिवैशद्यादिकं निमित्तमुपलभ्योत्कृष्टमचित्तमहास्कन्धं प्रथमं निरूप्य तदनन्तरमेकेन परमाणुना न्यूनमचित्तमहास्कन्धं निरूपयतीत्येवं क्रमेण परमाणुं यावत् निरूपयति । एतस्मिंस्तु प्रस्तावे तेन निरूपयित्रा तत्तत्स्कन्धस्य सामीप्ये तत्तत्स्कन्धापेक्षयैकेन परमाणुना न्यूनस्य स्कन्धस्य निधानं निधिर्निक्षेपो न्यासः स्थापनेति यावत् कृता अर्थात् पश्चानुपूर्वीक्रमेण विरचना कृता। एवं कदाचित्त्वनानुपूर्वीक्रमेणापि विरचना शक्यसम्भवा । अतः पुद्गलास्तिकायस्यौपनिधिक्यानुपूर्वीत्वं ज्ञेयम् । एवमेव धर्मास्तिकायादिषड्द्रव्यादीनामप्यौपनिधिकत्वं ज्ञेयम्। Page #88 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०९७] ७१ (सू० ९७) तत्थ णं जा सा अणोवणिहिया सा दुविहा पन्नत्ता । तंजहा- णेगमववहाराणं १, संगहस्स य २ । बहुतरवक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्ये हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यत इति २४गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिकीस्वरूपं विवरीषुराह- तत्थ णमित्यादि, तत्र याऽसावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, तद्यथा- मैगमव्यवहारयोः सङ्ग्रहस्य च, नैगमव्यवहारसंमता सङ्ग्रहसंमता चेत्यर्थः, अयमत्र भावार्थ:- इहौघत: सप्त नया भवन्ति नैगमादयः, उक्तं चनैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूद्वैवंभूता नया: (तत्त्वार्थ० १।३३)। एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः, पर्याया एव वस्तुत: सन्ति न द्रव्यमित्यभ्युपगमपर: पर्यायास्तिकः, तत्राऽऽद्यास्त्रयो द्रव्यास्तिकः, शेषास्तु पर्यायास्तिकः, पुनर्रव्यास्तिकोऽपि सामान्यतो द्विविध:- अविशुद्धो विशुद्धश्च, तत्र नैगम-व्यवहाररूपोऽविशुद्ध:, सङ्ग्रहरूपस्तु विशुद्ध:, कथम् ? यतो नैगम-व्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं चाऽविशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाणुत्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, २५एतच्च किलानेकताद्यभ्युपगमकलङ्केनाकलङ्कितत्वाच्छुद्धम्, तत: शुद्ध २४. गुणाधिक्यं पर्यालोच्येति । न चायमेकान्तो ज्ञेयो यद् बहुतरवक्तव्यं वस्त्वेव प्रथममुच्यत इति, क्वचित् सूचिकटाहन्यायं पुरस्कृत्याल्पतरवक्तव्यस्य वस्तुनोऽपि प्रथममुच्यमानत्वात्। २५. एतच्च किलानेकतेत्यादि। नन्वनेकताद्यभ्युपगमस्य कलङ्कत्वं कथं येन तेनाकलङ्कितत्वाच्छुद्धत्वं सङ्ग्रहस्येति चेत् ? इत्थमिति गृहाण-गुणनमनेककरणं, परिगमनं पर्याय इति गुणपर्यायशब्दयोर्युत्पत्तिरनेककरणत्वमेव च तयोर्द्वयोरर्थः । गुणपर्यायाश्च प्रधानतया पर्यायास्तिकनयविषयाः। तथा च द्रव्यास्तिकनयस्य यावतांशेन गुणपर्यायाभ्युपगमपरत्वं तावतांशेन तस्य पर्यायास्तिकनयसंवलितत्वं तद्वशादशुद्धत्वञ्च बलादप्यापतत्येव । सङ्ग्रहस्तु सर्वेषां परमाणूनां परमाणुत्वेनैकत्वमेव मन्यते, नैगमव्यवहारौ त्वयं कृष्णः परमाणुरयं तु नील इत्यादिरूपेणानेकत्वं मन्वानौ तावतांशेन कृष्णादिगुणानप्यभ्युपगच्छत एव, अनेककरणत्वस्य गुणार्थत्वात्। तथा च तयोः पर्यायास्तिकनयसंवलितत्वं, कलङ्कितत्वमशुद्धत्वञ्चानिवारितमेव | अत इदं फलितं भवति यद् द्रव्यास्तिकनयस्यानेकत्वाभ्युपगमः कलङ्क इति। अत्रानेकताद्यभ्युपगमेत्यादिवाक्यांशस्थादादिशब्दाद् अनित्यत्वाद्यभ्युपगमोऽपि कलङ्करूपेण ज्ञेयः। तथाहि- त्रैकालिकमविचलितरूपं द्रव्यं द्रव्यार्थिकस्य विषयः। तद्विपरीतः क्षणिकः Page #89 -------------------------------------------------------------------------- ________________ ७२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ९८) से किं तं णेगम-ववहाराणं अणोवणिहिया दव्वाणुपुव्वी ? णेगमववहाराणं अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्ता । तंजहा-अट्ठपयपरूवणया १, द्रव्याभ्युपगमपरत्वादयमेव शुद्धः । ___२६अत्र च द्रव्यानुपूर्येव विचारयितुं प्रक्रान्ता, अत: शुद्धाशुद्धस्वरूपद्रव्यास्तिकमतेनैवासौ दर्शयिष्यते, न पर्यायास्तिकमतेन, पर्यायविचारस्याऽप्रक्रान्तत्वादित्यलं विस्तरेण । तत्र नैगम-व्यवहारसंमतामिमां दर्शयितुमाह- से किं तमित्यादि । अत्र निर्वचनम्- नेगमववहाराणं अणोवणिहिआ दव्वाणुपुव्वी पंचविहेत्यादि । अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता, तद्यथा- अर्थपदप्ररूपणता, भङ्गसमुत्कीर्तनता, भङ्गोपदर्शनता, समवतारः, अनुगमः । एभिः पञ्चभिः प्रकारैर्नैगम-व्यवहारनयमतेन अनौपनिधिक्या: द्रव्यानुपूर्व्या: स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः त्र्यणुकस्कन्धादिस्तधुक्तं तद्विषयं वा पदमानुपूर्व्यादिकम्, तस्य प्ररूपणं कथनम्, तद्भावोऽर्थपदप्ररूपणता 'इयमानुपूर्व्यादिका संज्ञा, अयं च तदभिधेयस्त्र्यणुकादिरर्थ: संज्ञी' इत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं २ कर्तव्यमिति भावार्थः । तेषामेवानुपूर्व्यादिपदानां समुदितानां वक्ष्यमाणन्यायेन सम्भविनो पर्यायः पर्यायर्थिकस्य विषयः । ततश्च स्वाभ्युपगतस्यार्थस्यावस्थानकालो यथा यथाऽल्पोऽल्पतरश्च भवति तथा तथा द्रव्यार्थिकनयस्य पर्यायार्थिकनयविषयसंवलितत्वं शक्रेणापि निवारयितुमशक्यमेव । तदेव तस्य कलङ्कितत्वमशुद्धत्वमिति यावत् । परमाणोः परमाणुत्वेन योऽवस्थानकालस्तदपेक्षया कृष्णपरमाणुत्वेन योऽवस्थानकालस्तस्याल्पत्वं स्पष्टमेव । अतः परमाणुत्वेन परमाणुमेव द्रव्यरूपतया मन्वानस्य सङ्ग्रहनयस्यापेक्षया कृष्णादिपरमाणुं द्रव्यरूपतया मन्वानयो गमव्यवहारयोरशुद्धत्वमपि स्पष्टमेव । २६. अत्र च द्रव्यानुपूर्व्यवेत्यादि । ननु ऋजुसूत्रनयापेक्षया शब्दस्य पर्यायपरत्वमधिकम् । एवं शब्दाद्यपेक्षया समभिरूढादेः पर्यायपरत्वमधिकम् । तथापि ऋजुसूत्रापेक्षया शब्दस्य, शब्दाद्यपेक्षया समभिरूढादेः शुद्धत्वं शुद्धतरत्वमन्यत्रानेकत्र यदुक्तं तेन ज्ञायते यद् यथा यथा पर्यायपरत्वं तथा तथा शुद्धत्वमिति । तदत्र किमर्थं विपरीतं भण्यते यन्नैगमव्यवहारौ पर्यायाभ्युपगमपरतयाऽशुद्धावितीत्याशङ्कानिराकरणायोक्तमत्रात्र चेत्यादि । तदाशयस्त्वयं ऋजुसूत्रादीनां पर्यायास्तिकनयत्वेन पर्यायपरत्वं शुद्धत्वेन व्यवह्रियते । अत ऋजुसूत्राद्यपेक्षया शब्दादीनां शुद्धशुद्धतरत्वादिकम्। किन्तु नैगमादयस्तु द्रव्यास्तिकनयाः। अतस्तेषां पर्यायपरत्वमशुद्धत्वेन द्रव्यपरत्वं च शुद्धत्वेन व्यवह्रियते । प्रस्तुते च द्रव्यानुपूर्वीविचारस्य प्रस्तुतत्वाद् द्रव्यास्तिकमतेनैव निरूपणम् । अतो द्रव्यपरः सङ्ग्रहोऽत्र शुद्धत्वेनोक्तः, पर्यायपरौ च नैगमव्यवहारावशुद्धत्वेनेति । २७. कर्तव्यमिति भावार्थः। नन्वत्र किमनूद्य कस्य विधानम् ? यः कम्बूग्रीवादिमान् Page #90 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०९९] भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५ । ( सू० ९९ ) से किं तं णेगम - ववहाराणं अट्ठपयरूवणया ? णेगम-ववहाराणं अट्ठपयरूवणया तिपएसिए आणुपुव्वी, चउपएसिए आणुपुव्वी जाव दसपएसिए आणुपुव्वी, संखेज्जपदेसिए आणुपुव्वी, असंखेज्जपदेसिए आणुपुव्वी, अणंतपएसिए आणुपुव्वी । विकल्पा भङ्गा उच्यन्ते, भज्यन्ते विकल्प्यन्ते इति कृत्वा, तेषां समुत्कीर्तनं समुच्चारणं भङ्गसमुत्कीर्तनम्, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां द्व्यादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनम्, तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयम्, भङ्गोपदर्शने तु तदेव स्वविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेष: । तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थान - परस्थानान्तर्भावचिन्तनप्रकार: समवतार: । तथा तेषामेवानुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणतादिभिरनुयोगद्वारैरनुगमनं विचारणमनुगमः । तत्राऽऽद्यभेदं विवरीषुराह से किं तं नेगम-ववहाराणमित्यादि । अथ केयं नैगम-व्यवहारयोः सम्मता अर्थपदप्ररूपणतेति । अत्रोत्तरमाह - नेगम - ववहाराणमित्यादि । तत्र त्रयः प्रदेशाः परमाणुत्रयलक्षणा यत्र स्कन्धे स आनुपूर्वीत्युच्यते, एवं यावदनन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीत्युच्यते । परमाणुपोग्गले त्ति एकः परमाणुः परमाण्वन्तरासंसक्तोऽनानुपूर्वीत्यभिधीयते, प्रदेश यत्र स प्रदेशिकः स्कन्धोऽवक्तव्यकमित्याख्यायते, बहवस्त्रिप्रदेशिकादयः स्कन्धा आनुपूर्व्यः, बहवश्चैकाकिपरमाणवोऽनानुपूर्व्यः, बहूनि च द्व्यणुकस्कन्धद्रव्याण्यवक्तव्यकानि । आनुपूर्व्यं प्रक्रान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थ: । इहाऽऽनुपूर्वी अनुपरिपाटिरिति पूर्वमुक्तम्, सा च यत्रैवादिमध्याऽन्तलक्षणः सम्पूर्णो गणनानुक्रमोऽस्ति तत्रैवोपपद्यते, नान्यत्र, एतच्च त्रिप्रदेशिकादिस्कन्धेष्वेव, तथाहि - यस्मात् परमस्ति न पूर्वं स आदि:, यस्मात् पूर्वमस्ति न परं सोऽन्तः, तयोश्चान्तरं मध्यमुच्यते, अयं संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ, तस्यैकद्रव्यत्वेनाऽऽदिमध्याऽन्तव्यवहाराभावात्, अत एवायमनानुपूर्वीत्वेनोक्तः, नापि स घटः इत्यत्रेव प्रसिद्धं वाच्यार्थमनूद्य वाचकस्य पदस्य विधानमथवा “घट इति यत्पदं तस्य कम्बुग्रीवादिमत्पदार्थः वाच्यः" इत्यत्रेव प्रसिद्धपदमनूद्य वाच्यार्थस्य घटस्य विधानमिति चेत् ? प्रथमं विकल्पं गृहाण । 'त्र्यणुकादिको योऽर्थस्तस्यानुपूर्वीति संज्ञा ज्ञेये' त्येवमर्थमुद्देश्य पदस्य विधानमत्र मन्तव्यम्... अत एव अर्थस्य यत्पदं तस्य प्ररूपणताऽर्थपदप्ररूपणतेत्येवं द्वारनिर्देशः, न तु पदस्य योऽर्थस्तस्य प्ररूपणता पदार्थप्ररूपणतेत्येवमिति । ७३ Page #91 -------------------------------------------------------------------------- ________________ ७४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं परमाणुपोग्गले अणाणुपुव्वी । दुपएसिए अवत्तव्वए । तिपएसिया आणुपुव्वीओ जाव अणंतपएसिया आणुपुव्वीओ। परमाणुपोग्गला अणाणुपुव्वीओ। दुपएसिया अवत्तव्वगाई। से तं णेगम-ववहाराणं अट्ठपयपरूवणया। व्यणुकस्कन्धे, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावात् । अत्राऽऽह- ननु पूर्वस्यानु पश्चादनुपूर्वं तस्य भाव आनुपूर्वीति पूर्वं व्याख्यातम्, एतच्च व्यणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमानत्वात्, तत: सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति ? नैतदेवम्, यतो यथा मेर्वादिके क्वचित् पदार्थे मध्येऽवधौ व्यवस्थापिते लोके पूर्वादिविभाग: प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवम्, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्यासिद्धत्वात् । यद्येवं परमाणुवद् व्यणुकस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते ? सत्यम्, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ, तस्मादानुपूर्व्यनानुपूर्वीप्रकाराभ्यां वक्तुमशक्यत्वादवक्तव्यकमेव व्यणुकस्कन्धः । तस्माद्व्यवस्थितमिदम्- आदि-मध्या-ऽन्तभावेनावधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपश्चाद्भावस्य सद्भावात् त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, व्यणुकोऽवक्तव्यकमिति । एवं संज्ञासंज्ञिसम्बन्धकथनरूपा अर्थपदप्ररूपणा २८कृता भवति । यद्येवं त्रिप्रदेशिका आनुपूर्व्य इत्यादिबहुवचननिर्देश: किमर्थम्, एकत्वमात्रेणैव संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात् ? सत्यम्, किन्त्वानुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थो नैगम-व्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः।। अत्राऽऽह- नन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तव्यकद्रव्यं परमाणुद्वयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येवं निर्देशो युज्यते, पश्चानुपूर्वीक्रमाश्रयणे तु व्यत्ययेन युक्तः, तत् २८. कृता भवति...। इदमत्र हृदयम्... पूर्वस्यानु = पश्चादनुपूर्वं तस्य भाव आनुपूर्वीति व्युत्पत्तिलभ्यः पूर्वपश्चाद्भाव आनुपूर्वीपदस्य व्युत्पत्तिनिमित्तम्... असाङ्कर्येण पूर्वपश्चाद्भावस्तु प्रवृत्तिनिमित्तम्... व्यणुकेऽसाङ्कर्येण पूर्वपश्चाद्भावस्य प्रवृत्तिनिमित्तस्याभावान्नानुपूर्वीति पदस्य प्रवृत्तिः। अत आनुपूर्व्यनानुपूर्वीत्युभयपदावाच्यत्वेनावक्तव्येति पदस्य ट्यणुके प्रवृत्तिः । नन्वसाङ्कर्येण पूर्वपश्चाद्भाव इत्यत्र साङ्कर्य इति पदस्य कोऽर्थः ? व्यणुके मध्यवर्तिन एकस्यावधिभूतस्याभावाद् द्वयोरप्यवधिभूतत्वेन विवक्षणमावश्यकमतः प्रथमापेक्षया द्वितीयस्मिन् परमाणौ पश्चाद्भावः, स्वापेक्षया तु पश्चाद्भावाभावात् पूर्वभाव इत्येवं पूर्वभावस्य पश्चाद्भावस्य साङ्कर्यम् । प्रथमपरमाणावप्येवमेव साङ्कर्यम्...। Page #92 -------------------------------------------------------------------------- ________________ ७५ श्रीअनुयोगद्वारसूत्रम् [सू०१००,१०१] (सू० १००) एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कीरइ । (सू० १०१) से किं तं णेगम-ववहाराणं भंगसमुक्कित्तणया ? णेगम-ववहाराणं भंगसमुक्कित्तणया- अत्थि आणुपुव्वी १, अत्थि अणाणुपुव्वी २, अत्थि अवत्तव्वए ३, अत्थि आणुपुव्वीओ ४, अत्थि अणाणुपुव्वीओ ५, अत्थि अवत्तव्वयाइं ६। कथं क्रमद्वयमुल्लङ्घयान्यथा निर्देश: कृत: ? सत्यमेतत्, किन्त्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थः, यदि वा त्र्यणुक-चतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते, ततश्चेत्थं द्रव्यहान्या २९पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण । सेतमित्यादिनिगमनम् । ___एताए णमित्यादि, एतया अर्थपदप्ररूपणतया किं प्रयोजन-मिति, अत्राऽऽह- एताए णमित्यादि । एतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते, इदमुक्तं भवति - अर्थपदप्ररूपणतायां संज्ञा-संज्ञिव्यवहारो निरूपित:, तस्मिंश्च सति एव भङ्गका: समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण ३°निर्विषयाणां भङ्गानां प्ररूपयितुमशक्यत्वात्, तस्माद् युक्तमुक्तमेतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियत इति । ___ तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाह - से किं तमित्यादि प्रश्नः, अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय एव भङ्गाः, एवमेतेऽसंयोगत: प्रत्येक भङ्गा: षड् भवन्ति । संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विकसंयोगा:, एकैकस्मिंस्तु द्विकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावत: त्रिष्वपि द्विक(सं)योगेषु द्वादश भङ्गा: संपद्यन्ते । त्रिकसंयोगस्त्वत्रैक एव, तत्र च एकवचन-बहुवचनाभ्यामष्टौ भङ्गाः, सर्वेऽप्यमी षड्विंशति: । अत्र स्थापना आनुपूर्वी १, अनानुपूर्वी १, अवक्तव्यक १, इत्येकवचनान्तास्त्रय: । आनुपूर्वी ३, अनानुपूर्वी २९. पूर्वानुपूर्वीक्रमनिर्देश एवायम्... यद्वा ट्यणुकेऽवक्तव्यत्वमभिप्रेतम्, तच्च न येन केनचिदपि रूपेण संभवति, व्यणुकत्व-स्कन्धत्व-पुद्गलत्वादिरूपेण तस्य वक्तव्यत्वसंभवात्, ततश्चानुपूय॑नानुपूर्वीत्वरूपेणैव तस्यावक्तव्यत्वं मन्तव्यम् । अतश्चानुपूर्व्यनानुपूर्वीनिरूपणमन्तरेण तदानुपूर्वीनानुपूर्वीत्वरूपस्य ज्ञातुमशक्यत्वेन पूर्वमानुपूर्व्यनानुपूर्वीनिरूपणमवश्यकर्तव्यम्। किञ्च प्रतियोगिज्ञानाधीनज्ञानविषयत्वादभावस्य नानुपूर्वीनिरूपणं विनाऽनानुपूर्व्या ज्ञानं शक्यम् । अतः पूर्वमानुपूर्वी ततोऽनानुपूर्वी तदनन्तरं चावक्तव्यकमित्येवं क्रमोऽङ्गीकृतोऽत्रेत्ययमपि समाधानप्रकारो ज्ञेयोऽत्र। ३०. निर्विषयाणामिति । निराख्यानां वाचकशब्दशून्यानामिति यावत् । ततश्च शब्दाभावे प्ररूपणस्याशक्यसम्भवत्वं स्पष्टमेव । Page #93 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य १, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य २, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य ३, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य ट्क (=४) । ____अहवा अस्थि आणुपुव्वी य अवत्तव्वए य १, अहवा अत्थि आणुपुव्वी य अवत्तव्वयाई च २, अहवा अत्थि आणुपुव्वीओ य अवत्तव्वए य ३, अहवा अत्थि आणुपुव्वीओ य अवत्तव्वयाई च ट्क (=४) । अहवा अत्थि अणाणुपुव्वी य अवत्तव्वए य १, अहवा अत्थि अणाणुपुव्वी य अवत्तव्वयाइं च २, अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वए य ३, अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वयाई च ट्क (=४) । ___ अहवा अत्थि आणुपुव्वी य अणाणुपुल्वी य अवत्तव्वए य १, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाइं च २, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वए य ३, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वयाइं च टक (-४), अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य ५, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वयाइं च ६, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वए य ७, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य ३, अवक्तव्यक ३, एते बहुवचनान्तास्त्रय: । आनुपूर्वी १, अनानुपूर्वी १ । आनुपूर्वी १, अनानुपूर्वी ३ । आनुपूर्वी ३, अनानुपूर्वी १ । आनुपूर्वी ३, अनानुपूर्वी ३ । इति प्रथमद्विकयोगे चतुर्भङ्गी । आनुपूर्वी १, अवक्तव्यक १ । आनुपूर्वी १, अवक्तव्यक ३ । आनुपूर्वी ३, अवक्तव्यक १ । आनुपूर्वी ३, अवक्तव्यक ३ । इति द्वितीयद्विकयोगे चतुर्भङ्गी। अनानुपूर्वी १, अवक्तव्यक १ । अनानुपूर्वी १, अवक्तव्यक ३ । अनानुपूर्वी ३, अवक्तव्यक १ । अनानुपूर्वी ३, अवक्तव्यक ३ । इति तृतीयद्विकयोगे चतुर्भङ्गी। आनुपूर्वी १, अनानुपूर्वी १, अवक्तव्यक १ । आनुपूर्वी १, अनानुपूर्वी १, अवक्तव्यक ३ । आनुपूर्वी १, अनानुपूर्वी ३, अवक्तव्यक १ । आनुपूर्वी १, अनानुपूर्वी ३, अवक्तव्यक ३ । आनुपूर्वी ३, अनानुपूर्वी १, अवक्तव्यक १ । आनुपूर्वी ३, अनानुपूर्वी १, अवक्तव्यक ३ । आनुपूर्वी ३, अनानुपूर्वी ३, अवक्तव्यक १ । आनुपूर्वी ३, अनानुपूर्वी ३, अवक्तव्यक ३। इति त्रिकयोगे अष्टौ भङ्गाः । इति सर्वेऽपि षड्विंशति: । एते चोत्तरं प्रयच्छता अनेनैव क्रमेण सूत्रेऽपि लिखिता: सन्तीति भावनीया: । अथ किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेत्, उच्यते, इहानुपूर्व्यादिभिस्त्रिभि: पदैरेकवचनबहुवचनान्तै: प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्भङ्गा: संजायन्ते, तेषु च मध्ये येन केनचिद्रङ्गेन Page #94 -------------------------------------------------------------------------- ________________ ७७ श्रीअनुयोगद्वारसूत्रम् [सू०१०२,१०३] अवत्तव्वयाइं च ८, एए अट्ठ भंगा। एवं सव्वे वि छव्वीसं भंगा २६ । सेतं नेगम-ववहाराणं भंगसमुक्कित्तणया। (सू० १०२) एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं? एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए भंगोवदंसणया कीरइ । (सू० १०३) से किं तं णेगम-ववहाराणं भंगोवदंसणया ? णेगम-ववहाराणं भंगोवदंसणया- तिपदेसिए आणुपुव्वी १, परमाणुपोग्गले अणाणुपुव्वी २, दुपदेसिए वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकाराननेकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रदर्शनार्थं भङ्गकसमुत्कीर्तनमिति । सेतमित्यादिनिगमनम् । उक्ता भङ्गोत्कीर्तनता, अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराह- एताए णमित्यादि । एतया भङ्गसमुत्कीर्तनतया किं प्रयोजनमिति । अत्रोत्तरमाह - एताए णमित्यादि, एतया भङ्गसमुत्कीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तम्, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिकं कथयिष्यते । तच्च सूत्रे समुत्कीर्तित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वात्, अतो युक्तं भङ्गकसमुत्कीर्तनतायां भङ्गोपदर्शनताप्रयोजनम् । अत्राऽऽहननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुकस्कन्धादे: कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्युत्कीर्तयिष्यते, तत् किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यम्, किन्तु भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यवाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गत: पुनरपि समुत्कीर्तनं करिष्यते, न मुख्यतयेत्यदोष:, यथा हि संहिता च पदं चैव ( ) इत्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते ३१तद्वदत्रापीति भावः । अथ केयं पुनर्भङ्गोपदर्शनतेति प्रश्नपूर्वक तामेव निरूपयितुमाह - से किं तमित्यादि। तिपदेसिए ३१. तद्वदत्रापीति भावः। यद्वा भङ्गकसमुत्कीर्तनद्वारे शब्दतो यावन्तो भङ्गकाः सम्भवन्ति तावतां सर्वेषां समुत्कीर्तनं क्रियते। न चैतावतैव तेषां सर्वेषां वस्तुतः सम्भवोऽपि सम्भवत्येवेति वक्तुं पार्यते । कस्मिंश्चिद्विषये शब्दतः समुत्कीर्तितानामपि केषाञ्चिद्भङ्गकानां वस्तुतः सम्भवो नास्त्यपि। यथा चतुर्थे कर्मग्रन्थे औपशमिकादीनां पञ्चानां भावानां द्विकादिसंयोगेन निष्पन्नानां सान्निपातिकभावानां शब्दतः षड्विंशतिर्लभ्यते। अतः भङगकसमुत्कीर्तनद्वारे षड्विंशतेः समुत्कीर्तनं भवति। किन्तु भङ्गोपदर्शनतायां तु षण्णामेव भङ्गकानामुपदर्शनम्, वस्तुतः षण्णामेव सम्भवात् । अतो यदि भङ्गसमुत्कीर्तनताद्वारं त्यज्यत एव तदा शेषाणां विशंतीनामपि भङ्गानां समुत्कीर्तनं तेषाञ्च वस्तुतो नास्तित्वप्रतिपादनमसम्भव्येव स्यात्। अतो द्वयोरपि द्वारयोरुपन्यास आवश्यक इत्यपि समाधिरत्रानुसन्धेयः । Page #95 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं अवत्तव्वए ३, तिपदेसिया आणुपुव्वीओ ४, परमाणुपोग्गला अणाणुपुव्वीओ ५, दुपदेसिया अवत्तव्वयाइं ६ | अहवा तिपदेसिए य परमाणुपोग्गले य आणुपुव्वी य अणाणुपुव्वी य १, अहवा तिपदेसिए य परमाणुपोग्गला य आणुपुव्वी य अणाणुपुव्वीओ य २, अहवा तिपदेसिया य परमाणुपोग्गले य आणुपुव्वीओ य अणाणुपुव्वी य ३, अहवा तिपदेसिया य परमाणुपोग्गला य आणुपुव्वीओ य अणाणुपुव्वीओ य ४, अहवा तिपदेसिए य दुपदेसिय आणुव्वी य अवत्तव्वए य १, अहवा तिपदेसिए य दुपदेसिया य आणुपुवी य अवत्तव्वयाइं च २, अहवा तिपदेसिया य दुपदेसिए य आणुपुव्वीओ य अवत्तव्य ३, अहवा तिपदेसिया य दुपदेसिया य आणुपुव्वीओ य अवत्तव्वयाइं च ४, अहवा परमाणुपोग्गले य दुपदेसिए य अणाणुपुव्वी य अवत्तव्वए य १, अहवा परमाणुपोग्गले यदुपदेसिया य अणाणुपुव्वी य अवत्तव्वयाइं च २, अहवा परमाणुपोग्गला य दुपदेसिए य अणाणुपुव्वीओ य अवत्तव्वए य ३, अहवा परमाणुपोग्गला य दुपदेसिया य अणाणुपुव्वीओ य अवत्तव्वयाई च ४ । अहवा तिपदेसिए य परमाणुपोग्गले य दुपदेसिए य आणुपुवीय अणाणुपुव्वी य अवत्तव्वए य १, अहवा तिपदेसिए य परमाणुपोग्गले यदुपदेसिया य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाइं च २, अहवा तिपदेसिए य परमाणुपोग्गला यदुपदेसिए य आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वए य ३, अहवा तिपएसिए य परमाणुपोग्गला य दुपदेसिया य आणुपुव्वी य अणाणुपुव्वीतो य अवत्तव्वयाई च ट्क (=४), अहवा तिपदेसिया य परमाणुपोग्गले य दुपदेसिए य आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य ५, अहवा तिपदेसिया य परमाणुपोग्गले य दुपदेसिया य आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वया च ६, अहवा तिपदेसिया य परमाणुपोग्गला य दुपदेसिए य आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वए य ७, अहवा तिपदेसिया आणुपुव्वित्ति त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, त्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानुपूर्वीति भङ्गको निष्पद्यत इत्यर्थः १, एवं परमाणुपुद्गललक्षणोऽर्थोऽनानुपूर्वीत्युच्यते २ द्विप्रदेशिकस्कन्धलक्षणः अर्थोऽवक्तव्यकमुच्यते ३, एवं बहवस्त्रिप्रदेशिका आनुपूर्व्य: ४, बहवः परमाणुपुद्गला अनानुपूर्व्य: ५, बहवो द्विप्रदेशिकस्कन्धा अवक्तव्यकानि ६, इति षण्णां प्रत्येकभङ्गानामर्थकथनम् । एवं द्विकसंयोगेऽपि त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्चानुपूर्व्यनानुपूर्वीत्वेनोच्यते, यदा त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादयितुमभीष्टो भवति तदा अत्थि आणुपुव्वी य अणाणुपुव्वी य इत्ययं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनीयाः । अत्राह - नन्वर्थोऽप्यानुपूर्व्यादिपदानां त्र्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमद्वारे कथित एव, तत् किमनेन ? सत्यम्, किन्तु तत्र ७८ Page #96 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०१०४,१०५] ७९ य परमाणुपोग्गला य दुपदेसिया य आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाई च ८ । से तं नेगम - ववहाराणं भंगोवदंसणया । (सू० १०४) (१) से किं तं समोयारे ? समोयारे - णेगम - ववहाराणं आणुपुव्वीदव्वाई कहिं समोयरंति ? किं आणुपुव्वीदव्वेहिं समोयरंति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? नेगम - ववहाराणं आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति, णो अणाणुपुव्वीदव्वेहिं समोयरंति, नो अवत्तव्वयदव्वेहिं समोयरंति । (२) णेगम-ववहाराणं अणाणुपुव्विदव्वाई कहिं समोयरंति ? किं आणुपुव्विदव्वेहिं समोयरंति ? अणाणुपुव्विदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? णेगमववहाराणं अणाणुपुव्विदव्वाइं णो आणुपुव्विदव्वेहिं समोयरंति, अणाणुपुव्विदव्वेहिं समोयरंति, णो अवत्तव्वयदव्वेहिं समोयरंति । (३) णेगम-ववहाराणं अवत्तव्वयदव्वाई कहिं समोयरंति ? किं आणुपुव्विदव्वेहिं समोयरंति ? अणाणुपुव्विदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? गमववहाराणं अवत्तव्वयदव्वाइं नो आणुपुव्विदव्वेहिं समोयरंति, णो अणाणुपुव्विदव्वेहिं समोयरंति अवत्तव्वयदव्वेहिं समोयरंति । सेतं समोयारे । ( सू० १०५ ) से किं तं अणुगमे ? अणुगमे णवविहे पण्णत्ते । तंजहापदार्थमात्रमुक्तम्, अत्र तु तेषामेवाऽऽनुपूर्व्यादिपदानां भङ्गकरचनासमाविष्टानामर्थः कथ्यत इत्यदोष:, नयमतवैचित्र्यप्रदर्शनार्थं वा पुनरित्थमर्थोपदर्शनमित्यलं विस्तरेण । सेतमित्यादिनिगमनम् । उक्ता भङ्गोपदर्शनता, अथ समवतारं बिभणिषुराह से किं तमित्यादि । अथ कोऽयं समवतार इति प्रश्ने सत्याह - समोयारे त्ति अयं समवतार 'उच्यते ' इति शेषः, कः पुनरयमित्याह - नेगमववहाराणं आणुपुव्वीदव्वाइं कर्हि समोयरंतीत्यादिप्रश्नः । अत्रोत्तरम् - नेगम-ववहाराणं आणुपुव्वीत्यादि, आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्यलक्षणायां स्वजातावेव वर्तन्ते, न स्वजात्यतिक्रमेणेत्यर्थः, इदमुक्तं भवति - सम्यग् अविरोधेनावतरणं वर्तनं समवतार : अविरोधवर्तिता प्रोच्यते, सा च स्वजातिवृत्तावेव स्यात्, परजातिवृत्तेर्विरुद्धत्वात्, ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूर्व्यादीनामपि स्वस्थानावतारो भावनीयः । सेत्तमित्यादि निगमनम् | उक्तः समवतार:, अथानुगमं बिभणिषुरुपक्रमते - से किं तमित्यादि । अत्रोत्तरम् - अणुग नवविहे इत्यादि । तत्र सूत्रस्यानुकूलमनुरूपं वा गमनं व्याख्यानमनुगमः, अथवा सूत्रपठनादनु पश्चाद्गमनं व्याख्यानमनुगमः, यदिवा अनुसूत्रमर्थो गम्यते ज्ञायते अनेनेत्यनुगमो व्याख्यानमेव, इत्याद्यन्यदपि Page #97 -------------------------------------------------------------------------- ________________ ८० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं संतपयपरूवणया १, दव्वपमाणं च २, खेत्त ३, फुसणा य ४ । अंतरं ६, भाग ७, भाव ८, अप्पाबहुं ९, चेव ॥८॥ कालो य ५, (सू० १०६) (१) नेगम - ववहाराणं आणुपुव्वीदव्वाइं किं अत्थि णत्थि ? नियमा अत्थि । (२) नेगम - ववहाराणं अणाणुपुव्वीदव्वाइं किं अत्थि णत्थि ? णियमा अत्थि । (३) नेगम - ववहाराणं अवत्तव्वगदव्वाइं किं अत्थि णत्थि ? णियमा अत्थि । वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो नवप्रकारो भवति । तदेव नवविधत्वं दर्शयतितद्यथेत्युपदर्शनार्थः । संतपय गाहा, व्याख्या - सदर्थविषयं पदं सत्पदम्, तस्य प्ररूपणं प्रज्ञापनं सत्पदप्ररूपणम्, तस्य भाव: सत्पदप्ररूपणता, सा प्रथमं कर्तव्या । इदमुक्तं भवति - इह स्तम्भ - कुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्ग- व्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्वित् खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथमं पर्यालोचयितव्यम् १, तथा आनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाणं सङ्ख्यास्वरूपं प्ररूपणीयम् २, चः समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं तदाधारस्वरूपं प्ररूपणीयम्, किति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः ३, तथा स्पर्शना च वक्तव्या, कियत् क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः ४, तथा कालश्च तत्स्थितिलक्षणो वक्तव्यः ५, तथा अन्तरं विवक्षितस्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षणं प्ररूपणीयम् ६, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः ७, तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भावः प्ररूपणीयः ८, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थप्रदेशार्थीभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम् ९, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथासमासार्थः । व्यासार्थं तु ग्रन्थकारः स्वयमेव बिभणिषुराद्यावयवमधिकृत्याऽऽह - नेगम - ववहाराणामित्यादि । नैगम-व्यवहारयोरानुपूर्वीशब्दाभिधेयानि द्रव्याणि त्र्यणुकस्कन्धादीनि किं सन्ति नेति प्रश्नः, अत्रोत्तरम् - नियमा अत्थि त्ति। एतदुक्तं भवति - नेदं खरशृङ्गादिवदानुपूर्वीपदमसदर्थगोचरम्, ३२ अतो नियमात् सन्ति तदभिधेयानि द्रव्याणि तानि च त्र्यणुकस्कन्धादीनि पूर्वं दर्शितान्येवेति । एवम ३२. अतो नियमात् सन्तीत्यादि । पूर्वस्यानु पश्चादनुपूर्वं तस्य भाव आनुपूर्वीत्येवमानुपूर्वीपदस्य सामासिकत्वात् 'शुद्धं व्युत्पत्तिमच्च पदं सदर्थगोचरमेव भवती 'ति न्यायोऽत्र हेतुत्वेन नोक्त इति बोध्यम् । Page #98 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१०७,१०८] (सू० १०७) (१) नेगम-ववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइं असंखेज्जाइं, अणताइं? नो संखेज्जाइं, नो असंखेज्जाइं, अणंताई । (२) एवं दोण्णि वि। (सू० १०८) (१) णेगम-ववहाराणं आणुपुव्वीदव्वाइं लोगस्स कतिभागे होज्जा ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा, सव्वलोए वा होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। नानुपूर्व्यवक्तव्यकपक्षद्वयेऽपि वाच्यम्। कृता सत्पदप्ररूपणा, द्रव्यप्रमाणमभिधित्सुराह - नेगम-ववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइमित्यादि । अयमत्र निर्वचनभावार्थ: - इहानुपूय॑नानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुन: सर्वलोके, अत: सङ्ख्येयासङ्ख्येयप्रकारद्वयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्यमिति । न च वक्तव्यं कथमसङ्ख्येये लोके अनन्तानि द्रव्याणि अवतिष्ठन्ते ? अचिन्त्यत्वात् पुद्गलपरिणामस्य, दृश्यते चैकगृहान्तर्वाकाशप्रदेशेष्वेकप्रदीपप्रभापरमाणुव्याप्तेष्वप्यनेकापरापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानम्, न चाक्षदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिप्रसङ्गात्, इत्यलं प्रपञ्चेन । ___ इदानी क्षेत्रद्वारमुच्यते-नेगम-ववहाराणमित्यादि । आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सङ्ख्याततमे भागे होज्ज त्ति आर्षत्वाद्भवन्ति, अवगाहन्त इति यावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्खयेयेषु भागेषु भवन्ति, आहोश्विद्बहुष्वसङ्खयेयेषु भागेषु भवन्ति, अथ सर्वलोके भवन्तीति पञ्च पृच्छास्थानानि । अत्र निर्वचनसूत्रस्येयं भावना- इहानुपूर्वीद्रव्याणि त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र च सामान्यत एक द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात् ३३किञ्चिल्लोकस्यैकस्मिन् सङ्ख्याततमे भागे भवति, एकं तत्सङ्ख्या ३३. किञ्चिल्लोकस्यैकस्मिन् सङ्ख्याततमे.... इत्यादि। केवलिसमुद्घातप्रक्रियायां केवलिन आत्मप्रदेशाः प्रथमद्वितीययोर्दण्डकपाटसमययोर्लोकस्यासङ्ख्येयतमं भागमेव व्याप्नुवन्ति । तृतीये मन्थानसमये तु लोकस्यासङ्ख्यातबहुभागान् व्याप्नुवन्ति । लोकस्य सङ्ख्येयतमं भागं सङ्ख्येयान् वा बहुभागांस्तु न कदाचिदपि व्याप्नुवन्ति । तथा च तद्वदेव समुद्धातवर्तिन एकस्याचित्तमहास्कन्धस्यापि लोकस्य सङ्ख्याततमभागप्रमाणा सङ्ख्येयबहुभागप्रमाणा वाऽवगाहना कथमुपपद्यत इति चेत् ? इत्थमिति गृहाण-केवलिनां तु सर्वेषां त्रसनाड्या अन्तरेवावस्थानमिति Page #99 -------------------------------------------------------------------------- ________________ ८२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) नेगम-ववहाराणं अणाणुपुव्वीदव्वाइं किं लोगस्स संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए वा होज्जा ? एगदव्वं पडुच्च नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो खेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा, तभागमवगाह्य तिष्ठतीत्यर्थः, अन्यत्तु तदसङ्ख्येयभागमवगाहते, अपरं तु बहूँस्तत्सङ्ख्येयान् भागानवगाहते, अन्यत्तु बहूँस्तदसङ्ख्येयभागानवगाह्य वर्तते । सव्वलोए वा होज्ज त्ति इहानन्तानन्तपरमाणुप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्ध: सकललोकावगाही स्यात् ? उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि- लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तिर्यगसङ्ख्यातयोजनविस्तरं सङ्ख्यातयोजनविस्तरं वा ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन ३४वृत्तं दण्डं करोति, नियमः, अचित्तमहास्कन्धानां तु नायं नियमः। तथा च योऽचित्तमहास्कन्धस्त्रसनाड्या बहिरवस्थितस्तस्य समुद्घातप्रथमसमयभाविनो दण्डस्य न चतुर्दशरज्ज्वायतत्वं, ऊर्ध्वाधश्चतुर्दशरज्जुभ्यः पूर्वमेवालोकेनोपहतत्वात् । यत्र चोपहन्यतेऽलोकेन, तदनुसारिण्यायतिर्भवति तस्य दण्डस्य | तत्तुल्यैव च द्वितीयसमयभाविनः कपाटस्य, तृतीयसमयभाविनो मन्थानस्य चेति चतुर्थसमयेऽपि न तस्य स्कन्धस्य सम्पूर्णलोकव्यापिता, अपि तु स्वस्वमूलस्थानानुसारिणी न्यूना न्यूनतरा वा। अत्र च प्रथमद्वितीययोः समययोस्तस्यावगाहना लोकस्यासङ्ख्येयतमो भाग एव । तृतीयसमये तु लोकस्यासङ्ख्येयतमो भागः, संख्येयतमो भागः, संख्येयबहुभागाः, असङ्ख्येयबहुभागाश्चेत्येवं चत्वारोऽपि विकल्पाः सम्भवन्ति। चतुर्थे तु समये काऽवगाहनेति चेत् ? एवमेव चत्वारोऽपि विकल्पाः सम्भविष्यन्तीति वयं सम्भावयामः, किन्तु न तत्र निःशङ्को निर्णयः। त्रसनाड्या बहिरवस्थितस्य समुद्घातगतस्याचित्तमहास्कन्धस्यैवं वार्ता ज्ञेया । त्रसनाड्यामन्तरेवावस्थितस्य तु केवलिसमुद्घातवदेव सा ज्ञेया। तथा च चतुर्थसमये तस्य लोकव्यापिता भवत्येव । ननु त्रसनाड्या बहिः स्थित्वा समुद्घातं गतस्याचित्तमहास्कन्धस्य चतुर्थेऽपि समय उत्कृष्टतोऽपि देशोनलोकव्यापितैव, न तु सम्पूर्णलोकव्यापितेति तु ज्ञातम् । तत्पश्चात्तस्य का वार्तेति चेत् ? न सम्यग् निर्णेतुं वयं समर्थाः। समुद्घातप्रक्रियामग्रेऽपि विस्तारयन् स पञ्चमादिसमये सम्पूर्णलोकव्यापी भवति यद्वा समुद्घातात् प्रतिनिवर्तमानः स सम्पूर्णलोकव्याप्यभूत्वैवाऽन्तराणि संहरतीत्यत्र नास्माकं कोऽपि निर्णयः । ३४. वृत्तं दण्डं करोति... इति । अचित्तमहास्कन्धस्य स्वस्थानतोऽवगाहनामुलासङ्ख्येयभागमात्रैव भवति । ततश्चैकस्मिन्नेव समये तिर्यगसङ्ख्यातयोजनविस्तृतं सङ्ख्यातयोजनविस्तृतं वा चतुर्दशरज्ज्वायतं वृत्तं दण्डं करोतीति यदुक्तं तत्र योऽभिप्रायः स गवेषणीयः । Page #100 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१०९] णाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। (३) एवं अवत्तव्वगदव्वाणि वि । (सू० १०९) (१) णेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति ? असंखेज्जइभागं फुसंति ? संखेज्जे भागे फुसंति ? असंखेज्जे भागे फुसंति? सव्वलोयं फुसंति ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति, असंखेज्जइभागं वा फुसंति, संखेज्जे वा भागे फुसंति, असंखेज्जे वा भागे फुसंति, सव्वलोगं वा फुसंति, णाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति । द्वितीये कपाटम्, तृतीये मन्थानम्, चतुर्थे लोकव्याप्तिं प्रतिपद्यते, पञ्चमे अन्तराणि संहरति, षष्ठे मन्थानम्, सप्तमे कपाटम्, अष्टमे तु समये दण्डं संहृत्य खण्डशो भिद्यत इत्येके । अन्ये त्वन्यथापि व्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति । वाशब्दा: समुच्चये, एवं यथासम्भवमन्यत्रापि । णाणादव्वाइं पडुच्चेत्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्ति प्रतीत्य प्रकृत्य वा, अधिकृत्येत्यर्थः, नियमात् नियमेन सर्वलोके भवन्ति, न सङ्ख्येयादिभागेषु, यत: स लोकाकाशस्य प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु त्वेकं द्रव्यमाश्रित्य लोकस्यासङ्ख्येयभाग एव वृत्तिः, न सङ्ख्येयभागादिषु, यतोऽनानुपूर्वी तावत् परमाणुरुच्यते, स चैकाकाशप्रदेशावगाढ एव भवति, अवक्तव्यकं तु व्यणुकस्कन्धः, स चैकप्रदेशावगाढो द्विपदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति । नानाद्रव्यभावना पूर्ववद् इति ३।। ___ उक्त क्षेत्रद्वारम्, साम्प्रतं स्पर्शनाद्वारमुच्यते - नेगम-ववहाराणमित्यादि । भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्र-स्पर्शनयोरयं विशेष: - क्षेत्रम् अवगाहाक्रान्तप्रदेशमात्रम्, स्पर्शना तु षड्दिक्कैः प्रदेशैस्तद्वहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदवगाहना-स्पर्शनयोरन्यत्रोक्तो भेदः - एगपएसोगाढं सत्तपएसा य से फुसण ( त्ति, अस्यार्थः - परमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु से तस्य सप्तप्रदेशा भवति, षदिग्व्यवस्थितान् षट् प्रदेशान् यत्रावगाहस्तं च स्पृशतीत्यर्थः, एवमन्यत्रापि क्षेत्र-स्पर्शनयोर्भेदो भावनीय:। ___ अत्र सौगता: प्रेरयन्ति- यदि परमाणोः षड्दिक्स्पर्शनाऽभ्युपगम्यते तद्देकत्वमस्य हीयते, तथाहि- प्रष्टव्यमत्र किं येनैव स्वरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण ? यदि तेनैव तदा अयं पूर्वदिक्सम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्यात्, एकस्वरूपत्वात्, विभागाभावे च षड्दिक्सम्बन्धवचनमुपप्लवत एव । अथापरो विकल्प: कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्या एकत्वं विशीर्यते, उक्तं च- दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते (विंशतिका विज्ञप्तिमात्रतासिद्धि: १४) इति । Page #101 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) गम - ववहाराणं अणाणुपुव्विदव्वाणं पुच्छा। एगं दव्वं पडुच्च नो संखेज्जइभागं फुसंति, असंखेज्जइभागं फुसंति, नो संखेज्जे भागे फुसंति, नो असंखेज्जे भागे फुसंति, नो सव्वलोगं फुसंति, नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति । (३) एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । ८४ अत्र प्रतिविधीयते- इह परमाणुद्रव्यमादि-मध्या - ऽन्तादिविभागरहितं निरंशमेकस्वरूपमिष्यते, अत: सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव । अथानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्पबलेनाऽऽपाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्याः - क्वचिद् विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणः क्षणः स्वजनकपूर्वक्षणस्य कार्यं स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः, तत्रेहापि विचार्यते - किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्यं तेनैवोत्तरक्षणस्य कारणमुत स्वरूपान्तरेण ? यद्याद्यः पक्षस्तर्हि यथा पूर्वापेक्षयाऽसौ कार्यं तथोत्तरापेक्षा स्यात्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि स्यात्, एकस्वरूपत्वात् तस्येति । अथ द्वितीयः पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वारः स्यात् । अथ निरंश एवासौ ज्ञानक्षणोऽ३५ कार्याकारणरूपतत्तद्वस्तुव्यावृत्तत्वात् तथा तथा व्यपदिश्यते न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात् यतो द्रव्यतया निरंश एव परमाणु ३६ स्तथाविधाचिन्त्यपरिणामत्वात् दिषट्केन सह नैरन्तर्येणावस्थितत्वात् तत्स्पर्शक उच्यते, न पुनस्तत्रांशैः ३५. अकार्याकारणरूपतत्तद्वस्तुव्यावृत्तत्वादिति । अयमर्थः- सौगतानां मते नीलक्षणस्य नीलत्वेन यो व्यपदेशस्तत्र न नीलत्वसामान्यं कारणं, अनभ्युपगमात् अपि त्वनीलव्यावृत्तिः कारणम्। एवञ्च कस्यचिदपि वस्तुनः कार्यत्वेन कारणत्वेन वा यो व्यपदेशः, न स कार्यत्वस्वभावेन कारणत्वस्वभावेन वा अपि त्वकार्यरूपाण्यकारणरूपाणि वा यान्याकाशादिवस्तूनि तद्व्यावृत्तत्वात् तद्व्यपदेशः । विवक्षितो ज्ञानक्षणोऽप्यकार्यव्यावृत्त एव स्वपूर्वक्षणापेक्षयोत्तरक्षणवृत्तित्वनियमात्, दण्डापेक्षया खरादीनामिवाकार्यभूतानां वस्तूनां तन्नियमाभावात्। अतस्तस्य 'कार्य' मिति व्यपदेशः । तथा स अकारणव्यावृत्तोऽपि स्वोत्तरक्षणापेक्षया पूर्वक्षणवृत्तित्वनियमात्, घटापेक्षया खरादीनामिवाकारणभूतानां वस्तूनां तन्नियमाभावादिति तस्य 'कारणमिति व्यपदेशः । ततश्च यतोऽकार्यव्यावृत्तत्वस्याकारणव्यावृत्तत्वस्य चाभावरूपत्वं, अतो न ज्ञानक्षणलक्षणभावस्वरूपांशत्वं, अभावभूतस्य भावांशत्वानर्हत्वात्, अन्यथा कूर्मरोमस्यापि कूर्मांशत्वापत्तेः । अतः कार्यव्यपदेशकारणीभूतस्याकार्यव्यावृत्तत्वस्य 'कारण' व्यपदेशकारणीभूतस्याकारणव्यावृत्तत्वस्य च ज्ञानक्षणे सत्त्वेऽपि न निरंशत्वहानि: ( नानेकस्वरूपत्वमिति ।) ३६. तथाविधाचिन्त्यपरिणामत्वादिति । ननु परमाणोस्तदवगाढस्याकाशप्रदेशस्य वा किं संस्थानमिति चेत् ? न किञ्चिदिति । ननु न किञ्चिदिति कोऽर्थः ? सिद्धात्मवदनित्थस्थं Page #102 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०११०] ८५ (सू० ११०) (१) णेगम - ववहाराणं आणुपुव्विदव्वाइं कालओ केवचिरं होंति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च मि काचित् स्पर्शना समस्तीति, अत्र बहु वक्तव्यम्, तत्तु नोच्यते स्थानान्तरेषु चर्चितत्वादित्यलं विस्तरेण ४ । उक्तं स्पर्शनाद्वारम्, इदानीं कालद्वारं बिभणिषुराह - नेगम - ववहाराणमित्यादि । नैगमव्यवहारयोरानुपूर्वीद्रव्याणि कालतः कालमाश्रित्य कियच्चिरं कियन्तं कालं भवन्ति आनुपूर्वीत्वपर्यायेणावतिष्ठन्ते ? अत्रोत्तरम् - एगं दव्व - मित्यादि, इयमत्र भावना - परमाणुद्वयादेरपरैकादिपरमाणुमीलनेऽपूर्वं किञ्चिदानुपूर्वीद्रव्यं समुत्पन्नम्, ततः समयादूर्ध्वं पुनरप्येका वियुक्तेऽपगतस्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वाऽनन्तरोक्तरूपेण वियुज्यते तदा उत्कृष्टतोऽसङ्ख्येयोऽवस्थितिकालः प्राप्यते, अनन्तं कालं पुनर्नावतिष्ठते, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेरसङ्ख्येयकालत्वादिति। नानाद्रव्याणि बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाद्धा स्थितिर्भवति, नास्ति स कश्चित् कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोकः स्यादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपि जघन्यादिभेदभिन्न एतावानेव स्थितिकालः । तथाहि - कश्चित् परमाणुरेकं समयमेकाकी भूत्वा ततः परमाण्वादिना अन्येन सह संयुज्यते, इत्थमेकमनानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, संस्थानं संस्थानशून्यत्वं वेति चेत् ? द्वितीयं विकल्पं गृहाण । ननु संस्थानशून्यत्वं कथमिति चेत् ? इत्थमाकाशप्रदेशस्य वृत्तत्वे चतुर्णामाकाशप्रदेशानां मध्ये शुषिरप्राप्त्याऽऽकाशप्रदेशस्य सूक्ष्मतमत्वापरपर्यायप्रकृष्टत्वहान्या प्रदेशत्वहानेः, त्र्यत्रचतुरस्रादित्वे तु यावन्त्यस्राणि तावतामंशानामवश्यमभ्युपेयत्वेन निरंशत्वहानेः संस्थानशून्यत्वमेव शरणम् । अत एव लोकप्रकाशादौ संस्थानपरिणामो द्व्यणुकादेरेवोक्तः, न तु परमाण्वादेः । युक्तञ्चैतद् ह्रसिष्ठरेखामात्रार्थमपि द्वावव्यवहितावाकाशप्रदेशावावश्यकाविति सूक्ष्मतमायतसंस्थानमपि तादृशौ द्वावाकाशप्रदेशौ त्वपेक्षत एव। तथा च न परमाणोरेव, अपि तु एकाकाशप्रदेशावगाढस्य द्व्यणुकादेरनन्ताणुकान्तस्य यस्य कस्यापि स्कन्धस्य संस्थानपरिणामशून्यत्वमेव मन्तव्यम् । ननु प्रत्येकं परमाणौ संस्थानपरिणामस्य यद्यभावस्तर्हि कथं तत्समूहनिष्पन्ने स्कन्धे तस्योत्पत्तिः ? नामूलं जायते किञ्चिदिति न्यायादिति चेत्, गुरुस्पर्शादिवदिति गृहाण । अथ यानि पुद्गलद्रव्याण्यस्माकमनुभवगोचरतामायान्ति तानि तु सांशानि ससंस्थानपरिणामान्येवेत्यस्माकं कल्पनापि तादृक्ष्वेव द्रव्येषु प्रवर्तते, न कदाचिदपि निरंशे संस्थानशून्ये परमाण्वादौ । अत एव परमाण्वादेः परिणामानामस्माकं चिन्ताऽपरपर्यायाः कल्पनाया अविषयत्वेनाचिन्त्यत्वमेव । ततश्चैकाकाशप्रदेशावगाढस्य परमाण्वादेः स परिणामोऽचिन्त्य एव भवति येन स्वावगाढ आकाशप्रदेशे षट्सु दिक्षु नैरन्तर्येणावस्थितेष्वाकाशप्रदेशेकु च प्रत्येकं पृथक् पृथक् स्पर्शसत्त्वेऽपि न सांशत्वापत्तिर्न वा षट्कोणादिसंस्थानवत्त्वापत्तिः स्यात् । अतस्तथाविधाचिन्त्यपरिणामत्वादित्युक्तमत्रेति ध्येयम् । Page #103 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सव्वद्धा । (२) एवं दोन्नि वि। (सू० १११) (१) णेगम-ववहाराणं आणुपुव्विदव्वाणमंतरं कालतो केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं । यदा तु स एवासङ्ख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाण्वादिना सह संयुज्यते तदोत्कृष्टतोऽसङ्ख्येयोऽवस्थितिकाल: संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भावनीय: । अवक्तव्यकद्रव्यमपि परमाणुद्वयलक्षणं यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदवस्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदा तस्यावक्तव्यकद्रव्यतया जघन्यत: समयोऽवस्थानं लभ्यते, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदोत्कृष्टत: अवक्तव्यकद्रव्यतयाऽसंख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति ५ । अन्तरद्वार प्रतिपिपादयिषुराह - नेगम-ववहाराणमित्यादि । नैगम-व्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालत: कियच्चिरं भवतीति प्रश्नः, अन्तरं व्यवधानम्, तच्च क्षेत्रतोऽपि भवति, यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यतस्तद्व्यवच्छेदार्थमुक्तं कालत: कालमाश्रित्य । तदयमत्रार्थः - आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति ? आनुपूर्वीत्वपरित्याग-पुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः । अत्र निर्वचनम्-एगं दव्वमित्यादि, इयमत्र भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामाद्वा खण्डशो वियुज्य परित्यक्तानुपूर्वीभावं सञ्जातम्, एकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तनिष्पन्नमित्येवं जघन्यत: सर्वस्तोकतया एकं द्रव्यमाश्रित्याऽऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे समय: प्राप्यते, उत्कृष्टत: सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं किमप्यानुपूर्वीद्रव्यं तथैव भिन्नम्, भित्त्वा च ते परमाणवोऽन्येषु परमाणु-द्व्यणुक-त्र्यणुकादिषु अनन्ताणुक-स्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्त: पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद् विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकाल: प्राप्यते । नानाद्रव्याण्यधिकृत्य पुन ३७. उत्कृष्टतोऽसङ्ख्येयो... इत्यादि । त्र्यणुकोऽप्यानुपूर्वीद्रव्यं, चतुरणुकोऽप्यानुपूर्वीद्रव्यं... एवं यावदनन्ताणुकोऽपि स्कन्ध आनुपूर्वीद्रव्यम् । सर्वेष्वेतेष्वानुपूर्वीत्वं तुल्यमेव । तथा चात्रोत्कृष्टतो योऽसङ्ख्येयोऽवस्थानकाल उक्तः स किं त्र्यणुकत्वादिनाऽवस्थानकाल आनुपूर्वीत्वेन वेति विचारण एतन्निश्चीयते यत् त्र्यणुकत्वादिनाऽवस्थानकालोऽप्यसङ्ख्येयः, आनुपूर्वीत्वेनाप्यसङ्ख्येय एव, न त्वनन्त इति । कथमिति चेत् ? इत्थमिति गृहाण- (१) अत्रानुपूर्वीत्वेनैवानुपूर्वीद्रव्यस्योत्कृष्टो Page #104 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१११] (२) णेगम-ववहाराणं अणाणुपुग्विदव्वाणं अंतरं कालतो केवचिरं होइ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं। स्त्यिन्तरम्, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तैरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशून्यत्वादिति भावः । ___अनानुपूर्वीद्रव्यान्तरकालचिन्तायाम् एगं दव्वं पडुच्च जहन्नेणं एक्कं समयं ति, इह यदा किञ्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्येन परमाणु-द्वयणुक-त्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्य समयादूर्ध्वं वियुज्य पुनरपि तथास्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकाल: प्राप्यते, उक्कोसेणं असंखेजं कालं ति तदेवानानुपूर्वीद्रव्यं यदान्येन परमाणु-व्यणुक-त्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति, तदाऽसङ्ख्यात उत्कृष्टान्तरकालो लभ्यते ।। __ अत्राह - ननु अनानुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सह संयुज्यते, तत्संयुक्तं चासङ्खयेयं कालमवतिष्ठते, ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् यस्तस्माल्लघुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्येयं कालं तिष्ठति, ततस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतर: स्कन्धो भवति तेनापि संयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इत्येवं तत्र भिद्यमाने क्रमेण कदाचिदनन्ता अपि स्कन्धा: संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ख्येय एवोक्त: ? अत्रोच्यते-स्यादेवं हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेत्, एतच्च नास्ति, पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येयकालत्वादित्युक्तमेव । अथ ब्रूयात् - यस्मिन् स्कन्धे संयुज्यतेऽसौ परमाणु: स चेत् स्कन्धोऽसङ्ख्येयकालाद्भिद्यते तर्खेतावतैव चरितार्थ: पुद्गलसंयोगासङ्ख्येयकालनियमः, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवम्, यस्यान्येन संयोगो जातस्तस्यासङ्ख्येयकालाद् वियोगश्चिन्त्यते, यदि च परमाण्वाश्रय: स्कन्धो वियुज्यते तर्हि परमाणो: किमायातम्, तस्यान्यसंयोगस्य तदवस्थत्वात् ? तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्येयकालादणुत्वेनैव वियोजनीय इति यथोक्त एवान्तरकालो न त्वनन्त इति । कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति ज्ञायते इति चेत्, ऽवस्थानकाल उक्तः, न तु व्यणुकत्वादिना, तथा (२) अग्रेऽन्तरद्वारेऽनानुपूर्वीद्रव्यस्य (परमाणोः) अन्तरमुत्कृष्टतोऽसङ्ख्येयकालं वक्ष्यति । ततश्चेदं ज्ञायते यद् आनुपूर्वीस्कन्धत्वेन परिणतस्य द्रव्यस्य घटकीभूतैः सर्वैरपि पुद्गलप्रदेशैरुत्कृष्टतोऽसङ्ख्येयकालात्परतो वियुज्य परमाणुत्वस्वरूपं प्राप्तव्यमेवेति । अत एतावता कालेन तस्यानुपूर्वीत्वं विघटत एव । Page #105 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं (३) गम - ववहाराणं अवत्तव्वगदव्वाणं अंतरं कालतो केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अनंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं । (सू० ११२) (१) गम - ववहाराणं ३९ आणुपुव्वीदव्वाइं सेसदव्वाणं कड़भागे होज्जा ? सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवनेऽसङ्ख्येयरूपस्यैवान्तरकालस्योक्तत्वादित्यलं विस्तरेण । नाणादव्वाइं पडुच्चेत्यादि पूर्ववद्भावनीयम् । अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् एगं दव्वं पडुच्चेत्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिकः स्कन्धो विघटितः स्वतन्त्रं परमाणुद्वयं जातम्, समयं चैकं तथा स्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां द्विप्रदेशिकः स्कन्धो निष्पन्न; अथवा ३८ विघटित एव द्विप्रदेशिकः स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते । उक्कोसेणं अणतं कालं ति, कथम् ? अत्रोच्यते- अवक्तव्यकद्रव्यं किमपि विघटितं विशकलितपरमाणुद्वयं जातम्, तच्चानन्तैः परमाणुभिरनन्तैर्ह्यणुकस्कन्धैरनन्तैस्त्र्यणुकस्कन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाद्य उत्कृष्टान्तराधिकाराच्च प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव द्व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैकद्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकालः प्राप्यते । नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् वक्तव्या ६ । -व्यवहार उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारं निर्द्दिदिक्षुराह - नेगम-ववहाराणमित्यादि । नैगम-र ३८. विघटित एव । अत्र विवक्षित एवेति पाठो मन्तव्यः । ३९. आणुपुव्वीदव्वाई सेसदव्वाणंति । वस्तुतोऽत्र प्राकृतत्वादार्षत्वाच्चोत्तरशब्दगतस्याकारलक्षणस्याद्यस्वरस्य लोपो मन्तव्यः । ततश्चैवमर्थो लभ्यते नैगमव्यवहारयोरानुपूर्वीद्रव्याणि अशेषद्रव्याणां = समस्तानामानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यलक्षणानां कतिभागे भवन्ति ? किं सङ्ख्याततमे भागे भवन्ति ? असङ्ख्याततमे भागे भवन्ति ? सङ्ख्यातेषु भागेषु भवन्ति ? असङ्ख्यातेषु भागेषु भवन्ति ? न सङ्ख्याततमे भागे भवन्ति, नासङ्ख्याततमे भागे भवन्ति, न सङ्ख्यातेषु भागेषु भवन्ति नियमाद् असङ्ख्यातेषु भागेषु भवन्ति । अर्थादशेषद्रव्याणामसङ्ख्यातबहुभागा आनुपूर्वीद्रव्याण्येव, अनानुपूर्व्यवक्तव्यकद्रव्याणि त्वेकासङ्ख्याततमे भाग एव भवन्ति । युक्तश्चायमर्थः (१) विवक्षितमार्गणाविषयभूतं द्रव्यमशेषद्रव्याणां कतिभागे वर्तत इत्यस्यैव सर्वत्र भागद्वारे विचार्यमाणत्वात्, न त्ववशिष्टद्रव्याणां कतिभागे ? इत्यस्य । तथाहि एकेन्द्रियमार्गणायां विचार्यमाणायां भागद्वार एकेन्द्रियजीवाः सर्वजीवानां कतिभागे वर्तन्ते इत्येव विचार्यते, न तु द्वीन्द्रियाद्यवशिष्टजीवानां कतिभागे वर्तन्त इति (२) विचार्यमाणमार्गणाऽवान्तरमार्गणाविषयभूतं द्रव्यमवान्तरमार्गणान्तरविषयभूतद्रव्यापेक्षया किय ८८ Page #106 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०११२] ८९ किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा । (२) गम - ववहाराणं अणाणुपुव्वीदव्वाइं सेसदव्वाणं कइभागे होज्जा ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु योस्त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्याप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्तानामनानुपूर्व्यवक्तव्यकद्रव्यलक्षणानां कतिभागे होज्ज त्ति कतिथे भागे भवन्तीत्यर्थः, किं सङ्ख्यातत भागे भवन्ति यथा असत्कल्पनया शतस्य विंशतिः, उताऽसङ्ख्याततमे भागे भवन्ति यथा शतस्यैव दश ? अथ सङ्ख्यातेषु भागेषु भवन्ति यथा शतस्यैव चत्वारिंशत् षष्टिर्वा, आहोश्विदसङ्ख्यातेषु भागेषु भवन्ति यथा शतस्यैवाशीतिरिति प्रश्नः । अत्र निर्वचनम् - नो संखेज्जइभागे होज्जा इत्यादि । नियमा असंखेज्जेसु भागेसु होज्ज त्ति, इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योऽसख्येयैर्भागैः अधिकानि भवन्तीति वाक्यशेषो द्रष्टव्यः । ततश्चायमर्थ: प्रतिपत्तव्य:- आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसङ्ख्येयगुणानि, शेषद्रव्याणि तु तदसङ्ख्येयभागे वर्तन्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्यः स्तोकानीति । कस्मादेवं व्याख्यायते ? स्तोकान्यपि तानि भवन्त्विति चेत्, नैतदेवम्, अघटमानकत्वात्, तथाहि-अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिनः परमाणुपुद्गला द्व्यणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु त्र्यणुकस्कन्धादीन्यनन्ताणुस्कन्धपर्यन्तानि द्रव्याणि समस्तान्यप्यानुपूर्वीरूपाण्येव, तानि च पूर्वेभ्योऽसख्येयगुणानि, यत उक्तम्-एएसि णं भंते ! परमाणुपोग्गलाणं संखेज्जपए सियाणं असंखेज्जपएसियाणं अणतपए सियाण य खंधाणं करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अणंतपएसिया खंधा, परमाणुपोग्गला अनंतगुणा, संखेज्जपएसिया खंधा संखेज्जगुणा, असंखेज्जएसिया खंधा असंखेज्जगुणा (प्रज्ञापनासूत्रे तृतीयपदे सू० ३३० ) । तदत्र सूत्रे पुद्गलजाते: सर्वस्या अपि सकाशादसङ्ख्यातप्रदेशिका : स्कन्धा असङ्ख्यातगुणा उक्ताः, ते चाऽऽनुपूर्व्यामन्तर्भवन्ति, अतस्तदपेक्षया आनुपूर्वीद्रव्याणि शेषात् समस्तादपि द्रव्यादसङ्ख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथोक्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तरेण । अणाणुपुवीदधिकमल्पं वा ? इत्यस्य त्वल्पबहुत्वद्वारविषयत्वात् । (३) अग्रे नवविंशत्यधिकशततमे सङ्ग्रहनयसूत्रे त्रिभाग इति यदुक्तं तस्याशेषद्रव्यापेक्षयैवोपपद्यमानत्वात् । एतच्च तत्रैव व्यक्तीकरिष्यते। नन्वेवम्प्रकार आद्यस्वरलोपोऽन्यत्र कुत्र दृष्ट इति चेत् ? निशीतचूर्ण्यादाविति गृहाण । तद्यथा - अट्ठविहकम्मपंको इत्यादि (७०) निशीथभाष्यगाथायाश्चूर्णौ किं पुण तेसिं इमं सुतिं नागच्छती 'ति वक्तव्ये 'किं पुण तेसिंमं सुतिं नागच्छति' त्ति कथितम् । Page #107 -------------------------------------------------------------------------- ________________ ९० आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं भागे होज्जा ? नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागे सु होज्जा, नो असंखेज्जेसु भागेसु होज्जा । (३) एवं अवत्तव्वगदव्वाणि वि । ( सू० ११३ ) ( १ ) णेगम-ववहाराणं आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? किं उदइए भावे होज्जा ? उवसमिए भावे होज्जा ? खाइए भावे होज्जा ? खाओवसमिए भावे होज्जा ? पारिणामिए भावे होज्जा ? सन्निवाइए भावे होज्जा ? णियमा साइपारिणामिए भावे होज्जा । (२) अणाणुपुव्विदव्वाणि अवत्तव्वयदव्वाणि य एवं चेव भाणियव्वाणि । (सू० ११४) (१) एएसि णं भंते ! णेगम - ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्ठ-पएसट्टयाए कयरे कयरेर्हितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोतमा ! सव्वत्थोवाइं णेगम - ववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्वीदव्वाइं दव्वट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वाइमित्यादि इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथाऽसङ्ख्यात व भवन्ति, न शेषभागेषु, तथाऽनन्तरोक्तन्यायादेव भावनीयमिति ७ । उक्तं भागद्वारम्, साम्प्रतं भावद्वारमाह- णेगम-ववहाराणमित्यादि प्रश्नः । अत्र च औदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव वक्ष्यते । अत्र निर्वचनसूत्रे नियमा साइपारिणामिए भावे होज्ज त्ति, परिणमनं द्रव्यस्य तेन तेन रूपेण वर्तनं भवनं परिणाम:, स एव पारिणामिकः, तत्र भवस्तेन वा निर्वृत्त इति वा पारिणामिकः, स च द्विविधः - सादिरनादिश्च, तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः अनादिकालात्तद्द्रव्यत्वेन तेषां परिणतत्वात्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रेन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावात्, एवं स्थिते नियमाद् अवश्यंतयाऽऽनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात् विशिष्टैकपरिणामेन पुद्गलानामसङ्ख्येयकालमेवावस्थानादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति ८ । उक्तं भावद्वारम्, इदानीमल्पबहुत्वद्वारं बिभणिषुराह - एतेसु णमित्यादि, द्रव्यमेवार्थो द्रव्यार्थः, तस्य भावो द्रव्यार्थता, तया, द्रव्यत्वेन इत्यर्थः । प्रकृष्टो निरंशो देश: प्रदेश: स चासावर्थश्च प्रदेशार्थः, तस्य भावः प्रदेशार्थता, तया, परमाणुत्वेनेति भावः । द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भावः । तदयमर्थ:- एतेषां भदन्त ! आनुपूर्व्यादिद्रव्याणां मध्ये कयरे करेहिंतो त्ति कतराणि कान्याश्रित्य द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि विशेषहीनत्वादिना, बहूनि असङ्ख्येयगुणत्वादिना, तुल्यानि समसङ्ख्यत्वेन, विशेषाधिकानि किञ्चिदाधिक्येनेति, वाशब्दा: पक्षान्तर Page #108 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०११४] दव्वट्टयाए असंखेज्जगुणाई । - (२) पसट्टयाए गम-ववहाराणं सव्वत्थोवाइं अणाणुपुव्वीदव्वाइं अपएस ट्ठयाए, अवत्तव्वयदव्वाइं पएसट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं पएसट्टयाए अनंतगुणाई । (३) दव्वट्ट-पएसट्टयाए सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए, वृत्तिद्योतका:, इति पृष्टे ४°वाचः क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तरमुच्यते तत्र सव्वत्थोवाई नेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए त्ति नैगम-व्यवहारयोः द्रव्यार्थतामपेक्ष्य तावदवक्तव्यकद्रव्याणि सर्वेभ्योऽन्येभ्यः स्तोकानि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि तु द्रव्यार्थ - तामेवापेक्ष्य विशेषाधिकानि कथम् ? वस्तुस्थितिस्वाभाव्यात्, उक्तं च - एएसिं णं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं कयरे कयरेहिंतो बहुया ? गोयमा ! दुपएसिएहिंतो खंधेहिंतो परमाणुपोग्गला बहुग ( ) त्ति । तेभ्योऽपि आनुपूर्वीद्रव्याणि द्रव्यार्थतयैवासङ्ख्येयगुणानि, यतोऽनानुपूर्वीद्रव्येष्ववक्तव्यकद्रव्येषु च परमाणुलक्षणं द्व्यणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, आनुपूर्वीद्रव्येषु तु त्र्यणुकस्कन्धादीन्येकोत्तरवृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तान्यनन्तानि स्थानानि प्राप्यन्ते, अतः स्थानबहुत्वादानुपूर्वीद्रव्याणि पूर्वेभ्योऽसङ्ख्यातगुणानि । ननु यदि तेषु स्थानान्यनन्तान तर्ह्यनन्तगुणानि पूर्वेभ्यस्तानि कस्मान्न भवन्तीति चेत्, नैवम्, यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तभागवर्तित्वात् स्वभावादेव स्तोका इति न किञ्चित्तैरिह वर्द्धते, ४१ अतो वस्तुवृत्त्या किलासङ्ख्यातान्येव तेषु स्थानानि, तदपेक्षया त्वसङ्ख्यातगुणान्येव तानि, एतच्च पूर्वं भागद्वारे लिखितप्रज्ञापनासूत्रात् सर्वं भावनीयमित्यलं विस्तरेण । उक्तं द्रव्यार्थतया अल्पबहुत्वम्, इदानीं प्रदेशार्थतया तदेवाऽऽह-पएसट्ट्याए सव्वत्थोवाई नेगमववहाराणमित्यादि, नैगमव्यवहारयोः प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि ४०. वाचः क्रमवर्तित्वादित्यादि । ततश्च त्रयाणामल्पबहुत्वानां युगपत्कथनस्याशक्यत्वात्तानि क्रमशः कथ्यन्ते । ननु तथापि प्रथमं द्रव्यार्थता, तदनन्तरं प्रदेशार्थता, तदनन्तरं चोभयार्थतेत्ययमेव क्रमः किमर्थमिति चेत् ? 'यथोद्देशं निर्देश' इति न्यायादिति गृहाण । ननूद्देशेऽपि कथं स एव क्रम इति चेत् ? शृणु-यतो द्रव्यापेक्षया प्रदेशा अधिकाः, प्रदेशापेक्षया चोभये अधिकास्ततोऽयं क्रमः। यद्वा द्रव्यार्थापेक्षया यदल्पबहुत्वविचारणं तत्सुकरं, तदपेक्षया प्रदेशार्थतया यदल्पबहुत्वविचारणं तदीषत्कठिनं, तदपेक्षया चोभयार्थतया तद्विचारणं कठिनतरमतोऽयं क्रमो ज्ञेयः। यद्वा द्रव्यप्रदेशयोर्निरूपणेन विना यतस्तदुभयनिरूपणमशक्यमतः प्राग् द्रव्यप्रदेशेयोर्निरूपणं, तत्रापि यतो द्रव्यस्य प्रदेशाः भवन्त्यतो द्रव्यस्य प्राथम्यम् । ४१. अतो वस्तुवृत्त्येति । याऽल्पबहुत्वं प्रभावयति तया वस्तुवृत्त्येत्यर्थः । ९१ Page #109 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं अणाणुपुव्वदव्वाइं दव्वट्टयाए अपएसट्टयाए विसेसाहियाई, अवत्तव्वगदव्वाइं परसट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई, ताइं चेव पसट्टयाए अनंतगुणाई | सेतं अणुगमे । सेतं णेगम - ववहाराणं अणोवणिहिया दव्वाणुपुव्वी । सर्वेभ्यः स्तोकानि, कुत इत्याह- अपएसट्टयाए त्ति प्रदेशलक्षणस्यार्थस्य तेष्वभावादित्यर्थः, यदि हि तेषु प्रदेशाः स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाऽधिकत्वं स्यात्, न चैतदस्ति, परमाणुरप्रदेश: ( प्रशम० २०८ ) इति वचनात् । अतः सर्वस्तोकान्येतानि । ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया विचारोऽपि तेषां न युक्त इति चेत्, नैतदेवम्, प्रकृष्टः सर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो निरंशो भाग: प्रदेश इति व्युत्पत्तेः प्रतिपरमाणु प्रदेशार्थताऽभ्युपगम्यत एव आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया ४२त्वप्रदेशार्थतेत्यदोषः । अवक्तव्यकद्रव्याणि प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशेषाधिकानि, यत: किलासत्कल्पनया अवक्तव्यकद्रव्याणां षष्टिः अनानुपूर्वीद्रव्याणां तु शतम्, ततो द्रव्यार्थताविचारे एतानीतरापेक्षया विशेषाधिकान्युक्तानि, अत्र तु प्रदेशार्थताविचारेऽनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात् तदेव शतमवस्थितम्, अवक्तव्यकद्रव्याणां तु प्रत्येकं द्विप्रदेशत्वाद् द्विगुणितानां विंशत्युत्तरं प्रदेशशतं जायत इति तेषामितरेभ्यः प्रदेशार्थतया ४२ विशेषाधिकत्वं भावनीयम् । आनुपूर्वीद्रव्याणि प्रदेशार्थतया ४४ अवक्तव्यकद्रव्येभ्योऽनन्तगुणानि भवन्ति, कथम् ? यतो ९२ ४२. त्वप्रदेशार्थतेत्यदोष इति । यद्वा यथा कर्मग्रन्थे वेदद्वाराल्पबहुत्वे चिन्त्यमाने वेदप्रतिपक्षतयाऽवेदिनामप्यल्पबहुत्वं चिन्त्यते तथाऽत्र प्रदेशार्थताप्रतिपक्षतयाऽप्रदेशार्थतयाऽपि तच्चिन्त्यतेऽतोऽदोषः । ४३. विशेषाधिकत्वं भावनीयमिति । अत्र किञ्चिदूनद्विगुणत्वं विशेषाधिकत्वेन बोध्यम्, परमाण्वपेक्षयाऽसंङ्ख्येयभागमात्रेण न्यूनत्वाद् द्व्यणुकानाम् । ४४. अवक्तव्यकद्रव्येभ्योऽनन्तगुणानि भवन्तीति । सङ्ख्याशास्त्रानुसारेण चिन्त्यमानेऽत्रासङ्ख्येयगुणानि भवन्तीति मन्तव्यम् । तच्चैवम् पूर्वमन्तरद्वारे (सूत्र - १११ पृष्ठांक-८६) अनानुपूर्वीद्रव्यस्य परमाणोरन्तरकालोऽसङ्ख्येयः काल उक्तः । ततश्च सम्पूर्णपुद्गलास्तिकायगतस्य यस्य कस्यचिदपि परमाणुप्रदेशस्येयतेयता कालेन पुनः परमाणूभवनमावश्यकम् । ततश्च सम्पूर्णे पुद्गलास्तिकाये यावन्तः परमाणुप्रदेशास्तेषामसङ्ख्येयभागः सर्वदा परमाणुरूपेण प्राप्यत एवेति निश्चीयते। ततश्चेदमपि ज्ञायत एव यद् विवक्षितसमये यावन्तः परमाणवस्तदपेक्षया सम्पूर्णपुद्गलास्तिकायगतप्रदेशा असङ्ख्येयगुणा एव, नानन्तगुणा इति । किञ्च, पूर्वं (पृष्ठांक ८९) भागद्वारे 'एएसिं णं भंते !' इत्यादि प्रज्ञापनासूत्रं यदुक्तं तेन- अनंतप्रदेशिका स्कन्धा अल्पाः, तेभ्यः परमाणुपुद्गला अनन्तगुणाः, तेभ्यः सङ्ख्येयप्रदेशिकाः स्कन्धाः सङ्ख्येयगुणाः, Page #110 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०११४] द्रव्यार्थतयाऽपि तावदेतानि पूर्वेभ्योऽसङ्ख्यातगुणान्युक्तानि यदा तु सङ्ख्यातप्रदेशिकस्कन्धानामसङ्ख्यातप्रदेशिकस्कन्धानामनन्ताणुकस्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भवतीति प्रदेशार्थतयाऽमीषां पूर्वेभ्योऽनन्तगुणत्वं भावनीयम् । उक्तं प्रदेशार्थतयाऽप्यल्पबहुत्वम्, इदानीमुभयार्थतामाश्रित्य तदाह - दव्वट्ठपएसट्ठयाए इत्यादि, इहोभयार्थताधिकारेऽपि यदेवाल्पं तदेवादौ दर्श्यते, अवक्तव्यकद्रव्याणि च सर्वाल्पानि इति प्रथममेवोक्तम्, सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए त्ति, अपरं चोभयार्थताधिकारेऽपि अणाणुपुव्वीदव्वाइं दव्वट्ट्याए इत्यादौ यदुक्तम् अपएसट्ठया तदात्मव्यतिरिक्तप्रदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशकत्वादिति मन्तव्यम्, ततश्चेदमुक्तं भवतिद्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्येभ्यो विशेषाधिकानि, शेषभावना तु प्रत्येकचिन्तावत् सर्वा कार्या । आह- यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः, किमनयोभयार्थताचिन्तयेति ? नैवम्, यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशाः कियताऽप्यधिका इति प्रत्येकतेभ्योऽसङ्ख्येयप्रदेशिकाः स्कन्धा असङ्ख्येयगुणाः इत्यल्पबहुत्वं ज्ञायते । ततश्चासङ्ख्येयप्रदेशिकाः स्कन्धाः समस्तपुद्गलास्तिकायस्यासङ्ख्येयेषु बहुभागेषु, तद्भिन्नाश्च परमाण्वादयः सर्वेऽप्येकस्मिन्नऽसङ्ख्यातभागमात्र एव वर्तन्ते । अतस्त्र्यणुकादारभ्योत्कृष्टसङ्ख्येयप्रदेशिकान् यावद्यान्यानुपूर्वीद्रव्याण्यनन्तप्रदेशिकानि च यान्यानुपूर्वीद्रव्याणि तेषामत्यल्पत्वेनाकिञ्चित्करत्वादसङ्ख्येयप्रदेशिकानां स्कन्धानामेव प्राधान्यादानुपूर्वीद्रव्येभ्यस्तेषां प्रदेशा असङ्ख्येयगुणा एव भवन्तीति स्पष्टम् । तथा वृत्तिकारैर्द्रव्यार्थतयाऽल्पबहुत्वे यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तभागवर्तित्वात् स्वभावादेव स्तोका इति न किञ्चित्तैरिह वर्धते, अतो वस्तुवृत्त्या किलासङ्ख्यातान्येव तेषु स्थानानि प्राप्यन्ते' इत्यादि यदुक्तं तेनाप्यसङ्ख्येयप्रदेशिकानामेव बाहुल्यस्य निश्चीयमानत्वादानुपूर्वीद्रव्येभ्यस्तत्प्रदेशा असङ्ख्येयगुणा एव निर्णीयन्ते । ततश्चात्र त्रीण्यल्पबहुत्वान्येवंप्रकाराणि ज्ञेयानि (१) द्रव्यार्थतया - अवक्तव्यकानि अल्पानि, अनानुपूर्वीणि विशेषाधिकानि (असङ्ख्यातभागमात्रेणाधिकानि), आनुपूर्वीण्यसङ्ख्येयगुणानि । (२) प्रदेशार्थतया-अनानुपूर्वीणि सर्वस्तोकानि, अवक्तव्यकानि विशेषाधिकानि ( देशोनद्विगुणानि ), आनुपूर्वीण्यसङ्ख्येयगुणानि, परमाणुप्रदेशेभ्यः समस्तपुद्गलास्तिकायोऽप्यसङ्ख्येयगुण एवेत्यस्माभिः पूर्वं निर्णीतम्, ततश्च परमाणुभ्यो ये देशोनद्विगुणास्तेभ्योऽवक्तव्यकद्रव्यप्रदेशेभ्यः, समस्तपुद्गलास्तिकायगतप्रदेशेभ्यो ये देशोनास्त आनुपूर्वीद्रव्यप्रदेशाः सुतरामसङ्ख्येयगुणा एव, न त्वनन्तगुणा इति स्पष्टम् । (३) द्रव्यप्रदेशार्थोभयतया - अवक्तव्यकद्रव्याणि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि विशेषाधिकानि, तत्प्रदेशाः ( परमाणवः) तुल्याः, अव्यक्तव्यकद्रव्यप्रदेशा ९३ Page #111 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं चिन्तायां न निश्चितम्, अत्र तु ताई चेव पएसट्टयाए अणंतगुणाई इत्यनेन तन्निर्णीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात् प्रत्येकावस्थातो भिन्नैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाच्च युक्तमेवोभयार्थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधोऽप्यनुगम इति निगमयति-सेत्तं अणुगमे त्ति, विशेषाधिकाः, आनुपूर्वीद्रव्याणि असङ्ख्येयगुणानि, आनुपूर्वीद्रव्यप्रदेशा असङ्ख्येयगुणा, न त्वनन्तगुणाः, एतच्च पूर्वं निर्णीतम्। सूत्रे तु द्वयोरपि स्थानयोरनन्तगुणानीति यदृश्यते तत्सूत्रादर्शलेखकस्य कोऽपि प्रमादोऽभूदिति कल्पने श्रेयः प्रतिभाति। तदनुसारेण च वृत्तिकारैरप्यनन्तगुणत्वं प्रतिपादितं भवेदित्यपि मन्तव्यम्। ___ अत्र सप्रसङ्गमेकमन्यदप्यल्पबहुत्वं विचार्यते- (१) अनन्तप्रदेशिकाः स्कन्धा अल्पाः (२) अनन्तप्रदेशिकस्कन्धानां प्रदेशा अनन्तगुणाः (३) परमाणवोऽनन्तगुणाः (४) सङ्ख्यातप्रदेशिकाः स्कन्धाः सङ्ख्यातगुणाः (५) सङ्ख्यातप्रदेशिकस्कन्धानां प्रदेशाः सङ्ख्यातगुणाः (६) असङ्ख्येयप्रदेशिकस्कन्धा असङ्ख्यगुणाः (७) असङ्ख्येयप्रदेशिकस्कन्धानां प्रदेशा असङ्ख्येयगुणाः। अत्र तृतीयपदतश्चतुर्थपदं संङ्ख्येयगुणं, ततश्च पञ्चमपदमपि सङ्ख्येयगुणमेव, तथापि तृतीयपदात् पञ्चमपदं त्वसङ्ख्येयगुणं ज्ञेयम् । तथाहि- अनन्तानन्तानां परमाणूनां प्रथमा वर्गणा, तेभ्यो विशेषहीनानां द्वयणुकानां द्वितीया वर्गणा, तेभ्योऽपि विशेषहीनानां त्र्यणुकानां तृतीया वर्गणा, एवमेव विशेषहीन-विशेषहीन-विशेषहीनक्रमेण चतुर्थ्यादिका अनन्तानन्ततमचरमान्ता वर्गणा ज्ञेयाः। किञ्च प्रथमायां वर्गणायां यावन्तः परमाणवस्तदर्धाः स्कन्धा असङ्ख्येयतमायां वर्गणायां प्राप्यन्ते। सा च वर्गणा द्विगुणहानिस्थानमुच्यते । द्विगुणहानिस्थानान्यप्यनन्तानि प्राप्यन्ते। द्वयोर्द्विगुणहानिस्थानयोर्मध्ये यावत्यो वर्गणास्ता अन्तरमुच्यते। यतश्चैतदन्तरमसङ्ख्येयप्रमाणमतो निश्चीयते यद्-अव्यवहितोत्तरवर्तिन्यां वर्गणायां यद् विशेषहीनत्वं स्कन्धानां प्राप्यते तदसङ्ख्येयभागमात्रेण ज्ञेयमिति। ततश्चोत्कृष्टसङ्ख्येयतमायां वर्गणायां प्रथमवर्गणागतपरमाणुराश्यपेक्षयाऽसङ्ख्येयभागमात्रहीना एव स्कन्धाः प्राप्यन्ते। यतश्चायमसङ्ख्याततमो भागो मूलराश्यपेक्षयाऽत्यल्पस्ततो यदि न विवक्ष्यते, तदा प्रथमवर्गणागतपरमाणुराशितुल्या एव स्कन्धा उत्कृष्टसङ्ख्येयतमां वर्गणां यावत् प्रत्येक वर्गणायां प्राप्यन्ते। ततश्च प्रथमायां वर्गणायां परमाणूनां यो राशिस्तस्य यदि 'प' इति संज्ञा क्रियते, उत्कृष्टसङ्ख्यातस्य च यदि 'उ' इति संज्ञा क्रियते तदा द्वितीयादिउत्कृष्टसङ्ख्याततमान्तवर्गणागतस्कन्धानां प्रदेशाः क्रमशः २प, ३प, ४प... इत्येवंक्रमेण उ x प यावत् प्राप्यन्ते। ततश्च सङ्ख्येयप्रदेशिकसमस्तस्कन्धगतप्रदेशानां राशिः २प + ३प + ४प... + उ x प इति यद्वा (२+३ +४+... +उ) x प इति प्राप्यते। अस्य राशेः Page #112 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०११५,११६] (सू० ११५) से किं तं संगहस्स अणोवणिहिया दव्वाणुपुव्वी ? संगहस्स अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्ता । तंजहा-अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५ । (सू० ११६) से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणयातिपएसिया आणुपुव्वी चउप्पएसिया आणुपुव्वी जाव दसपएसिया आणुपुव्वी संखिज्जपएसिया आणुपुव्वी, असंखिज्जपएसिया आणुपुव्वी, अणंतपदेसिया आणुपुव्वी, परमाणुपोग्गला अणाणुपुव्वी, दुपदेसिया अवत्तव्वए। सेतं संगहस्स अट्ठपयपरूवणया। तद्भणने च समर्थिता नैगम-व्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयति- सेत्तं नेगमेत्यादि । ___ व्याख्याता नैगम-व्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराह- से किं तमित्यादि । सामान्यमात्रसंग्रहणशील: संग्रहो नय:, अथ तस्य संग्रहनयस्य किं तद्वस्त्वनौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः । आह-ननु नैगम-संग्रह-व्यवहारे (तत्वार्थ० १।३३) त्यादिसूत्रक्रमप्रामाण्यान्नैगमानन्तरं संग्रहस्योपन्यासो युक्तः, तत् किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यते ? इति, सत्यम्, किन्तु नैगम-व्यवहारयोरत्र तुल्यमतत्वाल्लाघवार्थं युगपत् तन्निर्देशं कृत्वा पश्चात् संग्रहो निर्दिष्ट इत्यदोषः । अत्र निर्वचनमाह-संगहस्स अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्त त्ति संग्रहनयमतेनाप्यनौपनिधिकी द्रव्यानुपूर्वी प्राग्निरूपितशब्दार्था पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता। तदेव दर्शयति- तंजहेत्यादि। अत्र व्याख्या पूर्ववदेव यावत् तिपएसिया आणुपुव्वी इत्यादि, इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी, अनेके त्रिप्रदेशिका आनुपूर्व्य इत्याधुक्तम्, अत्र तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, इमां चात्र युक्तिमयमभिधत्ते त्रिप्रदेशिका: स्कन्धास्त्रिप्रदेशिकत्वसामान्याद् व्यतिरेकि णोऽव्यतिरेकिणो वा ? यद्याद्य: पक्षस्तर्हि ते त्रिप्रदेशिका एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वात्, द्विप्रदेशिकादिवदिति । अथ चरम: पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरेकात्, तत्स्वरूपवत्, सामान्य चैकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी, एवं चतुष्प्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽप्यनन्तप्रदेशिका एकैवानुपूर्वीति अविशुद्धसंग्रहनयमतम् । ४५विशुद्धसंग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामनन्ताणु'प' संज्ञितस्य सकलपरमाणुराशेरसङ्ख्येयगुणत्वं स्पष्टमेव, (१ + उ) इत्यस्य राशेरपि जघन्यासङ्ख्येयत्वेन (२+३+४+...+उ) इत्यस्य राशेः सुतरामसङ्ख्येयरूपत्वात्। ४५. विशुद्धसङ्ग्रहनयमतेनेति । आनुपूर्वीत्वादिविचारस्य प्रस्तुत्वादस्याभिप्रायस्य विशुद्ध Page #113 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ११७) एयाए णं संगहस्स अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगसमुक्कित्तणया कीरइ । ९६ (सू० ११८) से किं तं संगहस्स भंगसमुक्कित्तणया ? संगहस्स भंगसमुक्कित्तणयाअत्थि आणुपुव्वी १, अत्थि अणाणुपुव्वी २, अत्थि अवत्तव्वए ३, अहवा अत्थि आणुपुवी य अणाणुपुव्वी य ४, अहवा अत्थि आणुपुव्वी य अवत्तव्वए य ५, अहवा अत्थि अणाणुपुवीय अवत्तव्वए य ६, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य ७ । एवं एए सत्त भंगा । सेतं संगहस्स भंगसमुक्कित्तणया । ( सू० १९९) एयाए णं संगहस्स भंगसमुक्कित्तणयाए किं पओयणं ? एयाए संगहस्स भंगसमुक्कित्तणयाए संगहस्स भंगोवदंसणया कज्जति । ( सू० १२०) से किं तं संगहस्स भंगोवदंसणया ? संगहस्स भंगोवदंसणया - तिपएसिया आणुपुव्वी १, परमाणुपोग्गला अणाणुपुव्वी २, दुपएसिया अवत्तव्वए ३, अहवा तिपएसिया य परमाणुपोग्गला य आणुपुव्वी य अणाणुपुव्वी य ४, अहवा तिपएसिया यदुपएसिया य आणुपुव्वी य अवत्तव्वए य ५ अहवा परमाणुपोग्गला य दुपएसिया य अणाणुपुव्वी कपर्यन्तानां स्कन्धानामानुपूर्वीत्वसामान्याव्यतिरेकाद् व्यतिरेके चानुपूर्वीत्वाभावप्रसङ्गात् सर्वाऽप्येकैवानुपूर्वीति । एवमनानुपूर्वीत्वसामान्याव्यतिरेकात् सर्वेऽपि परमाणुपुद्गला एकैवानानुपूर्वी, तथाऽवक्तव्यकत्वसामान्याव्यतिरेकात् सर्वेऽपि द्विप्रदेशिकस्कन्धा एकमेवावक्तव्यकमिति । सामान्यवादित्वेन सर्वत्र बहुवचनाभाव: । सेतमित्यादि निगमनम् । T भङ्गसमुत्कीर्तनतां निर्दिदिक्षुराह - एयाए णमित्यादि । अत्रापि व्याख्या कृतैव द्रष्टव्या यावत् अत्थि आणुपुव्वीत्यादि, इहैकवचनान्तास्त्रय एव प्रत्येकभङ्गाः, सामान्यवादित्वेन व्यक्तिबहुत्वाभाव बहुवचनाभावात् । आनुपूर्व्यादिपदत्रयस्य च त्रयो द्विकसंयोगा भवन्ति, एकैकस्मिँश्च द्विकयोगे एकवचनान्त एकैक एव भङ्गः, त्रियोगेऽपि एक एवैकवचनान्त इति, सर्वेऽपि सप्त भङ्गा: संपद्यन्ते, शेषास्त्वेकोनविंशतिर्बहुवचनसम्भवित्वान्न भवन्ति अत्र । स्थापना - - आनुपूर्वी १ अनानुपूर्वी १ अवक्तव्यक १ इति त्रय: प्रत्येकभङ्गा: । आनुपूर्वी १ अनानुपूर्वी १ इति प्रथमो द्विकयोग: । आनुपूर्वी १ अवक्तव्यक १ इति द्वितीयो द्विकयोगः । अनानुपूर्वी १ अवक्तव्यक १ इति तृतीयो द्विकयोगः । आनुपूर्वी १ अनानुपूर्वी १ अवक्तव्यक १ इति त्रिकयोगः । एवमेते सप्त भङ्गाः । सेत्तमित्यादि निगमनम् । सङ्ग्रहनयत्वेन व्यपदेशः । अन्यथाऽखिलमपि पुद्गलास्तिकायं पुद्गलत्वेनैकं मन्यमानस्य द्रव्यत्वेन वा षण्णामपि द्रव्याणामेकत्वं मन्यमानस्य सत्तामहासामान्यमात्रमङ्गीकुर्वतो नयस्यापेक्षयाऽस्याप्यविशुद्धत्वमेव । Page #114 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१२१-१२४] य अवत्तव्वए य ६, अहवा तिपएसिया य परमाणुपोग्गला य दुपएसिया य आणुपुवी य अणाणुपुवीय अवत्तव्वए य ७ । सेतं संगहस्स भंगोवंदसणया । (सू० १२१) से किं तं समोयारे ? समोयारे - संगहस्स आणुपुव्विदव्वाइं कहिं समोयरंति ? किं आणुपुव्वदव्वेहिं समोयरंति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? संगहस्स आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति, नो अणाणुपुव्वीदव्वेर्हि समोयरंति, नो अवत्तव्वयदव्वेहिं समोयरंति । एवं दोण्णि वि सट्ठाणे सट्ठाणे समोयरंति । सेतं समोयारे । ( सू० १२२ ) से किं तं अणुगमे ? अणुगमे अट्ठविहे पन्नत्ते । तंजहा संतपयपरूवणया १, दव्वपमाणं २, च, खेत्त ३, फुसणा ४, य । कालो ५ य, अंतरं ६, भाग ७, भाव ८, अप्पाबहुं नत्थि ॥९॥ ९७ - ( सू० १२३ ) संगहस्स आणुपुव्वीदव्वाइं किं अत्थि णत्थि ? नियमा अत्थि । एवं दोfor a । ( सू० १२४) संगहस्स आणुपुव्वीदव्वाइं किं संखेज्जाइं, असंखेज्जाई, अणंताई ? भङ्गोपदर्शनतां बिभणिषुराह - एयाए णमित्यादि । अत्रापि सप्त भङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः । भावार्थस्तु सर्व: पूर्ववत् । सेत्तमित्यादि निगमनम् । I अथ समवताराभिधित्सया प्राह- से किं तं समोयारे इत्यादि, इदं च द्वारं पूर्ववद् निखिलं भावनीयम् । अथानुगमं व्याचिख्यासुराह से किं तं अणुगमे त्ति । अत्रोत्तरम् - अणुगमे अट्ठविहे पण्णत्ते त्ति, पूर्वं नवविध उक्तोऽत्र त्वष्टविध एव, अल्पबहुत्वद्वाराभावात्, तदेवाष्टविधत्वं दर्शयतितद्यथेत्युपदर्शनार्थः, संतपयगाहा, इयं पूर्वं व्याख्यातैव, नवरम् अप्पाबहुं नत्थि त्ति संग्रहस्य सामान्यवादित्वात् सामान्यस्य च सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न संभवतीत्यर्थः । तत्र सत्पदप्ररूपणताभिधानार्थमाह- संगहस्सेत्यादि, ननु संग्रहविचारे प्रक्रान्ते आनुपूर्वीद्रव्याणि सन्तीत्यनुपपन्नम्, आनुपूर्वीसामान्यस्यैवैकस्य तेनास्तित्वाभ्युपगमात्, सत्यम्, मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं च व्यवहारमात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोषः । शेषभावना पूर्ववदिति । द्रव्यप्रमाणद्वारे यदुक्तं नियमा एगो रासि त्ति, अत्राह - ननु यदि सङ्ख्येयादिस्वरूपाणि तानि न भवन्ति तर्ह्येको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वात्, व्रीह्यादिराशिषु तथैव दर्शनात्, सत्यम्, किन्त्वेको राशिरिति वदतः कोऽभिप्रायः ? बहूनामपि तेषामानुपूर्वीत्वसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव; किञ्च, यथा विशिष्टैकपरिणामपरिणते स्कन्धे तदारम्भकावयवानां Page #115 -------------------------------------------------------------------------- ________________ ९८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं नो संखेज्जाइं, नो असंखेज्जाइं, नो अणंताई, नियमा एगो रासी । एवं दोण्णि वि । (सू० १२५) संगहस्स आणुपुव्वीदव्वाइं लोगस्स कतिभागे होज्जा ? किं संखेज्जतिभागे होज्जा? असंखेज्जतिभागे होज्जा? संखेज्जेसु भागेसु होज्जा? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? नो संखेज्जतिभागे होज्जा, नो असंखेज्जतिभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नियमा सव्वलोए होज्जा। एवं दोण्णि वि। (सू० १२६) संगहस्स आणुपुव्वीदव्वाइं लोगस्स किं संखेज्जतिभागं फुसंति ? असंखेज्जतिभागं फुसंति ? संखेज्जे भागे फुसंति ? असंखेज्जे भागे फुसंति ? सव्वलोगं फुसंति ? नो संखेज्जतिभागं फुसंति, नो असंखेज्जतिभागं फुसंति, नो संखेज्जे भागे फुसंति, नो असंखेज्जे भागे फुसंति, नियमा सव्वलोगं फुसंति । एवं दोन्नि वि। __ (सू० १२७) संगहस्स आणुपुव्वीदव्वाइं कालओ केवचिरं होंति ? सव्वद्धा । एवं दोण्णि वि। (सू० १२८) संगहस्स आणुपुव्वीदव्वाणं कालतो केवचिरं अंतरं होति ? नत्थि अंतरं । एवं दोण्णि वि। (सू० १२९) संगहस्स आणुपुव्वीदव्वाइं ४६सेसदव्वाणं कतिभागे होज्जा ? किं संखेज्जतिभागे होज्जा ? असंखेज्जतिभागे होज्जा ? संखेज्जेसु भागेसु होज्जा? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जतिभागे होज्जा, नो असंखेज्जतिभागे होज्जा, णो संखेज्जेसु बाहुल्येऽप्येकतैव मुख्या तद्वदत्रानुपूर्वीद्रव्यबाहुल्येऽपि तत्सामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नय: प्रतिपद्यते, तद्वशेनैव तेषामानुपूर्वीत्वसिद्धेः, अन्यथा तदभावप्रसङ्गात्, तस्मान्मुख्यस्यैकत्वस्यानेन कक्षीकृतत्वात् सङ्ख्येयरूपतादिनिषेधः, गुणभूतानि द्रव्याण्याश्रित्य राशिभावोऽपि न विरुध्यते, एवमन्यत्रापि भावनीयमित्यलं प्रपञ्चेन। क्षेत्रद्वारे नियमा सव्वलोए होज त्ति आनुपूर्वीसामान्यस्यैकत्वात् सर्वलोकव्यापित्वाच्चेति भावनीयम् । एवमितरद्वयेऽप्यभ्यूह्यमिति । स्पर्शनाद्वारमप्येवमेव चिन्तनीयमिति । कालद्वारेऽपि तत्सामान्यस्य सर्वदाऽव्यवच्छिन्नत्वात् त्रयाणामपि सर्वाद्धाऽवस्थानं भावनीयमिति। अत एवान्तरद्वारे नास्त्यन्तरमित्युक्तं तद्भावव्यवच्छेदस्य कदाचिदप्यभावादिति । ४६. सेसदव्वाणं ति। प्राकृतत्वादार्षत्वाच्चात्राकारलोपो द्रष्टव्यः। ततश्च सङ्ग्रहस्यानुपूर्वीद्रव्याण्यशेषद्रव्याणां कतिभागे भवेद् ? इति प्रश्नस्य प्राप्यमाणत्वाद् नियमात् त्रिभागे भवेदित्युत्तरमुपपन्नं स्यात् । अन्यथा शेषद्रव्यत्वेन त्वनानुपूर्वीअवक्तव्यकेत्यनयोर्द्वयोरेव प्राप्यमाणत्वात् Page #116 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१३०-१३२] भागेसु होज्जा, णो असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा। एवं दोण्णि वि। (सू० १३०) संगहस्स आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? नियमा सादिपारिणामिए भावे होज्जा । एवं दोण्णि वि । अप्पाबहुं नत्थि। सेतं अणुगमे । सेतं संगहस्स अणोवणिहिया दव्वाणुपुव्वी । सेतं अणोवणिहिया दव्वाणुपुव्वी । (सू० १३१) से किं तं ओवणिहिया दव्वाणुपुव्वी ? ओवणिहिया दव्वाणुपुव्वी तिविहा पण्णत्ता । तंजहा- पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ य । (सू० १३२) से किंतं पुव्वाणुपुव्वी? पुव्वाणुपुव्वी- धम्मत्थिकाए १, अधम्मत्थिकाए २, आगासत्थिकाए ३, जीवत्थिकाए ४, पोग्गलत्थिकाए ५, अद्धासमए ६ । सेतं पुव्वाणुपुव्वी। __ भागद्वारे नियमा तिभागे होज त्ति त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तत इति भावः। यत्तु राशिगतद्रव्याणां पूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुतनयमते व्यवहारसंवृतिमात्रेणैव सत्त्वादिति । भावद्वारे ४७सादिपारिणामिए भावे होज त्ति, यथा आनुपूर्व्यादिद्रव्याणामेतद्भाववतित्वं पूर्व भावितं तथाऽत्रापि भावनीयम्, तेषां यथास्वं सामान्यादव्यतिरिक्तत्वादिति । अल्पबहुत्वद्वारासम्भवस्तूक्त एवेति समर्थितोऽनुगमः, तत्समर्थने च समर्थिता संग्रहमतेनानौपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथाऽपीयम्, अत: सेतमित्यादि निगमनत्रयम् । ____गताऽनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकीं तां व्याचिख्यासुराह - से किं तमित्यादि । अथ केयं प्राग्निर्णीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः । अत्र निर्वचनम् औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिर्निक्षेपो विरचनं तदपेक्षया चानुपूर्वीद्रव्यस्यार्धरूपत्वनियमात् त्रिभागे भवेदित्युत्तरमनुपपन्नमेव स्यात् । अत एव वृत्तिकारैरपि त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तते' इति कथनद्वारा ऽशेषद्रव्यापेक्षयैव सूत्रसङ्गतिर्दर्शिता । ततश्च दर्शितानुपपत्तिवारणार्थं यथाऽत्राशेषद्रव्यापेक्षयैव विचारणमावश्यकं तथैव पूर्वं (सू० ११२) नैगमव्यवहारनयसंलग्नसूत्रेऽपि भागद्वारेऽशेषद्रव्यापेक्षयैव विचारणस्यावश्यकत्वात्तत्राप्यकारलोपो जेय एव। ४७. 'सादिपारिणामिए भावे' त्ति । ननु सङ्ग्रहनयमतेन मुख्यस्यैकत्वस्यैव कक्षीकृतत्वादनादिपारिणामिकभावे वर्तते इति वक्तुमुचितम्, आनुपूर्वीद्रव्यत्वेनानुपूर्वीद्रव्यस्यैकस्य सर्वदा भावादिति चेत् ? सत्यं, किन्तु गुणभूतानि बहूनि द्रव्याण्याश्रित्य सादिपारिणामिकत्वास्याप्यविरुद्धत्वात् तदत्रोक्तमिति मन्तव्यम् । सूत्रकृत ईदृगभिप्रायो मन्तव्य एव, अन्यथा द्रव्यप्रमाणद्वारेऽपि 'नियमा एगो रासी' इत्यत्र ‘राशि'व्यपदेशोऽयुक्तः स्यात्, एकस्य राशित्वासम्भवात् । Page #117 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १३३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- अद्धासमए ६, पोग्गलत्थिकाए जीवत्थिकाए ४, आगासत्थिकाए ३, अधम्मत्थिकाए २, धम्मत्थिकाए १ । सेतं प्रयोजनमस्या इत्यौपनिधिकी द्रव्यविषयाऽऽनुपूर्वी परिपाटिर्द्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्म्मास्तिकायादिद्रव्यविशेषसमुदाये य: पूर्व : प्रथमस्तस्मादारभ्यानुपूर्वी अनुक्रमः परिपाटि : निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी । तत्रैव यः पाश्चात्त्यः चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी परिपाटिः विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी । न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्वयातिरिक्तस्वरूपेत्यर्थः । १०० ५, तत्राद्यभेदं तावन्निरूपयितुं प्रश्नमाह से किं तमित्यादि । इह च द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं निर्वचनमाह - धम्मत्थिकाए इत्यादि, तत्र जीव- पुद्गलानां स्वतः एव गतिक्रियापरिणतानां तत्स्वभावधरणाद् धर्म:, अस्तयः प्रदेशा:, तेषां कायः सङ्घातोऽस्तिकायः, धर्म्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसङ्ख्येयप्रदेशात्मकोऽमूर्तद्रव्यविशेषः इत्यर्थः । जीव- पुद्गलानामेव तथैव ४८ गतिपरिणतानां तत्स्वभावाधरणादधर्मः, जीव- पुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः । शेषं धर्मास्तिकायवत् सर्वम् । सर्वभावाकाशनादाकाशम्, आ मर्यादया तत्संयोगेऽपि स्वकीयस्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया काशन्ते स्वभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा आ अभिविधिना ४९ सर्वात्मना तत्संयोगानुभवनलक्षणेन काशन्ते तथैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः । तच्च तदस्तिकायश्चेति आकाशास्तिकायः, लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः । जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः, ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः । पूरण- गलनधर्माण: पुद्रला: परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ता:, ते हि कुतश्चिद् द्रव्याद् गलन्ति वियुज्यन्ते, किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भाव: । ते च तेऽस्तिकायाश्चेति समासः । अद्धाशब्दः कालवचनः समयः सङ्केतादिवाचकोऽप्यस्ति, ततो विशेष्यते-अद्धारूपः समयोऽद्धासमय:, वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धः " ४८. गतिपरिणतानां तत्स्वभावाधारणादधर्म इति । गतिपरिणामस्वभावाधारणत्वं त्वधर्मस्य व्युत्पत्तिनिमित्तं ज्ञेयं, न प्रवृत्तिनिमित्तं, आकाशादेरपि गतिपरिणामस्वभावाधारणत्वादधर्मत्वापत्तेः। तथा तस्यैव प्रवृत्तिनिमित्तत्वेऽधर्मस्य प्रवृत्तिनिमित्तत्वेनोच्यमानः स्थितिपरिणामो गतिपरिणामाभावात्मक एव स्यान्न तु स्वतन्त्रः कश्चित्परिणामात्मकः । ततश्चाधर्मास्तिकायस्याभाव एव स्याद्, अभावे उपष्टम्भकस्यानावश्यकत्वात् । ४९. सर्वात्मनेति । न तु कञ्चुकसर्पयोरिवोपरितनभागमात्रेणैव । Page #118 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०१३३] सर्वसूक्ष्मः ५°पूर्वाऽपरकोटिविप्रमुक्तो वर्तमान एकः कालांश इत्यर्थ:, अत एवात्र अस्तिकायत्वाभावः बहुप्रदेशत्व एव तद्भावात्, अत्र त्वतीताऽनागतयोर्विनष्टाऽनुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य सद्भावात् । नन्वेवमावलिकादिकालाभाव:, समयबहुत्व एव तदुपपत्तेरिति चेत्, भवतु तर्हि, को निवारयिता ? समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य (अनुयोगद्वारे सू० ३६५, आवश्यकनि० ६६३) इत्याद्यागमविरोध इति चेत्, नैवम्, अभिप्रायापरिज्ञानात्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमात्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात्, न हि पुद्गलस्कन्धे परमाणुसङ्घात इवावलिकादिषु समयसङ्घातः कश्चिदवस्थित: समस्तीति तदसत्त्वमसौ प्रतिपद्यत इत्यलं चर्च्चयेति । ५९ अत्र च जीव - पुद्गलानां गत्यन्यथाऽनुपपत्तेर्धर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यम्, न च वक्तव्यम् - तद्गति- स्थिती च भविष्यतो धर्माधर्मास्तिकायौ च न भविष्यत इति प्रतिबन्धाभावादनैकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात् । यदि तु अलोकेऽपि तद्गति - स्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीव - पुद्गलानां तत्र प्रवेशादेकद्वित्रादिजीवपुद्गलयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोकः स्यात्, न चैतद् दृष्टमिष्टं वेत्याद्यन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदार्थानामाधारान्यथाऽनुपपत्तेरस्तीति श्रद्धेयम् । न च धर्माधर्मास्तिकायावेव तदाधारो भविष्यति इति वक्तव्यं ५२ तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्, न चान्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गादिति । ५०. पूर्वापरकोटिविप्रमुक्त इति । अविभाज्य इत्यर्थः । यथावलिकाया अयं पूर्वार्द्धाऽयं तु पश्चार्द्ध इत्येवं विभागः कर्तुं शक्यो, न तथा समयस्य । ५१. अत्र च जीवपुद्गलानामिति । 'लोको धर्मास्तिकायवान्, जीवगतिमत्त्वात्, यन्नैवं तन्नैवं यथाऽलोकः' इत्यादयोऽनुमानप्रयोगा अत्र ज्ञेयाः । अस्तु जीवगतिमत्त्वं माऽस्तु धर्मास्तिकायः, को दोष इत्यादिस्वरूपमप्रयोजकत्वमुद्भावयति कश्चिन्न च वक्तव्यमित्यादिना । अलोकेऽपि जीवगतिमत्त्वप्रसङ्ग एवाप्रयोजकत्वशङ्कानिर्मूलनक्षमोऽनुकूलस्तर्कोऽत्र विजयत इत्याशयेनाह तावन्तरेणापीत्यादि । नन्वलोकस्यापि जीवगतिमत्त्वे काऽऽपत्तिरिति शङ्कां मनसिकृत्याह यदि त्वित्यादि । १०१ ५२. तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात् । यथा नैयायिकैरवयवधाराया अन्ते सिद्धे निरवयवे परमाणावेव व्यावर्तकधाराया अन्ते सेत्स्यमानं स्वतो व्यावर्तकत्वं न स्वीकृतमपि तु तदर्थं परमाणुभिन्नः स्वतन्त्र एव विशेषाख्यः पदार्थः स्वीकृतः, यथा वा शब्दाश्रयत्वेन सिद्ध आकाश एव न परापरत्वधीहेतुत्वमङ्गीकृतमपि तु तदर्थं स्वतन्त्रं कालद्रव्यमङ्गीकृतं तथैवात्रापि मन्तव्यम्, ततश्च यतो गतिसाधकत्वेन सिद्धे धर्मास्तिकाये स्थितिसाधकत्वेन वा Page #119 -------------------------------------------------------------------------- ________________ १०२ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं पच्छाव | घटादिज्ञानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाज्जीवस्यास्तित्वमवसातव्यम्, न च गुणिनमन्तरेण गुणसत्ता युक्ता अतिप्रसङ्गात् न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्तं चिद्रूपं सदैवेन्द्रियगोचरातीतत्वादिधर्म्मोपेतम्, अतः तस्यानुरूप एव कश्चिद्गुणी समन्वेषणीयः, स च जीव एव, न तु देहो विपरीतत्वात्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तर्ह्यनवस्था रूपादिगुणानामप्याकाशादेर्गुणित्वकल्पनाप्रसङ्गादिति । ५३ पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः प्रत्यक्षत्वाच्च सत्त्वं प्रतीतमेवेति । कालोऽप्यस्ति, बकुला - ऽशोक - चम्पकादिषु पुष्पफलप्रदानस्यानियमेनादर्शनात्, यस्तु तत्र नियामक: स कालः इति, स्वभावादेव तु तद्भवने ५४ नित्यं सत्त्वमसत्त्वं वा (प्रमाणवा० ३।३५) इत्यादिदूषणप्रसङ्गः, अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थदुरवगमताभयादिति । आह-धर्मास्तिकायस्य प्राथम्यमधर्मास्तिकायादीनां तु तदनन्तरं क्रमेणेत्थं निर्देश: कुतः सिद्धो येनात्र पूर्वानुपूर्वीरूपता स्यादिति ? अत्रोच्यते- आगमे इत्थमेव पठितत्वात् । तत्रापि कथमित्थमेव पाठ इति चेत्, उच्यते, धर्मास्तिकाय इत्यत्र यदाद्यं धर्मेतिपदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः ततस्तत्प्रतिपक्षत्वादधर्मास्तिकायस्य, ततस्तदाधारत्वादाकाशास्तिकायस्य, ततः स्वाभाविकामूर्तत्वसाम्याज्जीवास्तिकायस्य, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवपर्यायत्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति । अथ पश्चानुपूर्वी निरूपयितुमाह से किं तं पच्छाणुपुव्वीत्यादि, पाश्चात्त्यादारभ्य प्रतिलोमं व्यत्ययेनैवानुपूर्वी परिपाटिः क्रियते यस्यां सा पश्चानुपूर्वी, अत्रोदाहरणमुत्क्रमेण इदमेवाऽऽहअद्धासमयेत्यादि गतार्थमेव । सिद्धेऽधर्मास्तिकायेऽवकाशदायकत्वं वक्तुं न पार्यतेऽतस्तदर्थं स्वतन्त्रमाकाशाख्यं द्रव्यमङ्गीकर्तव्यमेव। एतत्तु सर्वमप्यनुमानेन धर्मादिसाधनार्थमुक्तमिति मन्तव्यम्, अन्यथाऽमूर्तान्यपि धर्मादिद्रव्याणि येषां प्रत्यक्षाणि तेषां सर्वज्ञानामुक्तिरूप आगम एवास्माकं धर्मादिसिद्धौ बलवत्प्रमाणम् । ५३. पुद्गलास्तिकायस्य त्विति... पुद्गलास्तिकायो द्विविधः परमाण्वादिरूपोऽतीन्द्रियः, घटादिरूपश्वेन्द्रियगम्यः। तत्र प्रथमेऽतीन्द्रिये प्रमाणं दर्शयितुं घटादिकार्यान्यथानुपपत्तेरित्युक्तम्, तद्भिन्ने तु प्रत्यक्षत्वादिति । ५४. “नित्यं सत्त्वं.....” नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः।। इति हि तन्यायः प्रमाणवार्तिकस्य पदार्थानुमानपरिच्छेदे । Page #120 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०१३४] १०३ (सू० १३४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । अथानानुपूर्वी निरूपयति-से किं तमित्यादि, अत्र निर्वचनम् - अणाणुपुव्वी एताए चेवेत्यादि, न विद्यते आनुपूर्वी यथोक्तपरिपाटिद्वयरूपा यस्यां सा अनानुपूर्वी विवक्षितपदानामनन्तरोक्तक्रमद्वयमुल्लच्चय परस्परासदृशैः सम्भवद्भिर्भङ्गकैर्यस्यां विरचना क्रियते साऽनानुपूर्वीत्यर्थः । का पुनरियमित्याहअन्नमन्नब्भासो त्ति अन्योन्यं परस्परमभ्यासो गुणनमन्योन्याभ्यासः दुरूवोणो त्तिद्विरूपन्यूनः आद्यन्तरूपरहित: अनानुपूर्वीति सण्टङ्कः । कस्यां विषये योऽसावभ्यास इत्याह- श्रेण्यां पंक्तौ, कस्यां पुनः श्रेणावित्याह - एताए चेव त्ति, अस्यामेव अनन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्याम्, कथंभूतायामित्याह-एक आदिर्यस्यां सा एकादिकी, एकैक उत्तर: प्रवर्द्धमानो यस्यां सा तथोक्ता, तस्यां पुनः कथंभूतायामित्याह - छगच्छगताए त्ति, षण्णां गच्छ समुदाय: षड्गच्छस्तं गता प्राप्ता षड्गच्छगता, तस्याम्, धर्मास्तिकायादिवस्तुषट्कविषयायामित्यर्थः । आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तषट्काया धर्मास्तिकायादिवस्तुषट्कविषयायाः पङ्क्तेर्या परस्परगुणने भङ्गकसङ्ख्या भवति सा आद्यन्तभङ्गद्वयरहिता अनानुपूर्वीति भावार्थ: । तत्रोर्ध्वाधः किलैककादयः षट्पर्यन्ता अङ्काः स्थापिताः । तत्र चैककेन द्विके गुणिते जात द्वावेव, ताभ्यां त्रिको गुणितो जाताः षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शतम्, षट्कस्य च तद्गुणने जातानि विंशत्यधिकानि सप्त भङ्गशतानि, स्थापनाआगतम् ७२०, अत्राऽऽद्यो भङ्गः पूर्वानुपूर्वी, अन्त्यस्तु पश्चानुपूर्वीति तदपगमे शेषाण्यष्टा- | ६ दशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकस्वरूपानयनार्थं करणगाथा पुव्वाणुपुव्विहिट्ठा समयाभेण कुरु जहाजेट्ठे । उवरिमतुलं पुरओ नसेज्ज पुव्वक्कमो सेसे || ११|| ( विशेषावश्यकभा० ९४३ ) इति । व्याख्या- इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या: हेट्ठ त्ति अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः कुरु त्ति स्थापय, एकादीनि पदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठम्, यो यस्यादौ स तस्य ज्येष्ठो यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एवं च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याहसमयाभेदेनेति, समय: संकेत: प्रस्तुतभङ्गकरचनव्यवस्था, तस्य अभेदः अनतिक्रमः, तस्य च भेदस्तदा Page #121 -------------------------------------------------------------------------- ________________ १०४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्यात्,, उक्तं च जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ कायव्वो । सो होइ समयभेदो वजेयव्वो पयत्तेणं ।।१।। ( ) निक्षिप्तस्य चाङ्कस्य यथासम्भवं पुरओ त्ति अग्रत: उपरितनाङ्कस्तुल्यं सदृशं यथा भवत्येवं न्यस्येत्, उपरितनाङ्कसदृशानेवाङ्कान्निक्षिपेदित्यर्थः, पुव्वक्कमो सेसे त्ति स्थापितशेषानकान्निक्षिप्ताङ्कस्य यथासम्भवं पृष्ठत: पूर्वक्रमेण स्थापयेदित्यर्थः । य: सङ्ख्यया लघुरेककादिः स प्रथम स्थाप्यते, यस्तु तया महान् द्विकादिः स पश्चादिति पूर्वक्रम: पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भाव इत्यक्षरघटना। भावार्थस्तु दिग्मात्रदर्शनार्थं सुखाधिगमाय च त्रीणि पदान्याश्रित्य तावद् दर्श्यते, तेषां च परस्पराभ्यासे षड् भङ्गा भवन्ति, ते चैवमानीयन्ते, पूर्वानुपूर्वीलक्षणस्तावत् प्रथमो भङ्गः, तद्यथा १२३, अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकः स तदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते उवरिमतुल्लमित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्ग: २१३, अत्र च द्विकस्य विद्यते एकको ज्येष्ठः परं नासौ तदधस्तानिक्षिप्यते, अग्रत: सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, स तदधस्तानिक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिको क्रमेण स्थाप्येते, पुव्वक्कमो सेसे त्ति वचनात्, ततस्तृतीयोऽयं भङ्ग: १३२, अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विको न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एकक: स्थाप्यते, अग्रतस्तु द्विकः, उवरिमतुल्लमित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्ग: ३१२, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चामीषामियं स्थापना- १ २ ३| अत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादन्त्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव २ १ ३| चत्वारोऽनानुपूर्वीत्वेन मन्तव्या:, एवमनयोद्दिष्ट्या चतुरादिपदसम्भविनोऽपि भङ्गा | र भावनीयाः । भूयांसश्चहोत्तराध्ययनटीकादिनिर्दिष्टा: प्रस्तुतभङ्गानयनोपाया: २ १ सन्ति, न चोच्यन्तेऽतिविस्तरभयात्, तदर्थिना तु तत एवावधारणीयाः। ३ २ १ तदिदमत्र तात्पर्यम्-पूर्वानुपूर्ध्या तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वम्, पश्चानुपूर्त्यां त्वद्धासमयस्य प्रथमत्वम्, पुद्गलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्वम्, अनानुपूर्त्यां त्वनियमेन क्वचिद्भङ्गके कस्यचित् प्रथमादित्वमित्यलं विस्तरेण । सेतमित्यादि निगमनम् । Page #122 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१३५-१३९] १०५ (सू० १३५) अहवा ओवणिहिया दव्वाणुपुत्वी तिविहा पन्नत्ता। तं जहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (सू० १३६) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- परमाणुपोग्गले दुपएसिए तिपएसिए जाव दसपएसिए जाव संखिज्जपएसिए असंखिज्जपएसिए अणंतपएसिए । सेतं पुव्वाणुपुव्वी। (सू० १३७) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- अणंतपएसिए असंखिज्जपएसिए संखिज्जपएसिए जाव दसपएसिए जाव तिपएसिए दुपएसिए परमाणुपोग्गले । सेतं पच्छाणुपुव्वी। (सू० १३८) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगाइयाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । सेतं ओवणिहिया दव्वाणुपुव्वी । सेतं जाणगवइरित्ता दव्वाणुपुव्वी। सेतं नोआगमओ दव्वाणुपुव्वी । सेतं दव्वाणुपुव्वी । (सू० १३९) से किं तं खेत्ताणुपुव्वी ? खेत्ताणुपुव्वी दुविहा पण्णत्ता । तंजहा तदेवमत्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहर्तुमाह- अहवेत्यादि । अत्र चौपनिधिक्या द्रव्यानुपूर्व्या ज्ञातमपि त्रैविध्यं यत् पुनरप्युपन्यस्तं तत् प्रमाणान्तरभणनप्रस्तावादेवेति मन्तव्यम्, अणंतगच्छगताए त्ति अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानां गच्छ: समुदायोऽनन्तगच्छ:, तं गता अनन्तगच्छगता, तस्याम्, अत एव भङ्गा अत्रानन्ता एवावसेया इति । शेषभावना च सर्वा पूर्वोक्तानुसारतः स्वयमप्यवसेयेति । ___ आह- ननु यथैक: पुद्गलास्तिकायो निर्धार्य पुनरपि पूर्वानुपूर्व्यादित्वेनोदाहृत: एवं शेषा अपि प्रत्येकं किमिति नोदाह्रियन्ते ? अत्रोच्यते-द्रव्याणां क्रम:परिपाट्यादिलक्षण: पूर्वानुपूर्व्यादिविचार इह प्रक्रान्त:, स च द्रव्यबाहुल्ये सति संभवति, धर्मा-ऽधर्मा-ऽऽकाशास्तिकायेषु च पुद्गलास्तिकायवन्नास्ति प्रत्येकं द्रव्यबाहुल्यम् एकैकद्रव्यत्वात्तेषाम्, जीवास्तिकाये त्वनन्तजीवद्रव्यात्मकत्वादस्ति द्रव्यबाहुल्यम्, केवलं परमाणु-द्विप्रदेशिकादिद्रव्याणामिव जीवद्रव्याणां पूर्वानुपूर्व्यादित्वनिबन्धनः प्रथमपाश्चात्त्यादिभावो नास्ति प्रत्येकमसंख्येयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वात् परमाणु-द्विप्रदेशिकादिद्रव्याणां तु विषमप्रदेशत्वादिति, अद्धासमयस्यैकत्वादेव तदसम्भव इत्यलमतिचर्चितेन । तदेवं समर्थिता औपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च समर्थिता प्रागुद्दिष्टा द्विप्रकाराऽपि द्रव्यानुपूर्वी, तत: सेत्तमित्यादीनि निगमनानि, द्रव्यानुपूर्वी समाप्ता। उक्ता द्रव्यानुपूर्वी, अथ प्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिख्यासुराह- से किं तं खेत्ताणुपुब्वि Page #123 -------------------------------------------------------------------------- ________________ १०६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ओवणिहिया य अणोवणिहिया य । (सू० १४०) तत्थ णं जा सा ओवणिहिया सा ठप्पा । (सू० १४१) तत्थ णं जा सा अणोवणिहिया सा दुविहा पन्नत्ता । तंजहा- णेगमववहाराणं १, संगहस्स य २ । (सू० १४२) से किं तं गम-ववहाराणं अणोवणिहिया खेत्ताणुपुव्वी ? णेगमववहाराणं अणोवणिहिया खेत्ताणुपुव्वी पंचविहा पण्णत्ता । तंजहा-अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५।। (सू० १४३) से किं तं णेगम-ववहाराणं अट्ठपयपरूवणया ? णेगम-ववहाराणं अट्ठपयपरूवणया- तिपएसोगाढे आणुपुव्वी जाव दसपएसोगाढे आणुपुव्वी जाव संखिज्जपएसोगाढे आणुपुव्वी, असंखेज्जपएसोगाढे आणुपुव्वी, एगपएसोगाढे अणाणुपुत्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढा आणुपुव्वीओ जाव दसपएसोगाढा त्ति । इह क्षेत्रविषया आनुपूर्वी क्षेत्रानुपूर्वी, का पुनरियमित्यत्र निर्वचनम्- क्षेत्रानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथा-औपनिधिकी पूर्वोक्तशब्दार्था अनौपनिधिकी च । तत्र याऽसावौपनिधिकी सा स्थाप्या, अल्पवक्तव्यत्वादुपरि वक्ष्यत इत्यर्थः, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणाद् द्विविधा प्रज्ञप्ता, तद्यथा-नैगम-व्यवहारयोः सङ्ग्रहस्य च सम्मतेति शेषः । तत्र नैगम-व्यवहारसंमतां तावदर्शयितुमाह- से किं तमित्यादि । इह व्याख्या यथा द्रव्यानुपूर्त्यां तथैव कर्तव्या, विशेषं तु वक्ष्यामः । तत्र तिपएसोगाढे आणुपुव्वि त्ति, त्रिषु नभ:प्रदेशेष्ववगाढः स्थित: त्रिप्रदेशावगाढस्त्र्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी । ननु यदि ५५द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वम् ? सत्यम्, किन्तु ५६क्षेत्रप्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूर्व्यधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वम्, तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः। ५५. द्रव्यस्कन्ध एवानुपूर्वीति । यथा पुद्गलप्रदेशाः पूरणगलनस्वभावत्वान् मिथः सम्मील्य विविधान् स्कन्धान् विरचयन्ति न तथाऽऽकाशप्रदेशाः, पूरणगलनस्वभावाभावेन मिथः सम्मीलनासम्भवात्। ५६. क्षेत्रप्रदेशत्रयवगाहेत्यादि । अत एव द्रव्यानुपूर्वीमपेक्ष्यानुपूर्वीभूता अपि त्र्यणुकादयो ये स्कन्धा एकाकाशप्रदेशावगाहास्ते क्षेत्रानुपूर्वीमपेक्ष्यानानुपूर्वीभूता एव, एवं ये स्कन्धा आकाशप्रदेशद्वयावगाहास्तेऽवक्तव्यका एवेति द्रव्यानुपूर्वीतो विशेषः प्राप्यते । Page #124 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१४४,१४५] १०७ आणुपुव्वीओ जाव संखेज्जपएसोगाढा आणुपुव्वीओ, असंखिज्जपएसोगाढा आणुपुव्वीओ, एगपएसोगाढा अणाणुपुव्वीओ, दुपएसोगाढा अवत्तव्वगाइं । सेतं णेगमववहाराणं अट्ठपयपरूवणया। (सू० १४४) एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओयणं? एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए णेगम-ववहाराणं भंगसमुक्कित्तणया कीरति । (सू० १४५) से किं तं णेगम-ववहाराणं भंगसमुक्कित्तणया ? णेगम-ववहाराणं भंगसमुक्कित्तणया-अत्थि आणुपुव्वी १, अत्थि अणाणुपुव्वी २, अत्थि अवत्तव्वए ३ । एवं दव्वाणुपुव्विगमेणं खेत्ताणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा, जाव सेतं णेगम-ववहाराणं भंगसमुक्कित्तणया । यद्येवं तर्हि मुख्यं क्षेत्र परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते ? उच्यतेसंतपयपरूवणयेत्यादिवक्ष्यमाणबहतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन ५७सदावस्थितमानत्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वात्, एवमन्यदपि कारणमभ्यूह्यमित्यलं विस्तरेण । एवं चतुष्प्रदेशावगाढादिष्वपि भावना कार्या, यावदसङ्ख्यातप्रदेशावगाढा(ढ?) आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यः, यत: पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति- परमाणुराकाशस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोऽसङ्ख्यातप्रदेशिकान्तास्तु स्कन्धा: प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, ५८उत्कृष्टतस्तु यत्र स्कन्धे यावन्त: परमाणवो ५७. सदावस्थितमानत्वादचलत्वाच्चेति । ननु जीवस्यापि न सदावस्थितमानत्वमचलत्वं वा, तत्कथं तदवगाढत्वेन क्षेत्रानुपूर्वी नोक्तेति चेत् ? जीवस्य जघन्यतोऽप्यङ्गुलस्याऽसङ्ख्येयभागप्रमाणाऽसङ्ख्येयाकाशप्रदेशावगाहना तु यतो भवत्येवातोऽनानुपूर्व्यक्तव्यकत्वासम्भवात् सा नोक्तेति गृहाण। ५८. उत्कृष्टतस्त्वित्यादि। उत्कृष्टतोऽसङ्ख्येयनभःप्रदेशरूपा एषाऽवगाहना द्विविधा ज्ञेया । स्वस्थानतः समुद्घाततश्च । तत्र स्वस्थानतः साऽमुलासङ्ख्येयभागमात्रप्रमाणा भवति, ततश्च लोकस्यासङ्ख्येयभागमात्रैव सा ज्ञेया। समुद्घाततस्तु सा लोकस्यासङ्ख्येयभागप्रमाणा, सङ्ख्येयभागप्रमाणा, सङ्ख्येयबहुभागप्रमाणा, असङ्ख्येयबहुभागप्रमाणा (देशोनलोकप्रमाणा), सम्पूर्णलोकप्रमाणा वापि सम्भवति, इमाश्च सर्वा अप्यवगाहनाः कथं सम्भवन्ति तत्तु पूर्व (टिप्पण क्र.३४) विचारितमेव | अचित्तमहास्कन्धानां तु समुद्घातः संभवत्येव, तद्भिन्नानां स्कन्धानां तत्सम्भवोऽस्ति न वेत्यत्र नास्माकं कोऽपि निर्णयः । Page #125 -------------------------------------------------------------------------- ________________ १०८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १४६) एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं? एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए णेगम-ववहाराणं भंगोवदंसणया कज्जति । (सू० १४७) से किं तं णेगम-ववहाराणं भंगोवदंसणया ? णेगम-ववहाराणं भंगोवदंसणया- तिपएसोगाढे आणुपुव्वी, एगपएसोगाढे अणाणुपुव्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढाओ आणुपुव्वीओ, एगपएसोगाढाओ अणाणुपुव्वीओ, दुपएसोगाढाई अवत्तव्वयाई, अहवा तिपएसोगाढे य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य, एवं तहा चेव दव्वाणुपुव्विगमेणं छव्वीसं भंगा भाणियव्वा जाव सेतं णेगम- ववहाराणं भंगोवदंसणया । (सू० १४८) (१) से किं तं समोयारे ? समोयारे-णेगम-ववहाराणं आणुपुव्वीदव्वाई कहिं समोयरंति ? किं आणुपुव्वीदव्वेहिं समोयरंति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति, नो अणाणुपुव्वीदव्वेहिं समोयरंति, नो अवत्तव्वयदव्वेहिं समोयरंति।। भवन्ति स तावत्स्वेव नभ:प्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव, उत्कृष्टतस्त्वसङ्ख्येयेष्वेव नभ:प्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्ख्येयप्रदेशत्वात्, अलोकाकाशे च द्रव्यावगाहाभावादित्यलं प्रसङ्गेन । प्रकृतमुच्यते । तत्रानुपूर्वीप्रतिपक्षत्वादनानुपूर्व्यादिस्वरूपमाह- एगपएसोगाढे अणाणुपुव्वि त्ति, एकस्मिन्नभ:प्रदेशे अवगाढ: स्थित एकप्रदेशावगाढ: परमाणुसङ्घात: स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्य: । दुपएसोगाढे अवत्तव्वए त्ति प्रदेशद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकम्, शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताद् द्रव्यानुपूर्त्यां व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो यावद् द्रव्यप्रमाणद्वारे नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइमित्यादि प्रश्न: । अत्रोत्तरम्- नो संखेज्जाइमित्यादि, त्र्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, त्र्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्यतया बहूनामपि क्षेत्रावगाहमपेक्ष्य ५९तुल्यप्रदेशावगाढानामेकत्वात् क्षेत्रानुपूर्व्याम ५९. तुल्यप्रदेशावगाढानामेकत्वादिति। नन्वत्र तुल्यत्वं सङ्ख्ययैव ग्रहीतव्यं यद्वाऽवगाहनाभूताकाशप्रदेशैस्तद्ग्रहीतव्यमिति चेत् ? अवगाहनाभूताकाशप्रदशैस्तद्ग्रहीतव्यमिति गृहाण । यद्यपि सङ्ख्ययैव तद्ग्रहणेऽप्यानुपूर्वीद्रव्याणामसङ्ख्येयत्वं तूपपद्येतैव तद्यथा-समस्तलोके यत्र कुत्रचिदष्यवस्थितानामाकाशप्रदेशत्रयावगाढानां स्कन्धानां समूह एकमानुपूर्वीद्रव्यम्, एवमाकाशप्रदेशचतुष्टयावगाढानां स्कन्धानां समूहोऽन्यदानुपूर्वीद्रव्यम्, एवं क्रमेणासङ्ख्ये Page #126 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०१४९- १५२) १०९ (२) एवं तिणि वि सट्ठाणे समोयरंति त्ति भाणियव्वं । सेतं समोयारे । ( सू० १४९) से किं तं अणुगमे ? अणुगमे णवविहे पण्णत्ते । तंजहा संतपयपरूवणया १, दव्वपमाणं २ च, खेत्त ३, फुसणा ४ य । कालो ५, य अंतरं ६, भाग ७, भाव ८, अप्पाबहुं ९ चेव ॥ १० ॥ ( सू० १५०) से किं तं संतपयपरूवणया ? णेगम-ववहाराणं खेत्ताणुपुव्वीदव्वाई किं अस्थि णत्थि ? णियमा अत्थि । एवं दोणि वि । ( सू० १५१) गम - ववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइं, असंखेज्जाई, अताई ? नो संखेज्जाई, नो अणंताई, नियमा असंखेज्जाई । एवं दोणि वि । ( सू० १५२) (१) गम-ववहाराणं खेत्ताणुपुव्वीदव्वाइं लोगस्स कतिभागे होज्जा ? किं संखिज्जइभागे वा होज्जा ? असंखेज्जइभागे वा होज्जा ? जाव सव्वलोए वा होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा, संखेज्जेसु वा भागेसु होज्जा, असंखेज्जेसु वा भागेसु होज्जा, देसूणे वा लोए होज्जा, णाणादव्वाइं सङ्ख्यातान्येवानुपूर्वीद्रव्याणि भवन्तीति भावः । एवमेकप्रदेशावगाढं बह्वपि द्रव्यं क्षेत्रत एकैवानानुपूर्वीत्युक्तम्, लोके च प्रदेशा असङ्ख्याता भवन्ति, अतस्तत्तुल्यसङ्ख्यत्वादनानुपूर्वीद्रव्याण्यप्यसङ्ख्येयानीति । एवं प्रदेशयेऽवगाढं बह्वपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्तम्, द्विप्रदेशात्मकाश्च विभागा लोकेऽसङ्ख्याता भवन्त्यतस्तान्यप्यसङ्ख्येयानीति । क्षेत्रद्वारे निर्वचनसूत्रे एगदव्वं पडुच्च लोयस्स संखेज्जइभागे वा होज्जेत्यादि । इह स्कन्धद्रव्याणां विचित्रस्वरूपत्वात् कश्चित् स्कन्धो लोकस्य सङ्ख्येयं भागमवगाह्य तिष्ठति, अन्यस्त्वसङ्ख्येयं भागमवगाह्य तिष्ठति, अन्यस्तु सङ्ख्येयाँस्तद्भागानवगाह्य वर्तते, अन्यस्त्वसङ्ख्येयानित्यतस्ततत्स्कन्धद्रव्यापेक्षया सख्येयादिभागवर्तित्वं भावनीयम्, विशिष्टक्षेत्रावगाहोपलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानुपूर्वीत्वेनोक्तत्वादिति (ग्रन्थाग्रम् २०००) भावः । सूणे वा लोए होज्जत्ति, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति । अत्राऽऽहयाकाशप्रदेशावगाढानां स्कन्धानां समूहं यावदसङ्ख्येयानामानुपूर्वीद्रव्याणां प्राप्तिः स्पष्टैव । तथापि तन्न ग्रहीतव्यं, अनानुपूर्वीद्रव्याणामसङ्ख्येयत्वानुपपत्त्यापत्तेः । सा चैवं - सङ्ख्यामात्रेण तुल्यत्वे विवक्षिते ऊर्ध्वाधस्तिर्यग्लोकेषु यत्र कुत्रचिदप्यवस्थितानामेकाकाशप्रदेशावगाढानां परमाण्वादिपुद्गलानामनानुपूर्वीद्रव्याणां तुल्यप्रदेशावगाढत्वेनैकत्वमेव निर्विवादं मन्तव्यं स्यादित्यसङ्ख्येयत्वानुपपत्तिः स्पष्टैव । एवमेवावक्तव्यकद्रव्याणामशेषाणामाकाशप्रदेशद्विकेष्वेवावस्थितत्वात् सङ्ख्यया तुल्येष्वेवाकाशप्रदेशेष्ववगाढत्वादेकत्वमेव स्यान्नत्वसङ्ख्येयत्वमिति । Page #127 -------------------------------------------------------------------------- ________________ ११० पडुच्च णियमा सव्वलोए होज्जा । नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापित्वं पूर्वमुक्तम्, तस्य च समस्तलोकवर्त्यसङ्ख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किञ्चिद् विरुध्यते, अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकव्यापिता प्रोच्यते ? सत्यम्, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य इति समयस्थितिः, यदि चात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशतयाऽभावः प्रतीयेत, ततो महास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येकः प्रदेशोऽनानुपूर्वीविषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षा भाव:, ततोऽनेन प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोक: प्रतिपादित इत्यदोष: । उक्तं च पूर्वमुनिभिःमहखंधा पुण्णे वी saत्तव्वग -ऽणाणुपुव्विदव्वाई । जद्देसोगाढाई तद्देसेणं स लोगूणो || १ || ( I ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालं च तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवम्, यतो द्रव्यानुपूर्व्यं द्रव्याणामेवानुपूर्व्यादिभाव उक्तः, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वात्, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते, एकापवरकान्तर्गतानेकप्रदीपप्रभाऽवस्थानदृष्टान्तादिसिद्धत्वात्, अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभाव:, मुख्यस्तु क्षेत्रस्यैव, क्षेत्रानुपूर्व्यधिकारात्, ततो द लोकप्रदेशा: सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तव्यकतया प्रतिपाद्येत ? यस्त्विहैव येष्वाकाशप्रदेशेष्वानुपूर्व्यास्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेद विवक्षणात्, ६०'अत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति । अथवा आनुपूर्वीद्रव्यस्य स्वावयवरूपा देशाः कल्प्यन्ते, यथा पुरुषस्याङ्गुल्यादयः, ततश्च विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते यथा पुरुषस्यैवाङ्गुलीदेशे, देशत्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः । न च वक्तव्यं देशिनो देशो न कश्चिद्भिन्नो दृश्यते, एकान्ताभेदे देशमात्रस्य देशिमात्रस्य वाऽभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमहास्कन्धस्याऽऽनुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयैकस्मिन् देशे तस्याभावविवक्षणात्, तस्मिंश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाशः सिद्धो भवतीति भावः । न च देशदेशिभावः कल्पनामात्रम्, सम्मत्यादि - (गा० ३७) न्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन । नाणादव्वाइ६०. अत्रेति। आनुपूर्वीद्रव्यस्य देशोनलोकव्यापित्वकथन इत्यर्थः। आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं Page #128 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१५३] १११ (२) अणाणुपुव्वीदव्वाणं पुच्छा, एगं दव्वं पडुच्च नो संखिज्जतिभागे होज्जा, असंखिज्जतिभागे होज्जा, नो संखेज्जेसु० नो असंखेज्जेसु० नो सव्वलोए होज्जा, नाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा । (३) एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । (सू० १५३) (१) णेगम-ववहाराणं आणुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं, फुसंति ? असंखेज्जति० ? जाव सव्वलोगं फुसंति ? एगं दव्वं पडुच्च संखेज्जतिभागं वा फुसंति, असंखेज्जतिभागं वा, संखेज्जे वा भागे, असंखेज्जे वा भागे, देसूणं वा लोगं फुसंति, णाणादव्वाइं पडुच्च णियमा सव्वलोगं फुसंति । मित्यादि, त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वीणां नानात्वम्, तैश्च त्र्यादिप्रदेशावगाडैद्रव्यभेदैः सर्वोऽपि लोको व्याप्त इति भावः। अनानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासङ्ख्येयभागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनात्, एकप्रदेशस्य च लोकासङ्ख्येयभागवर्तित्वादिति । नाणादव्वाई पडुच्च नियमा सव्वलोए होज्ज त्ति एकैकप्रदेशावगाढैरपि द्रव्यभेदैः समग्रलोकव्याप्तेरिति । एवं अवत्तव्वगदव्वाणि वित्ति, अवक्तव्यकद्रव्यमप्येकं लोकासंख्येयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानात्, प्रदेशद्वयस्य च लोकासङ्ख्येयभागवृत्तित्वादिति, तथा प्रत्येकं द्विप्रदेशावगाढेरपि द्रव्यभेदैः समस्तलोकव्याप्तेर्नानाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति । अत्राह- नन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भाव: प्रतिपादितो भवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात् ? अत्रोच्यते- इह त्र्यादिप्रदेशावगाढाद् द्रव्याद् भिन्नमेव तावदेकप्रदेशावगाढम्, ताभ्यां च भिन्नं द्विप्रदेशावगाढम्, ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासिते च वस्तुनि तत्तत्सहकारिसन्निधानात् तत्तद्धर्माभिव्यक्तौ दृश्यत एव समकालं व्यपदेशभेदो यथा खड्ग-कुन्त-कवचादियुक्ते देवदत्ते खड्गी कुन्ती कवचीत्यादिरिति । इह क्वचिद् वाचनान्तरे अणाणुपुव्वीदव्वाइं अवत्तव्वगदव्वाणि य जहेव हेतुति अतिदेश एव दृश्यते, तत्र हे? त्ति यथाऽधस्ताद् द्रव्यानुपूर्व्यामनयो: क्षेत्रमुक्तं तथाऽत्रापि ज्ञातव्यमित्यर्थः, तच्च व्याख्यातमेवेति, एवमन्यत्रापि यथासम्भवं वाचनान्तरमवगन्तव्यमिति । गतं क्षेत्रद्वारम् । स्पर्शनाद्वारमपि चेत्थमेव निखिलं भावनीयम्, नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूक्मेकद्रव्यस्य सङ्ख्येयभागादारभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अन्यस्यास्त्वभिप्रायेण सङ्ख्येयभागादारभ्य यावत् सम्पूर्णलोकस्पर्शना स्यादित्यवसीयते, एतच्च Page #129 -------------------------------------------------------------------------- ________________ ११२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) अणाणुपुव्वीदव्वाइं अवत्तव्वयदव्वाणि य जहा खेत्तं, नवरं फुसणा भाणियव्वा । (सू० १५४) णेगम-ववहाराणं आणुपुव्वीदव्वाइं कालतो केवचिरं होंति ? एगदव्वं पडुच्च जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं । णाणादव्वाइं पडुच्च सव्वद्धा। एवं दोण्णि वि। द्वयमपि बुध्यत एव, यतो यदि मुख्यतया क्षेत्रप्रदेशानामानुपूर्वीत्वमङ्गीक्रियते तदा अनानुपूर्व्यवक्तव्यकयोर्निरवकाशताप्रसङ्गात् पूर्ववद्देशोनता लोकस्य वाच्या । अथानुपूर्वीरूपे क्षेत्रेऽवगाढत्वादचित्तमहास्कन्धस्यैवानुपूर्वीत्वं तर्हि द्रव्यानुपूर्व्यामिवात्रापि सम्पूर्णता लोकस्य वाच्येति । न चात्रानुपूर्व्या सकलस्यापि लोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्विप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसङ्ख्येयानां द्रव्यभेदानां सद्भावतस्तयोरपि प्रत्येकमसङ्ख्येयभेदयोर्लोके सद्भावाद् द्रव्यावगाहभेदेन च क्षेत्रभेदस्येह विवक्षितत्वादिति भाव: । वृद्धबहुमतश्चायमपि पक्षो लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति । क्षेत्र-स्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति गतं स्पर्शनाद्वारम् । अथ कालद्वारम्- तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया त्र्यादिप्रदेशावगाढद्रव्याणामेवानुपूर्व्यादिभाव: पूर्वमुक्तः, अतस्तेषामेवावगाढस्थितिकालं चिन्तयन्नाह- एगदव्वं पडुच्चेत्यादि । अत्र भावना- इह द्विप्रदेशावगाढस्य एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेश: सञ्जात:, समयं चैकं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा तद् द्रव्यं संजातमित्यानुपूर्व्या: समयो जघन्यावगाहस्थिति:, यदा तु तदेव द्रव्यमसङ्ख्येयं कालं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकाल: सिद्ध्यति, अनन्तस्तु न भवति, विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टतोऽप्यसङ्ख्यातकालमेवावस्थानादिति । नानाद्रव्याणि तु सर्वाद्धा सर्वकालमेव भवन्ति, त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति। एवं यदा समयमेकं किंचिद् द्रव्यमेकस्मिन् प्रदेशेऽवगाढं स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदाऽनानुपूर्व्या: समयो जघन्याऽवगाहस्थिति:, यदा तु तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसङ्ख्येयोऽवगाहस्थितिकाल:, नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाढद्रव्यभेदानां सर्वदा भावादिति। अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मिंस्त्र्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तौ जघन्या समयोऽवगाहस्थिति:, असङ्ख्येयकालादूर्ध्वं द्विप्रदेशावगाहं परित्यजत उत्कृष्टतोऽसङ्ख्येयोऽवगाहस्थितिकाल: सिद्ध्यति, नानाद्रव्याणि तु सर्वकालम्, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति । एवं समानवक्तव्यत्वादतिदिशति- एवं Page #130 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१५५] ११३ (सू० १५५) णेगम-ववहाराणं आणुपुव्वीदव्वाणमंतरं कालतो केवचिरं होति ? तिण्णि वि एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। णाणादव्वाइं पडुच्च णत्थि अंतरं । दोण्णि वि त्ति । इदानीमन्तरद्वारम् - जहण्णेणं एगं समयं ति, अत्र भावना- इह यदा व्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं तस्माद्विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य तेष्वेव त्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्यान्तरकाल: प्राप्यते । उक्कोसेणं असंखेज्जं कालं ति, तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसङ्खयेयं कालं परिभ्रम्य ६१केवलमन्यद्रव्ययुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्ख्येयोऽन्तरकाल: प्राप्यते, न पुनद्रव्यानुपूर्व्यामिवानन्त:, यतो द्रव्यानुपूर्त्यां विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ता: प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्तोऽनन्त: कालः, अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्खयेयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्खयेयकालैव, ततश्चासङ्ख्येये क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनाऽन्यसंयुक्तेन वाऽसङ्खयेयकालात्तेष्वेव नभ:प्रदेशेष्वागत्यावगाहनीयम् । न च वक्तव्यमसङ्खयेयेऽपि क्षेत्रे पौन:पुन्येन तत्रैव भ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ? यत इहासङ्ख्येये क्षेत्रेऽसङ्ख्येयकालमेवान्यत्र तेन पर्यटितव्यम्, तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयम्, वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम् । अन्ये तु व्याचक्षते- यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतम्, तस्य क्षेत्रस्य स्वभावादेवासङ्खयेयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्ण-गन्ध-रस-स्पर्श-सङ्ख्यादिधर्मे: सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्खयेय एवान्तरकाल इति । तत्त्वं तु केवलिनो विदन्ति, ६२गम्भीरत्वात् सूत्रप्रवृत्तेरिति । ६१. केवलमन्यद्रव्यसंयुक्तं वेति । अत्रान्यद्रव्यसंयोगस्तथैव संमतो यथा मूलभूतस्याऽऽनुपूर्वीद्रव्यस्यावगाहनायां हानिर्वृद्धिर्वा न स्यात् । ६२. गम्भीरत्वात् सूत्रप्रवृत्तेरिति । यद्वाऽत्रायमपि समाधानप्रकारः संभवति-पूर्व द्रव्यानुपूामन्तरकालोऽनन्तः प्रोक्तः । ततश्च, यैः परमाणुप्रदेशैर्निष्पन्नं यदानुपूर्वीद्रव्यं क्षेत्रानुपूर्वीतयाऽधिकृतं, तद्विघटितं, विघटनानन्तरं पुनः संयोजनात् प्रागनन्तकालो व्यतीतः। तदनन्तरं पुनस्तैरेव परमाणुप्रदेशैस्तादृगेवानुपूर्वीद्रव्यं निर्मितं, पुनश्च तत्तेष्वेवाकाशप्रदेशेष्वागतमित्येवमन्तरकालोऽनन्तोऽपि प्राप्यते । परन्तु ग्रन्थेऽन्तरकालोऽसङ्ख्येय एवोक्तः । ततश्च निश्चीयते यद्विवक्षितमानुपूर्वीद्रव्यं विघटनात्प्रागुत्कृष्टतो यावता कालेन पुनस्तेष्वेवाकाशप्रदेशेष्वागच्छति Page #131 -------------------------------------------------------------------------- ________________ ११४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १५६) णेगम-ववहाराणं आणुपुव्वीदव्वाइं ६३सेसदव्वाणं कतिभागे होज्जा ? तिण्णि वि जहा दव्वाणुपुव्वीए। नाणादव्वाइमित्यादि, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्ख्येयानां तेषां सर्वदैवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमनानुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः । शेषा तु व्याख्याद्वयभावना सर्वाऽपि तथैवेति । ___उक्तमन्तरद्वारम् । साम्प्रतं भागद्वारमुच्यते- तत्र यथा द्रव्यानुपूर्त्यां तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्य: शेषद्रव्येभ्योऽसङ्ख्येयै गैरधिकानि, शेषद्रव्याणि तु तेषामसङ्ख्येयभागे वर्तन्ते इति । अत्राह- ननु त्र्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्व्य एकैकप्रदेशावगाढान्यनानुपूर्को द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्ति, अतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि- असत्कल्पनया किल लोके त्रिंशत् प्रदेशा:, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव, अवक्तव्यकानि तु पञ्चदश, आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्य: स्तोकान्येव प्राप्नुवन्ति, कथमसङ्ख्येयगुणानि स्युरिति ? अत्रोच्यते- एकस्मिन्नानुपूर्वीद्रव्ये ये नभ:प्रदेशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयुज्यरस्तदा स्यादेवम्, तच्च नास्ति, यत एकस्मिन्नपि प्रदेशत्रयनिष्पन्ने आनुपूर्वीद्रव्ये ये त्रय: प्रदेशास्त एवान्यान्यरूपतयाऽवगाढेनाऽऽधेयद्रव्येणाक्रान्ता: सन्त: प्रत्येकमनेकेषु त्रिकसंयोगेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्, तद्भेदे चाधारभेदादिति भावः, एवमन्यान्यचतुष्प्रदेशावगाढाद्याधेयेनाध्यासितत्वात्त एवानेकेषु चतुष्कसंयोगेष्वनेकेषु पञ्चकसंयोगेषु यावदनेकेष्वसङ्ख्येयकसंयोगेषु प्रत्येकमुपयुज्यन्ते, एवं चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादय: प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावनीया, तस्मादसङ्ख्येयप्रदेशात्मके स्वस्थित्या व्यवस्थिते स एवात्रोत्कृष्टान्तरकालतयाऽभिप्रेत इति । स च काल उत्कृष्टतोऽप्यसङ्ख्येय एव प्राप्यते, कस्यचिदप्यानुपूर्वीद्रव्यस्य तत्परतोऽवश्यं विघटनात् । ननु यदानुपूर्वीद्रव्यं विवक्षितेष्वाकाशप्रदेशेषु पुनरागमनात्प्रागेव विघटितं तस्यान्तरकालानापत्त्यापत्तिः स्यादिति चेत् ? न, इष्टापत्तेः, यत्र यत्र मार्गणादौ यो योऽन्तरकालः प्रोक्तो भवेत्, तस्य प्राप्तिस्तत्तन्मार्गणादिविषयभूतानां सर्वेषां स्यादेवेति नियमाभावात्, अन्यथोपशमश्रेणिप्राप्तानां सर्वेषां देशोनार्धपुद्गलपरावर्तसंसारभ्रमणमवश्यं कर्तव्यं स्यात्, तदुत्कृष्टान्तरकालस्य तावत्प्रमाणस्योक्तत्वात्।। ६३. सेसदव्वाणंति । अत्रापि (११२) द्वादशाधिकशततमसूत्रवदकारलोपो ज्ञेयः, तत्रोक्तहेतोरेव । Page #132 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१५७], (सू० १५७) णेगम-ववहाराणं आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? तिन्नि वि णियमा सादिपारिणामिए भावे होज्जा । लोके यावन्तस्त्रिकसंयोगादयोऽसङ्ख्येयकसंयोगपर्यन्ता: संयोगा जायन्ते तावन्त्यानुपूर्वीद्रव्याणि भवन्ति प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावात्, ६४आधेयभेदे चाधारभेदात्, न हि नभ:प्रदेशा येनैव स्वरूपेणैकस्मिन्नाधेये उपयुज्यन्ते तेनैव स्वरूपेणाधेयान्तरेऽपि, आधेयैकताप्रसङ्गात्, एकस्मिन्नाधारस्वरूपे तदवगाहाभ्युपगमात्, घट-तत्स्वरूपवत् । तस्मात् त्र्यादिसंयोगानां लोके बहुत्वादानुपूर्वीणां बहुत्वं भावनीयम् । अवक्तव्यकानि तु स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वात् । अनानुपूर्दोऽपि स्तोका एव, लोकप्रदेशसङ्ख्यामात्रत्वात् । अत्र सुखप्रतिपत्त्यर्थं लोके किल पञ्चाकाशप्रदेशा: कल्प्यन्ते, तद्यथा- : अत्रानानुपूर्व्यस्तावत् पञ्चैव प्रतीता:, अवक्तव्यकानि त्वष्टौ, द्विकसंयोगानामिहाष्टानामेव सम्भवात्, आनुपूर्व्यस्तु षोडश संभवन्ति, दशानां त्रिकसंयोगानां पञ्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकसंयोगस्येह लाभात्, दश त्रिकसंयोगा: कथमिह लभ्यन्ते ? इति चेत्, उच्यते- षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते, चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैश्चतुभिरेव केवलैरिति, चतुष्कसंयोगास्तु चत्वारो मध्यव्यवस्थितेन सह लभ्यन्ते, एकस्तु तन्निरपेक्षैर्दिग्व्यवस्थितैरेवेति सर्वे पञ्च, पञ्चकसंयोगस्तु प्रतीत एवेति । तदेवं प्रदेशपञ्चकप्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेण सद्भावतोऽसङ्ख्येयप्रदेशात्मके लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्योऽसङ्ख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भागद्वारम् । साम्प्रतं भावद्वारम्- तत्र च द्रव्याणां त्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सादिप(पा)रिणामिकत्वात् ६५त्रयाणामपि सादि ६४. आधेयभेदे चाधारभेदादिति । अत्राधेयभेदोऽवयवभूतपरमाणुप्रदेशादिभेदेन वर्णादिभेदेन वा न ग्राह्यः, आनुपूर्व्यादित्रयाणामपि द्रव्यप्रमाणेऽनन्तप्रमाणत्वकथनप्रसङ्गात्, एकस्मिन्नपि नभः प्रदेशेऽनन्तानां परमाणुट्यणुकादीनामवगाढत्वात् । तर्हि कथमाधेयभेदोऽत्र ग्राह्यः ? अवगाहक्षेत्रभेदेन स ग्राह्य इति जानीहि । अत एवैकाकाशप्रदेशावगाढानां परमाणुट्यणुकादीनामनन्तत्वेऽपि नानानुपूर्वीद्रव्याणामनन्तत्वं, अपि तु यावन्तो लोकाकाशस्य प्रदेशास्तावतामेवावगाहक्षेत्रभेदानां सम्भवादनानुपूर्वीद्रव्याणामपि लोकाकाशप्रदेशप्रमाणासङ्ख्येयत्वमेव । ततश्चानुपूर्वीद्रव्यार्थं यदि क-ख-ग-घ-इति संज्ञिता नभःप्रदेशा विचार्यन्ते, तदा क-ख-ग-इति संज्ञितेषु त्रिषु नभःप्रदेशेष्ववगाढानां त्र्यणुकादिअनन्ताणुकपर्यन्तस्कन्धानामेकमेवानुपूर्वीद्रव्यत्वं, किन्तु कखघकगघ-खगघ-कखगघ इत्यादिसंज्ञितेषु नभःप्रदेशेष्ववगाढानां स्कन्धानां तद्भिन्नमेवानुपूर्वीद्रव्यत्वम् । ६५. त्रयाणामपि सादिपारिणामिकभाववर्तित्वमिति । ततश्चात्राप्याधेयभेदेनाधारभेदो ज्ञेयः। Page #133 -------------------------------------------------------------------------- ________________ ११६ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० १५८ ) ( १ ) एएसि णं भंते ! णेगम - ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्ट - पएसट्टयाए य करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाइं णेगमववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्वीदव्वाइं दव्वट्टयाए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई | (२) पएसट्टयाए सव्वत्थोवाइं णेगम-ववहाराणं अणाणुपुव्वीदव्वाइं अपएसट्टयाए, अवत्तव्वयदव्वाइं परसट्टयाए विसेसाहियाई, आणुपुव्विदव्वाइं पसट्टयाए असंखेज्जगुणाई | (३) दव्वट्ठ-पएसट्टयाए सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्विदव्वाइं दव्वट्टयाए अपएसट्टयाए विसेसाहियाई, अवत्तव्वयदव्वाई पट्टयाए पारिणामिकभाववर्त्तित्वं भावनीयमिति । अल्पबहुत्वद्वारे- इह द्रव्यगणनं द्रव्यार्थता, प्रदेशगणनं प्रदेशार्थता, उभयगणनं तूभयार्थता । तत्रानुपूर्व्यं विशिष्टद्रव्यावगाहोपलक्षितास्त्र्यादिनभःप्रदेशसमुदायास्तावद्द्द्रव्याणि, समुदायारम्भकास्तु प्रदेशाः । अनानुपूर्व्यं त्वेकैकप्रदेशावगाहिद्रव्योपलक्षिताः सकलनभ:प्रदेशाः प्रत्येकं द्रव्याणि, प्रदेशास्तु न संभवन्ति, एकैकप्रदेशद्रव्ये प्रदेशान्तरायोगात् । अवक्तव्यकेषु तु यावन्तो लोके द्विकयोगाः संभवन्ति तावन्तस्ते प्रत्येकं द्रव्याणि, तदारम्भकास्तु प्रदेशा इति । शेषा त्वत्र व्याख्या द्रव्यानुपूर्वीवत् कर्तव्येति । नवरं सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वगदव्वाइमित्यादि । अत्राह - ननु यदा पूर्वोक्तयुक्त्या एकैको नभ:प्रदेशोऽनेकेषु द्विकसंयोगेषूपयुज्यते, तदा अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्तायामपि पञ्चप्रदेशनभःकल्पनायामवक्तव्यकद्रव्याणामेवाष्टसङ्ख्योपेतानां पञ्चसङ्ख्येभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दृष्टम्, तत् कथमत्र व्यत्ययः प्रतिपाद्यते ? सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तु ये कण्टकाकृतयो विण्या निर्गता एकाकिनः प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यकत्वायोग्या इत्यनानुपूर्वीसङ्ख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसङ्ख्यां मीलयित्वा यदा केवल चिन्तयति तदाऽवक्तव्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना f । अत्र विश्रेणिलिखितौ द्वौ अवक्तव्यकायोग्यौ द्रष्टव्याविति । एवम्भूताश्च नात आधारभूतक्षेत्रस्यानाद्यनन्तत्वेन नित्यत्वेऽपि क्षेत्रानुपूर्व्यादीनां सादिपरिणामत्वक्षतिः। Page #134 -------------------------------------------------------------------------- ________________ ११७ श्रीअनुयोगद्वारसूत्रम् [सू०१५८] विसेसाहियाई, आणुपुव्विदव्वाई दव्वट्ठयाए असंखेज्जगुणाई, ताई चेव पएसट्टयाए असंखेज्जगुणाई । से तं अणुगमे । सेतं णेगम-ववहाराणं अणोवणिहिया खेत्ताणुपुव्वी। किलामी सर्वतो लोकपर्यन्तेषु बहवः सन्तीत्यनानुपूर्वीणां ६६बाहुल्यमित्यलं विस्तरेण । आनुपूर्वीद्रव्याणां तु तेभ्योऽसंख्यातगुणत्वं भावितमेव, शेषं द्रव्यानुपूर्व्यनुसारेण भावनीयम् । नवरमुभयार्थताविचारे आनुपूर्वीद्रव्याणि स्वद्रव्येभ्य: प्रदेशार्थतयाऽसङ्ख्येयगुणानि, कथम् ? एकैकस्य तद्र्व्यस्य त्र्यादिभिरसङ्ख्येयान्तैर्नभ:प्रदेशैरारब्धत्वात्, नभ:प्रदेशानां च समुदितानामप्यसङ्ख्येयत्वादिति । सेतमित्यादि निगमनद्वयम् । ६६. बाहुल्यमित्यलं विस्तरेणेति । ननु पञ्चाकाशप्रदेशायामदैर्घ्यविष्कंभे समचतुरस्र क्षेत्रे १ तः १२५ यावदङ्किता नभःप्रदेशा निम्नोक्तप्रकारेण पञ्चसु प्रतरेषु सन्ति । प्रतर नं.१ प्रतर नं.२ प्रतर नं.३ १६ १७ १८ १९ २० ४१४२४३४४|४५६६/६७/६८/६९/७० |२१ २२ २३ २४ २५ ४६/४७/४८ ४९/५०/७१/७२/७३/७४/७५ प्रतर नं.४ प्रतर नं.५ ૨૦૨૨૦૨૨૦૩ ટકા ८१/८२ ८३ ८४८५ શબ્દ ૦૭/૦૮ ૨૦૧૭ | ८६/८७ ८८ ८९९० ??????????? ११६/११७११८/११९१२० ९.६.२.०१.८ १०. ४०० કરરરરર૩ર૪ર૬ 12:2 PRO-प्रतर क्रमाङ्क तत्र प्रथमप्रतरगतनभप्रदेशेष्ववगाढान्यवक्तव्यकद्रव्याण्येवंक्रमेण प्राप्यन्ते Page #135 -------------------------------------------------------------------------- ________________ १९८ (१) प्रथम श्रेणिगतेषु नभःप्रदेशेष्वेवंक्रमेण १–२, २–३, ३-४, ४-५ ( =४) प्रथम- द्वितीयश्रेणिगतेषु नभःप्रदेशेष्वेवंक्रमेण१–६, २७, ३-८, ४-९, ५-१० ( =५) द्वितीय श्रेणिगतेषु - ६-७, ७–८, ८-९, ९-१० (=४) द्वितीय- तृतीय श्रेणिगतेषु - ६-११, ७-१२, ८-१३, ९-१४, १०-१५ ( =५) तृतीय श्रेणिगतेषु - ११-१२, १२-१३, १३-१४, १४-१५ (=४) तृतीयचतुर्थश्रेणिगतेषु- ११-१६, १२-१७, १३-१८, १४-१९, १५-२० (=५) चतुर्थश्रेणिगतेषु- १६-१७, १७-१८, १८-१९, १९-२० (=४) चतुर्थपञ्चमश्रेणिगतेषु - १६-२१, १७-२२, १८-२३, १९-२४, २०-२५ (=५) पञ्चमश्रेणिगतेषु - २१-२२, २२-२३, २३-२४, २४-२५ (=४) एवं समस्तानि ४ + ५ + ४ + ५ + ४ + ५ + ४ + ५ + ४ = ४ × ५ + ५ × ४ = [(५-१) × ५ + ५ × (५-१)] = २ × ५२ २ × ५ = ४० चत्वारिंशद् द्रव्याणि प्राप्तानि। अर्थादेकस्यां श्रेण्यामवस्थितानां प्रदेशानां सङ्ख्या यदि 'प' इतिसंज्ञिता स्यात्तदा २२- २प इति प्रमाणान्यवक्तव्यकद्रव्याणि प्राप्यन्ते । (२) (४) एवमेव द्वितीयादिषु प्रतरेष्वपि चत्वारिंशच्चत्वारिंशद् ज्ञेयानि । तानि चैवं स्वस्यां तिर्यक्श्रेण्याम् स्वाधोवर्तिन्यां श्रेण्याम्- २६-३१, २७-३२, २८-३३, २९-३४, ३०-३५ ( = ५): ३१-३६, ३२-३७, ३३-३८, ३४-३९, ३५-४० ( = ५); ३६-४१, ३७-४२, ३८-४३, ३९-४४, ४०-४५ ( = ५); ४१-४६, ४२-४७, ४३-४८, ४४-४९, ४५-५० ( = ५); समस्तानि चत्वारिंशद् २६-२७, २७-२८ २८-२९ २९-३० ( = ४); ३१-३२, ३२-३३, ३३-३४, ३४-३५ (= ४); ३६-३७, ३७-३८, ३८-३९, ३९-४० (= ४); ४१-४२, ४२-४३, ४३-४४, ४४-४५ (= ४); ४६-४७ ४७-४८, ४८-४९, ४९-५० ( = ४); (3) ५१-५२, ५२-५३, ५३-५४, ५४-५५ (= ४); ५६-५७, ५७-५८, ५८-५९, ५९-६० ( = ४); ६१-६२, ६२-६३, ६३-६४, ६४-६५ ( = ४); ६६-६७, ६७-६८, ६८-६९, ६९-७० (= ४); ७१-७२, ७२-७३, ७३-७४, ७४-७५ ( = ४); ७६-७७ ७७-७८, ७८-७९, ७९-८० ( = ४); ८१-८२, ८२-८३, ८३-८४, ८४-८५ (= ४); ८६-८७, ८७-८८, ८८-८९ ८९-९० ( = ४); ९१-९२. ९२-९३ ९३-९४ ९४-९५ (= ४); ९६-९७ ९७-९८ ९८-९९ ९९-१०० ( = ४); आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं द्वितीयप्रतरे तृतीयप्रतरे चतुर्थप्रतरे ५१-५६, ५२-५७, ५३-५८, ५४-५९, ५५-६० ( = ५); ५६-६१, ५७-६२, ५८-६३, ५९-६४, ६०-६५ ( = ५ ): ६१-६६, ६२-६७, ६३-६८, ६४-६९, ६५-७० ( = ५); ६६-७१, ६७-७२, ६८-७३, ६९-७४, ७०-७५ ( = ५): समस्तानि चत्वारिंशद् ७६-८१, ७७-८२, ७८-८३, ७९-८४, ८०-८५ ( = ५): ८१-८६, ८२-८७, ८३-८८, ८४-८९, ८५-९० ( = ५): ८६-९१, ८७-९२, ८८- ९३, ८९-९४, ९०-९५ ( = ५ ) : ९१-९६, ९२-९७, ९३-९८, ९४ ९९ ९५-१०० (= ५): समस्तानि चत्वारिंशद् Page #136 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१५८] पञ्चमप्रतरे (५) १०१-१०२, १०२-१०३. १०३-१०४, १०४-१०५ (= ४); १०१-१०६, १०२-१०७, १०३-१०८, १०४-१०९, १०५-११० (= ५): १०६-१०७, १०७-१०८, १०८-१०९, १०९-११० (= ४); १०६-१११, १०७-११२, १०८-११३, १०९-११४, ११०-११५ (= ५); १११-११२, ११२-११३, ११३-११४, ११४-११५ (= ४): १११-११६, ११२-११७, ११३-११८, ११४-११९, ११५-१२० ( ५) र ११६-११७, ११७-११८, ११८-११९, ११९-१२० (= ४); ११६-१२१, ११७-१२२, ११८-१२३, ११९-१२४, १२०-१२५ (५); १२१-१२२, १२२-१२३, १२३-१२४, १२४-१२५ (= ४); समस्तानि चत्वारिंशद् (१) अधुना प्रथम-द्वितीयप्रतरगतेषु नभःप्रदेशेष्ववगाढानि द्रव्याणि विचार्यन्ते:१-२६, २-२७, ३-२८, ४-२९, ५-३०, ६-३१,७-३२, ८-३३, ९-३४, १०-३५; ११-३६, १२-३७, १३-३८, १४-३९, १५-४०; १६-४१, १७-४२, १८-४३, १९-४४, २०-४५; २१-४६, २२-४७, २३-४८, २४-४९, २५-५० एतानि च सङ्ख्यया यतः पंचविंशतिरतो निश्चीयते एवंक्रमेण प प्रमाणान्यवक्तव्यकद्रव्याणि प्राप्यन्त इति । (२) द्वितीय-तृतीयप्रतरगतेषु पञ्चविंशतिः२६-५१, २७-५२, २८-५३, २९-५४, ३०-५५; ३१-५६, ३२-५७, ३३-५८, ३४-५९, ३५-६०;, ३६-६१, ३७-६२, ३८-६३, ३९-६४, ४०-६५; ४१-६६, ४२-६७, ४३-६८, ४४-६९, ४५-७०; ४६-७१, ४७-७२, ४८-७३, ४९-७४, ५०-७५. (३) तृतीय-चतुर्थप्रतरगतेषु पञ्चविंशतिः५१-७६, ५२-७७, ५३-७८, ५४-७९, ५५-८०; ५६-८१, ५७-८२, ५८-८३, ५९-८४, ६०-८५, ६१-८६, ६२-८७, ६३-८८, ६४-८९, ६५-९०; ६६-९१, ६७-९२, ६८-९३, ६९-९४, ७०-९५; ७१-९६, ७२-९७, ७३-९८, ७४-९९, ७५-१००. (४) चतुर्थ-पञ्चमप्रतरगतेषु पञ्चविंशतिः७६-१०१, ७७-१०२, ७८-१०३, ७९-१०४, ८०-१०५; ८१-१०६, ८२-१०७, ८३-१०८, ८४-१०९, ८५-११०; ८६-१११, ८७-११२, ८८-११३, ८९-११४, ९०-११५; ९१-११६, ९२-११७, ९३-११८, ९४-११९, ९५-१२०, ९६-१२१, ९७-१२२, ९८-१२३, ९९-१२४, १००-१२५ अनया स्थापनयैतद् ज्ञायते यद्-यत्र समचतुरस्र क्षेत्रे एकस्यां श्रेण्यां यावन्तः प्रदेशास्तत्सङ्ख्या यदि ‘प' इति संज्ञिता स्यात्तदा तत्र '३प'-३प" इत्येतावन्ति अवक्तव्यकद्रव्याणि प्राप्यन्त इति। तच्चैवं (१) स्वप्रतरमात्रगतनभःप्रदेशेष्ववगाढान्यवक्तव्यकद्रव्याणि २प-२प इति प्रमाणान्येकस्मिन्प्रतरे प्राप्यन्त इति तु पूर्वं निश्चितमस्माभिः। एतादंशि प्रतराणि चाधिकृते समचतुरस्र क्षेत्रे 'प' प्रमाणानि यतः प्राप्यन्तेऽतः समस्तेऽधिकृते क्षेत्र एवंप्रकाराण्यवक्तव्यकानि द्रव्याणि (२प' - २प) x प = २प-२प' इति प्रमाणानि प्राप्यन्ते। Page #137 -------------------------------------------------------------------------- ________________ १२० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १५९) से किं तं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी ? जहेव दव्वाणुपुव्वी तहेव खेत्ताणुपुव्वी णेयव्वा । सेतं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी। सेतं अणोवणिहिया खेत्ताणुपुव्वी। (हे० १५९) उक्ता नैगम-व्यवहारमतेनानौपनिधिकी क्षेत्रानुपूर्वी, अथ तामेव संग्रहमतेन बिभणिषुराह - से किं तमित्यादि । इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण निखिलं भावनीयम्, नवरं क्षेत्रप्राधान्यादत्र तिपएसोगाढा आणुपुव्वी जाव असंखेज्जपएसोगाढा आणुपुव्वी, एगपएसोगाढा अणाणुपुव्वी, दुपएसोगाढा अवत्तव्वए इत्यादि वक्तव्यम्, शेषं तथैवेति । (२) स्वगत-स्वाव्यवहितपश्चाद्वर्तिप्रतरगतनभःप्रदेशेष्ववगाढान्यवक्तव्यकद्रव्याणि 'प' प्रमाणानि प्राप्यन्ते' इति पूर्वं दृष्टम्, ईदृशानां च द्रव्याणामत्र पञ्चप्रतरमये क्षेत्रे यतः (५ - १ = ४) = (प -- १) इतिप्रमाणाः समूहाः प्राप्यन्तेऽतः सर्वाण्यप्येतानि प२ x (प – १) = (प* – प) इति प्रमाणानि प्राप्यन्ते। एवं च 'प'प्रमाणश्रेणिके समचतुरस्र क्षेत्रे सर्वाणि सम्मील्य २प - २प + प' - परे = (३प - ३५२) इतिप्रमाणान्यवक्तव्यकद्रव्याणि प्राप्यन्ते । लोकाकाशश्च पञ्चमकर्मग्रन्थोक्तरीत्या स्थूलव्यवहारतः सप्तरज्जुकायाम-दैर्घ्य-विष्कम्भो घनीकृतलोकमयः। अतोऽत्र श्रेणिः सप्तरज्जुकश्रेणिप्रमाणा ग्राह्या । सा च यदि 'अ' इति संज्ञिता भवेत्तदा सम्पूर्णलोकेऽवक्तव्यकानि द्रव्याणि (३श्र - ३श्र') इति प्रमाणानि प्राप्यन्ते। किञ्च श्रेणिगुणिता श्रेणिः अरे प्रतरं भवति। प्रतरगुणिता च सा श्र घनीकृतलोकतुल्या भवति। ततश्चावक्तव्यकानां द्रव्यप्रमाणं त्रिगुणितः प्रतरत्रयोनो यो लोकाकाशप्रदेशराशिस्तत्तुल्यं प्राप्यत इति निश्चीयते। अनानुपूर्वीणां तु तद् लोकाकाशप्रदेशराशितुल्यमेवेति स्पष्टम् । ततश्च कथं तेषामवक्तव्यकापेक्षया विशेषाधिकत्वम् ? न हि लोकपर्यन्तवर्तिनिष्कुटगतानां कण्टकाकृतीनां विश्रेण्या निर्गतानामेकाकिनामवक्तव्यकत्वायोग्यानां प्रदेशानां राशिर्द्विगुणितलोकाकाशप्रदेशराशितुल्यो भवितुं स्वप्नेऽप्यर्हतीति चेत्? सत्यम्, अत एव वृत्तिकारैः ‘इत्यलं विस्तरेणे'त्युक्त्वाऽधिकं न चर्चितं स्वास्वरसश्च सूचित इति प्रतिभाति । ननु तर्हि सूत्रसङ्गतिः कथं कर्तव्येति चेद् ? इत्थम् यद्यप्यत्र क्षेत्रानुपूर्व्यधिकारे विवक्षिते एकस्मिन्नभःप्रदेशेऽवगाढानां परमाण्वादीनामनन्ताणुकस्कन्धपर्यन्तानां सर्वेषां द्रव्याणामेकमेवानानुपूर्वीद्रव्यं गण्यते, एवं विवक्षिते नभःप्रदेशद्वयेऽवगाढानां द्व्यणुकादीनामनन्ताणुकस्कन्धपर्यन्तानामनन्तानामपि पुद्गलानामेकमेवावक्तव्यकद्रव्यं गण्यते, तथैवमेवानुपूर्वीविचारेऽपि गण्यते, तथाप्यत्राल्पबहुत्वद्वारे सूत्रोपपत्त्यर्थं तां विवक्षां परित्यज्य समानाकाशप्रदेशावगाढानामपि पृथक्पृथक्त्वमेव विवक्षितव्यम् । तथा च, अनानुपूर्वीद्रव्याण्यनन्तान्येव प्राप्यन्ते, एकस्मिन्नभःप्रदेशेऽप्यनन्तानां पुद्गलानामवगाढत्वात् । एवमेवावक्त Page #138 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१५९] १२१ व्यकान्यानुपूर्वीद्रव्याणि च प्रत्येकमनन्तान्यनन्तानि प्राप्यन्ते । तेषु चावक्तव्यकद्रव्याण्येव सर्वाल्पानि, ट्यणुकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामवक्तव्यत्वार्हत्वेऽपि परमाणूनां तदनहत्वात्, तेभ्यश्चानानुपूर्वीद्रव्याणि विशेषाधिकानि, परमाणूनामपि तदर्हत्वात्, तेभ्योऽप्यानुपूर्वीद्रव्याण्यसङ्ख्येयगुणानि, क्षेत्रापेक्षयाऽसङ्ख्येयगुणविकल्पवत्त्वात्। द्रव्यलोकप्रकाशे एकादशे सर्गे संस्थानपरिणामद्वारे- एषु चाल्पाल्पप्रदेशावगाहीनि स्वभावतः। भूयांस्यल्पानि भूयिष्ठखांशस्थायीनि तानि च ।।११-१०५ ।। इत्येवं यदुक्तं तेनाप्याकाशप्रदेशद्वयावगाहिद्रव्यापेक्षयैकाकाशप्रदेशावगाहिद्रव्याणां विशेषाधिकत्वं सूच्यत एवेति । नन्वेवं द्रव्यापेक्षयैवाल्पबहुत्वसूत्रोपपादने द्रव्यस्यैव प्राधान्यं स्यादिति क्षेत्रानुपूर्वीत्वानुपपत्त्यापत्तिरिति चेत् ? न, विवक्षितस्य द्रव्यस्यानुपूर्वीत्वादिकथने कियदाकाशप्रदेशावगाढं तदित्यस्यैव विचारितत्वात् । अयं भावः- विवक्षितं द्रव्यं परमाणुर्वा स्याद् द्व्यणुकं वा स्यात् त्र्यणुकादि वा स्याद्, न तदपेक्षया तस्यानानुपूर्वीत्वादिकमत्र गृहीतम्, अपि तु तदवगाहनापेक्षयैव तदत्राल्पबहुत्वविचारे गृहीतम् । अत एव परमाणुव्यणुकादि किमपि द्रव्यं यद्येकाकाशप्रदेशावगाढं, तदाऽत्र तदनानुपूर्वीत्वेनैव गृहीतम्, यद्याकाशप्रदेशद्वयावगाढं, तदा तदवक्तव्यत्वेनैव गृहीतम्, यदि तदधिकाकाशप्रदेशावगाढं, तदा तदानुपूर्वीत्वेनैव गृहीतम् । ततश्च क्षेत्रानुपूर्वीत्वानुपपत्तिगन्धोऽपि कुतः ? । नन्वत्र क्षेत्रानुपूर्वीविचारे द्रव्यप्रमाणद्वारे समानाकाशप्रदेशावगाढानां सर्वेषां द्रव्याणामेकत्वमेव विवक्षितं, क्षेत्रभेदमात्रेणैव पृथक्त्वं गृहीतम्, अन्यथाऽसङ्ख्येयत्वकथनानुपपत्तिः स्याद् । एवमेव क्षेत्रादिद्वारेष्वपि सैव विवक्षा। ततश्चात्राल्पबहुत्वद्वारे सा विवक्षा या परित्यक्ता, क्षेत्रभेदाभावेऽपि द्रव्यभेदो यदि वर्तते तदा पृथक्त्वमेव मन्तव्यमिति विवक्षा च सूत्रकारैर्याऽऽदृता तत्र किं समाधानमिति चेत् ? विचित्रा सूत्रगतिरित्येवात्र समाधानमस्माकं प्रतिभाति । यद्वाऽत्रत्यसूत्रस्य द्रव्यानुपूर्वीगताल्पबहुत्वद्वारविषयकसूत्रेण तुल्यत्वसम्पादनद्वाराऽतिदेशकरणमेवात्र प्रयोजनमिति समाधेयम्। नन्वत्र क्षेत्रभेदेनैव द्रव्यभेदो मन्तव्य इति द्रव्यप्रमाणादिद्वारेषु या विवक्षा तयैव यद्यल्पबहुत्वं चिन्तनीयं भवेत्तदा तत्कीदृशं स्यादिति चेत् ? ईदृशं-द्रव्यार्थतया -अनानुपूर्वीद्रव्याणि स्तोकानि लोकाकाशप्रदेशराशितुल्यत्वात्, तेभ्योऽवक्तव्यकद्रव्याणि देशोनत्रिगुणानि, प्रतरत्रिकन्यूनत्रिगुणितलोकाकाशप्रदेशराशितुल्यत्वात्, तेभ्योऽपि चानुपूर्वीद्रव्याण्यसङ्ख्येयगुणानि, असङ्ख्यलोकाकाशप्रदेशराशितुल्यत्वात्। प्रदेशार्थतया-अनानुपूर्वीद्रव्याण्यप्रदेशार्थतया स्तोकानि, लोकाकाशप्रदेशराशितुल्यत्वात्, तेभ्योऽवक्तव्यकद्रव्यप्रदेशा देशोनषड्गुणाः, प्रतरत्रिकन्यूनत्रिगुणितलोकाकाशप्रदेशराशितो द्वि Page #139 -------------------------------------------------------------------------- ________________ १२२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं गुणत्वात्, तेभ्योऽपि चानुपूर्वीद्रव्यप्रदेशा असङ्ख्येयगुणाः, असङ्ख्यलोकाकाशप्रदेशराशितुल्यत्वात् । उभयार्थतया - अनानुपूर्वीद्रव्याणि सर्वाल्पानि, ततस्तत्प्रदेशाः (अप्रदेशाः) तुल्याः, ततोऽवक्तव्यकद्रव्याणि देशोनत्रिगुणानि, तेभ्यस्तत्प्रदेशा द्विगुणाः, तत आनुपूर्वीद्रव्याण्यसङ्ख्येयगुणानि, तेभ्यश्च तत्प्रदेशा असङ्ख्येयगुणाः । अत्र हेतवः पूर्वोक्तानुसारेण विभावनीयाः । किञ्च यतोऽत्र क्षेत्रानुपूर्वी प्रक्रान्ताऽत एवात्रावगाहनाभूतनभःप्रदेशसङ्ख्यानुसारेणैवानुपूर्वीत्वादिकं विवक्षितं, अत एव च प्रदेशार्थतयाऽल्पबहुत्वं यदत्रोक्तं तत्राप्यवगाहनाभूतनभःप्रदेशा एव प्रदेशत्वेन ग्राह्याः, न तु विवक्षितद्रव्यावयवीभूताः पुद्गलप्रदेशा इति । ततश्चैतादृगेवाल्पबहुत्वं प्राप्यत इति ध्येयम् । ननूक्तायां स्थापनायां १ - २ इत्यकितयोर्नभःप्रदेशयोरवगाढं द्रव्यमवक्तव्यकं यथा प्राप्यते तथा १–७ इत्यङ्कितयोर्नभःप्रदेशयोरवगाढं तत्प्राप्येत न वेति ? नैव प्राप्येतेति वयं सम्भावयामः, विदिक्षु परमाणोः स्पर्शनाया निषिद्धत्वात्, स्वावगाहनाभूतनभःप्रदेशः, चतुर्दिक्षु चत्वारः ऊर्ध्वाधश्च द्वावित्येवं सप्तप्रदेशानामेव परमाणुस्पर्शनात्वेनोक्तत्वात् । वृत्तिकारैरपि 'विश्रेणिलिखितौ द्वौ अवक्तव्यकायोग्यौ द्रष्टव्यौ' इति कथनद्वारा तदसम्भावना सूचितैवेत्याभाति । द्रव्या. प्रदेशा. उभया. अनानु. अवक्त. आनु. अनानु. अवक्त. आनु. अनानु. द्र अनानु. द्र. अवक्त. द्र. अवक्त. प्र. आनु. द्र. आनु. प्र. अल्प देशोनत्रिगुण असं. गुण अल्प देशोनषड्गुण असं. गुण अल्प तुल्य देशोनत्रिगुण द्विगुण असं. गुण असं. गुण श्र ३श्र‍ ३ श्र असं x श्र श्र३ २ x (३३ ३श्र') असं x असं x श्र श्र३ श्र ३ श्र २ x (३ श्र - ३श्र __३श्र Page #140 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१६०] १२३ (सू० १६०) से किं तं ओवणिहिया खेत्ताणुपुव्वी ? ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णत्ता ? तंजहा- पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी । अथौपनिधिकीं तां निर्दिदिक्षुराह - से किं तं ओवणिहितेत्यादि । अत्र व्याख्या पूर्ववत् कर्तव्या, नवरं तत्र द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, अत्र तु क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति। इह चोर्ध्वाधश्चतुर्दशरज्ज्वायतस्य विस्तरतस्त्वनियतस्य पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभागः सम्पद्यते, तत्रास्यां रत्नप्रभायां ६बहुसमभूभागे मेरुमध्ये नभ:प्रतरद्वयेऽष्टप्रदेशो ६८रुचक: समस्ति, तस्य प्रतरद्वयस्य मध्ये __तथापि विदिक्षु परमाणोः स्पर्शनाया निषेधमात्रेण न १-७ इत्यङ्कितयोर्नभःप्रदेशयोरवगाढस्यावक्तव्यकस्य निषेधसिद्धिरिति तदपि प्राप्यत एवेत्येवं यदि तत्प्राप्तिर्बहुश्रुतानां सम्मता, तदाऽवक्तव्यकद्रव्याण्यनानुपूर्वीद्रव्यापेक्षया प्रायस्त्रयोदशगुणानि देशोनानि प्राप्यन्ते इति वयं सम्भावयामः । तथाहि- यदि द्वितीयप्रतरगत '३८' इत्यङ्कितनभःप्रदेशमपेक्ष्य विचार्यते तदा, द्वितीयप्रतरगत ३२, ३३, ३४, ३७, ३९, ४२, ४३, ४४ इत्यङ्कितनभःप्रदेशसहकारेणाष्टाववक्तव्यकानि प्राप्यन्ते। तथा प्रथमप्रतरगत ७, ८, ९, १२, १३, १४, १७, १८, १९ इत्यङ्कितनभःप्रदेशसहकारेण नवावक्तव्यकानि प्राप्यन्ते । एवमेव तृतीय-प्रतरगत ५७, ५८, ५९, ६२, ६३, ६४, ६७, ६८, ६९ इत्यङ्कितनभःप्रदेशसहकारेण नवावक्तव्यकानि प्राप्यन्ते । ततश्च सर्वाणि मीलयित्वा ८ + ९ + ९ = २६ षड्विंशतिरवक्तव्यकानां प्राप्यते । यतश्चैतेष्ववक्तव्यकेषु द्वयोर्द्वयोर्नभःप्रदेशयोः सहकारः, अतस्त्रयोदशगुणितलोकाकाशप्रदेशराशितुल्यानि तानि प्राप्यन्ते। किञ्च पर्यन्तवर्तिप्रतरगततत्तन्नभःप्रदेशमपेक्ष्य यतो न सम्पूर्णा षड्विंशतिर्लभ्यतेऽतस्तानि देशोनानि त्रयोदशलोकाकाशप्रदेशराशितुल्यानि लभ्यन्त इति सिद्धम् । ततश्च त्रीण्यप्यल्पबहुत्वानि तदनुसारेण स्वयमभ्युह्यानि। ६७. बहुसमभूभागे इत्यादि। अयम्भावः-लोकाकाशो ब्रह्मदेवलोकभागे विष्कम्भतः पञ्चरज्जुप्रमाणः। तत्पञ्चरज्जुप्रमाणप्रतरादारभ्याधोऽभिमुखं क्रमशो विष्कम्भहानिर्भवति। तथाऽधोलोकस्य सर्वान्तिमप्रतरेऽयं लोको विष्कम्भतः सप्तरज्जुप्रमाणः । तत्प्रतरादारभ्योर्ध्वाभिमुखं क्रमशो विष्कम्भहानिर्भवति । एवमुभयतो हीयमानो लोको तथा हीयते यथा रत्नप्रभायां बहुसमभूभागे एकं नभःप्रतरमेकाकाशप्रदेशेनापि यथा न न्यूनं न वाऽधिकं स्यात्तथैकरज्जुप्रमाणविष्कम्भं प्राप्यते । एतत्प्रतराव्यवहिताधोवर्त्यन्यदप्येकं प्रतरं तथैवान्यूनाधिकैकरज्जुप्रमाणविष्कम्भं प्राप्यते। एते एव द्वे प्रतरे अत्राधिकृते। ६८. अष्टप्रदेशो रुचकः समस्तीति । ननु यद्यप्यूलोको देशोनसप्तरज्ज्वायतः, अधोलोकश्च साधिकसप्तरज्ज्वायतः। तथापि स्थूलव्यवहारेण रुचकस्य लोकमध्यत्वप्रसिद्धिः । Page #141 -------------------------------------------------------------------------- ________________ १२४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ततश्च प्रश्न उद्भवति यद् रुचकस्याष्टप्रदेशात्मकत्वं कथम् ? एकप्रदेशात्मकत्वमेव भवतु, यस्य कस्यचित् समवस्तुनः केन्द्र'इत्यपरनाम्नो मध्यबिन्दोरेकत्वेन प्रसिद्धेरिति । अत्रोत्तरं शृणुएकादशप्रदेशायतायाः सूचिश्रेणेमध्यबिन्दुत्वेन षष्ठः प्रदेशो यथा निःशङ्क कथ्यते तथा दशप्रदेशायतायाः सूचिश्रेणेमध्यत्वेन कतमः प्रदेशः शक्यः कथयितुमिति चिन्त्यताम् । न केवल पञ्चम एव, न वा केवलः षष्ठ एव प्रदेशो मध्यबिन्दुत्वेन शक्यकथन इति तौ द्वावपि मध्यत्वेन कथयितव्यौ भवत एव । ननु तयोर्द्वयोर्मध्यभाग एव मध्यत्वेन कथनीय इति चेत् ? न, अव्यवधानेनावस्थितयो योनभःप्रदेशयोर्मध्ये मध्यभागस्यासम्भवात्। अथ दशप्रदेशायतदशसूचिश्रेणिनिर्मितस्य प्रतरस्य मध्यबिन्दुश्चिन्त्यताम् । तत्रापि यद्योजःसङ्ख्याका: श्रेणयः स्युस्तदैका श्रेणिमध्यत्वेन शक्यकथना स्यात्। किन्त्वस्मत्कल्पनायां श्रेणीनां युग्मसङ्ख्याकत्वेन न पञ्चमी न वा षष्ठ्येकैव श्रेणिमध्यत्वेन शक्यकथना। अतस्ते द्वे अपि श्रेणी मध्यगते' इत्येव कथयितुं शक्यते । तयोश्च द्वयोरपि युग्मसङ्ख्याकप्रदेशायतत्वेन मध्यगतौ द्वौ द्वौ प्रदेशौ मध्यत्वेन कथनीयाविति कल्पितस्य प्रतरस्य मध्यत्वेन पञ्चमश्रेणिगतौ ४५-४६ इत्यङ्कितौ द्वौ प्रदेशौ, षष्ठश्रेणिगतौ च ५५-५६ इत्यङ्कितौ द्वौ प्रदेशावित्येवमनन्यगत्या चत्वारः प्रदेशा मध्यत्वेन कथनीयाः स्युरेव । अधुना शत-शतप्रदेशप्रमाणप्रतरदशकनिष्पन्नो घनो विचार्यते। अत्रापि प्रतराणां सङ्ख्या यद्योजोलक्षणा ('एकी' इति भाषायां) स्यात्, यथा नव, तदा पञ्चमप्रतरलक्षणमेकमेव प्रतरं मध्यप्रतरत्वेन शक्यं स्यात्कथयितुम् । परन्त्वस्मत्कल्पनायां सा सङ्ख्या दशत्वेन युग्मरूपा ('बेकी' इति भाषायां) यतो वर्ततेऽतः पञ्चमं षष्ठं चेत्येवं द्वे अपि प्रतरे मध्यत्वेन कथयितव्ये भवतः। तयोश्च द्वयोः प्रतरयोः युग्मसङ्ख्याक श्रेणिमयत्वेन पञ्चमी षष्ठी चेत्येवं द्वे द्वे श्रेणी मध्यत्वेन पूर्वमुक्तवत् कथनीये। अर्थादस्मत्कल्पिते घने श्रेणीनां यत्शतकं वर्तते तस्मात् ४५-४६-५५-५६ इत्यङ्किताश्चतस्रः श्रेणयो घनमध्यत्वेन प्राप्ताः। आसां च सर्वासां श्रेणीनां युग्मसङ्ख्याक प्रदेशत्वेन पञ्चमषष्ठलक्षणौ द्वौ द्वौ प्रदेशावेव मध्यत्वेन यतः प्राप्येते, अतः कल्पितस्य घनस्य मध्यत्वेन पञ्चमप्रतरगतपञ्चमषष्ठश्रेणिगत ४४५-४४६-४५५-४५६ इत्यङ्किताश्चत्वारः प्रदेशाः, षष्ठप्रतरगतपञ्चमषष्ठश्रेणिगत ५४५-५४६-५५५-५५६ इत्यङ्किताश्च चत्वारः प्रदेशा इत्येवमष्टौ प्रदेशाः कथनीया एव । एवमेव लोकेऽपि ज्ञेयम्। एकरज्जुगतप्रदेशानां कृतयुग्मसङ्ख्याकत्वेन युग्मसंङ्ख्याकत्वाल्लोकस्यापि सर्वत्रयुग्मसङ्ख्याकत्वमेव । अर्थादूर्ध्वाधश्चतुर्दशरज्जुप्रमाणो य आयामस्तत्रापि प्रदेशानां युग्मसङ्ख्याकत्वम्, पूर्वापरैकरज्जुप्रमाणो दक्षिणोत्तरैकरज्जुप्रमाणश्च यो विष्कम्भस्तत्रापि प्रदेशानां युग्मसङ्ख्याकत्वमेव । अतो रत्नप्रभायां बहुसमभूभागेऽन्यूनाधिकैकरज्जुप्रमाणविष्कम्भे ये द्वे प्रतरे, ते लोकमध्यत्वेन विवक्ष्येते। तयोश्च द्वयोरपि प्रतरयोर्मध्यत्वेनोपर्युक्तवत् चतुर्णां चतुर्णा प्रदेशानां कथनमावश्यकमेव । अतो लोकमध्यत्वेन कथितो रुचको नैकप्रदेशमयः, अपि त्वष्टप्रदेशमय इति । Page #142 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१६१-१६३] १२५ ( सू० १६१ ) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी - अहोलोए १, तिरियलोए २, उलो ३ । सेतं पुव्वाणुपुव्वी । (सू० १६२) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी - उड्ढलोए ३, तिरियलोए २, अहोलो १ । से तं पच्छाणुपुव्वी । (सू० १६३) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए तिगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । ६९एकस्मादधस्तनप्रतरादारभ्याऽधोऽभिमुखं नव योजनशतानि परिहृत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः । तत्र लोक्यते केवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधो व्यवस्थितो लोकोऽधोलोकः । अथवा अधः शब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाऽशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्द्रव्ययोगादधः अशुभो लोकःऽधोलोकः । उक्तं चअहव अहोपरिणामो खेत्तणुभावेण जेण ओसण्णं । असुभ अहो त्ति भणिओ दव्वाणं तेणऽहोलोगो || १ || ( ) त्ति तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि परिहृत्य परतः किञ्चिन्न्यूनसप्तरज्ज्वायत ऊर्ध्वलोकः । ऊर्ध्वम् उपरि व्यवस्थितो लोकः ऊर्ध्वलोकः, अथवा ऊर्ध्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद् द्रव्याणां प्रायः शुभा एव परिणामा भवन्ति, अतः शुभपरिणामवद्द्रव्ययोगादूर्ध्वः । शुभो लोक ऊर्ध्वलोकः, उक्तं च उड्डुं ति उवरि जं ठिय सुभखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जंति सुभा वा तेण तओ उड्डलोगोत्ति ||१|| ( ) तयोश्चाधोलोकोर्ध्वलोकयोर्मध्ये अष्टादश योजनशतानि तिर्यग्लोकः । समयपरिभाषया तिर्यग् मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः । अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र च क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि भवन्ति, अतस्तद्योगात्तिर्यङ् मध्यमो लोकस्तिर्यग्लोकः । अथवा स्वकीयोर्ध्वाऽधोभागात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः । उक्तं च झणुभावं खेत्तं जं तं तिरियंति वयणपज्जवओ । भण्णइ तिरियं विसालं अतो व तं तिरियलोगो ति ॥ १ ॥ ( वयणपज्जवओ त्ति मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्द्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरि ६९. एकस्मादधस्तनप्रतरादित्यादि । एतदधस्तनप्रतरगतः प्रतरबाहल्यरूप एको नभःप्रदेशोऽप्येषु नवसु योजनशतेषु समाविष्टो ज्ञेयः । एवमेवोपरितनप्रतरगतो नभःप्रदेशोऽप्यूर्ध्वाभिमुखनवयोजनशतेषु समाविष्टो ज्ञेयः, अन्यथा तिर्यग्लोकोच्छ्रयस्य तत्प्रदेशद्वयाधिक्यप्रसङ्गात् । Page #143 -------------------------------------------------------------------------- ________________ १२६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १६४) अहोलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (सू० १६५) से किं तं पुव्वाणुपुव्वी? पुव्वाणुपुवी- रयणप्पभा १, सक्करप्पभा २, वालुयप्पभा ३ ,पंकप्पभा ४, धूमप्पभा ५, तमप्पभा ६, तमतमप्पभा ७ । सेतं पुव्वाणुपुव्वी। (सू० १६६) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- तमतमा ७ जाव रयणप्पभा १ । सेतं पच्छाणुपुव्वी। (सू० १६७) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए सत्तगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी। मध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः । पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव। अनानुपूर्त्यां तु पदत्रयस्यास्य षड् भङ्गा भवन्ति, ते च पूर्वं दर्शिता एव । शेषभावना त्विह प्राग्वदेवेति । अत्र च क्वचिद्वाचनान्तरे एकप्रदेशावगाढादीनाम् असङ्ख्यातप्रदेशावगाढान्तानां प्रथम पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते सोऽपि क्षेत्रानुपूळधिकारादविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति। ___साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिषुरधोलोकादीनां च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह - अहोलोकखेत्ताणुपुव्वी तिविहेत्यादि । अधोलोकक्षेत्रविषया आनुपूर्वी अधोलोकक्षेत्रानुपूर्वी, औपनिधिकीति प्रक्रमाल्लभ्यते, सा त्रिविधा प्रज्ञप्ता, तद्यथेत्यादि शेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि । इन्द्रनीलादिबहुविधरत्नसम्भवान्नरकवर्ज प्रायो रत्नानांप्रभा ज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शर्कराणाम् उपलखण्डानां प्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकाया वा परुषपांशूत्कररूपाया: प्रभा स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, पङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमस: प्रभा यस्यां सा तम:प्रभा, कृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमस: प्रभा यस्यां सा महातम:प्रभा, अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत् तमस्तमस्तमः, तद्रूपद्रव्ययोगात् तमस्तमा इति । अत्र प्रज्ञापकप्रत्यासत्ते रत्नप्रभाया आदावुपन्यास:, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वम्, व्यत्ययेन पश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्यां द्रष्टव्यानीति, शेषभावना पूर्ववदिति । तिर्यग्लोकक्षेत्रानुपूर्त्यां जंबुद्दीवे इत्यादिगाथा । व्याख्या- द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाऽऽहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिन: पान्तीति द्वीपा: जन्त्वावासभूतक्षेत्रविशेषाः, सह मुद्रया Page #144 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१६८,१६९] १२७ (सू० १६८) तिरियलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (सू० १६९) से किं तं पुव्वाणुपुव्वी ? पुल्वाणुपुव्वी जंबुद्दीवे लवणे धायइ-कालोय-पुक्खरे वरुणे । खीर-घय-खोय-नंदी-अरुणवरे कुंडले रुयगे ॥११॥ जंबुद्दीवाओ खलु निरंतरा, सेसया असंखइमा। भुयगवर-कुसवरा वि य कोंचवराऽऽभरणमाईया(ई य) ॥१२॥ मर्यादया वर्तन्त इति समुद्रा:, प्रचुरजलोपलक्षिता: क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकमसङ्ख्येया भवन्ति, तत्र ७°समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावज्जम्बूवृक्षेणोपलक्षितो द्वीपो जम्बूद्वीपः, ततस्तं परिक्षिप्य स्थितो लवणरसास्वादनीरपूरित: समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वात्, एवं पुरस्तादपि यथासम्भवं द्रष्टव्यम्, धायइ कालोय त्ति, ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकीवृक्षषण्डोपलक्षितो द्वीपो धातकीषण्डः, तत्परितोऽपि शुद्धोदकरसास्वाद: कालोद: समुद्रः, तं च परिक्षिप्य स्थित: पुष्करैः पद्मवरैरुपलक्षितो द्वीप: पुष्करवरद्वीपः, तत्परितोऽपि शुद्धोदकरसास्वाद एव पुष्करोद: समुद्रः, अनयोश्च द्वयोरप्येकेनैव पदेनात्र संग्रहो द्रष्टव्य: पुक्खरे त्ति, एवमुत्तरत्रापि, ततो वरुणे त्ति वरुणवरो द्वीपः, ततो वारुणीरसास्वादो वारुणोदः समुद्रः, खीरेति क्षीरवरो द्वीप:, क्षीररसास्वाद: क्षीरोद: समुद्रः, घय त्ति घृतवरो द्वीपः, घृतरसास्वादो घृतोद: समुद्रः, खोय त्ति इक्षुवरो द्वीपः, इक्षुरसास्वाद एवेक्षुरस: समुद्रः, इत ऊर्ध्वं सर्वेऽपि समुद्रा: द्वीपसदृशनामानो मन्तव्या: । अपरं च स्वयम्भूरमणवर्जा: सर्वेऽपीक्षुरसास्वादा:, तत्र द्वीपनामान्यमूनि, तद्यथा- नन्दी समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एवमरुणवरः, अरुणावासः, कुण्डलवर:, शङ्खवर:, रुचकवर इत्येवं षड् द्वीपनामानि चूणौं लिखितानि दृश्यन्ते, सूत्रे तु नन्दी अरुणवरे कुंडले रुयगे इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अत: चूर्णिलिखितानुसारेण रुचकत्रयोदश:, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः । इदानीमनन्तरोक्तद्वीप-समुद्राणामवस्थितिस्वरूपप्रतिपादनार्थं शेषाणां तु नामाभिधानार्थमाह जंबुद्दीवाओ खलु निरन्तरा सेसया असंखइमा। भुयगवर-कुसवरा वि य कोंचवरा-ऽऽभरणमाई य ॥१॥ त्ति । व्याख्या- एते पूर्वोक्ता: सर्वेऽपि जम्बूद्वीपादारभ्य निरन्तरा नैरन्तर्येण व्यवस्थिता:, न ७०. समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादाविति । नन्वधोलोके क्षेत्रानुपूर्वीनिरूपणे रत्नप्रभाया आदावुपन्यासे यत् प्रज्ञापकप्रत्यासन्नत्वं हेतुत्वेनोक्तं तदेवात्रापि कथ्यताम्, जम्बूद्वीपे लवणसमुद्राद्यपेक्षया प्रज्ञापकप्रत्यासन्नत्वस्य निराबाधं सत्त्वादिति चेत् ? न, धातकीखंडपुष्करवरद्वीपार्धवर्तिप्रज्ञापकापेक्षया प्रत्यासन्नत्वस्यासम्भवात् जम्बूद्वीपस्यादावुपन्यासस्याभावप्रसङ्गात् । Page #145 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं आभरण-वत्थ-गंधे उप्पल-तिलये य पउम - निहि - रयणे । वासहर - दह - णदीओ विजया वक्खार- कप्पिंदा ||१३|| कुरुरु-मंदर-: - आवासा कूडा नक्खत्त - चंद सूरा य । देवे नागे जखे भूये य सयंभुरमणे य ॥ १४ ॥ सेतं पुव्वाणुपुव्वी । ( सू० १७० ) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- सयंभुरमणे य भूए य जाव जंबुद्दीवे । सेतं पच्छाणुपुव्वी । १२८ (सू० १७१) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी - एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । (सू० १७२) उढलोगखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहा- पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भाव:, ये तु शेषका भुजगवरादय इत ऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसङ्ख्याततमा द्रष्टव्या:, तथाहि - भुयगवर त्ति पूर्वोक्ताद् रुचकवराद् द्वीपादसङ्ख्येयान् द्वीप-समुद्रान् गत्वा भुजगवरो नाम द्वीप: समस्ति, कुसवर त्ति ततोऽप्यसङ्ख्येयाँस्तान् गत्वा कुशव नाम द्वीप: समस्ति, अपि चेति समुच्चये, कुंचवरो त्ति, ततोऽप्यसङ्ख्येयाँस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीपः समस्ति, आभरणमाई यत्ति एवमसङ्ख्येयानसङ्ख्येयान् द्वीप-समुद्रानुल्लङ्घ्याऽऽभरणादयश्च आभरणादिनामसदृशनामानश्च द्वीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामान एव भवन्तीत्युक्तमेवेति गाथार्थः । इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यत एव केवलं क्वापि वाचनाविशेषे दृश्यते, टीका- चूर्ण्योस्तु तद्व्याख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति । ये तानेवाभरणादीनाह- आभरणवत्थेत्यादिगाथाद्वयम्, असङ्ख्येयानाम् असङ्ख्येयानां द्वीपा - नामन्ते आभरण-वस्त्र-गन्धोत्पल-तिलकादिपर्यायसदृशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वयम्भूरमणो द्वीपः, शुद्धोदकरसः स्वयम्भूरमण एव समुद्र इति गाथाद्वयभावार्थ: । तर्ह्यसङ्ख्येयानसङ्ख्येयान् द्वीपानतिक्रम्य ये वर्तन्ते तेषामेव द्वीपानामेतानि नामान्याख्यातानि, त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यम् ? सत्यम्, लोके पदार्थानां शङ्ख-ध्वज-कलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्ते द्वीपा : प्राप्यन्त इति स्वयमेव द्रष्टव्यम्, यत उक्तम्- दीवसमुद्दा णं भंते! केवइया नामधिज्जेहिं पण्णत्ता ? गोयमा ! जावइया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामधिज्जेहिं पण्णत्ता ) इति, सङ्ख्या तु सर्वेषामसङ्ख्येयस्वरूपा ( उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया || १ || (जिन० संग्र० गा० ८० ) इति गाथाप्रतिपादिता द्रष्टव्या । तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी, व्यत्ययेन पश्चानुपूर्वी, अनानुपूर्वी Page #146 -------------------------------------------------------------------------- ________________ १२९ श्रीअनुयोगद्वारसूत्रम् [सू०१७३-१८१] ___ (सू० १७३) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- सोहम्मे १, ईसाणे २, सणंकुमारे ३, माहिंदे ४, बंभलोए ५, लंतए ६, महासुक्के ७, सहस्सारे ८, आणते ९, पाणते १०, आरणे ११, अच्चुते १२, गेवेज्जविमाणा १३, अणुत्तरविमाणा १४, ईसिपब्भारा १५ । सेतं पुव्वाणुपुव्वी। (सू० १७४) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- ईसिपब्भारा १५ जाव सोहम्मे १। सेतं पच्छाणुपुव्वी। (सू० १७५) से किं तं अणाणुपुव्वी? अणाणुपुव्वी एयाए चेव एगादिगाए एगुत्तरियाए पण्णरसगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । (सू० १७६) अहवा ओवणिहिया खेत्ताणुपुव्वी तिविहा पण्णत्ता। तंजहा- पुव्वाणुपुल्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३। (सू० १७७) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- एगपएसोगाढे दुपएसोगाढे जाव दसपएसोगाढे जाव असंखेज्जपएसोगाढे । सेतं पुव्वाणुपुव्वी। (सू० १७८) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी-असंखेज्जपएसोगाढे जाव एगपएसोगाढे । से तं पच्छाणुपुव्वी । (सू० १७९) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी। से तं ओवणिहिया खेत्ताणुपुव्वी । सेतं खेत्ताणुपुव्वी । (सू० १८०) से किं तं कालाणुपुव्वी ? कालाणुपुव्वी दुविहा पण्णत्ता । तंजहाओवणिहिया य १, अणोवणिहिया य २ । (सू० १८१) तत्थ णं जा सा ओवणिहिया सा ठप्पा ।। त्वमीषामसख्येयानां पदानां परस्पराभ्यासे येऽसङ्ख्येया भङ्गा भवन्ति भङ्गकद्वयोनतत्स्वरूपा द्रष्टव्येति । ऊर्ध्वलोकक्षेत्रानुपूर्त्यां सोहम्मे त्यादि । सकलविमानप्रधानसौधर्मावतंसकाभिधानविमानविशेषोपलक्षितत्वात् सौधर्मः, एवं सकलविमानप्रधानेशानावतंसकविमानविशेषोपलक्षित ईशानः, एवं तत्तद्विमानावतंसकप्राधान्येन तत्तन्नाम वाच्यं यावत् सकलविमानप्रधानाच्युतावतंसकाभिधानविमानविशेषोपलक्षितोऽच्युतः, लोकपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, नैषामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तरविमानानि, ईषद्राराक्रान्तपुरुषवन्नता अन्तेष्वितीषत्प्राग्भारेति। अत्र प्रज्ञापकप्रत्यासत्तेरादौ सौधर्मस्योपन्यासः, ततो व्यवहितादिरूपत्वात् क्रमेणेशानादीनामिति पूर्वानुपूर्वीत्वम्, शेषभावना तु पूर्वोक्तानुसारतः कर्तव्येति क्षेत्रानुपूर्वी समाप्ता। उक्ता क्षेत्रानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्यासुराह- से किं तं कालानुपुव्वीत्यादि । अत्राक्षरगमनिका यथा द्रव्यानुपूर्त्यां तथा कर्तव्या यावत् तिसमयट्टिईए Page #147 -------------------------------------------------------------------------- ________________ १३० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १८२) तत्थ णं जा सा अणोवणिहिया सा दुविहा पण्णता । तं जहा- णेगमववहाराणं १, संगहस्स य २ । (सू० १८३) से किं तं णेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी ? णेगमववहाराणं अणोवणिहिया कालाणुपुव्वी पंचविहा पण्णत्ता । तंजहा- अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोतारे ४, अणुगमे ५। (सू० १८४) से किं तं गम-ववहाराणं अट्ठपदपरूवणया ? णेगम-ववहाराणं अट्ठपदपरूवणया- तिसमयट्टिईए आणुपुव्वी जाव दससमयट्ठिईए आणुपुव्वी, संखेज्जसमयट्टिईए आणुपुव्वी, असंखेज्जसमयट्टितीए आणुपुव्वी, एगसमयट्ठितीए अणाणुपुव्वी, दुसमयट्टिईए अवत्तव्वए, तिसमयट्टितीयाओ आणुपुव्वीओ जाव संखेज्जसमयद्वितीयाओ आणुपुव्वीओ, असंखेज्जसमयट्ठितीयाओ आणुपुव्वीओ, एगसमयट्टितीयाओ अणाणुपुव्वीओ, दुसमयट्ठिईयाइं अवत्तव्वयाइं। से तंणेगम-ववहाराणं अट्ठपयपरूवणया। आणुपुव्वीत्यादि, त्रय: समया: स्थितिर्यस्य परमाणु-द्व्यणुक-त्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स ७१त्रिसमयस्थितिव्यविशेष आनुपूर्वीति । आह- ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्वम्, ? नैतदेवम्, अभिप्रायापरिज्ञानात्, यत: समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतम्, ततश्च पर्याय-पर्यायिणो: कथञ्चिदभेदात् ७२कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाद् द्रव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वम्, किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुच्यत इति भाव: । एवं चतु:समयस्थित्यादिष्वपि वाच्यं यावद्दश समया: स्थितिर्यस्य परमाण्वादिद्रव्यसङ्घातस्य स तथा, सङ्ख्येया: ७१. त्रिसमयस्थितिव्यविशेष आनुपूर्वीतीति । पूरणगलनस्वभावाभावात् समकालावस्थानाभावाच्च समयानां मिथः सम्मील्य स्कन्धविरचनं न सम्भवति । अतः परमाण्वादिपुद्गलद्रव्यमेव कालानुपूर्वीत्वेन ग्राह्यं भवति । ७२. कालपर्यायस्य चेह प्राधान्येनेति। विवक्षितं द्रव्यं परमाणुर्वा स्याद् द्व्यणुकं वा स्यात् त्र्यणुकादि वा स्याद्, न तदपेक्षया तस्यानानुपूर्वीत्वादिकमत्र गृहीतम्, अपि तु तत्स्थितिकालापेक्षयैव गृहीतम्। ततश्च परमाणुद्व्यणुकादि यद् द्रव्यमेकसमयस्थितिकं, तत्सर्वमनानुपूर्व्यव, यद् द्विसमयस्थितिकं तत्सर्वमवक्तव्यकमेव, यत्तु तदधिकसमयस्थितिकं तत्सर्वमानुपूर्येव गण्यते। इत्थञ्च विवक्षितस्य द्रव्यस्यानुपूर्व्यादित्वनिर्णये तत्स्थितिकाल एव यच्चिन्त्यते, तदेवात्र कालपर्यायस्य प्राधान्यं ज्ञेयम् । अथ द्रव्य-क्षेत्र-काल-कालानुपूर्वीसंवेधश्चिन्त्यते । Page #148 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१८५-१८८] (सू० १८५) एयाए णं णेगम-ववहाराणं अट्ठपयरूपवणयाए जाव भंगसमुक्कित्तणया जति । ( सू० १८६ ) से किं तं णेगम - ववहाराणं भंगसमुक्कित्तणया ? णेगम - ववहाराणं भंगसमुक्कित्तणया - अत्थि आणुपुव्वी, अत्थि अणाणुपुव्वी, अत्थि अवत्तव्वए, एवं दव्वाणुपुव्विगमेणं कालाणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा जाव सेतं णेगमववहाराणं भंगसमुक्कित्तणया । १३९ (सू० १८७) एयाए णं णेगम-ववहाराणं जाव किं पओयणं ? एयाए णं णेगम० जाव भंगोवदंसणया कज्जति । ( सू० १८८ ) से किं तं णेगम - ववहाराणं भंगोवदंसणया ? णेगम - ववहाराणं भंगोवदंसणया - तिसमयद्वितीए आणुपुव्वी, एगसमयद्वितीए अणाणुपुव्वी, दुसमयद्वितीए अवत्तव्वए, तिसमयद्वितीयाओ आणुपुव्वीओ, एगसमयद्वितीयाओ अणाणुपुव्वीओ, दुसमयद्वितीयाई अवत्तव्वयाइं । एवं दव्वणुगमेणं ते चेव छव्वीसं भंगा भाणियव्वा, जाव सेतं गम - ववहाराणं भंगोवदंसणया । समयाः स्थितिर्यस्थ परमाण्वादेः स तथा, असङ्ख्येया समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति स्वाभाव्याद् इत्युक्तमेवेति शेषा बहुवचननिर्देशादिभावना पूर्ववदेवं, एकसमयस्थितिकं परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तु तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सर्वं भावनीयं यावद् द्रव्यप्रमाणद्वारे नो संखेज्जाई, असंखेजाई, नो अणंताई ति, अस्य भावना- इह त्र्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथाऽपि समयत्रयलक्षणायाः स्थितेरेकस्वरूपत्वात् कालस्य चेह प्राधान्येन द्रव्यबहुत्वस्य गुणीभूतत्वात् त्रिसमयस्थितिकैरनन्तैरप्येकमेवानुपूर्वीद्रव्यम्, एवं चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तैरपि चतुः समयस्थितिकद्रव्यैरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावन्ने कालानुपूर्वीमपेक्ष्य स्थित्यनुसारेणानानुपूर्वी वाऽवक्तव्यकं वाऽऽनुपूर्वी वा अवक्तव्यकं (= द्व्यणुकं) अनानुपूर्वी वा अवक्तव्यकं वा स्थित्यनुसारेण त्रयाणामपि सम्भवः आनुपूर्वी (त्र्यणुकादि) अवगाहनानुसारेण त्रयाणामपि स्थित्यनुसारेण त्रयाणमपि सम्भवः । सम्भवः द्रव्यानुपूर्वीमपेक्ष्य यद् तत् क्षेत्रानुपूर्वीमपेक्ष्य अनानुपूर्व्यव अनानुपूर्वी (=परमाणुः) Page #149 -------------------------------------------------------------------------- ________________ १३२ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० १८९) से किं तं समोयारे ? समोयारे णेगम-ववहाराणं आणुपुव्विदव्वाइं समोरंति ? जाव तिण्णि वि सट्टाणे सट्टाणे समोयरंति त्ति भाणियव्वं । सेतं समोयारे । (सू० १९०) से किं तं अणुगमे ? अणुगमे णवविहे पण्णत्ते । तंजहासंतपयपरूवणया १ जाव अप्पाबहुं चेव ९ ॥ १५॥ यावदसङ्ख्येयसमयलक्षणायाः स्थितेरेकत्वादनन्तैरप्यसङ्ख्येयसमयस्थितिकैर्द्रव्यैरेकमेवेहाऽऽनुपूर्वीद्रव्यमिति, एवमसङ्ख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति । एवमनानुपूर्व्यवक्तव्यकद्रव्याण्यपि प्रत्येकमसङ्ख्येयानि वाच्यानि । अत्राह - नन्वेकसमयस्थितिकद्रव्यस्यानानुपूर्वीत्वं द्विसमयस्थितिक त्ववक्तव्यकत्वमुक्तम्, तत्र यद्यप्येकद्विसमयस्थितीनि परमाण्वादिद्रव्याणि लोके प्रत्येकमनन्तानि लभ्यन्ते तथाऽप्यनन्तरोक्तत्वदुक्तयुक्त्यैव समयलक्षणाया द्विसमयलक्षणायाश्च स्थितेरेकैकरूपत्वाद् द्रव्यबाहुल्यस्य च गुणीभूतत्वादेकमेवानानुपूर्वीद्रव्यमेकमेव चावक्तव्यकद्रव्यं वक्तुं युज्यते, न तु प्रत्येकमसङ्ख्येयत्वम्, अथ द्रव्यभेदेन भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः, एकसमयस्थितीनां द्विसमयस्थितीनां च द्रव्याणां प्रत्येकमनन्तानां लोके सद्भावादिति, सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्तते तदिह भिन्नं विवक्ष्यते, एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्नं चिन्त्यते, लोके चासङ्ख्येया अवगाहभेदाः सन्ति, प्रत्यवगाहं चैकद्विसमयस्थितिकानेकद्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकमसङ्ख्येयत्वं न विहन्यते इति, अनया दिशाऽतिगहनमिदं सूक्ष्मधिया पर्यालोचनीयमिति । क्षेत्रद्वारे एगदव्वं पडुच्च लोगस्स संखेज्जइभागे होज्जा, जाव देसूणे वा लोगे होज त्ति, इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगाहसम्भवतः सङ्ख्येयादिभागवर्तित्वं भावनीयम्, यदा तु त्र्यादिसमयस्थितिकः सूक्ष्मपरिणामः स्कन्धो देशोनलोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोक्षेत्रानुपूर्वीमपेक्ष्य यद् तद् द्रव्यानुपूर्वीमपेक्ष्य __कालानुपूर्वीमपेक्ष्य प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः अवक्तव्यकं वाऽनुपूर्वी वा आनुपूर्व्येव अनानुपूर्वी अवक्तव्यक्तं आनुपूर्वी कालानुपूर्वीमपेक्ष्य यद् अनानुपूर्वी अवक्तव्यक्तं आनुपूर्वी तद् द्रव्यानुपूर्वीमपेक्ष्य | प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः | प्रदेशसङ्ख्यानुसारेण त्रयाणामपि सम्भवः स्थित्यनुसारेण त्रयाणामपि सम्भवः । स्थित्यनुसारेण त्रयाणामपि सम्भवः । स्थित्यनुसारेण त्रयाणामपि सम्भवः ।। क्षेत्रानुपूर्वीमपेक्ष्य अवगाहनानुसारेण त्रयाणामपि सम्भवः अवगाहनानुसारेण त्रयाणामपि सम्भवः अवगाहनानुसारेण त्रयाणामपि सम्भवः Page #150 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१९१-१९३] १३३ ( सू० १९९) गम - ववहाराणं आणुपुव्विदव्वाइं किं अत्थि णत्थि ? नियमा तिणि वि अत्थि । ( सू० १९२) गम - ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइं, असंखेज्जाई, अणंताई ? तिणि वि नो संखेज्जाइं, असंखेज्जाई, नो अणंताई । (सू० १९३) णेगम - ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागे होज्जा ? ० पुच्छा, एगदव्वं पडुच्च लोगस्स संखेज्जतिभागे वा होज्जा जाव असंखेज्जेसु वा भागेसु होज्जा, देसूणे वा लोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । एवं अणाणुपुव्वि-अवत्तव्वयदव्वाणि भाणियव्वाणि जहा गम-ववहाराणं खेत्ताणुपुव्वीए । नलोकवर्तित्वं भावनीयम् । अन्ये तु पएसूणे वा लोगे होज्ज त्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति । सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेत्, उच्यतेसर्वलोकव्यापी अचित्तमहास्कन्ध एव प्राप्यते, स च तद्व्यापितया एकमेव समयमवतिष्ठते, त ऊर्द्धमुपसंहारस्योक्तत्वात्, न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति त्र्यादिसमयस्थितिकत्वेन तस्योक्तत्वात्, तस्मात् त्र्यादिसमयस्थितिकमन्यद् द्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेऽवगाहत इति प्रतिपत्तव्यम् । अत्राह नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डाद्यवस्थासमयगणने तस्याप्यष्टसमयस्थितिकत्वात्, एवं च सति तस्याप्यानुपूर्वीत्वात् सम्पूर्णलोकव्यापित्वं युज्यतेऽत्र वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदस्येह विवक्षितत्वात्, भिन्नाश्च परस्परं दण्ड- कपाटाद्यवस्थाः, तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्ड- कपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धद्रव्यम्, तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं प्रसङ्गेन । अथवा यथा क्षेत्रानुपूर्व्यं तथाऽत्रापि सर्वलोकव्यापिनोऽप्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्य एकस्मिन्नभ:प्रदेशेऽप्राधान्याद्देशोनलोकवर्तित्वं वाच्यम्, एकसमयस्थितिकस्यानानुपूर्वीद्रव्यस्य द्विसमयस्थितिकावक्तव्यकस्य च तत्र प्रदेशे प्राधान्याश्रयणादिति भावः । एवमन्यदपि आगमाविरोधतो वक्तव्यमिति । - नाणादव्वाइं पडुच्च नियमा सव्वलोए होज त्ति, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् । अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्व्यं तथा अत्राप्येकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिदम् ? उच्यते यत् कालत एकसमयस्थितिकं तत् क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते, तच्च लोकासङ्ख्येयभाग एव भवति । Page #151 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० १९४) एवं फुसणा कालाणुपुव्वीए वि तहा चेव भाणितव्वा । आएसंतरेण वा सव्वपुच्छासु होज्जत्ति, ७३ ३ अस्य भावना- इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परं भिन्नाः, आकारादिभेदात्, द्वि- त्रि- चतुः प्रदेशिकादिस्कन्धवत्, ततश्च ता एकैकसमयवृत्तित्वात् पृथगनानुपूर्वीद्रव्याणि तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षा किलैकमनानुपूर्वीद्रव्यं मतान्तरेण सङ्ख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते, एतच्च सूत्रेषु प्रायो न दृश्यते, टीका - चूर्ण्योस्त्वेवं व्याख्यातमुपलभ्यत इति । नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थितिकद्रव्याणां सर्वत्र भावादिति । अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिति ? उच्यते - यत् कालतो द्विसमयस्थितिकं तत् क्षेत्रतोऽपि द्विप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते, १३४ ७३. अस्य भावनेति । अचित्तमहास्कन्धस्य द्विविधाऽवगाहना - स्वस्थानतः, समुद्धाततश्च । तत्र प्रथमाऽङ्गुलस्यासङ्ख्येयभागमात्रत्वाल्लोकस्यासङ्ख्येयभागमात्रैव उत्कृष्टतो ज्ञेया । समुद्धाततस्तु या प्राप्यते सा तस्य स्कन्धस्य मूलस्थानमनुसृत्य लोकस्यासङ्ख्येयभागादिः पञ्चप्रकारापि प्राप्यते। समुद्धातं गतस्याचित्तमहास्कन्धस्य दण्डाद्यवस्थास्ववस्थाभेदेन भेदो यदा विवक्ष्यते, तदा दण्डादितत्तदवस्थापन्नस्य महास्कन्धस्यैकैकसमयस्थितिकत्वात् पृथक् पृथगनानुपूर्वीद्रव्यत्वमेव । तदपेक्ष्य चानानुपूर्वीद्रव्यं सङ्ख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते । अस्यां विवक्षायां समुद्धातापन्नस्याचित्तमहास्कन्धस्य यतो नानुपूर्वीद्रव्यत्वमत आनुपूर्वीद्रव्यस्य लोकाऽसङ्ख्येयभागमात्रैकैवावगाहना प्राप्यत इति ध्येयम् । अथ दण्डाद्यवस्थास्ववस्थाभेदेऽपि द्रव्यभेदाभावेनाभेद एव यदा विवक्ष्यते तदा समुद्धातं गतस्याप्यचित्तमहास्कन्धस्याष्टादिसमयस्थितिकत्वादानुपूर्वीद्रव्यत्वमेव । अतोऽस्यां विवक्षयामानुपूर्वीद्रव्यं सङ्ख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते । अनानुपूर्वीद्रव्यं त्वेकसमयस्थितिकत्वात् समुद्धातासम्भवात् स्वस्थानावगाहनाभूते लोकासङ्ख्येयभागमात्रे क्षेत्रे लभ्यत इति ज्ञायते । अनयोश्च विवक्षयोर्नैकस्यामपि समुद्धातमापन्नस्याचित्तमहास्कन्धस्य यतोऽवक्तव्यकद्रव्यत्वं, अतोऽवक्तव्यकद्रव्यं स्वस्थानावगाहनाभूते लोकाऽसङ्ख्येयभागमात्रे क्षेत्र एव प्राप्यते । नन्वेकोऽचित्तमहास्कन्धः प्रथमसमये दण्डं द्वितीयसमये च कपाटं कृत्वा भिन्नः । ततश्च तस्यावक्तव्यकत्वस्य निराबाधत्वादवक्तव्यकस्यापि लोकसङ्ख्येयभागादिकाप्यवगाहना प्राप्यत इति चेत् ? एवंप्रकारोऽचित्तमहास्कन्धभेदः सम्भवति न वेति न वयं जानीमः, तत्सम्भवेऽपि न तदवगाहनासम्भल, दण्डकपाटयोर्द्वयोरप्यवस्थयोस्तस्य लोकासङ्ख्येयभागमात्रे क्षेत्रेऽवगाढत्वाद् लोकसङ्ख्येयभागादिकानां पृच्छानामसम्भवात् । Page #152 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०१९५-१९६] (सू० १९५) (१) णेगम-ववहाराणं आणुपुव्विदव्वाइं कालतो केवचिरं होंति ? एगं दव्वं पडुच्च जहण्णेणं तिण्णि समया, उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च सव्वद्धा । (२) णेगम-ववहाराणं अणाणुपुग्विदव्वाइं कालओ केवचिरं होंति ? एगदव्वं पडुच्च अजहण्णमणुक्कोसेणं एक्कं समयं, नाणादव्वाइं पडुच्च सव्वद्धा । (३) णेगमववहाराणं अवत्तव्वयदव्वाइं कालतो केवचिरं होंति ? एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समया, नाणादव्वाइं पडुच्च सव्वद्धा । (सू० १९६) (१) णेगम-ववहाराणं आणुपुव्विदव्वाणमंतरं कालतो केवचिरं होति ? एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं दो समया, नाणादव्वाइं पडुच्च नत्थि अंतरं । तच्च लोकासङ्ख्येयभाग एव स्यात्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासङ्ख्येयभाग एवावगाहते, न परत: । आदेशान्तरेण वा महखंधवजमन्नदव्वेसु आइल्लचउपुच्छासु होज्ज त्ति, अस्य हृदयम्- मतान्तरेण किल द्विसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य सङ्ख्येयभागेऽवगाहते किञ्चित्त्वसङ्ख्येये, अन्यत्तु सङ्ख्येयेषु तद्भागेष्ववगाहते, अपरं त्वसङ्ख्येयेष्विति, महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य यथोक्तस्वरूपास्वाद्यासु चतसृषु पृच्छास्वेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमयस्थितित्वेनोक्तत्वान्न द्विसमयस्थितिकत्वसम्भव इति तद्वर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणाया: पञ्चमपृच्छाया अत्रासम्भव:, महास्कन्धस्यैव सर्वलोकव्यापकत्वात्, तस्य चावक्तव्यकत्वायोगादिति । एतदपि सूत्रं वाचनान्तरे क्वचिदेव दृश्यते । नानाद्रव्याणि तु सर्वलोके भवन्ति द्विसमयस्थितीनां सर्वत्र भावादिति । गतं क्षेत्रद्वारम्, स्पर्शनाद्वारमप्येवमेव भावनीयम् । कालद्वारे एगदव्वं पडुच्च जहण्णेणं तिण्णि समय त्ति, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वादिति भाव: । उक्कोसेणं असंखेजं कालं ति असङ्खयेयकालात् परत एकेन परिणामेन द्रव्यावस्थानस्यैवाभावादिति हृदयम् । नानाद्रव्याणि तु सर्वकालं भवन्ति, प्रतिप्रदेशं लोकस्य सर्वदा तदशून्यत्वादिति । अनानुपूर्व्यवक्तव्यकचिन्तायाम् अजहन्नमणुक्कोसेणं ति जघन्योत्कृष्टचिन्तामुत्सृज्येत्यर्थः, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्योत्कृष्टचिन्ता सम्भवतीति भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा लोकस्याशून्यत्वादिति । अन्तरद्वारे एगदव्वं पडुच्च जहण्णेणं एवं समयं ति, अत्र भावना - इह त्र्यादिसमयस्थितिकं विवक्षितं किञ्चिदेकमानुपूर्वीद्रव्यं तं परिणामं परित्यज्य यदा ७४परिणामान्तरेण समयमेकं स्थित्वा ७४. परिणामान्तरेण समयमेकं स्थित्वेत्यादि । त्र्यादिसमयस्थितिकत्वेनानुपूर्वीद्रव्यरूप Page #153 -------------------------------------------------------------------------- ________________ १३६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) णेगम-ववहाराणं अणाणुपुव्विदव्वाणं अंतरं कालतो केवचिरं होति ? एगदव्वं पडुच्च जहण्णेणं दो समया, उक्कोसेणं असंखेज्जं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं । (३) णेगम-ववहाराणं अवत्तव्वगदव्वाणं पुच्छा, एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं । (सू० १९७) णेगम-ववहाराणं आणुपुग्विदव्वाई सेसदव्वाणं कइभागे होज्जा ? पुच्छा, जहेव खेत्ताणुपुव्वीए । पुनस्तेनैव परिणामेन त्र्यादिसमयस्थितिकं जायते तदा जघन्यतया समयोऽन्तरे लभ्यते । उक्कोसेणं दो समय त्ति, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टतोऽन्तरे भवतः, यदि पुन: परिणामान्तरेण क्षेत्रादिभेदत: समयद्वयात् परतोऽपि तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत्, ततोऽन्तरमेव न स्यादिति भावः । नानाद्रव्याणां तु नास्त्यन्तरम्, सर्वदा लोकस्य तदशून्यत्वादिति । ___ अनानुपूर्वीचिन्तायाम् एगदव्वं पडुच्च ज़हण्णेणं दो समय त्ति, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा समयद्वयं जघन्योऽन्तरकाल:, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठेत् तदा अन्तरमेव न स्यात् तत्राप्यनानुपूर्वीत्वात्, अथ समयद्वयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भाव: । उक्कोसेणं असंखेजं कालं ति, तदेव यदा परिणामान्तरेणासङ्ख्येयकालमनुभूय पुनरेकसमयस्थितिकं परिणाममनुभवति तदोत्कृष्टतोऽसङ्ख्येयोऽन्तरकाल: प्राप्यते । आह- ननु च अन्यान्यद्रव्य-क्षेत्रसम्बन्धे तस्यानन्तोऽपि एकः स्कन्धो भिन्नः । समयानन्तरं पुनर्भिन्नः । ततश्च तस्य यः परिणामो जातस्तेनैव परिणामेन स त्र्यादिसमयान् यावत्थितः । इत्थं प्रथमभेदात्प्रागानुपूर्वीद्रव्यं, द्वितीयभेदानन्तरमप्यानुपूर्वीद्रव्यं, द्वयोर्भेदयोर्मध्यगत एकस्मिन् समयेऽनानुपूर्वीद्रव्यमिति जघन्यतया समयोऽन्तरे प्राप्तः। यदा द्वितीयभेदः समयद्वयानन्तरं भवेत्तदा द्वयोर्भेदयोर्मध्यगते समयद्वयेऽवक्तव्यकद्रव्यमिति द्वौ समयावन्तरे प्राप्तौ। इदमेवोत्कृष्टतोऽन्तरमिति ग्रन्थे प्रोक्तम्। ननु व्यादिसमयस्थितिकत्वेनानुपूर्वीद्रव्यरूप एकोऽनन्ताणुकः स्कन्धो भिन्नः। समयानन्तरं पुनर्भिन्नः । पुनः समयानन्तरे भिन्नः। पुनः समयद्वयानन्तरं भिन्नः। एवं पुनः पुनर्बहुशोऽनानुपूर्वी अवक्तव्यकं द्रव्यं वा भूत्वा सङ्ख्येयसमयानन्तरं पुनरानुपूर्वीद्रव्यं जातम्। ततश्चैवंक्रमेण सङ्ख्येयसमया अप्युत्कृष्टतयाऽन्तरे प्राप्यन्ते न वा? सूत्रे द्वौ समयावेवोत्कृष्टतोऽन्तरं यदुक्तं तेन, एवंक्रमेण पुनर्पुनर्भेदो नैव भवतीत्येवं निषेध एव ज्ञेयः, यद्वैवंक्रमेण भेदस्य सम्भवेऽपि तस्याविवक्षा ज्ञेयेत्यत्र नास्माकं कोपि निर्णय इति न किञ्चिदपि वक्तुं पार्यते। Page #154 -------------------------------------------------------------------------- ________________ १३७ श्रीअनुयोगद्वारसूत्रम् [सू०१९८-१९९] (सू० १९८) भावे वि तहेव । अप्पाबहुं पि तहेव नेयव्वं जाव सेतं अणुगमे । से तं णेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी। (सू० १९९) से किं तं संगहस्स अणोवणिहिया कालाणुपुव्वी ? संगहस्स अणोवणिहिया कालाणुपुव्वी पंचविहा पण्णत्ता । तंजहा- अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोतारे ४, अणुगमे ५ । कालोऽन्तरे लभ्यते किमित्यसङ्ख्येय एवोक्त: ? सत्यम्, किन्तु कालानुपूर्वीप्रक्रमात् कालस्यैवेह प्राधान्यं कर्तव्यम्, यदि त्वन्यान्यद्रव्य-क्षेत्रसम्बन्धतोऽन्तरकालबाहुल्यं क्रियते तदा तद्द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोर्द्वयोरेव प्राधान्यमाश्रितं स्यान्न कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्ट: कालो लभ्यते स एवान्तरे चिन्त्यते, स चासङ्ख्येय एव, तत: परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवत: सूत्रस्य विवक्षावैचित्र्यात् सर्वं पूर्वमुत्तरत्र चागमाविरोधेन भावनीयमिति । नानाद्रव्याणां तु नास्त्यन्तरम्, प्रतिप्रदेशं लोके सर्वदा तल्लाभादिति । ___ अवक्तव्यकद्रव्यचिन्तायां जहण्णेणं एग समयं ति, द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति तदा समयो जघन्यान्तरकाल: । उक्कोसेणं असंखेज कालं ति, तदेव यदा परिणामान्तरेणासङ्ख्येयं कालं स्थित्वा ७५पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो भवति, आक्षेपपरिहारावत्राप्यनानुपूर्वीवद् द्रष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तद्भावादिति । उक्तमन्तरद्वारम्, भागद्वारे तु यथा द्रव्य-क्षेत्रानुपूर्दोस्तथैवानुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसङ्ख्येयैर्भागैरधिकानि व्याख्येयानि, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्ख्येयभाग एव वर्तन्त इति । भावना त्वित्थं कर्तव्या- इहानानुपूर्व्यामेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्त्यां तु त्रिसमय-चतु:समय-पञ्चसमयस्थित्यादीन्येकोत्तरवृद्ध्याऽसङ्ख्येयसमयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसङ्ख्येयगुणत्वम् । इतरयोस्तु तदसङ्ख्येयभागवर्तित्वमिति । भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपि पूर्ववद्भावनीयम् । अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि, द्विसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वात्, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वात्, आनुपूर्वीद्रव्याणां तु पूर्वेभ्योऽसङ्ख्यातगुणत्वं भागद्वारे भावितमेव, शेषं ७५. पुनस्तमेव पूर्वानुभूतं परिणाममासादयतीति। द्विसमयस्थितिकत्वपरिणाममासादयतीत्यर्थः। Page #155 -------------------------------------------------------------------------- ________________ १३८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २००) से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया - एयाइं पंच वि दाराई जहा खेत्ताणुपुव्वीए संगहस्स तहा कालाणुपुव्वीए वि भाणियव्वाणि, णवरं ठितीअभिलावो जाव सेतं संगहस्स अणोवणिहिया कालाणुपुव्वी । सेतं अणोवणिहिया कालाणुपुव्वी। (सू० २०१) (१) ७६से किं तं ओवणिहिया कालाणुपुव्वी? ओवणिहिया कालाणुपुव्वी तिविहा पण्णत्ता । तंजहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी एगसमयठितीए, दुसमयठितीए , तिसमयठितीए जाव दससमयठितीए जाव संखेज्जसमयठितीए, असंखेज्जसमयठितीए। सेतं पुव्वाणुपुव्वी। तु क्षेत्रानुपूर्व्याधुक्तानुसारतः सर्वं वाच्यमिति । अत एव केषुचिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्ट दृश्यते, न तु विशेषतो लिखितमिति । सेत्तमित्यादि निगमनम् । उक्ता नैगम-व्यवहारनयमतेनानौपनिधिकी कालानुपूर्वी, अथ संग्रहनयमतेन तामेव व्याचिख्यासुराह - से किं तमित्यादि । यथा क्षेत्रानुपूर्व्यामियं संग्रहमतेन प्राग् निर्दिष्टा तथाऽत्रापि वाच्या, नवरं तिसमयठिईया आणुपुव्वी जाव असंखेजसमयठिईया आणुपुव्वीत्याद्यभिलाप: कार्य:, शेषं तु तथैवेति । उक्ता संग्रहमतेनाप्यनौपनिधिकी कालानुपूर्वी, तथा च सति अवसितस्तद्विचारः । इदानीं प्रागुद्दिष्टामेवोपनिधिकीं तां निर्दिदिक्षुराह - से किं तमित्यादि । एक: समय: स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येया: समया: स्थितिर्यस्य स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचारस्य प्रस्तुतत्वात् समयादेश्च कालत्वेन प्रसिद्धत्वाद् अनुषङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच्च तद्विषयत्वेनैव प्रकारान्तरेण तामाह - अहवेत्यादि, ७६. से किं तं ओवणिहिया कालाणुपुव्वीत्ति । ननु यथाऽनौपनिधिकीकालानुपूर्वीविषये नैगम-व्यवहार-सङ्ग्रहनयैः पृथक्पृथग् विचारितं, तथौपनिधिकीविषये किं नयविचारो न क्रियत इति चेत् ? शृणु-अनौपनिधिकीनिरूपणे कालानुपूर्वीभूतानां द्रव्याणामर्थपदप्ररूपणतादिद्वारैर्विचारो यतः कर्तव्यो भवत्यतस्तत्र नयसमवतारो भवति। औपनिधिकीनिरूपणे त्वन्यत्र शास्त्रादौ प्रसिद्धानां समयावलिकादिकालविभागानां पूर्वानुपूर्व्यादिक्रमेणोत्कीर्तनमेव कर्तव्यं भवति, न त्वर्थपदप्ररूपणतादिद्वारैः द्रव्यप्रमाणादिद्वारैर्वा कश्चिदपि विचारः कर्तव्यो भवतीति न नयसमवतारस्यावकाशः । इदमेव समाधानं द्रव्य-क्षेत्रानुपूर्दोरपि ज्ञेयम् । अत एव पूर्वमौपनिधिक्या द्रव्यानुपूर्वीनिरूपणे (सू. १३६) परमाणुद्व्यणुकाद्यनन्ताणुकपर्यन्तानामुत्कीर्तनमेव कृतं, द्रव्यप्रमाणादि न किञ्चिदपि चिन्तितम्। Page #156 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२०२] १३९ ( ३ ) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी असंखेज्जसमयठितीए जाव एक्कसमयठितए । सेतं पच्छाणुपुव्वी । (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । ( सू० २०२) (१) अहवा ओवणिहिया कालाणुपुव्वी तिविहा पण्णत्ता । तंजहापुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- ७७समए, ७८आवलिया, आणापाणू, तत्र समयो वक्ष्यमाणस्वरूपः सर्वसूक्ष्मः कालांश:, स च सर्वप्रमाणानां प्रभवत्वात् प्रथमं निर्द्दिष्टः ७७. समये आवलिअत्ति । ननु क्षेत्रानुपूर्व्यं यथाऽधोलोक - तिर्यग्लोकादिक्षेत्रविभागानां पूर्वानुपूर्व्यादिक्रमेणोत्कीर्तनं कृतं तथाऽत्र कालानुपूर्व्यं सुषमसुषमाख्यः प्रथमः आरकः, सुषमाख्यो द्वितीय आरक इत्यादिक्रमेण कालचक्रविभागानामुत्कीर्तनं किं न कृतम् ? शृण्वत्रोत्तरम्-कालचक्रस्य प्रारम्भोऽवसर्पिण्या भवत्युत्सर्पिण्या वा तत्र को विनिगमकः ? पूर्वानुपूर्व्यर्थं सुषमसुषम- सुषम- सुषमदुषम-दुषमसुषम-दुषम-दुषमदुषम-दुषमदुषम-दुषम-दुषमसुषमसुषमदुषम-सुषम-सुषमसुषम इति क्रमो ग्रहीतव्यो यद्वा दुषमदुषम-दुषम... इत्यादि - क्रमस्तत्र कः विनिगमकः ? इत्यर्थः । तथा च कस्य क्रमस्य पूर्वानुपूर्वीत्वमित्यत्र विनिगमका-भावेन निर्णयाभावान्न तन्निरूपणं कृतमिति मन्तव्यम् । ननु पूर्वमौपनिधिकीद्रव्यानुपूर्वीनिरूपणे (सू. ९७) ‘धर्मे’तिपदस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यास इति हेतुप्रदर्शनपुरस्सरं धर्मास्तिकाय- अधर्मास्तिकायेत्यादिक्रमस्य पूर्वानुपूर्वीत्वमुपदर्शितम् । तथा चात्रापि “दुषमदुषमेतिपदस्यामाङ्गलिकत्वेन 'सुषमसुषमे' तिपदस्य च माङ्गलिकत्वेन तस्यैव प्रथममुपन्यासः कर्तव्यः” इत्येवं हेतुप्रदर्शनपूर्वं सुषमसुषम- सुषम - सुषमदुषम... इत्यादिक्रमस्य पूर्वानुपूर्वीत्वं शक्यकथनमेव । अत एवास्मिन्नेव सूत्रेऽवसर्पिण्या: पूर्वमुपन्यासः कृत उत्सर्पिण्यास्तु तत्पश्चात् । इत्थञ्च माङ्गलिकत्वमेवात्र विनिगमकः । ततश्च सुषमसुषमेत्यादिक्रमेण कालचक्रविभागानामुत्कीर्तनं किमर्थं न कृतमिति प्रश्नस्तदवस्थ एवेति चेत् ? तर्हि विदेहेषु सदावस्थितकालत्वात् सुषमसुषमेत्यादिकालविभागानामभावादेव तन्न कृतमिति मन्तव्यम्, यद्वाऽकृतमपि तदुपलक्षणाद् ज्ञेयम् । ७८. आवलिअत्ति । यद्यपि समयानां मिथः सम्मील्य स्कन्धविरचनं नैव सम्भवति, तथापि व्यवहारेण समयसमूहविशेषं बुद्धावारोप्यावलिकादीनां व्यवहारः शास्त्रे लोके च प्रसिद्धः । तदनुसृत्येयमौपनिधिकी ज्ञेया । Page #157 -------------------------------------------------------------------------- ________________ १४० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं थोवे, लवे, मुहुत्ते, दिवसे, अहोरत्ते, पक्खे, मासे, उदू, अयणे, संवच्छरे, जुगे, वाससते, वाससहस्से, वाससतसहस्से, पुव्वंगे, पुव्वे, तुडियंगे, तुडिए, अडडंगे, अडडे, अववंगे, अववे, हूहुयंगे, हूहुए, उप्पलंगे, उप्पले, पउमंगे, पउमे, णलिणंगे, णलिणे, अत्थनिउरंगे, अत्थनिउरे, अउयंगे, अउए, नउयंगे, नउए, पउयंगे, पउए, चूलियंगे, चूलिए, सीसपहेलियंगे, सीसपहेलिया, पलिओवमे, सागरोवमे, ओसप्पिणी, उस्सप्पिणी, पोग्गलपरियट्टे, तीतद्धा, अणागतद्धा, सव्वद्धा । सेतं पुव्वाणुपुव्वी । १, तैरसङ्ख्येयैर्निष्पन्ना आवलिका २, सङ्ख्येया आवलिका: आण त्ति आन:, एक उच्छ्वास इत्यर्थः ३, ता एव सङ्ख्येया नि:श्वासः, अयं च सूत्रेऽनुक्तोऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ४, द्वयोरपि काल: पाणु त्ति एक: प्राणुरित्यर्थ: ५, सप्तभि: प्राणुभि: स्तोक: ६, सप्तभि: स्तोकैर्लवः ७, सप्तसप्तत्या लवानां मुहूर्त्त : ८, त्रिंशता मुहूर्त्तेरहोरात्र: ९, तैः पञ्चदशभि: पक्ष: १०, ताभ्यां द्वाभ्यां मास: ११, मासद्वयेन ऋतु: १२, ऋतुत्रयमानमयनम् १३, अयनद्वयेन संवत्सरः १४, पञ्चभिस्तैर्युगम् १५, विंशत्या युगैर्वर्षशतम् १६, तैर्दशभिर्वर्षसहस्रम् १७, तेषां शतेन वर्षशतसहस्रम् लक्षमित्यर्थः १८, चतुरशीत्या च लक्षै: पूर्वाङ्गं भवति १९, तदपि चतुरशीतिलक्षैर्गुणितं पूर्वं भवि २०, तच्च सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च - पुव्वस्स उ परिमाणं सयरि खलु हुंति कोडिलक्खाउ । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं ॥ १ ॥ ( जिन० संग्र० ३१६ ) स्थापना ७०५६००००००००००। इदमपि चतुरशीत्या लक्षैर्गुणितं त्रुटिताङ्गं भवति २१, एतदपि चतुरशीत्या लक्षैर्गुणितं त्रुटितम् २२, तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गम् २३, एतदपि तेनैव गुणकारेण गुणितमटटम् २४, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यम्, ततश्च अववाङ्गम् २५, अववम् २६, हूहुकाङ्गम् २७, हूहुकम् २८, उत्पलाङ्गम् २९, उत्पलम् ३०, पद्माङ्गम् ३१, पद्मम् ३२, नलिनाङ्गम् ३३, नलिनम् ३४, अर्थनिपूराङ्गम् ३५, अर्थनिपूरम् ३६, अयुताङ्गम् ३७, अयुतम् ३८, नयुताङ्गम् ३९, नयुतम् ४०, प्रयुताङ्गम् ४१, प्रयुतम् ४२, चूलिकाङ्गम् ४३, चूलिका ४४, शीर्षप्रहेलिकाङ्गम् ४५, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिदमेव शीर्षप्रहेलिका चतुरशीत्या लक्षैर्गुणितं शीर्ष प्रहेलिका भवति ४६, अस्या: स्वरूपमङ्कतोऽपि दर्श्यते - ७५८२६३२५३०७३०१०२४१-१५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे चत्वारिंशं शून्यशतम् १४०, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि Page #158 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२०३] १४१ (३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- सव्वद्धा, अणागतद्धा जाव समए । सेतं पच्छाणुपुव्वी । (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुव्वी । से तं ओव कालापुव्वी । सेतं कालाणुपुव्वी । (सू० २०३) (१) से किं तं उक्कित्तणाणुपुव्वी ? उक्कित्तणाणुपुव्वी तिविहा पण्णत्ता । तंजहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- उसभे १, अजिए २, संभवे ३, अभिणंदणे ४, सुमती ५, पउमप्पभे ६, सुपासे ७, चंदप्पहे ८, सुविही ९, सीतले १०, सेज्जंसे ११, वासुपुज्जे १२, विमले १३, अनंतती १४, धम्मे १५, संती १६, कुंथू १७, अरे १८, मल्ली १९, मुणिसुव्वए २०, णमी २१, अरिट्ठणेमी २२, पासे २३, वद्धमाणे २४ । सेतं पुव्वाणुव्व । भवन्ति, अनेन चैतावता कालमानेन केषाञ्चिद् रत्नप्रभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुष्षमारकसम्भविनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, ७९ एतस्माच्च परतो ऽपि सङ्ख्येयः कालोऽस्ति, किन्त्वनतिशयिनामसंव्यवहार्यत्वात् सर्षपाद्युपमयाऽत्रैव वक्ष्यमाणत्वाच्च नेहोक्तः, किं तर्हि ? उपमामात्रप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपम-सागरोपमे अत्रैव वक्ष्यमाणस्वरूपे, दशसागरोपमकोटीकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्यः पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीता-ऽनागत-वर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, शेषभावना तु पूर्वोक्तानुसारतः सुकरैव यावत् कालानुपूर्वी समाप्ता । साम्प्रतं प्रागुद्दिष्टामेवोत्कीर्तनानुपूर्वी बिभणिषुराह से किं तमित्यादि । उत्कीर्तनं संशब्दनमभिधानोच्चारणम्, तस्याऽऽनुपूर्वी अनुपरिपाटिः, सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः प्रथममुत्पन्नत्वात् पूर्वमुत्कीर्त्यते, तदनन्तरं क्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना पूर्ववत् । अत्राह- ननु औपनिधिक्या द्रव्यानुपूर्व्या अस्याश्च को भेदः ? उच्यते - तत्र द्रव्याणां विन्यासमा पूर्वानुपूर्व्यादिभावेन चिन्तितम्, अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेण भेद इति । ७९. एतस्माच्च परतोऽपीति । एतच्च सामान्यकालापेक्षयैव सङ्ख्येयत्वं ज्ञेयम्, आयुष्ककालापेक्षया तु पूर्वकोटिवर्षेभ्यः समयाधिक्येऽप्यसङ्ख्येयवर्षायुष्कत्वव्यवहारस्य परिभाषा ! अत एव समयाद्यधिकपूर्वकोटिवर्षायुष्काणां देवलोक एव गतिः, पृथ्वीकायादिभ्यो देवलोकादिभ्यश्चागतेर्निषेधः, पञ्चमादिगुणस्थानकानां निषेधश्च .. इत्यादि युगलिकविषयाणां नियमानामुपपत्तिः । Page #159 -------------------------------------------------------------------------- ________________ १४२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- वद्धमाणे २४, पासे २३, जाव उसभे १ । सेतं पच्छाणुपुव्वी। (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए चउवीसगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । सेतं उक्कित्तणाणुपुव्वी। (सू० २०४) (१) से किं तं गणणाणुपुव्वी ? गणणाणुपुव्वी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- एक्को, दस, सयं, सहस्सं, दससहस्साई, सयसहस्सं, दस सयसहस्साई, कोडी, दस कोडीओ, कोडीसयं, दस कोडिसयाई । सेतं पुव्वाणुपुव्वी। (३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी दसकोडिसयाइं जाव एक्को । सेतं पच्छाणुपुव्वी। (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगादियाए एगुत्तरियाए दसकोडिसयगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । सेतं गणणाणुपुव्वी। (सू० २०५) (१) से किं तं संठाणाणुपुव्वी ? संठाणाणुपुव्वी तिविहा पण्णत्ता । भवत्वेवम्, किन्त्वावश्यकस्य प्रस्तुतत्वादुत्कीर्तनमपि सामायिकाद्यध्ययनानामेव युक्तम्, किमित्यप्रक्रान्तानाम् ऋषभादीनां तद्विहितमिति ? सत्यम्, किन्तु सर्वव्यापकं प्रस्तुतशास्त्रमित्यादावेवोक्तम्, तद्दर्शनार्थमृषभादिसूत्रान्तरोपादानम्, भगवतां च तीर्थप्रणेतृत्वात् तत्स्मरणस्य समस्तश्रेय:फलकल्पपादपत्वाद् युक्तं तन्नामोत्कीर्तनम्, तद्विषयत्वेन चोक्तमुपलक्षणत्वादन्यत्रापि द्रष्टव्यमिति । शेष भावितार्थं यावत् सेत्तमित्यादि निगमनम् । __इदानीं पूर्वोद्दिष्टामेव गणनानुपूर्वीमाह - से किं तमित्यादि । गणनं परिसङ्ख्यानम् एकं द्वे त्रीणि चत्वारि इत्यादि, तस्य आनुपूर्वी परिपाटिर्गणनानुपूर्वी, अत्रोपलक्षणमात्रमुदाहर्तुमाह - एगेत्यादि सुगमम्, उपलक्षणमात्रं चेदम्, अतोऽन्येऽपि सम्भविन: सङ्ख्याप्रकारा अत्र द्रष्टव्या:, उत्कीर्तनानुपूर्त्यां नाममात्रोत्कीर्तनमेव कृतम्, अत्र त्वेकादिसङ्ख्याभिधानमिति भेदः । सेतमित्यादि निगमनम् । अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह - से किं तमित्यादि। आकृतिविशेषाः संस्थानानि, तानि च जीवाजीवसम्बन्धित्वेन द्विधा भवन्ति, तत्रेह जीवसम्बन्धीनि, तत्रापि ८°पञ्चेन्द्रियसम्बन्धीनि ८०. पञ्चेन्द्रिसम्बन्धीनीति । पञ्चेन्द्रियाणामेव संस्थानषट्कसम्भवात् । अत एव वटवृक्षस्य Page #160 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२०५] १४३ तंजहा-पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुब्बी ३ । (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- समचउरंसे १, णग्गोहमंडले २, सादी ३, खुज्जे ४, वामणे ५, हुंडे ६ । सेतं पुव्वाणुपुव्वी । (३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- हुंडे ६ जाव समचउरंसे १ । सेतं पच्छाणुपुव्वी। (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो। सेतं अणाणुपुव्वी । सेतं संठाणाणुपुव्वी। वक्तुमिष्टानि, अतस्तान्याह - समचउरंसे इत्यादि, तत्र समा: शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्ववर्त्यवयवरूपाश्चतस्रोऽस्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्रं संस्थानम्, तुल्यारोहपरिणाह: सम्पूर्णलक्षणोपेताङ्गोपाङ्गावयव: स्वाङ्गुलाष्टाधिकशतोच्छ्रय: सर्वसंस्थानप्रधान: पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थः १ । नाभेरुपरि न्यग्रोधवन्मण्डलम् आद्यसंस्थानलक्षणयुक् तेन विशिष्टाकार न्यग्रोधमण्डलम्, न्यग्रोधो वटवृक्ष:, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भाव: २ । सह आदिना नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थक सादित्वविशेषणम्, सत्यम्, किं त्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते, ततस्तथाभूतेन आदिना सह यद्वर्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षणविकलं तत् सादीति तात्पर्यम् ३ । यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्णम्, शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठं लक्षणहीनं तत् कुब्जम् ४ । यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतम्, शेषं तु हीनलक्षणं तद् वामनं कुब्जविपरीतमित्यर्थ: ५ । यत्र सर्वेऽप्यवयवा: प्रायो लक्षणविसंवादिन एव भवन्ति तत् संस्थानं हुण्डमिति ६ । अत्र च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वम्, शेषाणां तु यथाक्रमं हीनत्वाद् द्वितीयादित्वमिति । शेषभावना पूर्ववदिति । आह- यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहनन-वर्ण-रस-स्पर्शाद्यानुपूर्दोऽपि वक्तव्या: स्युः, तथा च सत्यानुपूर्वीणामियत्तैव विशीर्यते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसङ्ख्यानियम इति, सत्यम्, किन्तु सर्वासामपि तासां वक्तुमशक्यत्वादपलक्षणमात्रमेवायं सङ्ख्यानियम:, एतदनुसारेणान्या अप्येता अनुसर्तव्या इति तावल्लक्षयाम:, सुधिया त्वन्यथाऽपि वाच्यम्, गम्भीरत्वात् परममुनिप्रणीतसूत्रविवक्षाया:, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण । न्यग्रोधाकारवत्त्वेऽपि न न्यग्रोधमण्डलसंस्थानं, एकेन्द्रियादीनां सर्वेषां हुंडसंस्थानस्यैव शास्त्रेषु कश्तित्वात्। Page #161 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २०६) (१) से किं तं सामायाराणुपुव्वी ? सामायाराणुपुव्वी तिविहा पण्णत्ता । तंजहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (२) से किं तं पुव्वाणुपुव्वी ? इच्छा १ - मिच्छा २- तहक्कारो ३, आवसिया ४, य निसीहिया ५ । आपुच्छणा ६ य, पडिपुच्छा ७, छंदणा ८, य निमंत्रणा ९ । उवसंपया य काले १० सामायारी भवे दसविहा उ || १६ || से तं पुव्वाणुपुव्वी । (३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- उवसंपया १० जाव इच्छा १ । सेतं पच्छावी । १४४ सामाचार्यानुपूर्वी विवक्षुराह से किं तमित्यादि । तत्र समाचरणं समाचारः शिष्टजनाचरितः क्रियाकलापः, तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे च सामाचारी, सा च त्रिविधा- ओघनिर्युक्त्यभिहितार्थरूपा ओघसामाचारी १, इच्छामिच्छाद्यर्थविषया दशधा सामाचारी २, निशीथकल्पाद्यभिहितप्रायश्चित्त-पदविभागविषया पदविभागसामाचारी ३ । उक्तं च सामायारी तिविहा ओहे दसहा पदविभागे (आवश्यकनि० ६६५ ) त्ति । तत्रेह दशधा सामाचारीमाश्रित्योक्तम् - इच्छा-मिच्छा - तहक्कारो इत्यादि, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा विवक्षितक्रियाप्रवृत्त्यभ्युपगमः, तया करणमिच्छाकारः, आज्ञाबलाभियोगरहितो व्यापार इत्यर्थः १ । मिथ्या असदेतद् यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये कस्मिँश्चित् कृते मिथ्या वितथमिदं न पुनर्यथा भगवद्भिरुक्तं तथैवैतन्मच्चेष्टितमतो दुष्कृतं दुराचीर्णम् इत्येवमसत्क्रियानिवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् २ | सूत्रव्याख्यानादौ प्रस्तु गुरुभिः कस्मिँश्चिद् वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवं करणं तथाकारः, अविकल्प्य गुर्वाज्ञाभ्युपगम इत्यर्थः ३ । अवश्यं कर्तव्यमावश्यकम्, तत्र भवा आवश्यकी, ज्ञानाद्यालम्बनेनोपाश्रयाद् बहिरवश्यंगमने समुपस्थिते 'अवश्यं कर्तव्यमिदमतो गच्छाम्यहम्' इत्येवं गुरुं प्रति निवेदना आवश्यकीति हृदयम् ४ । निषेधे भवा नैषेधिकी, उपाश्रयाद्बहिः कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रैव प्रविशतः साधोः शेषसाधूनामुत्त्रासादिदोषपरिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचना नैषेधिकीति परमार्थ: ५ । भदन्त ! करोमीदमित्येवं गुरो: प्रच्छनमाप्रच्छना ६ । एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं चेह कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना ७ । खद खट्ट संवरणे (का० धा० ९।२३ ) इत्यस्यानेकार्थत्वात् कुरु ममानुग्रहम्, परिभुङ्क्ष्वेदम्' इत्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना ८ । 'इदं - Page #162 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२०७] १४५ (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी। सेतं सामायाराणुपुव्वी। (सू० २०७) (१) से किं तं भावाणुपुव्वी ? भावाणुपुव्वी तिविहा पण्णत्ता। तंजहापुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ ।। ___ (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- उदइए १, उवसमिए २, खतिए ३, खओवसमिए ४, पारिणामिए ५, सन्निवातिए ६ । सेतं पुव्वाणुपुव्वी। (३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- सन्निवातिए ६ जाव उदइए १ । सेतं पच्छाणुपुव्वी। वस्तु लब्ध्वा ततोऽहं तुभ्यं दास्यामि' इत्येवमद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणं निमन्त्रणा, उक्तं च - ___पुव्वगहिएण छंदण निमंतणा होअगहिएणं (आवश्यकनि० ६९७ )ति ९ । त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति १० । एवमेते दश प्रकारा: काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः । इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याऽऽज्ञा-बलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यात् प्रथममुपन्यास: । अपरोपतापकेनापि च कथञ्चित् स्खलने मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य । एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनं च तथाकारकरणेनैव सम्यक् प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य । प्रतिपन्नगुरुवचनेन चोपाश्रयाद् बहिर्निर्गच्छता गुरुपृच्छापूर्वकं निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्या: । बहिर्निगतेन च नैषेधिकीपूर्वकं पुन: प्रवेष्टव्यमिति तदनन्तरं नैषेधिक्याः । उपाश्रयप्रविष्टेन च गुरुमापृच्छ्य सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनाया: । आपृष्टे च निषिद्धेन पुन: प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनाया: । प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः । एषा च गृहीत एवाशनादौ स्यात्, अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्रणायाः । इयं च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपसम्पदमन्तरेण न ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति । शेषं पूर्ववदिति । अथ भावानुपूर्वीमाह - से किं तमित्यादि । इह तेन तेन रूपेण भवनानि भावा: वस्तुपरिणामविशेषा: औदयिकादयः, अथवा तेन तेन रूपेण भवन्तीति भावास्त एव, यद्वा भवन्ति तै: तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी परिपाटिर्भावानुपूर्वी । औदयिकादीनां तु स्वरूपं पुरस्तान्न्यक्षेण वक्ष्यते । अत्र च नारकादिगतिरौदयिको भाव इति वक्ष्यते, Page #163 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । सेतं भावाणुपुव्वी । तं आणुपुव्विति पदं समत्तं । १४६ (सू० २०८) से किं तं णामे ? णामे दसविहे पण्णत्ते । तंजहा- एगणामे १, दुणा २, तिणामे ३, चउणामे ४, पंचनामे ५, छणामे ६, सत्तणामे ७, अट्टणामे ८, णवणामे ९. दसणामे १० । ( सू० २०९ ) से किं तं एगणामे ? एगणामे णामाणि जाणि काणि वि दव्वाण गुणाण पज्जवाणं च । तेसिं आगमनिहसे नामं ति परूविया सण्णा ||१७|| तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादौदयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशमिकः स्तोकविषयत्वात् स्तोकतया प्रतिपादयिष्यत इति तदनन्तरमौपशमिकस्य, ततो बहुविषयत्वात् क्षायिकस्य, ततो बहुतरविषयत्वात् क्षायोपशमिकस्य, ततो बहुतमविषयत्वात् पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकादिसंयोगसमुत्थत्वात् सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरिति । शेषं पूर्वोक्तानुसारेण भावनीयम् । तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदाः, तद्भणने चोपक्रमप्रथमभेदलक्षणा आनुपूर्वी समाप्ता । साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीयं भेदं व्याचिख्यासुराह से किं तं नामेत्यादि । इ जीवगतज्ञानादिपर्यायाऽजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तुभेदं नमति तदभिधायकत्वेन प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः । उक्तं च - जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारि तं नामं । पइभेयं जं नमए पइभेयं जाइ जं भणिअं || १ || (विशेषावश्यकभा० ९४४) इदं च दशप्रकारं कथमित्याह - एगनामे इत्यादि । इह येन केनचिन्नाम्ना एकेनापि सता सर्वे विवक्षितपदार्था अभिधातुं शक्यन्ते तदेकनामोच्यते । यकाभ्यां तु नामभ्यां द्वाभ्यामपि सर्वं विवक्षितवस्तुजातमभिधानद्वारेण संगृह्यते तद् द्विनाम । यैस्तु त्रिभिर्नामभिः सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम । यैस्तु चतुर्भिर्नामभिः सर्वं विवक्षितवस्त्वभिधीयते तच्चतुर्नाम । एवमनया दिशा ज्ञेयं यावद् यैर्दशभिर्नामभि: सर्वं विवक्षितवस्तु प्रतिपाद्यते तद् दशनामेति । तत्र यथोद्देशं निर्देश इत्येकनामोदाहरन्नाह से किं तमित्यादि । नामाणि० गाहा । व्याख्याद्रव्याणां जीवा - ऽजीवभेदानां गुणानां ज्ञानादीनां रूपादीनां च तथा पर्यायाणां नारकत्वादीनामेकगुणकृष्णत्वादीनां च नामानि अभिधानानि यानि कानिचिल्लोके रूढानि, तद्यथा - जीवो Page #164 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् (सू०२१०-२१४] १४७ सेतं एगणामे । (सू० २१०) से किं तं दणामे ? दुणामे दुविहे पण्णत्ते । तंजहा- एगक्खरिए य १, अणेगक्खरिए य । (सू० २११) से किं तं एगक्खरिए ? एगखरिए अणेगविहे पण्णत्ते । तं जहा- हो: श्री: धी: स्त्री । सेतं एगक्खरिए । (सू० २१२) से किं तं अणेगक्खरिए ? अणेगक्खरिए अणेगविहे पण्णत्ते । तंजहाकण्णा वीणा लता माला । सेतं अणेगक्खरिए । (सू० २१३) अहवा दुनामे दुविहे पण्णत्ते । तंजहा - जीवनामे य १, अजीवनामे य २ । (सू० २१४) से किं तं जीवणामे ? जीवणामे अणेगविहे पण्णत्ते । तंजहा - देवदत्तो जण्णदत्तो विण्हुदत्तो सोमदत्तो । सेतं जीवनामे । जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापथो व्योमाऽम्बरमित्यादि, तथा ज्ञानं बुद्धिर्बोध इत्यादि, तथा रूपं रसो गन्ध इत्यादि, तथा नारकस्तिर्यङ् मनुष्य इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि, तेषां सर्वेषामप्यभिधानानामागम एव निकषो हेमरजतकल्पजीवादिपदार्थस्वरूपपरिज्ञानहेतुत्वात् कषपट्टकस्तस्मिन्नामेत्येवंरूपा संज्ञा आख्या प्ररूपिता व्यवस्थापिता, सर्वाण्यपि जीवो जन्तुरित्याद्यभिधानानि नामत्वसामान्याव्यभिचारादेकेन नामशब्देनोच्यन्त इति भावः । तदेवमिहैकेनाप्यनेन नामशब्देन सर्वाण्यपि लोकरूढाभिधानवस्तूनि प्रतिपाद्यन्त इत्येतदेकनामोच्यते एकं सन्नामैकनामेति कृत्वा इति गाथार्थः । सेत्तं एगणामे त्ति निगमनम् । से किं तं दुनामे इत्यादि । यत एवेदं द्विनामाऽत एव द्विविधं द्विप्रकारम्, तद्यथा- एकं च तदक्षरं च, तेन निर्वृत्तमेकाक्षरिकम्, अनेकानि च तान्यक्षराणि च, तैर्निर्वृत्तमनेकाक्षरिकम्, चकारौ समुच्चयार्थो, तत्रैकारिके ह्री: लज्जा देवताविशेषो वा, श्री: देवताविशेष:, धी: बुद्धिः, स्त्री योषिदिति, अनेकाक्षरिके कन्येत्यादि, उपलक्षणं चेदं बलाका-पताकादीनां त्र्याद्यक्षरनिष्पन्ननाम्नामिति । तदेवं यदस्ति वस्तु तत् सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽनेकाक्षरेण वा, अतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामैतदुच्यते, द्विरूपं सत् सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नो: समाहारो द्विनाममिति । ____ एतदेव प्रकारान्तरेणाऽऽह - अहवा दुनामे इत्यादि, जीवस्य नाम जीवनाम, अजीवस्य नाम अजीवनाम । अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्या विवक्षितसर्ववस्तुसङ्ग्रहो भावनीयः, शेषं सुगमम् । Page #165 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० २१५ ) से किं तं अजीवनामे ? अजीवनामे अणेगविहे पण्णत्ते । तंजहा - घडो पडो को रहो । सेतं अजीवनामे | (सू० २१६) (१) अहवा दुनामे दुविहे पण्णत्ते । तंजहा - विसेसिए य १, य २ । (२) अविसेसिए दव्वे, विसेसिए जीवदव्वे य अजीवदव्वे य । (३) अविसेसिए जीवदव्वे, विसेसिए णेरइए, तिरिक्खजोणिए, मणुस्से, देवे । (४) अविसेसिए णेरइए, विसेसिए रयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमाए तमतमाए । अविसेसिए रयणप्पभापुढविणेरइए, विसेसिए पज्जत्तए य अपज्जत्तए य । एवं जाव अविसेसिए तमतमापुढविणेरइए, विसेसिए पज्जत्तए य अपज्जत्तए य । १४८ (५) अविसेसिए तिरिक्खजोणिए, विसेसिए एगिदिए बेइंदिए तेइंदिए चउरिंदिए । (६) अविसेसिए एगिदिए, विसेसिए पुढविकाइए आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए। अविसेसिए पुढविकाइए, विसेसिए सुहुमपुढविकाइए य बादरपुढविकाइए य | अविसेसिए सुहुमपुढविकाइए, विसेसिए पज्जत्तयसुहुमपुढविकाइए य अपज्जत्तयसुहुमपुढविकाइए य । अविसेसिए बादरपुढविकाइए, विसेसिए पज्जत्तयबादरपुढविकाइए य अपज्जत्तयबादरपुढविकाइए य । एवं आउ० तेउ० वाउ० वणस्सती० य अविसेसिए विसेसिए य पज्जत्तय- अपज्जत्तयभेदेहिं भाणियव्वा । (७) अविसेसिए बेइंदिए, विसेसिए पज्जत्तयबेइंदिए य अपज्जत्तयबेइंदिए य । एवं इंदिय - चउरिंदिया वि भाणियव्वा । (८) अविसेसिए पंचेंदियतिरिक्खजोणिए, विसेसिए जलयरपंचेंदियतिरिक्खजोणिए थलयरपंचेंदियतिरिक्खजोणिए खहयरपंचेंदियतिरिक्खजोणिए य । (९) अविसेसिए जलयरपंचेंदियतिरिक्खजोणिए, विसेसिए सम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणिए य गव्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणिए य । अविसेसिए सम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणिए, विसेसिए पज्जत्तयसम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणिए य अपज्जत्तयसम्मुच्छिमजलयरपंचेंदियरितिक्खजोणिए य । अविसेसिए पुनरेतदेवान्यथा प्राह अहवा दुनामे इत्यादि, द्रव्यमित्यविशेषनाम जीवे अजीवे च सर्वत्र सद्भावात् । जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम एकस्य जीव एवान्यस्य त्वजीव एव सद्भावादिति । ततः पुनरुत्तरापेक्षया जीवद्रव्यमित्यविशेषनाम, नारकस्तिर्यङित्यादि तु विशेषनाम । पुनरप्युत्तरापेक्षा अविसेसिए - Page #166 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२१६] गब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणिए, विसेसिए पज्जत्तयगब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणिए य अपज्जत्तयगब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणिए य । (१०) अविसेसिए थलयरपंचेंदियतिरिक्खजोणिए, विसेसिए चउप्पयथलयरपंचेंदियतिरिक्खजोणिए य परिसप्पथलयरपंचेंदियतिरिक्खजोणिए य । अविसेसिए चउप्पयथलयरपंचेंदियतिरिक्खजोणिए, विसेसिए सम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणिए य गब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणिए य । अविसेसिए सम्मुच्छिमचउप्पयथलयरपंचेंद्रियतिरिक्खजोणिए, विसेसिए पज्जत्तयसम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणिए य अपज्जत्तयसम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणिए य । अविसेसिए गब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणिए, विसेसिए पज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणिए य अपज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणिए य । अविसेसिए परिसप्पथलयरपंचेंदियतिरिक्खजोणिए, विसेसिए उरपरिसप्पथलयरपंचेंदियतिरिक्खजोणिए य भुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणिए य । एवं सम्मुच्छिमा पज्जत्ता अपज्जत्ता य, गब्भवति पज्जत्ता अपज्जत्ता य भाणियव्वा । (११) अविसेसिए खहयरपंचेंदियतिरिक्खजोणिए, विसेसिए सम्मुच्छिमखहयरपंचेंदियतिरिक्खजोणिए य गब्भवक्कंतियखहयरपंचेंदियतिरिक्खजोणिए य । अविसेसिए सम्मुच्छिमखहयरपंचेंदियतिरिक्खजोणिए, विसेसिए पज्जत्तयसम्मुच्छिमखहयरपंचेंदियतिरिक्खजोणिए य अपज्जत्तयसम्मुच्छिमखहयरपंचेंदियतिरिक्खजोणिए य । अविसेसिए गब्भवक्कंतियखहयरपंचेंदियतिरिक्खजोणिए, विसेसिए पज्जत्तयगब्भवक्कंतियखहयरपंचेंदियतिरिक्खजोणिए य अपज्जत्तयगब्भवक्कंतियखहयरपंचेंदियतिरिक्खजोणिए य । (१२) अविसेसिए मणुस्से, विसेसिए सम्मुच्छिममणूसे य गब्भवक्कंतियमणुस्से य । अविसेसिए सम्मुच्छिममणूसे, विसेसिए ८९ पज्जत्तयसम्मुच्छिममणूसे य अपज्जत्तनारकादिकमविशेषनाम, रत्नप्रभायां भवो रात्नप्रभ इत्यादि तु विशेषनाम, एवं पूर्वं पूर्वमविशेषनाम उत्तरोत्तरं विशेषनाम सर्वत्र भावनीयम्, शेषं सुगमम् । नवरं सम्मूर्च्छन्ति तथाविधकर्मोदयाद् गर्भमन्तरेणैवोत्पद्यन्त इति सम्मूर्च्छिमा: । गर्भे व्युत्क्रान्ति: उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, उरसा भुजाभ्यां च परिसर्पन्ति गच्छन्तीति विषधर - गोधा - नकुलादय: सामान्येन परिसर्पाः, विशेषस्तूरसा ८१. पज्जत्तयसम्मुच्छिममणुस्से यत्ति । अत्र पर्याप्तत्वं करणेन ज्ञेयं, लब्ध्या पर्याप्तत्वस्य सम्मूर्च्छिममनुष्येषु निषिद्धत्वात् । ततश्चापर्याप्तत्वमपि करणेनैव ज्ञेयम् । करणेन पर्याप्तत्वं च समाप्तेन्द्रियपर्याप्तिकत्वरूपमत्र बोध्यम् । १४९ Page #167 -------------------------------------------------------------------------- ________________ १५० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं गसम्मुच्छिममणूसे य । अविसेसिए गब्भवक्कंतियमणूसे, ८२विसेसिए पज्जत्तयगब्भववंतियमणूसे य अपज्जत्तयगब्भवक्कंतियमणूसे य । (१३) अविसेसिए देवे, विसेसिए भवणवासी वाणमंतरे जोइसिए वेमाणिए य । अविसेसिए भवणवासी, विसेसिए असुरकुमारे एवं नाग० सुवण्ण विज्जु० अग्गि० दीव० उदधि० दिसा० वात० थणियकुमारे । सव्वेसि पि अविसेसिय-विसेसिय-पज्जत्तयअपज्जत्तयभेया भाणियव्वा । (१४) अविसेसिये वाणमंतरे, विसेसिए पिसाए भूते जक्खे रक्खसे किण्णरे किंपुरिसे महोरगे गंधव्वे । एतेसिं पि अविसेसिय-विसेसिय- पज्जत्तय-अपज्जत्तयभेदा भाणियव्वा । (१५) अविसेसिए जोइसिए, विसेसिए चंदे सूरे गहे नक्खत्ते तारारूवे । एतेसिं पि अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तयभेया भाणियव्वा। (१६) अविसेसिए वेमाणिए, विसेसिए कप्पोवगे य कप्पातीतए य । अविसेसिए कप्पोवए, विसेसिए सोहम्मए ईसाणए सणंकुमारए माहिंदए बंभलोगए लंतयए महासुक्कए सहस्सारए आणयए पाणयए आरणए अच्चुतए। एतेसिं पि अविसेसिय-विसेसिय-पज्जत्तयअपज्जत्तयभेदा भाणियव्वा । (१७) अविसेसिए कप्पातीतए, विसेसिए गेवेज्जए य अणुत्तरोववाइए य । अविसेसिए गेवेज्जए, विसेसिए हेट्ठिमगेवेज्जए मज्झिमगेवेज्जए उवरिमगेवेज्जए । अविसेसिए हेट्टिमगेवेज्जए, विसेसिए हेट्टिमहेट्ठिमगेवेज्जए हेट्टिममज्झिमगेवेज्जए हेट्टिमउवरिमगेवेज्जए। अविसेसिए मज्झिमगेवेज्जए, विसेसिए मज्झिमहेट्ठिमगेवेज्जए मज्झिममज्झिमगेवेज्जए मज्झिमउवरिमगेवेज्जए । अविसेसिए उवरिमगेवेज्जए, विसेसिए उवरिमहेट्ठिमगेवेज्जए उवरिममज्झिमगेवेज्जए उवरिमउवरिमगेवेज्जए। एतेसिं पि सव्वेसिं अविसेसिय-विसेसियपज्जत्तय-अपज्जत्तयभेदा भाणियव्वा । ८२. अन्यत्रादर्शेऽत्र विसेसिओ कम्मभूमिगो अकम्मभूमिओ य अंतरदीवगो संखेज्जवासाउयअसंखेज्जवासाउय-पज्जत्ताऽपज्जत्तभेओ'त्ति पाठो वर्तते। तत्र असंखिज्जवासाउयत्ति । पूर्वमुक्तवत् समयाद्यधिकपूर्वकोटिवर्षायुष्काणामसङ्ख्येयवर्षायुष्कत्वमत्र ज्ञेयमिति परिभाषा । तत्र पर्याप्तापर्याप्तत्वे करणापेक्षया ज्ञेये। एवमेव देवविषयकसूत्रेऽपि ते करणापेक्षयैव ज्ञेये। तथैव च पूर्वं नरकविषयकसूत्रेऽपि ते कथिते ज्ञेये, सर्वास्वासु मार्गणासु लब्ध्याऽपर्याप्तत्वस्यासम्भवात् । ततश्च लब्ध्या पर्याप्तत्वस्य सम्भवेऽपि विशेषत्वाभावेन पर्याप्तत्वमपि करणापेक्षयैव ग्राह्यम् । Page #168 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२१७,२१८] १५१ (१८) अविसेसिए अणुत्तरोववाइए, विसेसिए विजयए वेजयंतए जयंतए अपराजियए सव्वसिद्ध । एतेसिं पि सव्वेसिं अविसेसिय-विसेसिय-पज्जत्तय- अपज्जत्तयभेदा भाणियव्वा । (१९) अविसेसिए अजीवदव्वे, विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए अद्धासमए य । अविसेसिए पोग्गलत्थिकाए, विसेसिए परमाणुपोग्गले दुपएसिए जाव अनंतपएसिए । से तं दुना । (सू० २१७) से किं तं तिनामे ? तिनामे तिविहे पण्णत्ते । तंजहा- दव्वणामे १, गुणणामे पज्जवणामे य ३ । ( सू० २१८) से किं तं दव्वणामे ? दव्वणामे छव्विहे पण्णत्ते । तंजहा- धम्मत्थिकाए १, अधम्मत्थिकाए २, आगासत्थिकाए ३, जीवत्थिकाए ४, पोग्गलत्थिकाए ५, अद्धासमए ६ अ । से तं दव्वणामे । २, परिसर्पन्तीत्युर:परिसर्पाः सर्पादय एव, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधा - नकुलादय एव । शेषं सुखोन्नेयम् । तदेवमुक्ता: सामान्य- विशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः । साम्प्रतं प्रागुद्दिष्टमजीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह - अविसेसिए अजीवदव्वे इत्यादि गतार्थम् । तदेवं यदस्ति वस्तु तत् सर्वं सामान्यनाम्ना विशेषनाम्ना ८३वा अभिधीयेतैवमन्यत्रापि द्विनामत्वं भावनीयम् । तंदुनामेत्ति निगमनम् । से किं तं तिनामेत्यादि । यत एवेदं त्रिनाम तत एव त्रिविधं त्रिप्रकारम्, द्रव्यनामादिभेदात् । तत्र द्रवति गच्छति तस्तान् पर्यायान् प्राप्नोतीति द्रव्यम्, तस्य नाम । धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राग् व्याख्याता एव । गुण्यन्ते संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, वण्णनामे इत्यादि, तत्र वर्ण्यते अलङ्क्रियते वस्त्वनेनेति वर्ण: कृष्णादिः पञ्चधा प्रतीत एव, कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते न पुनः सर्वथा एतद्विलक्षणा इति नेहोदाहृताः । गन्ध्यते आघ्रायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविध:- सुरभिर्दुरभिश्च तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः । अत्राप्युभयसंयोगजः पृथग् नोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । रस्यते आस्वाद्य इति रसस्तस्य नाम रसनाम, स च तिक्त-कटु- कषाया -ऽऽम्ल-मधुरभेदात् पञ्चविधः । तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च भिषक्शास्त्रम् - श्लेष्माणमरुचिं पित्तं तृषं कुष्ठं विषं ज्वरम् । हन्यात् तिक्तो रसो बुद्धेः कर्ता मात्रोपसेवितः ॥ | १ || ( ८३. वाऽभिधीयेत इति । अत्र 'सामान्य- विशेषात्मकत्वात्सर्वेषां वस्तूनामिति हेतुः । > Page #169 -------------------------------------------------------------------------- ________________ १५२ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० २९९ ) से किं तं गुणणामे ? गुणणामे पंचविहे पण्णत्ते । तंजहा - वण्णणामे १, गंधणामे २, रसणामे ३, फासणामे ४, संठाणणामे ५ । (सू० २२०) से किं तं वण्णनामे ? वण्णनामे पंचविहे पण्णत्ते । तंजहा- कालवण्णनामे १, नीलवण्णनामे २, लोहियवण्णनामे ३, हालिद्दवण्णनामे ४, सुक्किलवण्णनामे ५ । से तं वण्णनामे | (सू० २२१) से किं तं गंधनामे ? गंधनामे दुविहे पण्णत्ते । तं जहा - सुरभिगंध य १, दुरभिगंधना य २ । सेतं गंधना । ( सू० २२२ ) से किं तं रसनामे ? रसनामे पंचविहे पण्णत्ते । तंजहा- तित्तरसणामे १, कडुयरसणामे २, कसायरसणामे ३, अंबिलरसणामे ४, महुररसणामे य ५ । सेतं रसनामे । ( सू० २२३) से किं तं फासणामे ? फासणामे अट्ठविहे पण्णत्ते । जहाकक्खडफासणामे १, मउयफासणामे, २ गरुयफासणामे ३, लहुयफासणामे ४, सीतफासणामे ५, उसिणफासणामे ६, णिद्धफासणामे ७, लुक्खफासणामे ८ । सेतं फासणामे । गलामयादिप्रशमनो मरिच - नागराद्याश्रितः कटुः । उक्तं च कटुर्गलामयं शोफं हन्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो बृंहणोऽतिकफापहः ||२|| ( > रक्तदोषाद्यपहर्ता बिभीतका-ऽऽमलक-कपित्थाद्याश्रितः कषायः । आह चरक्तदोष कफ पित्तं कषायो हन्ति सेवितः । रूक्षः शीतो गुरुग्रा (ग्रा) ही रोपणश्च स्वरूपतः ||३|| ( अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः, पठ्यते च - अम्लोऽग्निदीप्तिकृत् स्निग्ध: शोफ-पित्त-कफावहः । क्लेदन: पाचनो रुच्यो मूढवातानुलोमकः ||४|| ( पित्तादिप्रशमकः खण्ड-शर्कराद्याश्रितो मधुरः, तथा चोक्तम् - पित्तं वातं विषं हन्ति धातुवृद्धिकरो गुरुः । जीवन: केशकृद्बाल-वृद्ध-क्षीणौजसां हितः ||५|| ( ) इत्यादि । ८४स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, > ८४. स्थानान्तर इति । यथा तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा रागेण वा दोसेण वत्ति पाक्षिकसूत्रालापके । > Page #170 -------------------------------------------------------------------------- ________________ १५३ श्रीअनुयोगद्वारसूत्रम् [सू०२२४,२२५] (सू० २२४) से किं तं संठाणणामे ? संठाणणामे पंचविहे पण्णत्ते । तंजहापरिमंडलसंठाणणामे १, वसंठाणणामे २, तंससंठाणणामे ३, चउरंससंठाणणामे ४, आयतसंठाणणामे ५ । सेतं संठाणणामे । सेतं गुणणामे ।। (सू० २२५) से किं तं पज्जवनामे ? पजवनामे अणेगविहे पण्णत्ते । तंजहाएगगुणकालए, दुगुणकालए जाव अणंतगुणकालए, एगगुणनीलए, दुगुणनीलए जाव अणंतगुणनीलए, एवं लोहिय-हालिद्द-सुकिला वि भाणियव्वा । एगगुणसुरभिगंधे, दुगुणसुरभिगंधे जाव अणंतगुणसुरभिगंधे, एवं दुरभिगंधो वि भाणियव्वो। एगगुणतित्ते, स चेह नोदाहृतः, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । स्पृश्यत इति स्पर्शः । कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगत: कर्कश: । सन्नतिकारणं तिनिशलतादिगतो मृदुः । अध:पतनहेतुरयोगोलकादिगतो गुरुः । प्रायस्तिर्यगूर्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः । देहस्तम्भादिहेतु: प्रालेयाद्याश्रित: शीतः। आहारपाकादिकारणं वयाद्यनुगत उष्ण: । पुद्गलद्रव्याणां मिथ: संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थित: स्निग्धः । तेषामेवाबन्धनिबन्धनं भस्माद्याधारो रूक्ष: । एतत्संसर्गजास्तु नोक्ता:, एष्वेवान्तर्भावादिति । संस्थानस्वरूपं तु प्रतीतमेव । परि समन्तादवन्ति अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवा:, अथवा परि समन्ताद् अवनानि गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवा: एकगुणकालत्वादय:, तेषां नाम पर्यवनाम, यत्र तु पर्यायनामेति पाठः, तत्र परि समन्तादयन्ते अपगच्छन्ति न पुनर्द्रव्यवत् सर्वदैव तिष्ठन्तीति पर्याया:, अथवा परि सामस्त्येन एति अभिगच्छति व्याप्नोति वस्तु तानिति पर्याया: एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति । तत्रेह गुणशब्दोंऽशपर्याय:, ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया पिण्डितस्य य एकः सर्वजघन्यो गुण: अंशस्तेन कालक: परमाण्वादिरेकगुणकालकः, सर्वजघन्यकृष्ण इत्यर्थ: । द्वाभ्यां गुणाभ्यां तदंशाभ्यां कालक: परमाण्वादिरेव द्विगुणकालकः, एवं तावन्नेयं यावदनन्तैर्गुणैः तदंशै: कालकोऽनन्तगुणकालक: स एवेति । एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति । आह- गुण-पर्याययो: कः प्रतिविशेष: ? उच्यते, सदैव सहवर्तित्वाद्वर्ण-गन्ध-रसादय: सामान्येन गुणा उच्यन्ते, न हि मूर्ते वस्तुनि वर्णादिमात्रं कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थातो निवर्तन्त एवेति, अत: क्रमवृत्तित्वात् पर्याया: । उक्तं च - सहवर्तिनो गुणा:, यथा जीवस्य चैतन्याऽमूर्तत्वादयः, क्रमवर्तिन: पर्यायाः, यथा तस्यैव नारकत्व-तिर्यक्त्वादयः ( ) इति । ननु यद्येवं Page #171 -------------------------------------------------------------------------- ________________ १५४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं दगुणतित्ते जाव अणंतगुणतित्ते, एवं कडुय-कसाय-अंबिल-महुरा वि भाणियव्वा । एगगुणकक्खडे, दुगुणकक्खडे जाव अणंतगुणकक्खडे, एवं मउय-गरुय-लहुय-सीतउसिण-णिद्ध-लुक्खा वि भाणियव्वा । से तं पज्जवणामे। (सू० २२६) तं पुण णामं तिविहं इत्थी १, पुरिसं २, णपुंसगं ३, चेव । एएसिं तिण्हं पि य अंतम्मि परूवणं वोच्छं ॥१८॥ तत्थ पुरिसस्स अंता आ ई ऊ ओ य होंति चत्तारि । ते चेव इत्थियाए हवंति ओकारपरिहीणा ॥१९।। अंति य इं ति य उ ति य अंता उ णपुंसगस्स बोद्धव्वा । एतेसिं तिण्हं पि य वोच्छामि निदंसणे एत्तो ॥२०॥ तर्हि वर्णादिसामान्यस्य भवतु गुणत्वम्, तद्विशेषाणां तु कृष्णादीनां तद् न स्यात्, अनियतत्वात् तेषाम्, सत्यम्, वर्णादिसामान्यभेदानामपि कृष्ण-नीलादीनां प्राय: प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । आह- भवत्वेवम्, किन्तु पुद्गलास्तिकायद्रव्यस्यैव संबन्धिनो गुणपर्याया: किमिति गुण-पर्यायनामत्वेनोदाहृता: ? न धर्मास्तिकायादीनाम्, न च वक्तव्यम् - तेषां ते न सन्तीति, धर्मा-ऽधर्मा-ऽऽकाश-जीव-कालद्रव्येष्वपि यथाक्रम गतिस्थित्यवगाहोपयोगवर्त्तनादिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च प्रसिद्धत्वात्, सत्यम्, किन्त्विन्द्रियप्रत्यक्षगम्यत्वात् सुखप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुण-पर्याया उदाहृताः, न शेषाणामित्यलं विस्तरेण । तस्माद् यत् किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यम्, नात: परं किमपि नामास्ति, तत: सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति । तं पुण गाहा। व्याख्या - तत् पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुनपुंसकलिङ्गेषु वर्तमानत्वात् त्रिविधं त्रिप्रकारम् । तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुल्लिँङ्गे घट: पट इत्यादि, नपुंसके दधि मध्वित्यादि । एषां च स्त्रीलिङ्गवृत्त्यादीनां त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह- एएसिमित्यादि गतार्थमेवेति गाथार्थः । तत्थ पुरिस० गाहा । तत्र तस्मिन् त्रिविधे नाम्नि पुरुषस्य पुल्लिङ्गवृत्तेर्नाम्न: अन्ता अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति, तद्यथा - आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुल्लिंगवृत्तेर्नाम्नोऽन्तेऽक्षरं संभवतीत्यर्थ: । स्त्रीलिङ्गवृत्तेर्नाम्नोऽप्यन्ते ओकारवर्णान्येतान्येवा कारेकारोकारलक्षणानि त्रीण्यक्षराणि भवन्ति, नापरमिति । अत्र चानन्तरगाथायाम् इत्थी-पुरिसमिति निर्टिश्यापि यदिहादौ पुल्लिंगनाम्नो लक्षणकथनं तत् पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः । Page #172 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् (सू०२२७-२२९] आकारंतो राया ईकारंतो गिरी य सिहरी य । ऊकारंतो विण्हू दुमो ओ अंता उ पुरिसाणं ॥२१॥ आकारंता माला ईकारंता सिरी य लच्छी य । ऊकारंता जंबू वह य अंता उ इत्थीणं ॥२२॥ अंकारंतं धन्नं इंकारंतं नपुंसकं अच्छिं । उंकारंतं पीलुं महुं च अंता णपुंसाणं ॥२३॥ सेतं तिणामे । (सू० २२७) से किं तं चतुणामे ? चतुणामे चउव्विहे पण्णत्ते । तंजहा-आगमेणं १, लोवेणं २, पयईए ३, विगारेणं ४ । (सू० २२८) से किं तं आगमेणं? आगमेणं पद्मानि पयांसि कुण्डानि । सेतं आगमेणं । (सू० २२९) से किं तं लोवेणं ? लोवेणं ते अत्र तेऽत्र, पटो अत्र पटोऽत्र, घटो अत्र घटोऽत्र, रथो अत्र रथोऽत्र । सेतं लोवेणं । अंति य गाहा । नपुंसकवृत्तिनाम्नस्त्वन्ते अंकार: इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति, नापरम् । एतेषां च त्रयाणामपि निदर्शनम् उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः । तदेवाह - ८५आगारंतो इत्यादि गाथात्रयं व्यक्तम् । नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वादूकारान्तता न विरुध्यते । एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यम् । जम्बू: स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेष: । पीलु ति क्षीरम् । शेषं सुगमम् । सेत्तं तिनामे त्ति निगमनम् । से किं तं चउनामे इत्यादि। आगच्छतीत्यागमो न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुट्स्वराद् घुटि नुः (कातन्त्र० २।२।११) इत्यनेनात्र न्वागमस्य विधानात्, उपलक्षणमात्रं चेदम्, संस्कार उपस्कर इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति। लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, एदोत्पर: पदान्ते (कातन्त्र० १।२१७) इत्यादिना अकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदम्, मनस ईषा मनीषा बुद्धि:, भ्रमतीति भूरित्यादेरपि सकार-मकारादिवर्णलोपेन निष्पन्नत्वादिति । प्रकृति: स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनौ (कातन्त्र० १।३।२) इत्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदम्, सरसिजं कण्ठेकाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति । वर्णस्यान्यथाभावापादनं विकार:, तेन निष्पन्नं दण्डस्याग्रं दण्डाग्रमित्यादि, समान: सवर्णे दीर्घाभवति (कातन्त्र० १।२।१) इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वात्, ८५. आगारंतो इति। ततश्च प्रथमैकवचनान्तपदमेवात्र नामत्वेनोक्तं ज्ञेयम् । Page #173 -------------------------------------------------------------------------- ________________ १५६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २३०) से किं तं पगतीए ? अग्नी एतौ, पटू इमौ, शाले एते, माले इमे । सेतं पगतीए। (सू० २३१) से किं तं विकारेणं ? विकारेणं दण्डस्य अग्रं दण्डाग्रम्, सा आगता साऽऽगता, दधि इदं दधीदम्, नदी ईहते नदीहते, मधु उदकं मधूदकम्, बहु ऊहते बहूहते। सेतं विकारेणं । सेतं चउणामे । (सू० २३२) से किं तं पंचनामे ? पंचनामे पंचविहे पण्णत्ते । तं जहा-नामिकं १ नैपातिकं २ आख्यातिकम् ३ औपसर्गिकं ४ मिश्रं ५ च । अश्व इति नामिकम्, खल्विति नैपातिकम्, धावतीत्याख्यातिकम्, परि इत्यौपसर्गिकम्, संयत इति मिश्रम् । सेतं पंचनामे। (सू० २३३) से किं तं छनामे ? छनामे छव्विहे पण्णत्ते । तंजहा- उदइए १, उवसमिए २, खइए ३, खओवसमिए ४, पारिणामिए ५, सन्निवातिए ६।। __ (सू० २३४) से किं तं उदइए? उदइए दुविहे पण्णत्ते । तंजहा-उदए य १, उदयनिप्फण्णे य २ । (सू० २३५) से किं तं उदए ? उदए अट्ठण्हं कम्मपगडीणं उदए णं । से तं उदए। उदाहरणमात्रं चैतत्, तस्कर: षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिनिर्वृत्तेन वा विकारनिष्पन्नेन वा भवितव्यम्, डित्थादिनाम्नामपि सनिरुक्तत्वात् नाम च धातुजमाह ( ) इत्यादिवचनात् । ततश्चतुर्भिरप्यतै: सर्वस्य सङ्ग्रहाच्चतुर्नामेदमुच्यते । सेत्तं चउनामे त्ति निगमनम् । से किं तं पंचनामे इत्यादि । इहाऽश्व इति नामिकम्, वस्तुवाचकत्वात् । खल्विति नैपातिकम्, निपातेषु पठितत्वात् । धावतीत्याख्यातिकम्, क्रियाप्रधानत्वात् । परीत्यौपसर्गिकम्, उपसर्गेषु पठितत्वात् । संयत इति मिश्रम्, उपसर्ग-नामसमुदायनिष्पन्नत्वादिति । एतैरपि सर्वस्य क्रोडीकरणात् पञ्चनामत्वं भावनीयम् । सेत्तं पंचनामे त्ति निगमनम् । से किं तं छनामे इत्यादि । अत्रौदयिकादय: षड् भावा: प्ररूप्यन्ते, तथा च सूत्रम्- उदइए इत्यादि । अत्राह- ननु नाम्नि प्रक्रान्ते तदभिधेयानामर्थानां भावलक्षणानां प्ररूपणमयुक्तमिति, नैतदेवम्, नाम-नामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वात्, एवमन्यत्रापि यथासम्भवं वाच्यम् । तत्र ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदय:, स एवौदयिकः, अथवा यथोक्तेनैवोदयेन निष्पन्न औदयिकः, भाव इति सामर्थ्याद् गम्यते । उपशमनमुपशम: कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नाग्निवत्, स एव औपशमिकः, तेन वा निवृत्त औपशमिकः । क्षयः कर्मणोऽपगम:, स एव तेन वा निवृत्त: क्षायिक: । कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां Page #174 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२३६,२३७] ( सू० २३६ ) से किं तं उदयनिप्फणे ? उदयनिप्फ दुविहे पण्णत्ते । जीवोदयनिफने य १, अजीवोदयनिप्फन्ने य २ । ( सू० २३७ ) से किं तं जीवोदयनिप्फन्ने ? जीवोदयनिप्फन्ने अणेगविहे पण्णत्ते । तंजहा - णेरइए तिरिक्खजोणिए मणुस्से देवे, पुढविकाइए जाव वण्णस्सइकाइए तसकाइए, कोहसायी जाव लोहकसायी, इत्थीवेदए पुरिसवेदए णपुंसगवेदए, कण्हलेसे एवं नील० काउ० तेउ० पम्ह० सुक्कलेसे, मिच्छादिट्ठी अविरए अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे । सेतं जीवोदयनिफन्ने १५७ वा निर्वृत्तः क्षायोपशमिक : दरविध्यातभस्मच्छन्नवह्निवत् । परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणाम:, स एव तेन वा निर्वृत्तः पारिणामिकः । अनन्तरोक्तानां द्व्यादिभावानां मेलकः सन्निपात:, स एव तेन वा निर्वृत्तः सान्निपातिकः । तामीषां प्रत्येकं स्वरूपनिरूपणार्थमाह से किं तं ओदइए इत्यादि । औदको भाव द्विविधः- अष्टानां कर्मप्रकृतीनामुदयस्तन्निष्पन्नश्च । अयं चार्थः प्रकारद्वयेन व्युत्पत्तिकरणादादावेव दर्शितः । उदयनिष्पन्नः पुनरपि द्विविध:- जीवे उदयनिष्पन्नो जीवोदयनिष्पन्नः, अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नः । जहा तत्र जीवोदयनिष्पन्नस्योदाहरणानि - णेरइए इत्यादि । इदमुक्तं भवति - कर्मणामुदयेनैव सर्वे - ऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथा - नारकस्तिर्यङ् मनुष्य इत्यादि । अत्राह - ननु यद्येवम निद्रापञ्चक-वेदनीय-हास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादयः कियन्तोऽप्युपन्यस्ताः ? सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो द्रष्टव्याः । अपरवाह ननु कर्मोदयजनितानां नारकत्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धं तत् किमितीह तदुपन्यासः ? सत्यम्, किन्तु योगपरिणामो लेश्याः, योगस्तु विध ८६ कर्मोदयजन्य एव, ततो लेश्यानामपि तदुदयजन्यत्वं न विहन्यते । अन्ये तु मन्यन्ते कर्माष्टकोदयात् संसारस्थत्वाऽसिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण । तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति । सेत्तं जीवोदयनिफन्ने त्ति निगमनम् । अथाजीवोदयनिष्पन्नं निरूपयितुमाह से किं तमित्यादि । ओरालियं वा सरीरं विशिष्टाकारपरिणतं तिर्यङ्-मनुष्यदेहरूपमौदारिकं शरीरम्, ओरालिअसरीरप्पओगेत्यादि, औदारिकशरीरप्रयोगपरिणमितं वा द्रव्यम्, औदारिकशरीरस्य प्रयोगो व्यापारस्तेन परिणमितं स्व ८६. कर्मोदयजन्य एवेति । ननु वीर्यपरिणामो योगः वीर्यं तु वीर्यान्तरायकर्मक्षयक्षयोपशमजन्य आत्मपरिणामः, ततः कर्मोदयजन्यत्वं कथमिति चेत् ? वीर्यं द्विविधं भवति Page #175 -------------------------------------------------------------------------- ________________ १५८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २३८) से किं तं अजीवोदयनिप्फन्ने ? अजीवोदयनिप्फन्ने चोद्दसविहे पण्णत्ते। तंजहा-ओरालियं वा सरीरं १, ओरालियसरीरपयोगपरिणामियं वा दव्वं २, वेउव्वियं वा सरीरं ३, वेउव्वियसरीरपयोगपरिणामियं वा दव्वं ४, एवं आहारगं सरीरं ६, तेयगं सरीरं ८, कम्मगं सरीरं च भाणियव्वं १०, पयोगपरिणामिए वण्णे ११, गंधे १२, रसे १३, फासे १४ । सेतं अजीवोदयनिप्फण्णे । सेतं उदयनिप्फण्णे । सेतं उदए । प्रायोग्यत्वाद् गृहीतं तत्तथा, तच्च वर्ण-गन्ध-रस-स्पर्शा-ऽऽनापानादिरूपं स्वत एवोपरिष्टाद् दर्शयिष्यति । वाशब्दौ परस्परसमुच्चये । एतद् द्वितयमप्यजीवे पुद्गलद्रव्यलक्षणे औदारिकशरीरनामकर्मोदयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदयिको भाव उच्यते । एवं वैक्रियशरीरादिष्वपि भावना कार्या । नवरं वैक्रियशरीरनामकर्माद्युदयजन्यत्वं यथास्वं वाच्यमिति । औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् स्वत एव दर्शयितुमाह- पओगपरिणामिए वण्णे इत्यादि, पञ्चानामपि शरीराणां प्रयोगेण व्यापारेण परिणमितं गृहीतं वर्णादिकं शरीरे वर्णादिसम्पादकं ८°द्रव्यमिदं द्रष्टव्यम् । उपलक्षणत्वाच्च वर्णादीनामपरमपि यच्छरीरे संभवत्यानापानादि तत् स्वत एव दृश्यमिति । अत्राह - ननु यथा नारकत्वादय: पर्याया जीवे भवन्तीति जीवोदयनिष्पन्ने औदयिके पठ्यन्ते, एवं शरीराण्यपि जीव एव भवन्ति, अतस्तान्यपि तत्रैव पठनीयानि स्यु:, किमित्यजीवोदयनिष्पन्नेऽधीयन्ते ? अस्त्येतत्, किन्त्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात् तन्निष्पन्न औदयिको भाव: शरीरलक्षणेऽजीव एव प्राधान्याद् दर्शित इत्यदोषः । सेत्तमित्यादि निगमनत्रयम् । उक्तो द्विविधोऽप्यौदयिक:, अथौपशमिकं निर्दिदिक्षुराह - से किं तं उवसमिए इत्यादि । अयमपि द्विविध: - ८८उपशमस्तन्निष्पन्नश्च । तत्र उवसमे णं ति, णमिति वाक्यालङ्कारे, उपशम: लब्धिवीर्य, करण(व्यापृत) वीर्यं च । तत्र लब्धिवीर्यं वीर्यान्तरायकर्मक्षय-क्षयोपशमजन्यं भवति । तस्मादौदारिकशरीरादिसाचिव्येन यच्च यावच्च व्याप्रियते तद् योगापरनामकरणवीर्यमुच्यते । तत्र च शरीर-संघयण-पर्याप्त्यादिनामकर्मोदयस्याप्यपेक्षणात् कर्मोदयजन्यत्वमपि न विरुद्धमिति । ८७. द्रव्यमिदं द्रष्टव्यमिति । यद्वेयमपि व्याख्याऽत्र शक्या-शङ्खादीनां यादृक्शुक्लवर्णादयो भवन्ति ते न कदाचिदपि विस्रसापरिणामत एव भवितुमर्हाः, अपि तु शङ्खादयो जीवा यदा विवक्षितं पुद्गलद्रव्यं स्वशरीरतया परिणामयन्ति तदैव ते वर्णादयस्तत्रोत्पद्यन्त इति ते प्रयोगपरिणमिता उच्यन्ते । किञ्च तत्तद्वर्णादिपरिणामास्तज्जीववर्णादिनामकर्मोदयमनुसृत्य संजायन्तेऽत उदयनिष्पन्नाः कथ्यन्ते । ८८. उपशम इति । अत्र कर्मणो भस्मपटलावच्छन्नाग्निवद् अनुदयाक्षीणावस्थोपशमः, तज्जन्यात्मपरिणाम उपशमनिष्पन्न इत्येवं वैविध्यं लभ्यते। एवमेव क्षायिकादिषु बोध्यम् । Page #176 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२३९-२४४] १५९ (सू० २३९) से किं तं उवसमिए ? उवसमिए दुविहे पण्णत्ते । तंजहा-उवसमे य १, उवसमनिप्फण्णे य २। (सू० २४०) से किं तं उवसमे ? उवसमे मोहणिज्जस्स कम्मस्स उवसमे णं । सेतं उवसमे। (सू० २४१) से किं तं उवसमनिप्फण्णे ? उवसमनिप्फण्णे अणेगविहे पण्णत्ते । तंजहा-उवसंतकोहे जाव उवसंतलोभे उवसंतपेजे उवसंतदोसे उवसंतदंसणमोहणिजे उवसंतचरित्तमोहणिजे उवसंतमोहणिजे उवसमिया सम्मत्तलद्धी उवसमिया चरित्तलद्धी उवसंतकसायछउमत्थवीतरागे । सेतं उवसमनिप्फण्णे । सेतं उवसमिए। (सू० २४२) से किं तं खइए ? खइए दुविहे पण्णत्ते । तंजहा-खए य १ खयनिप्फण्णे य २। (सू० २४३) से किं तं खए ? खए अट्ठण्हं कम्मपगडीणं खए णं । सेतं खए । (सू० २४४) से किं तं खयनिप्फण्णे ? खयनिप्फण्णे अणेगविहे पण्णत्ते । तंजहाउप्पण्णणाणदंसणधरे अरहा जिणे केवली ८९खीणआभिणिबोहियणाणावरणे खीणसुयणाणावरणे खीणओहिणाणावरणे खीणमणपजवणाणावरणे खीणकेवलणाणावरणे अणावरणे णिरावरणे खीणावरणे णाणावरणिज्जकम्मविप्पमुक्के, केवलदंसी सव्वदंसी खीणनिद्दे खीणनिद्दानिद्दे खीणपयले खीणपयलापयले खीणथीणगिद्धे खीणचक्खुदंसणावरणे खीणअचक्खुदंसणावरणे खीणओहिदंसणावरणे खीणकेवलदसणावरणे पूर्वोक्तस्वरूपो मोहनीयस्यैव कर्मणोऽष्टाविंशतिभेदभिन्नस्योपशमश्रेण्यां द्रष्टव्यः, न शेषकर्मणाम्, मोहस्सेवोवसमो ( ) इति वचनात्, उपशम एवौपशमिकः । उपशमनिष्पन्ने तु उवसंतकोहे इत्यादि, इहोपशान्तक्रोधादयो व्यपदेशा: क्वापि वाचनाविशेषे कियन्तोऽपि दृश्यन्ते, तत्र मोहनीयस्योपशमेन दर्शनमोहनीयं चारित्रमोहनीयं चोपशान्तं भवति, तदुपशान्ततायां च ये व्यपदेशा: संभवन्ति ते सर्वेऽप्यत्रादुष्टा न शेषा इति भावनीयम् । सेत्तमित्यादि निगमनद्वयम् । ८९. खीणआभिणिबोहिअणाणावरणेत्ति । ननु क्षीणाभिनिबोधिकज्ञानावरणादीनामपि पृथक् पृथक् क्षयनिष्पन्नभावत्वेऽन्यत्र श्रीतत्त्वार्थसूत्रादौ ज्ञानावरणकर्मक्षयजन्यक्षायिकभावत्वेनैकं केवलज्ञानमेव यदुक्तं तद्विरोधः स्यादिति चेत् ? न, अत्रापि तस्यैकस्यैव क्षायिकभावत्वेन सम्मतत्वात्। भूतले यदा घटो वर्तते तदा घटवद्भूतलमिति प्रत्यक्षं भवति, यदा पटो वर्तते तदा पटवद्भूतलमिति प्रत्यक्षं भवति । परन्तु यदा न किञ्चिदपि वर्तते तदा 'इदं भूतलं' इत्येवमेकरूपमेव प्रत्यक्षं भवति। न तत्र कोऽपि विशेषोऽनुभूयते। तथापि यदा Page #177 -------------------------------------------------------------------------- ________________ १६० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अणावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायवेयणिजे खीणअसायवेयणिज्जे अवेयणे निव्वेयणे खीणवेयणे सुभासुभवेयणिज्जकम्मविप्पमुक्के, खीणकोहे जाव खीणलोभे खीणपेजे खीणदोसे खीणदंसणमोहणिजे खीणचरित्तमोहणिजे अमोहे निम्मोहे खीणमोहे मोहणिजकम्मविप्पमुक्के, खीणणेरइयाउए खीणतिरिक्खजोणियाउए खीणमणुस्साउए खीणदेवाउए अणाउए निराउए खीणाउए आउयकम्मविप्पमुक्के, गति-जाति-सरीरंगोवंग-बंधण-संघात-संघतण-अणेगबोंदिवंदसंघायविप्पमुक्के खीणसुभनामे खीणासुभणामे अणामे निण्णामे खीणनामे सुभाऽसुभणामकम्मविप्पमुक्के, खीण उच्चागोए खीणणीयागोए अगोए निगोए खीणगोए सुभाऽसुभगोत्तकम्मविप्पमुक्के, खीणदाणंतराए खीणलाभंतराए खीणभोगंतराए खीणुवभोगंतराए खीणविरियंतराए अणंतराए णिरंतराए खीणंतराए अंतराइयकम्मविप्पमुक्के, सिद्धे बुद्धे मुत्ते परिणिव्वुए अंतगडे सव्वदुक्खप्पहीणे । से तं खयनिप्फण्णे । से तं खइए । निर्दिष्टो द्विविधोऽप्यौपशमिकः, अथ क्षायिकमाह - से किं तमित्यादि । एषोऽपि द्विधा - क्षयस्तन्निष्पन्नश्च, तत्र खए णं ति, णमिति पूर्ववत्, क्षयोऽष्टानां ज्ञानावरणादिकर्मप्रकृतीनां सोत्तरभेदानां सर्वथाऽपगमलक्षणः, स एव स्वार्थिकेकण्प्रत्यये क्षायिक: । क्षयनिष्पन्नस्तु तत्फलरूप: । तत्र च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्याया: संभवन्ति तान् क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावद् ये भवन्ति तानाह- उप्पण्णणाण-दसणेत्यादि । उत्पन्ने श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञान-दर्शने धरति यः स तथा । अरहा अविद्यमानरहस्यः, नास्य गोप्यं किञ्चिदस्तीति भावः। आवरणशत्रुजेतृत्वाज्जिनः । केवलं सम्पूर्ण ज्ञानमस्यास्तीति केवली। क्षीणमाभिनिबोधिकज्ञानावरणं यस्य स तथा । एवं नेयं यावत् क्षीणकेवलज्ञानावरण: । अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवाऽनावरणः । तथा निर्गत आगन्तुकादप्यावरणाद् राहुरहितरोहिणीशवदेव निरावरण: । तथा क्षीणमेकान्तेनापुनर्भावितया आवरणमस्येत्यपाकृतमलावरणजात्यमणिवत् क्षीणावरण: । निगमयन्नाह - ज्ञानावरणीयेन कर्मणा विविधम् अनेकैः प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्त: । एकार्थिकानि वा एतान्यनावरणादिपदानि, अन्यथा वा घटवद्भूतलादिरूपा पूर्वावस्थाऽनुसन्धीयते, तदा घटाभाववद्भूतलं' ‘पटाभाववद्भूतलं' इत्यादि रूपं ज्ञानं भवत्येव । एवमेवाभिनिबोधिकज्ञानावरणादियुक्तां पूर्वावस्थामपेक्ष्य यदा चिन्त्यते तदा 'क्षीणाभिनिबोधिकज्ञानावरणोऽयं' इत्यादि ज्ञायत एव । ततश्च ‘घटाभाववद्भूतलं' इत्यादि ज्ञानभेदेऽपि यथा भूतलस्य सत्यपि कथञ्चिद्भेदे न महान् भेदः, तथैव प्रस्तुतेऽपि ज्ञेयम् । अत एव सूत्रे केवली' शब्देन केवलज्ञानं यथा सूचितं न तथाऽऽभिनिबोधिकादि किमप्यन्यज्ज्ञानम् । Page #178 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२४५,२४६] १६१ (सू० २४५) से किं तं खओवसमिए ? खओवसमिए दुविहे पन्नत्ते । तंजहा - खओवसमे य १, खओवसमनिप्फन्ने य २ । ( सू० २४६ ) से किं तं खओवसमे ? खओवसमे चउण्हं घाइकम्माणं खओवसमे णं । तं जहा - नाणावणिज्जस्स १, दंसणावरणिज्जस्स २, मोहणिज्जस्स ३, अंतराइयस्स ४ । तं खओवस | नयमतभेदेन सुधिया भेदो वाच्यः । तदेवमेतानि ज्ञानावरणीयक्षयापेक्षाणि नामान्युक्तानि, अथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह- केवलदसीत्यादि, केवलेन क्षीणावरणेन दर्शनेन पश्यतीति केवलदर्शी । क्षीणदर्शनावरणत्वादेव सर्वं पश्यतीति सर्वदर्शीत्येवं निद्रापञ्चकदर्शनावरणचतुष्कक्षयसम्भवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि । नवरं निद्रापञ्चकस्वरूप मिदम् - ९० सुहपडिबोहो निद्दा दुहपडिबोहो य निनिद्दा य । पयला होइ ठियस्सा पलापयला य चकमओ || १|| (निशीथभा० १३३) ९०. सुहपडिबोहोत्ति । यद्यप्यत्र कर्मग्रन्थादौ च निद्रापञ्चकस्वरूपमेवमुक्तं-सुखेन अकृच्छ्रेण नखच्छोटिकामात्रेणापि प्रतिबोधः = जागरणं स्वप्तर्यस्यां स्वापावस्थायां सा सुखप्रतिबोधा निद्रा । दुःखेन = कष्टेन बहुभिर्घोलनाप्रकारैः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा निद्रानिद्रा । प्रचलति विघूर्णते यस्यां प्राणी सा प्रचला, सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्य = आसीनस्य भवति । प्रचलातोऽतिशायिनी प्रचलाप्रचला तु चङ्क्रमतः चङ्क्रमणमपि कुर्वतो जन्तोरुपतिष्ठते । ततश्च शूलपाणियक्षमन्दिरे कार्योत्सर्गेणोर्ध्वस्थितो वीरविभुरुपसर्गोपरमानन्तरं क्षणमात्रं यां निद्रां लेभे सा निद्रा वाऽभूत्प्रचला वेति प्रश्नोऽत्र समुद्भवति । ननु किमत्र प्रष्टव्यम् ? ‘पयला ठिओवविट्ठस्स' इति कर्मविपाकवचनात् स्थितस्योपविष्टस्य वा निद्रायाः प्रचलात्वेन निश्ची-यमानत्वादिति चेत् ? सत्यं किन्त्वत्यन्तमप्रमत्तस्य निद्राविजेतुस्तीर्थकृतोऽपि प्रचला सम्भवतीति स्वीकर्तुं मनः कथमुल्लसेत् ? किञ्च तस्या निद्रायाः पादसञ्चारमात्रेण छोटिकामात्रेण वा प्रतिबोधलक्षणं सुखप्रतिबोध्यत्वमपि भवेदेवेति निद्रात्वमपि कथं न निश्चीयेत ? ननु प्रभोर्निद्रायां सुखप्रतिबोध्यत्वलक्षणं निद्रालक्षणमप्यभवदेवेति कथं निश्चेयमिति चेत् ? शृणु-मत्प्रतिबोधकानां पञ्चाचारप्रवीणानामिष्टफलसिद्धिवादविजेतॄणा गुरुपादानां श्रीमतां विजयभुवनभानुसूरीश्वराणामत्यन्तमल्पीकृतनिद्रत्वेन साधनाश्रमानन्तरं कदाचिन्न केवलमुपवेशनावस्थायां, अपि तु स्थानावस्थायामपीषन्निद्रायमाणे लोचने दृष्टे, ततश्च प्रचलालक्षणं तु = = Page #179 -------------------------------------------------------------------------- ________________ १६२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अइसंकिलिट्टकम्माणुवेयणे होइ थीणगिद्धी उ । महनिद्दा दिणचिंतियवावारपसाहणी पायं ।।२।। ( ) अपरं च - अनावरणादिशब्दा: पूर्वं ज्ञानावरणाभावापेक्षा: प्रवृत्ताः, अत्र तु दर्शनावरणापगमापेक्षा इति विशेषः । वेदनीयं द्विधा- प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातम्, तत्क्षयापेक्षास्तु क्षीणसातवेदनीयादय: शब्दा: सुखोन्नेया: । नवरमवेदनो वेदनारहित:, स च व्यवहारतोऽल्पवेदनोऽप्युच्यते, तत: प्राह- निर्वेदन: अपगतसर्ववेदन: । स च पुन: कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदन: अपुन विवेदन: । निगमयन्नाह- सुभासुभवेअणिजकम्मविप्पमुक्के त्ति । मोहनीयं द्विधा- दर्शनमोहनीयं च चारित्रमोहनीयं च । तत्र दर्शनमोहनीयं त्रिधा- सम्यक्त्व-मिश्रतत्र वर्तत एव । अथ च शब्दमात्रेण निद्रात्यागरूपं सुखप्रतिबोध्यत्वमपि दृष्टमेव न तु न दष्टमिति। अतः 'अप्रमत्तसाधकानां निद्राभिसन्ध्यभावेऽपि या परिश्रमवशादल्पनिद्रा भवति सा सुखप्रतिबोधा भवति' इत्ययं निश्चयो नाशक्यः। ततश्च वीरविभोर्निद्रायामपि प्रचलाया इव निद्राया लक्षणस्यापि सत्त्वात् कथं न प्रश्नसमुद्भवः ? ननु तर्हि प्रश्नस्यास्य किं समाधानं कर्तव्यमिति चेत् ? शृण्वस्माभिर्विचारितं तत्समाधानम्- ‘सुखपडिबोहा निद्दा, निद्दानिद्दा य दुक्खपडिबोहत्ति कर्मविपाकोक्तं निद्रा-निद्रानिद्रयोर्लक्षणमिदं ज्ञापयति यद् निद्राधीनो जीवः सुप्तो वोपविष्टो वा स्थितो वेत्यादिकमत्र नापेक्षितम्, अपि तु निद्राप्रतिबोधः कथं भवतीत्येवापेक्षितमिति। ततश्च प्रचलादीनां लक्षणेऽपि यदीयमेवापेक्षाऽपेक्षिता स्यात्तदा प्रचलादीनां लक्षणान्यवेम्प्रकाराण्यपि प्राप्यन्ते । तद्यथा- प्रतिबोधयिता यदा निद्राधीनं प्रतिबोधयति तदा निद्राधीनो न छोटिकामात्रेण हे अमुक ! इति संशब्दनमात्रेणापि वा निद्रां त्यक्तुं शक्नोति, न वा बहुभिर्घोलनाप्रकारैस्तां त्यक्तुं शक्नोति, अपि तु यदा स तं हस्तेन गृहीत्वा शय्यायामुपवेशयत्युत्थापयति वा तदैव स निद्रां त्यजति-प्रतिबोधो भवतीत्यर्थः, एवंप्रकारा निद्रा प्रचलोच्यते। तथा यदि स उपवेशनादौ सत्यपि निद्रां न त्यजति, अपि तु प्रतिबोधयिता बलेन तं पञ्चषान क्रमान चालयति तदैव त्यजति एवंप्रकारा निदा प्रचलप्रचलोच्यते। तथा यदि निद्राधीनश्चक्रमते, दिनचिन्तितं कार्यं स्वयं करोति, तथापि प्रतिबोधो न भवति, तदा सा निद्रा स्त्यानद्धिरुच्यते । ततश्चैतानि लक्षणानि पर्यवस्यन्ति-यस्याः सुखेन प्रतिबोधः, सा निद्रा; दुःखेन प्रतिबोधः, सा निद्रानिद्रा; तिष्ठत उपविशतो वा प्रतिबोधः, सा प्रचला; चङ्क्रमतः प्रतिबोधः, सा प्रचलाप्रचला; दिनचिन्तितार्थकरणेऽपि प्रतिबोधाभावः, सा स्त्यानर्द्धिः । अत्र प्रचलादीनां लक्षणान्यस्मत्परिशीलितानि, नोपलभ्यमानेषु ग्रन्थेषूपलभ्यन्त इति ध्येयम् । ततश्च श्रीवीरप्रभोः श्रीभुवनभानुसूरीश्वराणाञ्च या परिश्रमवशादीषन्निद्रा सा निद्रैव, सुखप्रतिबोध्यत्वात्, न तु प्रचला, तल्लक्षणायोगादिति निश्चये न कोऽपि प्रश्नावकाशः। Page #180 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२४७ ] १६३ (सू० २४७ ) से किं तं खओवसमनिप्फन्ने ? खओवसमनिप्फन्ने अणेगविहे पण्णत्ते । तंजा - खओवसमिया आभिणिबोहियणाणलद्धी जाव खओवसमिया मणपज्जवणाणलद्धी, खओवसमिया मतिअण्णाण - लद्धी खओवसमिया सुयअण्णाणलद्धी खओवसमिया मिथ्यात्वभेदात्, चारित्रमोहनीयं तु द्विधा क्रोधादिकषाय-हास्यादिनोकषायभेदात् । तत एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनि नामानि सुबोधान्येव । नवरं माया - लोभौ प्रेम, क्रोधमानौ तु द्वेषः । तथा अमोह: अपगतमोहनीयकर्मा । स च व्यावहारिकैरल्पमोहोदयोऽपि निर्दिश्यते, अत आह - निर्गतो मोहान्निर्मोह: । स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत्, तद्व्यवच्छेदार्थमाह- क्षीणमोहः, ९९ अपुनर्भाविमोहोदय इत्यर्थः । निगमयति- मोहनीयकर्मविप्रमुक्त इति । नारकाद्यायुष्कभेदेनायुश्चतुर्द्धा, तत्क्षयसमुद्भवानि च नामानि सुगमानि । नवरमविद्यमानायुष्कोऽनायुष्कः । तद्भविकायुः क्षयमात्रेऽपि स्यादत उक्तं निरायुष्कः । स च शैलेशीं गतः किञ्चिदवतिष्ठमानायुःशेषोऽप्युपचारत: स्यादत उक्तं क्षीणायुरिति । आयुः कर्मविप्रमुक्त इति निगमनम् । किञ्चात्रवृत्तिकारोद्धृते निशीथभाष्यपाठे तु 'सुहपडिबोहो निद्दा दुहपडिबोहो य निद्दनिद्दा य' इत्येवं यदुक्तं तेन ‘सुहपडिबोहो' इत्यस्य निद्राविशेषणत्वाभावो ज्ञायते, पुल्लिङ्गत्वात् । ततश्च 'सुखेन प्रतिबोधो यस्याः सा निद्रा, दुःखेन प्रतिबोधो यस्याः सा निद्रानिद्रा' इत्येवं 'यस्याः' इत्यस्याध्याहारेण यथाऽर्थः क्रियते, तथा 'पयला होइ ठियस्सा पयलापयला य चकमओ ।।' इत्यत्रापि तस्याध्याहारेणार्थकरणे न कोऽपि दोषः । तथा च 'स्थितस्य प्रतिबोधो यस्याः सा प्रचला, चङ्क्रमतः प्रतिबोधो यस्याः सा प्रचलाप्रचला' इति लक्षणे पर्यवस्यत एव । ९१. अपुर्नर्भाविमोहोदय इत्यर्थ इति । अत एव चातुर्गतिका जीवा अनंतानुबन्धिकर्मांशान् यया प्रक्रियया सर्वान् क्षपयन्ति सा विसंयोजनोच्यते, न तु क्षपणा । अयम्भावः- जीवो यदा मिथ्यात्वमोहनीयादीनां क्षपणां करोति, तदा तत्कर्मांशान् यन्निर्जरयति तत्तु तद्गौणं फलं, परन्तु तया प्रक्रिययाऽनादिकालादात्मनि वर्तमानां तत्तत्कर्मबन्धोदयादीनां योग्यतां यन्नाशयति तदेव तन्मुख्यं फलम्। अर्थाद् योग्यतायाः क्षय एव क्षपणाशब्देन मुख्यतयोच्यते । अत एव चरमशरीरिणामायुष्कत्रिकस्य बन्धोदयादीनामसत्त्वेऽपि क्षपक श्रेणेः पूर्वं क्षयो न व्यवह्रियते, अपि तु क्षपकश्रेणावष्टमगुणस्थानकादारभ्यैव व्यवह्रियते, तत्रैव तद्योग्यताया नाशात्। तथोपशमश्रेणौ नरकायुषस्तिर्यगायुषश्चाविद्यमानत्वेऽपि योग्यताया अक्षीणत्वात् संभवसत्ता पूर्वाचार्यैः कथिता । दर्शनमोहनीयानामक्षपका अपि जीवा अनन्तानुबन्धिकषायकर्मांशान् सर्वान् यत्क्षपयन्ति तत्र तद्योग्यता त्वक्षीणैवावतिष्ठते, अन्यथा पुनः मिथ्यात्वोदये तद्बन्धोदयादयः कथं प्रवर्तेरन् ? Page #181 -------------------------------------------------------------------------- ________________ १६४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं विभंगणाणलद्धी, खओवसमिया चक्खुदंसणलद्धी एवमचक्खुदंसणलद्धी ओहिदसणलद्धी, एवं सम्मइंसणलद्धी ९२मिच्छादसणलद्धी सम्मामिच्छादसणलद्धी, खओवसमिया सामाइयचरित्तलद्धी एवं छेदोवट्ठावणलद्धी परिहारविसुद्धियलद्धी सुहुमसंपराइयलद्धी, एवं चरित्ताचरित्तलद्धी, खओवसमिया दाणलद्धी एवं लाभ० भोग० उवभोग० खयोवसमिया वीरियलद्धी, एवं पंडियवीरियलद्धी बालवीरियलद्धी बालपंडियवीरियलद्धी, खओवसमिया ____नामकर्म सामान्येन शुभाशुभभेदतो द्विविधम्, विशेषतस्तु गति-जाति-शरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशदादिभेदं स्थानान्तरादवसेयम् । तत्रेह तत्क्षयभावीनि कियन्तिचिन्नामानि अभिधत्ते- गइजाइ-सरीरेत्यादि, इह प्रक्रमान्नामशब्दो यथासम्भवं द्रष्टव्यः । ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम । एकेन्द्रियादिजातिपञ्चककारणं जातिनाम । औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम । औदारिक-वैक्रिया-ऽऽहारकशरीरत्रयाङ्गोपाङ्गनिर्वृत्तिकारणमङ्गोपाङ्गनाम । काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परं बन्धहेतुर्बन्धननाम । तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनाम । कपाटादीनां लोहपट्टादिरिवौदारिकशरीरास्थ्नां परस्परबन्धविशेषनिबन्धनं संहनननाम । एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरे न दृश्यत एव । बोन्दिस्तनुः शरीरमिति पर्याया:, अनेकाश्च ता नानाभवेषु बह्वीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिक-तैजस-कार्मणलक्षणानां तिसृणां भावात् बोन्द्यश्चानेकबोन्द्य:, तासां वृन्दं पटलम्, तदेव पुद्गलसङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसङ्घात: । गत्यादीनां च द्वन्द्वे गति-जाति-शरीराङ्गोपाङ्ग-बन्धन-संघात-संहननानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स अतस्तत्प्रक्रियां कृतवान् जीवो विसंयोजितानुबन्ध्युच्यते, न तु क्षीणानन्तानुबन्धीति । तथा च 'क्षीणमोह'शब्देन मोहस्य बन्धोदयादीनामयोग्यतैव मुख्यतः प्रतिपाद्यते। अतोऽत्र क्षीणमोह' इत्यस्यापुन विमोहोदय इत्यर्थः कृतः, न तु मोहनीयकर्मांशानां क्षयमात्र इति। ९२. मिच्छादंसणलद्धित्ति। मित्रादिदृष्टिप्राप्तानां मिथ्यात्वस्य मन्दत्वेन, सम्यग्दर्शनादिगुणावाप्तिकारणत्वेन च मिथ्यात्वेऽपि यथा गुणस्थानकव्यवहारस्तथैव तस्य लब्धित्वेन व्यवहारोऽपि न विरुद्धः । ननु तथापि तस्य क्षायोपशमिकत्वेन कथं व्यवहार इति ? शृण्वत्रोत्तरं-गाढमिथ्यात्वजनको मिथ्यात्वमोहनीयस्य यस्तीव्रो रसस्तस्य मित्रादिदृष्टिपरिणामेन क्षीणत्वादुपशान्तत्वाच्च तद्व्यवहारो ज्ञेयः। तथापि मन्दरसस्य तु तदोदय एव भवति, न तु क्षीणत्वमुपशान्तत्वञ्च, अतो ग्रन्थान्तरेषु न तस्य क्षायोपशमिकभावे समावेशः कृत इति ध्येयम् । ततश्च यथा मिश्रगुणस्थानकस्य क्वचिद्ग्रन्थे क्षायोपशमिकभावे समावेशः क्वचिच्चौदयिक एव तथैवात्रापि ज्ञेयम्। Page #182 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२४८,२४९] १६५ सोइंदियलद्धी जाव खओवसमिया फासिंदियलद्धी, खओवसमिए आयारधरे एवं सूयगडधरे ठाणधरे समवायधरे विवाहपण्णत्तिधरे एवं नायाधम्मकहा० उवासगदसा० अंतगडदसा० अणुत्तरोववाइयदसा० पण्हावागरण खओवसमिए विवागसुयधरे खओवसमिए दिट्टिवायधरे, खओवसमिए णवपुव्वी जाव चोद्दसपुव्वी, खओवसमिए गणी खओवसमिए वायए। सेतं खओवसमनिप्फण्णे । सेतं खओवसमिए । (सू० २४८) से किं तं पारिणामिए ? पारिणामिए दुविहे पण्णत्ते । तंजहासादिपारिणामिए य १, अणादिपारिणामिए य २।। (सू० २४९) से किं तं सादिपारिणामिए ? सादिपारिणामिए अणेगविहे पण्णत्ते । तंजहा जुण्णसुरा जुण्णगुलो जुण्णघयं जुण्णतंदुला चेव । अब्भा य अब्भरुक्खा संझा गंधव्वणगरा य ॥२४॥ उक्कावाया, दिसादाघा, गजिय, विजू, णिग्घाया, जूवया, जक्खालित्ता, धूमिया, महिया, रयुग्घाओ, चंदोवरागा, सूरोवरागा, चंदपरिवेसा, सूरपरिवेसा, पडिचंदया, पडिसूरया, इंदधणू, उदगमच्छा ,कविहसिया, अमोहा, वासा, वासधरा, गामा, णगरा, घरा, पव्वता, पायाला, भवणा, निरया, रयणप्पभा, सक्करप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमा, तमतमा, सोहम्मे, ईसाणे, जाव आणए, पाणए, आरणे, अच्चुए, गेवेजे, तथा । प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतम्, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेष: । क्षीणम् अपगतं तीर्थकर-शुभ-सुभग-सुस्वरा-ऽऽदेययश:कीर्त्यादिकं शुभं नाम यस्य स तथा । क्षीणम् अपगतं नरकगत्यशुभ-दुर्भग-दु:स्वरा-ऽनादेयाऽयश:कीर्त्यादिकमशुभं नाम यस्य स तथा । अनाम-निर्नाम-क्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीया: । शुभाशुभनामविप्रमुक्त इति निगमनम् । गोत्रं द्विधा- उच्चैर्गोत्रं नीचेोत्रं च । ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखावसेयान्येव । दानान्तरायादिभेदादन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च क्षीणदानान्तरायादिनामान्यविषमाण्येव । तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुन: समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याह- सिद्धे इत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धः । बोधात्मकत्वादेव बुद्धः । बाह्याऽऽभ्यन्तरग्रन्थबन्धनमुक्तत्वात् मुक्त: । परि समन्तात् सर्वप्रकारैः निर्वृत: सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात शीतीभूत: परिनिर्वृत: । समस्तसंसारान्तकृत्त्वादन्तकृदिति। एकान्तेनैव शारीरमानसदु:खप्रहाणात् सर्वदुःखप्रहीण इति । सेत्तमित्यादि निगमनद्वयम् । Page #183 -------------------------------------------------------------------------- ________________ १६६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अणुत्तरोववाइया, ईसीपन्भारा, परमाणुपोग्गले, दुपदेसिए जाव अणंतपदेसिए । सेतं सादिपारिणामिए। (सू० २५०) से किं तं अणादिपारिणामिए ? अणादिपारिणामिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिया अभवसिद्धिया । सेतं अणादिपारिणामिए । सेतं पारिणामिए । ___उक्तो द्विविधोऽपि क्षायिकः, अथ क्षायोपशमिकमाह - से किं तमित्यादि । असावपि द्विस्वरूप:क्षयोपशमस्तन्निष्पन्नश्च । तत्र विवक्षितज्ञानादिगुणविघातकस्य कर्मण ९३उदयप्राप्तस्य क्षय: सर्वथाऽपगमः, अनुदीर्णस्य तु तस्यैवोपशमो विपाकत उदयाभाव इत्यर्थः, ततश्च क्षयोपलक्षित उपशम: क्षयोपशम: । ननु चौपशमिकेऽपि यदुदयप्राप्तं तत् सर्वथा क्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयो: क: प्रतिविशेष: ? उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेष:। तत्र चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायाणां य: क्षयोपशमरूप: क्षायोपशमिको भाव: । णमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति । शेषकर्मणां तु क्षयोपशमो नास्त्येव, निषिद्धत्वात् । सेत्तमित्यादि निगमनम् । ___९३. उदयप्राप्तस्य क्षय इति । ननु मिथ्यात्वगुणस्थानवर्तिनां जीवानां सम्यक्त्वगुणविघातकस्य मिथ्यात्वमोहनीयस्य कर्मण उदयप्राप्तस्य = उदयप्राप्तनिषेकगतदलिकस्य सर्वथाऽपगमलक्षण: क्षयो भवत्येवेति तस्यापि क्षयोपशमघटकीभूतस्य क्षयस्य सत्त्वापत्तिरिति । न चेष्टापत्तिरिति वक्तव्यं, तेन क्षयेन कस्यचिदपि गुणस्य वार्ता तु दूरे, प्रत्युत सम्यक्त्वगुणविघातस्यैव जायमानत्वादिति चेत् ?, न, अभिप्रायापरिज्ञानात् । तथाहि-चतुर्थनिषेकगतं दलिकमाश्रित्य व्यवहारनयेन यदि चिन्त्यते, तदा चतुर्थसमये तद्दलिकस्य विपाकोदयवशात् सम्यक्त्वगुणस्य विघातो भवति, मिथ्यात्वञ्चोज्जृम्भते, पञ्चमसमये च तद्दलिकस्य निर्जेरणात् क्षयो भवति । ततश्च चतुर्थसमये यः सम्यक्त्वगुणस्य विघातः, मिथ्यात्वदोषस्य चोज्जृम्भणं, न तत् चतुर्थनिषेकगतदलिकस्य क्षयेण, अपि तु विपाकोदेयेनेति स्पष्टम् । तथा चतुर्थसमये तस्य क्षयोऽपि न विद्यत एव, चतुर्थसमय उदयप्राप्तत्वेन पञ्चमक्षणे क्षीयमाणत्वात्। ननु तर्हि पञ्चमक्षणे क्षयस्य सत्त्वात् तेन सम्यक्त्वविघाताभावप्रसङ्ग इति चेत्, चतुर्थनिषेकगतदलिकस्य पञ्चमक्षणे सम्यक्त्वविघातसामर्थ्याभावादिष्टापत्तिरेवेति चेत् ? तर्हि पञ्चमक्षणे सम्यक्त्वगुणः प्रादुर्भवेदिति चेत् ? प्रादुर्भवेदेव यदि पञ्चमनिषेकगतं दलिकं स्वविपाकोदयेन तं न विहन्यात्। नन्वेवं मिथ्यात्ववतां जीवानां व्यवहारनयेन चतुर्थसमये चतुर्थनिषेकगतस्य दलिकस्य Page #184 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२५१] १६७ (सू० २५१) से किं त सण्णिवाइए ? सण्णिवाइए एतेसिं चेव उदइय-उवसमियखइय-खओवसमिय-पारिणामियाणं भावाणं दुयसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जे निप्पजंति सव्वे से सन्निवाइए नामे । तत्थ णं दस दुगसंजोगा, दस तिगसंजोगा, पंच चउक्कसंजोगा, एक्के पंचगसंजोगे। तेन च क्षयोपशमेनोक्तस्वरूपेण निष्पन्न: क्षायोपशमिको भावोऽनेकधा भवति, तमाहखाओवसमिता आभिणिबोहियणाणलद्धीत्यादि, आभिनिबोधिकज्ञानं मतिज्ञानं तस्य लब्धि: योग्यता स्वावरणकर्मक्षयोपशमसाध्यत्वात् क्षायोपशमिकी, एवं तावद् वक्तव्यं यावन्मन:पर्यायविपाकोदयो भवति, तेन च सम्यक्त्वगुणघातो भवति, पञ्चमक्षणे तद्दलिकस्य निर्जराऽपराख्यः क्षयो भवति, न च स क्षयः क्षयोपशमघटकीभूतः, गुणप्रादुर्भावं प्रत्यकिञ्चित्करत्वादित्यादि निश्चितम् । ततश्च सम्यक्त्वप्रादुर्भावकारणीभूतक्षयोपशमघटकीभूतः क्षयः किंस्वरूप इति चेत्, शृणु-क्षायोपशमिकसम्यक्त्ववतां जीवानां चतुर्थे निषेके मन्दद्विरथानिकं यावत् सम्यक्त्वमोहनीयसम्बन्धिदेशघातिरसो, मध्यमद्विस्थानिकं यावद् मिश्रमोहनीयसम्बन्धिसर्वघातिरसस्तदुपरि चतुःस्थानिकं यावद् मिथ्यात्वमोहनीयसम्बन्धिसर्वघातिरसश्च भवति । चतुर्थे समये जीवस्य सम्यक्त्वगुणानुरूपा या च यावती च विशुद्धिस्तत्प्रभावेण तन्निषेकगतस्य मिश्र-मिथ्यात्वमोहनीयदलिकस्य रसो हन्यते, सम्यक्त्वमोहनीयदलिकस्यापि विपाकोदयप्राप्तरसादधिको यो रसः सोऽपि हन्यते । यथा यथा विशुद्धिर्वर्धते तथा तथा विपाकोदयप्राप्तरसस्य प्रमाणं हीयते, हन्यमानरसस्य प्रमाणं वर्धते, सम्यक्त्वञ्च निर्मलीभवति । यथा यथा च सा विशुद्धिीयते तथा तथा वैपरीत्यं ज्ञेयम्। विशुद्धिवशाज्जायमानेयं रसहानिरेव 'उदयप्राप्तस्य क्षयः' इति वाक्यखण्डेनोच्यते। तथोदयावलिकाबहिर्वर्तिनिषेकेभ्यो यद्दलिकमपवर्तनयोदीरणया चोदयमासादयति तस्मादपि विपाकोदयप्राप्तादधिको यो रसः स सर्वोऽपि विशुद्धिवशादुदयप्राप्तरसं यावदल्पीक्रियते। अयमपि तेनैव वाक्यखण्डेन प्रतिपाद्यमानः क्षय एव ज्ञेयः। यच्चोदयावलिकाबहिर्वर्तिनिषेकगतं दलिकमुदीरणादिनोदयं नासादयति, किन्तु तत्रैवावतिष्ठते, तद्दलिकगतो योऽधिको रसस्तस्य यद्यपि क्षयो न भवति, तथाप्युपशमस्तु भवत्येव, उदीरणादिनोदयमासाद्य सम्यक्त्वगुणघातं यथा न विदध्यात्तथावस्थां प्राप्यत इत्यर्थः । किञ्च हीनरसत्वेन तु तद्दलिकमुदीरणादिनोदयमासादयेदपि । अतो ज्ञायते यद् दलिकमनुपशान्तमेव वर्तते, तद्गतोऽधिको रस एवोपशान्तो वर्तते । अयं विपाकोपशमः कथ्यते । एवञ्च स्वत उदीरणादिना वोदयप्राप्तं यद्दलिकं तद्गतस्याधिकरय रसस्य यो घातः स क्षयः, यत्त्वनुदीर्णं तद्गतस्याधिकस्य रसस्य य उदयायोग्यत्वापादनं स उपशमः। अनयोर्द्वयोः क्षय-उपशमयोः प्रभावात् सम्यक्त्वं यतः प्रादुर्भवति, अतस्तत् Page #185 -------------------------------------------------------------------------- ________________ १६८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २५२) तत्थ णं जे ते दस दुगसंजोगा ते णं इमे-अस्थि णामे उदइए उवसमनिप्पण्णे १, अत्थि णामे उदइए खयनिप्पण्णे २, अत्थि णामे उदइए खओवसमनिप्पण्णे ३ ,अत्थि णामे उदइए पारिणामियनिप्पण्णे ४, अत्थि णामे उवसमिए खयनिप्पण्णे ५, अत्थि णामे उवसमिए खओवसमनिप्पन्ने ६, अत्थि णामे उवसमिए पारिणामियनिप्पन्ने ७, अत्थि णामे खइए खओवसमनिप्पन्ने ८, अत्थि णामे खइए पारिणामियनिप्पन्ने ९, अत्थि णामे खयोवसमिए पारिणामियनिप्पन्ने १० । (सू० २५३) कतरे से नामे उदइए उवसमनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया, एस णं से णामे उदइए उवसमनिप्पन्ने १ । कतरे से नामे उदइए खयनिप्पन्ने ? उदए त्ति मणूसे खतियं सम्मत्तं, एस णं से नामे उदइए खयनिप्पन्ने २ । कतरे से णामे उदइए खयोवसमनिप्पन्ने ? उदए त्ति मणूसे खयोवसमियाइं इंदियाई, एस णं से णामे उदइए खयोवसमनिप्पन्ने ३। कतरे से णामे उदइए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे पारिणामिए जीवे, एस णं से णामे उदइए पारिणामियनिष्पन्ने ४ । कयरे से णामे उवसमिए खयनिप्पन्ने ? उवसंता कसाया खइयं सम्मत्तं, एस णं से णामे उवसमिए खयनिप्पन्ने ५ । कयरे से णामे उवसमिए खओवसमनिप्पण्णे? उवसंता कसाया खओवसमियाइं इंदियाई, एस णं से णामे उवसमिए खओवसमनिप्पन्ने ६ । कयरे से णामे उवसमिए पारिणामियनिप्पन्ने ? उवसंता कसाया पारिणामिए जीवे, एस णं से णामे उवसमिए पारिणामियनिप्पन्ने ९ । कतरे से णामे खइए खओवसमियनिप्पन्ने ? खइयं सम्मत्तं खयोवसमियाइं इंदियाई, एस णं से णामे खइए खयोवसमनिप्पन्ने ८ । कतरे से णामे खइए पारिणामियनिप्पन्ने ? खइयं सम्मत्तं पारिणामिए जीवे, एस णं से णामे खइए पारिणामियनिप्पन्ने ९। कतरे से णामे खयोवसमिए पारिणामियनिप्पन्ने? खयोवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से णामे खयोवसमिए पारिणामियनिप्पन्ने १० । ज्ञानलब्धि:, केवलज्ञानलब्धिस्तु स्वावरणकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता। ९४कुत्सितं ज्ञानमज्ञानम्, मतिरेव अज्ञानं मत्यज्ञानम्, कुत्सितत्वं चेह मिथ्यादर्शनोदयदूषितत्वात् द्रष्टव्यम्, दृष्टा च कुत्सार्थे नञो वृत्तिः, यथा कुत्सितं शीलमशीलमिति, मत्यज्ञानस्य लब्धि: योग्यता, साऽपि क्षायोपशमिकमुच्यते। सम्यक्त्वमोहनीयस्य विपाकोदयप्राप्तो यावन्मात्रो रसः, स सामर्थ्याभावाद् यद्यपि सम्यक्त्वं न हन्ति, तथाप्यतिचारं त्वापादयत्येवेति ध्येयम् । ९४. कुत्सितं ज्ञानमज्ञानमिति । ततश्चात्रा ज्ञान' शब्दे ज्ञानभिन्नत्वबोधकः पर्युदासनम बोध्यः, न तु ज्ञानाभावबोधकः प्रसज्यनमिति । Page #186 -------------------------------------------------------------------------- ________________ १६९ श्रीअनुयोगद्वारसूत्रम् [सू०२५४] (सू० २५४) तत्थ णं जे ते दस तिगसंजोगा ते णं इमे-अत्थि णामे उदइए उवसमिए खयनिप्पन्ने १, अत्थि णामे उदइए उवसमिए खओवसमनिप्पन्ने २, अत्थि णामे उदइए उवसमिए पारिणामियनिप्पन्ने ३, अत्थि णामे उदइए खइए खओवसमनिप्पन्ने ४, अत्थि णामे उदयिए खइए पारिणामियनिप्पन्ने ५, अत्थि णामे उदइए खयोवसमिए पारिणामियनिप्पन्ने ६, अत्थि णामे उवसमिए खइए खओवसमनिप्पन्ने ७, अत्थि णामे उवसमिए खइए पारिणामियनिप्पन्ने ८, अत्थि णामे उवसमिए खओवसमिए पारिणामियनिप्पन्ने ९, अत्थि णामे खइए खओवसमिए पारिणामियनिप्पन्ने १० । स्वावरणक्षयोपशमेनैव निष्पद्यते । एवं श्रुताज्ञानलब्धिरपि वाच्या। भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधेरेव गृह्यते, विरूप: कुत्सितो भङ्गो विभङ्गः, स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानम्, मिथ्यादृष्टिदेवादेरवधिर्विभङ्गज्ञानमुच्यते इत्यर्थः । इह च विशब्देनैव कुत्सितार्थप्रतीतेन नञो निर्देश:, तस्य लब्धि: योग्यता, साऽपि स्वावरणक्षयोपशमेनैव प्रादुरस्ति। एवं मिथ्यात्वादिकर्मण: क्षयोपशमसाध्या: शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीया: । नवरं बाला अविरता:, पण्डिता: साधवः, बालपण्डितास्तु देशविरताः, तेषां यथास्वं वीर्यलब्धिर्वीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि ९५भावेन्द्रियाणि गृह्यन्ते, तेषां च लब्धि: योग्यता मतिश्रुतज्ञानचक्षुरचक्षुर्दर्शनावरणक्षयोपशमजत्वात् क्षायोपशमिकीति भावनीयम्। आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात्, तस्य च तदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दा इह पठ्यन्ते इति प्रतिपत्तव्यमिति । सेत्तमित्यादि निगमनद्वयम् । अथ पारिणामिकं भावमाश्रित्याह - से किं तमित्यादि । सर्वथा अपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं परिणमनं स परिणाम: । तदुक्तम् - परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः ।।१।। ( ) इति । स एव तेन वा निर्वृत्त: पारिणामिकः । सोऽपि द्विविध: सादिरनादिश्च। तत्र सादिपारिणामिको जुण्णसुरेत्यादि जीर्णसुरादीनाम्, जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणामिकता । इह चोभयावस्थयोरप्यनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेण भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णाना सुरादीनां ग्रहणम्, अन्यथा नवेष्वपि तेषु सादिपारिणामिकता अस्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणते:, अन्यथा कार्यानुत्पत्तिप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते, स्था ___९५. भावेन्द्रियाणीति। निर्वृत्युपकरणरूपाणां द्रव्येन्द्रियाणां पर्याप्त्यादिनामकर्मोदयजन्यत्वात्तद्व्यवच्छेदार्थमत्र भावेन्द्रियाणीत्युक्तम्। Page #187 -------------------------------------------------------------------------- ________________ १७० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २५५) कतरे से णामे उदइए उवसमिए खयनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं, एस णं से णामे उदइए उवसमिए खयनिप्पन्ने १ । कतरे से णामे उदइए उवसमिए खयोवसमियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खयोवसमियाई इंदियाई, एस णं से णामे उदइए उवसमिए खओवसमनिप्पन्ने २ । कयरे से णामे उदइए उवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया पारिणामिए जीवे, एस णं से णामे उदइए उवसमिए पारिणामियनिप्पन्ने ३ । कयरे से णामे उदइए खइए नान्तरवक्तव्यत्वादस्यार्थस्येति । अभ्राणि सामान्येन प्रतीतान्येव । अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि । सन्ध्या काल-नीलाद्यभ्रपरिणतिरूपा प्रतीतैव । गन्धर्वनगराण्यपि सुरसा-प्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि प्रतीतान्येव । उल्कापाता अपि व्योमसम्मूर्च्छितज्वलनपतनरूपा: प्रसिद्धा एव । दिग्दाहास्तु अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपा: प्रतिपत्तव्या: । गर्जितविद्युन्निर्घाता: प्रतीता: । यूपकास्तु संझाच्छेयावरणो य जूयओ सुक्के दिण तिन्नी(आवश्यकनि० १३३५)ति गाथादलप्रतिपादितस्वरूपा आवश्यकादवसेया: । यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचा: । धूमिका रूक्षा प्रविरला धूमाभा प्रतिपत्तव्या । महिका तु स्निग्धा घना, स्निग्धत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते। रजउद्घातो रजस्वला दिश: । चन्द्र-सूर्योपरागा राहुग्रहणानि, बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावाद् मन्तव्यमिति चूर्णिकारः । चन्द्र-सूर्यपरिवेषा: चन्द्रादित्ययो: परितो वलयाकारपुद्गलपरिणतिरूपा: सुप्रतीता एव । प्रतिचन्द्रः उत्पातादिसूचको द्वितीयश्चन्द्रः । एवं प्रतिसूर्योऽपि । इन्द्रधनु: प्रसिद्धमेव । उदकमत्स्यास्तु इन्द्रधनु:खण्डान्येव । कपिहसितानि अकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि। अमोघा: सूर्यबिम्बादध: कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखा: । वर्षाणि भरतादीनि । वर्षधरास्तु हिमवदादय: । पाताला: पातालकलशा: । शेषास्तु ग्रामादय: प्रसिद्धा एव । अत्राह- ननु वर्षधरादय: शाश्वतत्वात् न कदाचित् तद्भावं मुञ्चन्ति, तत् कथं सादिपारिणामिकभाववर्तित्वं तेषाम्, ? नैतदेवम्, तदाकारमात्रतयैव हि तेऽवतिष्ठमाना: शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्ख्येयकालादूर्ध्वं न तेषु त एवावतिष्ठन्ते, किन्त्वपरापरे तद्भावेन परिणमन्ति तावत्कालादूर्ध्वं पुद्गलानामेकपरिणामेनावस्थिते: प्रागेव निषिद्धत्वादिति सादिपारिणामिकता न विरुध्यते । अनादिपारिणामिके तु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणतेः । वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनीयानि । सेतमित्यादि निगमनद्वयम् । उक्त: पारिणामिकः, अथ सान्निपातिकं निर्दिशति- से किं तमित्यादि । सन्निपात: एषामेवौदयिकादिभावानां व्यादिमेलापकः, स एव तेन वा निर्वृत्त: सान्निपातिकः । तथा चाह- एएसिं Page #188 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२५५] खओवसमनिप्पन्ने ? उदए त्ति मणूसे खड़यं सम्मत्तं खओवसमियाइं इंदियाई, एस णं से णामे उदइए खइए खओवसमनिप्पन्ने ४ । कतरे से णामे उदइए खइए पारिणामियनिप्पन्ने ? उदये त्ति मणूसे खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उदइए खइए पारिणामियनिप्पन्ने ५। कतरे से णामे उदइए खओवसमिए पारिणामियनिप्पन्ने ? उदये त्ति मणूसे खयोवसमियाई इंदियाई पारिणामिए जीवे, एस णं से णामे उदइए खओवसमिए पारिणामियनिप्पन्ने ६। कतरे से णामे उवसमिए खइए खओक्समनिप्पन्ने ? उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाइं, एस णं से णामे उवसमिए खइए खओवसमनिप्पन्ने ७ । कतरे चेवे त्यादि। एषामौदयिकादीनां पञ्चानां भावानां द्विक-त्रिक-चतुष्क-पञ्चकसंयोगैर्ये षड्विंशतिर्भङ्गा: भवन्ति, ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते । एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गा: सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुन: क्वचित् सम्भवन्ति, अत: प्ररूपणामात्रतयैव ते अवगन्तव्याः, एतत् सर्वं पुरस्ताद् व्यक्तीकरिष्यते, कियन्तः पुनस्ते द्व्यादिसंयोगा: प्रत्येकं भवन्ति ? इत्याह - तत्थ णं दस दुगसंजोगा इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगा:, दशैव च त्रिकसंयोगा: पञ्च चतु:संयोगा:, एकस्तु पञ्चकसंयोग: संपद्यत इति सर्वेऽपि षड्विंशतिः। ____ तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह - तत्थ णं जे ते दस दुगसंयोगा ते णं इमे इत्यादि । नामाधिकारादित्थमाह- अस्ति तावत् सन्निपातिकभावान्तर्वति नाम, विभक्तिलोपादौदयिकौपशमिकलक्षणभावद्वयनिष्पन्नमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सह संयोगादौदयि-केन चत्वारो द्विकयोगा लब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपशमिकस्य पारिणामिकमीलने लब्ध एक इति सर्वेऽपि दश। एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः पृच्छति - कतरे से णामे उदइए ? इत्यादि । अत्रोत्तरम् - उदए त्ति मणूसे इत्यादि, औदयिके भावे मनुष्यत्वं मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदम्, तिर्यगादिगतिजातिशरीरनामादिकर्मणामप्यत्र सम्भवात् । उपशान्तास्तु कषाया औपशमिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीययोरप्यौपशमिकत्वसम्भवात् । एतन्निगमयति- एस णं से णामे उदइए उवसमनिप्फण्णे त्ति, णमिति वाक्यालङ्कारे, एतत्तन्नाम यदुद्दिष्टं प्रागौदयिकौपशमिकभावद्वयनिष्पन्नमिति प्रथमद्विकयोगभङ्गकव्याख्यानम् । अयं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्ग: Page #189 -------------------------------------------------------------------------- ________________ १७२ आ.श्रीमलधारिहमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं से णामे उवसमिए खइए पारिणामियनिप्पन्ने ? उवसंता कसाया खइयं सम्मत्तं पारिणामिए जीवे, एस णं से णामे उवसमिए खइए पारिणामियनिप्पन्ने ८ । कतरे से णामे उवसमिए खओवसमिए पारिणामियनिप्पन्ने ? उवसंता कसाया खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से णामे उवसमिए खओवसमिए पारिणामियनिप्पन्ने ९ । कतरे से णामे खइए खओवसमिए पारिणामियनिप्पन्ने ? खइयं सम्मत्तं खओवसमियाई इदियाइं पारिणामिए जीवे, एस णं से णामे खइए खयोवसमिए पारिणामियनिप्पन्ने १० । क्वचिज्जीवे संभवति । तथाहि- यस्यौदयिकी मनुष्यगतिरौपशमिका: कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वं कस्यचित् क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत् कथमस्य केवलस्य सम्भव: ? एवमेतद्व्याख्यानुसारेण शेषा अपि व्याख्येया:, केवलं क्षायिक-पारिणामिकभावद्वयनिष्पन्नं नवमभङ्गं विहायापरेऽसम्भविनो द्रष्टव्या: । नवमस्तु सिद्धस्य संभवति, तथाहिक्षायिके सम्यक्त्व-ज्ञाने पारिणामिकं तु जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः। तस्मादयमेक: सिद्धस्य संभवति, शेषास्तु नव द्विकयोगा: प्ररूपणामात्रमिति स्थितम्। अन्येषां हि संसारिजीवानामौदयिकी गति: क्षायोपशमिकानीन्द्रियाणि पारिणामिकं तु जीवत्वमित्येतद् भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव: ? इति भावः ।। त्रिकयोगान्निर्दिदिक्षुराह- तत्थ णं जे ते दस तिगसंजोगा ते ण इमे इत्यादि । एतेऽप्यौदयिकोपमिशमिक-क्षायिक-क्षायोपशामक-पारिणामिकभावपञ्चक भूम्यादावालिख्य तत आधभावद्वयस्योपरितनभावत्रयेण सह चारणाया लब्धास्त्रय: इत्यादिक्रमेण दशापि भावनीया: । एतानेव स्वरूपतो विवरीषुराह - कयरे से णामे उदइए उवसमिए इत्यादि । व्याख्यापि पूर्वानुसारतोऽत्रापि कर्तव्या। नवरमत्रौदयिक-क्षायिक-पारिणामिकभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिन: संभवति । तथाहि - औदयिकी मनुष्यगतिः, क्षायिकाणि ज्ञान-दर्शन- चारित्राणि. पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति। औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्. मोहनीयस्य च केलिन्यसम्भवात्, तथा १६क्षायोपशमिकोऽपि अत्रापास्य एव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवात, अतीन्द्रिया: केवलिन: ( ) इत्यादिवचनात, तस्मात् पारिशेष्याद्यथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिन: सम्भवति । षष्ठस्त्वौदयिक-क्षायोपशमिक-पारिणामिकभावनिष्पन्नो नारकादिगतिचतुष्टयेऽपि संभवति । तथाहि- औदयिकी अन्यतरा गतिः, क्षायोपश ९६. क्षायोपशमिकोऽप्यत्रापास्य एवेति । क्षायोपशमिकभावस्य घातिकर्माश्रयत्वेनोक्तत्वात्, तस्य च केवलिन्यसम्भवादित्यपि हेतुरत्र ज्ञेयः । Page #190 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२५६,२५७] १७३ (सू० २५६) तत्थ णं जे ते पंच चउक्कसंयोगा ते णं इमे-अत्थि णामे उदइए उवसमिए खइए खओवसमनिप्पन्ने १, अत्थि णामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने २, अत्थि णामे उदइए उवसमिए खयोवसमिए पारिणामियनिप्पन्ने ३, अत्थि जामे उदइए खइए खओवसमिए पारिणामियनिप्पन्ने ४, अत्थि णामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ५ । (सू० २५७) कतरे से णामे उदइए उवसमिए खइए खओवसनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं खओवसमियाई इंदियाई, एस णं से णामे उदइए उवसमिए खड़ए खओवसमनिप्पन्ने १ । कतरे से नामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं पारिणामिए जीवे, एस णं से णामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने २ । कतरे से णामे उदइए उवसमिए खओवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से णाम उदइए उवसमिए खओवसमिए पारिणामियनिप्पन्ने ३ । कतरे से नामे उदइए खइए खओवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे खइयं सम्मत्तं खओवसमियाई इंदियाई पारिणामिए जीवे, एस णं से नामे उदइए खइए खओवसमिए पारिणामियनिप्पन्ने ४ । कतर से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ? उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ५ । मिकानीन्द्रियाणि, पारिणामिक जीवत्वमित्येवमेतद् भावत्रयं सर्वास्वपि गतिषु जीवानां प्राप्यत इति । शेषास्त्वष्टौ त्रिकयोगा: प्ररूपणामात्रम, क्वाप्यसम्भवादिति भावनीयम् । चतुष्कसंयोगान्निर्दिशन्नाह - तत्थ णं जे ते पंच चउक्कसंजोगा इत्यादि । भङ्गकरचना अकृच्छ्रावसेयैव । इदानीं तानेव पञ्च भङ्गान व्याचिख्यासुराह - कयरे से नामे उदइए इत्यादि, भावना पूर्वाभिहितानुगुण्येन कर्तव्या । नवरमत्रौदयिकोपमिकक्षायोपशमिकपारिणामिकभावनिष्पन्नस्तृतीयभङ्गो गतिचतुष्टयेऽपि संभवति । तथाहि - औदयिकी अन्यतरा गतिः, नारकतिर्य देवगतिषु प्रथमसम्यक्त्वलाभकाले एव मनुष्यगतौ तु तत्रोपशमश्रेण्या चौपशमिकं सम्यक्त्वम्, क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वमित्येवमयं भङ्गक: सर्वासु गतिषु लभ्यते । यत्त्वेिह सूत्रे प्रोक्तम् उदए त्ति मणूसे उवसंता कसाय त्ति तत् मनुष्यगत्यपेक्षयैव द्रष्टव्यम्, मनुष्यत्वोदयस्योपशमश्रेण्यां कषायोपशमस्य च तस्यामेव भावाद् अस्य चोपलक्षणमात्रत्वादिति । एवमौदयिक-क्षायिकक्षायोपशमिक-पारिणामिकभावनिष्पन्नश्चतुर्थभङ्गोऽपि चतसृष्वपि गतिषु संभवति । भावना Page #191 -------------------------------------------------------------------------- ________________ १७४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचिटिप्पणीसमेत (सू० २५८) तत्थ णं जे से एक्के पंचकसंजोगे से णं इमे-अत्थि नामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने १। (सू० २५९) कतरे से नामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से णामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने । सेतं सन्निवाइए। सेतं छण्णामे। (सू० २६०) (१) से किं तं सत्तनामे ? सत्तनामे सत्त सरा पण्णत्ता । तंजहासजे १ ,रिसभे २, गंधारे ३, मज्झिमे ४, पंचमे सरे ५ । धेवए ६, चेव णेसाए ७, सरा सत्त वियाहिया ॥२५।। त्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या, नवरमौपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम्, अस्ति च क्षायिकसम्यक्त्वं सर्वास्वपि गतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च तस्यान्यत्र प्रतिपादितत्वादिति । तस्मादत्राप्येतौ द्वौ भङ्गको सम्भविनौ, शेषास्तु त्रय: संवृतिमात्रम्, तद्रूपेण वस्तुन्यसम्भवादिति । साम्प्रतं पञ्चकसंयोगमेकं प्ररूपयन्नाह - तत्थ णं जे से एक्के पंचकसंजोगे इत्यादि । अयं च सविवरण: सुगम एव, केवलं क्षायिक: सम्यग्दृष्टिः सन् य उपशमश्रेणी प्रतिपद्यते तस्यायं भङ्गक: संभवति, नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः । तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोग-चतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकसंयोगभङ्गक इत्येते षड्भङ्गका अत्र सम्भविन: प्रतिपादिताः, शेषास्तु विंशति: संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम् । एतेषु च षट्सु भङ्गकेषु मध्ये एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अतो गतिचतुष्टयभेदात् ते किल द्वादश विवक्ष्यन्ते, ये तु शेषा द्विकयोगत्रिकयोग-पञ्चकयोगलक्षणास्त्रयो भङ्गा: सिद्ध-केवल्युपशान्तमोहानां यथाक्रमं निर्णीता:, ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय एवेत्यनया विवक्षयाऽयं सान्निपातिको भाव: स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यः । यदाह- अविरुद्धसन्निवाइयभेया एमेते पण्णरस ( ) ति । सेत्तं सण्णिवाइए त्ति निगमनम् । उक्त: सान्निपातिको भावः, तद्भणने चोक्ता: षडपि भावा:, ते च तद्वाचकैर्नामभिर्विना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि । एतैश्च षभिरपि धर्मास्तिकायादेः समस्तस्यापि वस्तुन: सङ्ग्रहात् षट्प्रकारं सत् सर्वस्यापि वस्तुनो नाम षड्नामेत्यनया दिशा सर्वमिद भावनीयम् । सेत्तं छनामे त्ति निगमनम् । उक्तं षड्नाम, अथ सप्तनाम निरूपयितुमाह- से किं तं सत्तनामे इत्यादि। स्वृ शब्दोपतापयो: Page #192 -------------------------------------------------------------------------- ________________ १७५ श्रीअनुयोगद्वारसूत्रम् [सू०२६०] (२) एएसि णं सत्तण्हं सराणं सत्त सरट्ठाणा पण्णत्ता । तंजहा - सज्जं च अग्गजीहाए १, उरेण रिसहं सरं २ । कंठुग्गतेण गंधारं ३, मज्झजीहाए मज्झिमं ४ ॥२६॥ नासाए पंचमं बूया ५, दंतोटेण य धेवतं ६ । भमुहक्खेवेण णेसायं ७, सरट्ठाणा वियाहिया ॥२७।। (३) सत्त सरा जीवणिस्सिया पण्णत्ता । तंजहा - सजं रवइ मयूरो १, कुक्कुडो रिसभं सरं २ । हंसो रवइ गंधारं ३, मज्झिमं तु गवेलगा ४ ॥२८॥ अह कुसुमसंभवे काले कोइला पंचमं सरं ५ । छटुं च सारसा कुंचा ६, णेसायं सत्तमं गओ ७ ॥२९॥ (का० धा० ११२७१ ) इति, स्वरणानि स्वरा: ध्वनिविशेषाः, ते च सप्त, तद्यथा - सजे इत्यादि श्लोकः । व्याख्या - षड्भ्यो जात: षड्ज: । उक्तं च - नाशां कण्ठमुरस्तालु जिह्वां दन्ताँश्च संश्रित:। षभि: संजायते यस्मात् तस्मात् षड्ज इति स्मृतः ॥१।। ( ) तथा ऋषभो वृषभः, तद्वद् यो वर्तते स ऋषभ: । आह च - वायु: समुत्थितो नाभे: कण्ठशीर्षसमाहतः । नर्दन् वृषभवद् यस्मात् तस्माद् वृषभ उच्यते ॥२॥ ( ) तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारः, गन्धवाहविशेष इत्यर्थः, अभाणि च वायुः समुत्थितो नाभे: कण्ठ-शीर्षसमाहतः। नानागन्धावह: पुण्यो गान्धारस्तेन हेतुना ॥३।। ( तथा मध्ये कायस्य भवो मध्यम: यदवाचि - वायु: समुत्थितो नाभेरुरोहदि समाहतः । नाभिं प्राप्तो महानादो मध्यमत्वं समश्नुते ।।४।। ( तथा पञ्चाना षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरण: पञ्चमः, अथवा पञ्चसु नाभ्यादिस्थानेषु मातीति पञ्चम: स्वर: । यदभ्यधायि - वायु: समुत्थितो नाभेरुरोहत्कण्ठशिरोहत: । पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥५॥ ( Page #193 -------------------------------------------------------------------------- ________________ १७६ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं (४) सच सरा अजीवणिस्सिया पण्णत्ता । संजहा सज्जं वइ मुयंगो ? गोमुही रिसह सरं २ | संखो रखड़ गंधार झिगं पुण झल्लरी ४ ||३०|| चउचलणपतिडाणा गोहिया पंचमं सरं ५ । आडंबरो धेवइयं ६. महाभेरी य सत्तमं ७ ||३१|| (५) एएसि सत्तरहं सराणं सत्त सरलक्खणा पण्णत्ता । तंजहा सज्जेण लहड़ वित्तिं कयं च न विणस्सई । गाव पुत्ताय मित्ताय नारीणं होति वल्लहो १ ||३२|| रिसहेणं तु एसज्जं सेणावच्चं धणाणि य । are गंधमलंकारं इत्थीओ सयणाणि य २ ॥ ३३॥ तथाऽतिसन्धयते अनुसंधयति शेषस्वरानिति निरुक्तिवशाद्धैवत: । यदुक्तम् - अतिसंघयते यस्मादेतान् पूर्वोदितस्वरान् । तस्मादस्य स्वस्यापि धैवतत्वं विधीयते ॥ ६॥ ( पाठान्तरेण रेवतथैवेति । तथा निषीदन्ति स्वरा यस्मिन् स निषादः यतोऽभिहितम् - निषीदन्ति स्वरा यस्मिन्निषादस्तेन हेतुना । सर्वांश्राभिभवत्येव यदादित्योऽस्य दैवतम् ॥७॥ ( ) इति । तदेवं स्वरा: जीवाजीवनिश्रितध्वनिविशेषा: सत्त वियाहिय ति विविधप्रकारैराख्यातास्तीर्थकर - गणधरैरिति श्लोकार्थ: । आह- ननु कारणभेदेन कार्यस्य भेदात् स्वराणां च जिह्वादिकारणजन्यत्वात् तद्वतां च द्वीन्द्रियादित्रसजीवानाममइख्येयत्वा जीवनिश्रिता अपि तावत् स्वरा असङ्ख्याताः प्राप्नुवन्ति, किमुताजीवनिश्रिता इति कथं सममयानियमो न विरुभ्यत इति ? अत्रोच्यते, असङ्ख्यातानामपि स्वरविशेषाणामेतेष्वेव सप्तसु सामान्यस्वरेष्वन्तर्भावाद बादराणां वा केषाञ्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद पीतोपकारिणां विशिष्टस्वराणां वक्तुमिष्टत्वाददोष इति । स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराह - एएसि णमित्यादि । तत्र नाभेरुत्थितोऽविकारी स्वर आभोगतोऽभोगतो वा यदत्र जिह्वादिस्थानं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमतः स्वरस्थानमुच्यत । तत्र सजमित्यादिश्लोकद्वयं सुगमम् । नवरं चकारोऽवधारणे, षड्जमेव प्रथमस्वलक्षणं ब्रूयात् । कयेत्याह- अगभूता जिह्वा अग्रजिह्वा, जिह्वाग्रमित्यर्थः, तया । इह यद्यपि षड्जभणने Page #194 -------------------------------------------------------------------------- ________________ १७७ श्रीअनुयोगद्वारसूत्रम् [सू०२६०] गंधारे गीतजुत्तिण्णा ववित्ती कलाहिया । हवंति कइणो पण्णा ने अपणे सत्थपागा ३ ।।३४।। मज्झिमसरमंता उ हवंति सुहजीविणो । खायती पियती देती मज्झिमस्सरमस्मिओ ४ ॥३५।। पंचमस्सरमंता उ हवंता पुहवीपती। सूरा संगहकत्तारो अणेगणरणायगा ५ ॥३६।। धेवयसरमंता उ हवंति कलहप्पिया । साउणिया वग्गरिया सोयरिया मच्छबंधा य ६ ॥३७।। चंडाला मुट्ठिया मेता, जे यऽण्णे पावकारिणो । गोघातगा य चोरा य नेसातं सरमस्सिता ७ ॥३८।। स्थानान्तराण्यपि कण्ठादीनि व्यापियन्ते अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्युक्तम् । इदमत्र हृदयम् षड्जस्वरोऽग्रजिह्वां प्राप्य विशिष्टां व्यक्तिमासादयत्यतस्तदपेक्षया सा स्वरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या । उरो वक्षस्तेन ऋषभं स्वरम्, ब्रूयादिति सर्वत्र संबध्यते । कंटुग्गएणं ति कण्ठादुद्गमनमुद्गतिः स्वरनिष्पत्तिहेतुभूता क्रिया, तेन कण्ठोदतेन गान्धारम् । जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमम् । तथा दन्ताश्चौष्ठौ च दन्तोष्टम, तेन धैवतम, रैवतं वेति, भ्रक्षेपावष्टाभेन निषादमिति ।। इत ऊर्ध्वं सर्वं निगदसिद्धमेव । नवरं जीवनिस्सिय नि जीवाश्रिता: जीवेभ्यो वा निसृता निर्गता: । सजं रखतीत्यादिश्लोकः, रतति नदति । गवेलग त्ति गावश्च एलकाश्च ऊरणका गवेलका:, अथवा गवेलका ऊरणका एव । अह कुसुमेत्यादि, अथेति विशेषणार्थ:, विशेषणार्थता चैवम्यथा गवेलका अविशेषेण मध्यमस्वरं नदन्ति न तथा पञ्चमं कोकिल:, अपि तु कुसुमसंभवे काले त्ति वनस्पतिषु बाहुल्येन कसुमागां मल्लिका पाटलादीनां साजो यस्मिन् काले स तथा, तस्मिन्, मधुमास इत्यर्थः । अजीवनिस्सिय त्ति तथैव, नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारोत्थापिता एवामी मन्तव्याः, अपरं च षड़जादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्त्यर्थो न घटते तथापि सादृश्यात् तद्भावोऽवगन्तव्यः । समित्यादि श्लोकट्टयम्, गोमुखी काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति । चतुर्भिश्चरणैः प्रतिष्ठानम् अवस्थानं भुवि यस्याः सा गोधाचविनद्धा गोधिका वाद्यविशेषो दर्दरिकेत्यपरनाम्ना प्रसिद्धा । आडम्बर: पटहः । सप्तममिति निषादमित्यर्थः । एएसि णमित्यादि । एतेषा सप्तानां स्वराणा प्रत्येक लक्षणस्य विभिन्नत्वात् सप्त स्वरलक्षणानि Page #195 -------------------------------------------------------------------------- ________________ १७८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (६) एतेसि णं सत्तण्हं सराणं तयो गामा पण्णत्ता। तंजहा-सज्जग्गामे १, मज्झिमग्गामे २, गंधारग्गामे ३। (७) सज्जग्गामस्स णं सत्त मुच्छणाओ पण्णत्ताओ । तं जहा - मंगी कोरव्वीया हरी य रयणी य सारकंता य । छट्ठी य सारसी दाम सुद्धसजा य सत्तमा ॥३९॥ (८) मज्झिमग्गामस्स णं सत्त मुच्छणाओ पण्णत्ताओ। तंजहा - उत्तरमंदा रयणी उत्तरा उत्तरायसा(ता)। अस्सोकंता य सोवीरा अभीरू भवति सत्तमा ॥४०॥ (९) गंधारग्गामस्स णं सत्त मुच्छणाओ पण्णत्ताओ । तंजहा - यथास्वं फलप्राप्त्यव्यभिचारीणि स्वरतत्त्वानि भवन्ति । तान्येव फलत आह- सजेणेत्यादिश्लोकाः। षड्जेन लभते वृत्तिम्, अयमर्थः - षड्जस्येदं लक्षणं स्वरूपमस्ति येन तस्मिन् सति वृत्तिं जीवनं लभते प्राणी। एतच्च मनुष्यापेक्षया लक्ष्यते, वृत्तिलाभादीनां घटनात् । कृतं च न विनश्यति, तस्येति शेष:, निष्फलारम्भो न भवतीत्यर्थः । गाव: पुत्राश्च मित्राणि च भवन्तीति शेषः । गान्धारे गीतयुक्तिज्ञा वर्यवृत्तय: प्रधानजीविका: कलाभिरधिका: कवय: काव्यकर्तार: प्राज्ञा: सद्बोधा: ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा: चतुर्वेदादिशास्त्रपारगामिनस्ते भवन्तीति । शकुनेन श्येनलक्षणेन चरन्ति पापर्द्धिं कुर्वन्ति शकुनान् वा घ्नन्तीति शाकुनिका: । वागुरा मृगबन्धनम्, तया चरन्तीति वागुरिका: । शूकरेण सन्निहितेन शूकरवधार्थं चरन्ति शूकरान् वा घ्नन्तीति शौकरिका: । मौष्टिका मल्ला इति । पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि । ___ एएसिं णं सत्तण्हं सराणं तओ गामा इत्यादि । एतच्चिरन्तनमुनिगाथाभ्यां व्याख्यायते, यथा - सज्जाइ तिहा गामो, स समूहो मुच्छणाण विन्नेओ। ता सत्त एक्कमेक्के, तो सत्तसराण इगवीसा ।।१।। अन्नन्नसरविसेसे, उप्पायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव, कुणई मुच्छं व सो व त्ति ।।२।। ( ) कर्ता वा मूर्च्छित इव ता: करोतीति मूर्च्छना उच्यन्ते । मुच्छं व सो व त्ति मूर्च्छनिव वा स कर्ता ता: करोतीति मूर्च्छना उच्यन्त इत्यर्थः । मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषा: पूर्वगतस्वरप्राभृते भणिता:, इदानीं तु तद्विनिर्गतेभ्यो भरत-विशाखिलादिशास्त्रेभ्यो विज्ञेया इति । Page #196 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२६०] नंदी य खुड्डिमा पूरिमा य चउत्थी य सुद्धगंधारा । उत्तरगंधारा वि पंचमिया हवइ मुच्छा उ ।।४१।। सुत्तरमायामा सा छट्टा नियमसो उ णायव्वा । अहउत्तरायता कोडिमा य सा सत्तमी मुच्छा ॥४२॥ (१०) सत्त स्सरा कतो संभवंति ? गीयस्स का हवति जोणी ? | कतिसमया ऊसासा ? कति वा गीयरस आगारा ? || ४३॥ सत्त सरा नाभीओ संभवंति, गीतं च रुन्नजोणीयं । पायसमा उस्सासा, तिण्णि य गीयस्स आगारा ||४४|| आदिमउ आरभंता, समुव्वहंता य मज्झगारम्मि । अवसाय झता, तिन्नि वि गीयस्स आगारा || ४५|| छोसे अट्ठ गुणेतिण्णि य वित्ताणि दोण्णि भणितीओ । जोणाही सो गाहिति सुसिक्खितो रंगमज्झम्मि ||४६ || भीयं दुयमुप्पिच्छं उत्तालं च कमसो मुणेयव्वं । काकस्सरमणुनासं छ होसा होंति गीयस्स ॥४७॥ सत्त सरा कओ गाहा । इह चत्वारः प्रश्नाः, तत्र कुतः इति कस्मात् स्थानात् स्वरा उत्पद्यन्ते १ । का योनिरिति का जाति: २ । तथा कति समया येषु ते कतिसमया उच्छ्वासाः, किंपरिमाणकाला इत्यर्थः ३ । तथा आकारा: आकृतयः, स्वरूपाणि इत्यर्थः ४ । उत्तरमाह - सत्त सरा नाभीओ इत्यादिगाथा स्पष्टा । नवरं रुदितं योनिः समानरूपतया जातिर्यस्य तद् रुदितयोनिकम् । पादसमा उच्छ्वासाः यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः । आइ गाहा । यो गीतस्याकाराः स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा इत्याह - आरभन्त त्ति आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह - आइमउ त्ति आदौ प्रथमतो मृदु कोमलं आदिमृदु, तथा समुद्वहन्तश्च कुर्वन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे मध्यमभागे तथा अवसाने च क्षपयन्तो गीतध्वनिं मन्द्रीकुर्वन्त इत्यर्थः, आदौ मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्त्रयो गीतस्याकारा भवन्तीति तात्पर्यम् । आकारानाह - १७९ किन्तु षड् दोषा वर्जनीयाः, तानाह - भीतं गाहा । भीतमुत्त्रस्तमानसं यद् गीयते इत्येको दोषः १, द्रुतं त्वरितम् २, उप्पिच्छं श्वासयुक्तं त्वरितं च, पाठान्तरेण रहस्सं ति ह्रस्वस्वरम्, लघुशब्दमित्यर्थः ३, उत्तालम् उत् प्राबल्यार्थे, अतितालमस्थानतालं चेत्यर्थः, तालस्तु Page #197 -------------------------------------------------------------------------- ________________ १८० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पुण्णं रत्तं च अलंकियं च वत्तं तहेवमविघुटुं। महुरं समं सुललियं अट्ठ गुणा होति गीयस्स ॥४८॥ उर-कंठ-सिरविसुद्धं च गिज्जते मउय-रिभियपदबद्धं । समतालपडुक्खेवं सत्तस्सरसीभरं गीयं ॥४९॥ अक्खरसमं पयसमं तालसमं लयसमं गहसमं च । निस्ससिउस्ससियसमं संचारसमं सरा सत्त ॥५०॥ कंसिकादिशब्दविशेष: ४, काकस्वरं श्लक्ष्णा-ऽश्रव्यस्वरम् ५, अनुनासं नासिकाकृतस्वरम् ६ । एते षड् दोषा गीतस्य भवन्ति । अष्टौ गुणानाह - पुण्णं गाहा । स्वरकलाभि: सर्वाभिरपि युक्तं कुर्वत: पूर्णम् १, गेयरागेण रक्तस्य भावितस्य रक्तम् २, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलङ्कृतम् ३, अक्षरस्वरस्फुटकरणाद् व्यक्तम् ४, विक्रोशनमिव यद् विस्वरं न भवति तदविघुष्टम् ५, मधुमत्तकोकिलारुतवन्मधुरस्वरं मधुरम् ६, ताल-वंशस्वरादिसमनुगतं समम् ७, स्वरघोलनाप्रकारेण सुष्ठ अतिशयेन ललतीव यत् सुकुमालं तत् सुललितम् ८ । एते अष्टौ गुणा गीतस्य भवन्ति । एतद्विरहितं तु विडम्बनामात्रमेव तदिति। किं चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति, तानाह- उर गाहा । चकारो गेयगुणान्तरसमुच्चयार्थः, उर:कण्ठशिरोविशुद्धं च। अयमर्थ: - यारसि स्वरो विशालस्त रोविशुद्धम्, कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च तदा कण्ठविशुद्धम्, शिरसि प्राप्तो यदि नानुनासिकस्तत: शिरोविशुद्धम्, अथवा उर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुर:कण्ठशिरोविशुद्धम्, गीयते गेयमिति संबध्यते। किंविशिष्टमित्याह - मृदुकं मृदुना अनिष्ठुरेण स्वरेण यद् गीयते तन्मृदुकम्, यत्राक्षरेषु घोलनया संचरन् स्वरो रगतीव तद् घोलनाबहुलं रिभितम्, गेयपदैर्बद्धं विशिष्टविरचनया रचितं पदबद्धम्, ततश्च पदत्रयस्य कर्मधारयः । समतालपडुक्खेवं ति तालाशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो विवक्षितः, मुरज-कांसिकादिगीतोपकारकातोद्यानां ध्वनि: प्रत्युत्क्षेपः, नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेप:, समौ गीतस्वरेण तालाप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपम् । सत्तसरसीभरं ति, सप्त स्वरा: सीभरन्ति अक्षरादिभि: समा यत्र तत् सप्तस्वरसीभरं गीतमिति, ते चामी सप्त स्वरा: - अक्खरसमं गाहा । यत्र दीर्घ अक्षरे दीर्घो गीतस्वर: क्रियते ह्रस्वे ह्रस्व: प्लुते प्लुत: सानुनासिके तु सानुनासिक: तदक्षरसमम् १ । यद् गीतपदं नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव यत्र गीयते तत् पदसमम् २ । यत् परस्पराहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसमम् ३ । शृङ्ग-दार्वाद्यन्यतरवस्तुमयेनाङ्गुलीकोशकेन समाहततन्त्रीस्वरप्रकारो लय:, तमनुसरता Page #198 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०२६०] निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥ ५१ ॥ समं अद्धसमं चैव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराई चउत्थं नोवलब्भइ ॥ ५२ ॥ सक्कया पायया चेव भणिईओ होंति दुण्णि उ । सरमंडलम्मि गिज्जंते पसत्था इसिभासिया ॥ ५३॥ (११) केसी गायती महुरं ? केसी गायति खरं च रुक्खं च ? | केसी गायति चउरं ? केसी य विलंबियं ? दुतं केसी ? | विस्सरं पुण केरिसी ? ||५४ || पंचपदी | स्वरेण यद् गीयते तल्लयसमम् ४ । प्रथमतो वंशतन्त्र्यादिभिर्य: स्वरो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसमम् ५ । निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद् गेयं तद् निःश्वसितोच्छ्वसितसमम् ६ | वंशतन्त्र्यादिष्वेवाङ्गुलीसञ्चारसमं यद् गीयते तत् सञ्चारसमम् ७ । एवमेते स्वराः सप्त भवन्ति । इदमुक्तं भवति - एकोऽपि गीतस्वरोऽक्षर - पदादिभिः सप्तभि: स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येते सप्त स्वरा अक्षरादिभिः समा दर्शिता भवन्तीति । १८१ गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह - निद्दोसमित्यादि । तत्र अलियमुवघायजणय (आवश्यकनि० ८८१-८८४, कल्पभा० २७८ - २८१) मित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषम् १ । विशिष्टार्थयुक्तं सारवत् २ | गीतनिबद्धार्थगमकहेतुयुक्ततया दृष्टं हेतुयुक्तम् ३ । उपमाद्यलङ्कारयुक्तमलङ्कृतम् ४ । उपसंहारोपनययुक्तमुपनीतम् ५ । अनिष्ठुराविरुद्धालज्जनीयार्थवाचकं सानुप्रासं सोपचारम् ६ । अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितम् ७ । मधुरं श्रव्यशब्दार्थम् ८ । गेयं भव शेषः । तिण्णि य वित्ताइं ति यदुक्तं तत्राह - सममित्यादि । यत्र वृत्ते चतुर्ष्वपि पादेषु सङ्ख्यया समान्यक्षराणि भवन्ति तत् समम् । यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसङ्ख्यासमत्वं तदर्द्धसमम् । यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्ख्यावैषम्योपेतं तद् विषमम् । जं ति यस्माद् वृत्तं भवतीति शेष:, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः । एवमन्यथाऽप्यविरोधतो व्याख्येयमिदमिति । for य भणिइओ ति यदुक्तं तत्राह - सक्कएत्यादि । भणितिर्भाषा | स्वरमण्डले षड्जादिस्वरसमूहे । शेषं कण्ठ्यम् । गीतविचारप्रस्तावादिदमपि पृच्छति - केसी गायतीत्यादिप्रश्नगाथा सुगमा । नवरं सिि Page #199 -------------------------------------------------------------------------- ________________ १८२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सामा गायति महरं, काली गायति खरं च रुक्खं च । गोरी गायति चउरं, काणा य विलंबियं, दुतं अंधा। विस्सरं पुण पिंगला ॥५५॥ पंचपदी । सत्त स्सरा तयो गामा मुच्छणा एक्कवीसतिं । ताणा एगूणपण्णासं सम्मत्तं सरमंडलं ॥५६॥ सेत्तं सत्तनामे । (सू० २६१) से किं तं अट्ठनामे ? अट्टविहा वयणविभत्ती पण्णत्ता । तं जहानिद्देसे पढमा होति १ बितिया उवदेसणे २ । तइया करणम्मि कया ३ चउत्थी संपयावणे ४ ॥५७॥ पंचमी य अपायाणे ५ छट्ठी सस्सामिवायणे ६ । सत्तमी सण्णिधाणत्थे ७ अट्ठमाऽऽमंतणी भवे ८ ॥५८॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति १ । बितिया पुण उवदेसे भण कुणसु इमं व तं व त्ति २ ॥५९॥ कीदृशी इत्यर्थः । खरं ति खरस्थानम् । रूक्षं प्रतीतम् । चतुरं दक्षम् । विलम्बितं परिमन्थरम् । द्रुतं शीघ्रमिति । विस्सरं पुण केरिसि त्ति गाथाऽधिकमिदम् । अत्र क्रमेणोत्तरमाह - सामा गायइ महुर मित्यादि । अत्रापि विस्सरं पुण पिंगल त्ति गाथाऽधिकमेव । व्याख्या सुकरैव। नवरं पिङ्गला कपिला इत्यर्थः । समस्तस्वरमण्डलसंक्षेपाभिधानेनोपसंहरन्नाह - सत्तसरेत्यादि । तता तन्त्री तानो भण्यते । तत्र षड्जादय: स्वरा: प्रत्येकं सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपञ्चाशत्ताना: सप्ततन्त्रिकायां वीणायां भवन्तीति। एवं तदनुसारेणैकतन्त्रिकायां त्रितन्त्रिकायां कण्ठेनापि वा गीयमाना एकोनपञ्चाशदेव ताना भवन्तीति । तदेवमेतैः षड्जादिभि: सप्तभिर्नामभि: सर्वस्यापि स्वरमण्डलस्याभिधानात् सप्तनामेदमुच्यते । सेतं सत्तनामे त्ति निगमनम् । अथाष्टनाम प्रतिपादयन्नाह - से किं तं अट्ठनामे इत्यादि । उच्यन्त इति वचनानि वस्तुवाचीनि, विभज्यते प्रकटीक्रियते अर्थोऽनयेति विभक्तिः, वचनानां विभक्तिर्वचनविभक्तिः, नाख्यातविभक्तिः, अपि तु नामविभक्तिः प्रथमादिकेति भावः । सा चाष्टविधा तीर्थकर-गणधरैः प्रज्ञप्ता। का पुनरियमित्याशय यस्मिन्नर्थे या विधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह - तद्यथेत्यादि । निद्देसे इत्यादि श्लोकद्वयं निगदसिद्धम् । नवरं लिङ्गार्थमात्रप्रतिपादनं निर्देश:, तत्र सि औ जसिति प्रथमा विभक्तिर्भवति । अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशः, तस्मिन् अम् औ शस् इति द्वितीया विभक्तिर्भवति । उपलक्षणमात्रं चेदम्, कटं करोतीत्यादिषूपदेशमन्तरेणापि Page #200 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२६१] १८३ ततिया करणम्मि कया भणियं व कयं व तेण व मए वा ३ । हंदि णमो साहाए हवति चउत्थी पयाणम्मि ४ ॥६॥ अवणय गिण्ह य एत्तो इतो त्ति वा पंचमी अपायाणे ५ । छट्ठी तस्स इमस्स व गयस्स वा सामिसंबंधे ६ ॥६१॥ हवति पुण सत्तमी तं इमम्मि आधार काल भावे य ७ । आमंतणी भवे अट्ठमी उ जह हे जुवाण ! त्ति ८ ॥६२। सेतं अट्ठणामे। द्वितीयाविधानात्, एवमन्यत्रापि यथासम्भवं वाच्यम् । विवक्षितक्रियासाधकतमं करणम्, तस्मिँस्तृतीया कृता विहिता । सम्प्रदीयते यस्मै तद् गवादिदानविषयभूतं सम्प्रदानम्, तस्मिंश्चतुर्थी विहिता। अपादीयते वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानम्, तत्र पञ्चमी विहिता। स्वम् आत्मीय सचित्तादि, स्वामी राजादिः, तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः । संनिधीयते आधीयते यस्मिंस्तत् सन्निधानम् आधार स्तदेवार्थः, तस्मिन् सप्तमी विहिता । अष्टमी सम्बुद्धि: आमन्त्रणी भवेत्, आमन्त्रणेऽर्थे विधीयत इत्यर्थः । एनमेवार्थं सोदाहरणमाह - तत्थ पढमेत्यादिगाथाश्चतस्रो गतार्था एव । नवरं प्रथमा विभक्तिनिर्देशे, क्व यथेत्याह - सो त्ति सः, तथा इमो त्ति अयम्, अहं ति अहम्, वाशब्द उदाहरणान्तरतासूचकः । उपदेशे द्वितीया, क्व यथेत्याह - भण कुरु वा, किं तदित्याह - इदं प्रत्यक्षं तद्वा परोक्षमिति । तृतीया करणे, क्व यथेत्याह - भणितं वा कृतं वा, केनेत्याह - तेन वा मया वेति, अत्र यद्यपि कर्तरि तृतीया प्रतीयते तथापि विवक्षाधीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयाम:, तत्त्वं तु बहुश्रुता विदन्तीति । हंदि नमो साहाए इत्यादि, हन्दीत्युपदर्शने, 'नमो देवेभ्य:, स्वाहा अग्नये' इत्यादिषु सम्प्रदाने चतुर्थी भवतीत्येके । अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति । अपनय गृहाण एतस्मादितो वेत्येवमपादाने पञ्चमी । तस्यास्य गतस्य वा, कस्य ? भृत्यादेरिति गम्यते इत्येवं स्वस्वामिसम्बन्धे षष्ठी। तद्वस्तु बदरादिकम् अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति । तथा कालभावे य त्ति कालभावयोश्चेयं द्रष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते । आमन्त्रणे भवेदष्टमी, यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । इह च नामविचारप्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तच्चाष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण Page #201 -------------------------------------------------------------------------- ________________ १८४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २६२) (१) से किं तं नवनामे ? नवनामे णव कवरसा पण्णत्ता । तंजहा - वीरो १ सिंगारो २ अब्भुओ य ३ रोद्दो य ४ होइ बोधव्वो । वेलणओ ५ बीभच्छो ६ हासो ७ कलुणो ८ पसंतो य ९ ॥६३॥ (२) तत्थ परिच्चायम्मि य १ तव-चरणे २ सत्तुजणविणासे य ३ । अणणुसय-धिति-परक्कमचिण्हो वीरो रसो होइ ॥६४॥ वीरो रसो जहा सो णाम महावीरो जो रज्ज पयहिऊण पव्वइओ। काम-क्कोहमहासत्तुपक्खनिग्घायणं कुणइ ॥६५॥ सङ्ग्रहादष्टनामेदमुच्यते इति भावार्थ: (ग्रन्थाग्रं० ३०००) । सेतं अट्ठनामे त्ति निगमनम् । अथ नवनाम निर्दिशन्नाह - से किं तं नवनामे इत्यादि। नवनाम्नि नव काव्यरसा: प्रज्ञप्ताः । तत्र कवेरभिप्राय: काव्यम् । रस्यन्ते अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः । उक्तं च - बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् । स भाव: कथ्यते सद्भिस्तस्योत्कर्षो रस: स्मृतः ॥१॥ ( काव्येषूपनिबद्धा रसा: काव्यरसा: वीर-शृङ्गारादयः । तानेवाह - वीरो सिंगारो इत्यादिगाथा सुगमा । नवरं शूर वीर विक्रान्तौ (का० धा० ९।२१५) इति, वीरयति विक्रामयति त्याग-तपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीर:, रस इति सर्वत्र गम्यते १ । शृङ्गं सर्वरसेभ्य: ९७परमप्रकर्ष-कोटिलक्षणमियर्ति गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मक: शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव शृङ्गार-हास्य-करुणा-रौद्र-वीर-भयानकाः। बीभत्सा-ऽद्रुत-शान्ताश्च नव नाट्ये रसा: स्मृताः ।।१।। ( ) इत्यादिष्वयं सर्वरसानामादावेव पठ्यते, अत्र तु त्याग-तपोगुणौ वीररसे वर्तेते, त्याग-तपसी च त्यागो गुणो गुणशतादधिको मतो मे ( )परं लोकातिगं धाम तपः श्रुतमिति द्वयम ( ) इत्यादिवचनात् समस्तगुणप्रधाने इत्यनया विवक्षया वीररसस्यादावुपन्यास इति २ । श्रुतं शिल्पं त्यागतप:शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते, तद्दर्शन-श्रवणादिभ्यो जातो ९७. परमप्रकर्षेत्यादि । अत्र तीव्रत्वलक्षणः परमप्रकर्षों ज्ञेयः। यतो मन्देनापि निमित्तेन जीवानामनादिकालीनसंस्कारवशात् समुद्भवतः शृङ्गाररसस्य या तीव्रता भवति, न साऽन्येषुरसेषु प्रायः सम्भवतीति। Page #202 -------------------------------------------------------------------------- ________________ १८५ श्रीअनुयोगद्वारसूत्रम् [सू०२६२] (३) सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो। मंडण-विलास-बिब्बोय-हास-लीला-रमणलिंगो॥६६॥ सिंगारो रसो जहा महुरं विलासललियं हिययुम्मादणकरं जुवाणाणं । सामा सदुद्दामं दाएती मेहलादामं ॥६७॥ (४) विम्हयकरो अपुव्वो व भूयपुव्वो व जो रसो होइ । सो हास-विसायुप्पत्तिलक्खणो अब्भुतो नाम ॥६८॥ अब्भुओ रसो जहा अब्भुयतरमिह एत्तो अन्नं किं अत्थि जीवलोगम्मि । जं जिणवयणेणऽत्था तिकालजुत्ता वि णज्जंति ? ॥६९॥ रसोऽप्युपचाराद्विस्मयरूपोऽद्भुत: ३ । रोदयति अतिदारुणतया अश्रूणि मोचयतीति रौद्रं रिपुजनमहारण्याऽन्धकारादि, तद्दर्शनाद्युद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्र: ४ । व्रीडयति लज्जामुत्पादयतीति लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलीकतादिस्वरूपो व्रीडनकः, अस्य स्थाने भयजनकसङ्ग्रामादिवस्तुदर्शनादिप्रभवो भयानको रस: पठ्यते अन्यत्र, स चेह रौद्ररसान्तर्भावविवक्षणात् पृथग् नोक्त: ५ । शुक्रशोणितोच्चारप्रश्रवणाद्यनिष्टमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसोऽपि बीभत्स: ६ । विकृता-ऽसम्बद्धपरवचन-वेषा-ऽलङ्कारादिहास्याहपदार्थप्रभवो मन:प्रहर्षादिचेष्टात्मको रसोऽपि हास्य: ७ । कुत्सितं रौत्यनेनेति निरुक्तवशात् करुण:, करुणास्पदत्वात् करुणः, प्रियविप्रयोगादिदुःखहेतुसमुत्थ: शोकप्रकर्षस्वरूप: करुणो रस इत्यर्थः ८ । प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्त:, परमगुरुवच:श्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण ९।। एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाह- तत्थ परिचागम्मि य गाहा । तत्र तेषु नवसु रसेसु मध्ये परित्यागे दाने तपश्चरणे तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यमननुशय-धृति-पराक्रमचिह्नो वीरो रसो भवति। इदमुक्तं भवति - दाने दत्ते यदाऽनुशयो गर्व: पश्चात्तापो वा तं न करोति, तपसि च कृते धृतिं करोति नार्तध्यानम्, शत्रुविनाशे च पराक्रमते, न तु वैक्लव्यमवलम्बते, तदा एतैर्लिङ्गैर्ज्ञायतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति । उदाहरणनिदर्शनार्थमाह - वीरो रसो यथेत्युपदर्शनार्थमेतत् । सो नाम गाहा पाठसिद्धा । नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवंप्रकारेषु काव्येषु वीररस: प्रतिपत्तव्य इति भावार्थः । अपरं चेहोत्तमपुरुषजेतव्यकाम-क्रोधादिभावशत्रुजयेनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे Page #203 -------------------------------------------------------------------------- ________________ १८६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (4) भयजणणरूव-सद्दंधकार - चिंता - कहासमुप्पन्नो । सम्मोह - संभम-विसाय-मरणलिंगो रसो रोद्दो ॥७०॥ रोद्दो रसो जहा भिउडीविडंबियमुहा ! संदट्ठोट्ठ ! इय रुहिरमोकिण्ण ! | (६) स प असुरणिभा ! भीमरसिय ! अतिरोद्द ! रोद्दोऽसि ॥ ७१ ॥ विणयोवयारर-गुज्झ - गुरुदारमेरावतिक्कमुप्पण्णो । वेलणओ नाम रसो लज्जा-संकाकरणलिंगो ॥ ७२ ॥ वेलणओ रसो जहा किं लोइयकरणीओ लज्जणियतरं ति लज्जिया होमो । वारिज्जम्मि गुरुजणो परिवंदड़ जं वहूपोत्तिं ॥ ७३॥ इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति । एवमन्यत्रापि भावार्थो - saगन्तव्य इति । शृङ्गाररसं लक्षणतः प्राह - सिंगारो गाहा । शृङ्गारो नाम रसः । किंविशिष्ट इत्याह - रतीत्यादि, रतिशब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते, तैः सार्धं संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव । तथा मण्डन - विलास - विब्बोक - हास्य- लीला-रमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कटकादिभिः, विलासः कामगर्भो रम्यो नयनादिविभ्रमः, विब्बोय त्ति देशीपदम् अङ्गजविकारार्थे, हास्यं प्रतीतम्, लीला सकामगमनभाषितादिरमणीयचेष्टा, रमणं क्रीडनमिति । उदाहरणमाह - सिंगारो इत्यादि । महुर गाहा । श्यामा स्त्री मेखलादाम रसनासूत्रं दर्शयति प्रकटयतीत्यर्थः, कथंभूतमित्याह - रणन्मणिकिङ्किणीस्वरमाधुर्यान्मधुरम्, तथा विलासैः सकामैश्चेष्टाविशेषैर्ललितं मनोहारि, तथा शब्दोद्दामं किङ्किणीस्वनमुखरम्, किमिति तत् प्रकटयतीत्याह - यतो हृदयोन्मादनकरं प्रबलस्मरदीपनं यूनामिति । शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो र इति । अद्भुतं स्वरूपतो लक्षणतश्चाह - विम्हय गाहा । कस्मिँश्चिदद्भुते वस्तुनि दृष्टे विस्मयकरो विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतो नामेति सण्टङ्कः । कथंभूतः ? अपूर्व: अननुभूतपूर्वो भूतपूर्वो वाऽनुभूतपूर्वः । किंलक्षण इत्याह- हर्ष - विषादोत्पत्तिलक्षणः, शुभे वस्तुन्यद्भुते दृष्टे हर्षजननलक्षणः, अशुभे तु विषादजननलक्षण इत्यर्थः । उदाहरण अब्भुय गाहा । इह जीवलोकेऽद्भुततरम् इतो जिनवचनात् किमन्यदस्ति ? नास्तीत्यर्थः । कुत इत्याह- यद् यस्माज्जिनवचनेनार्था: जीवादय: सूक्ष्म-व्यवहित- तिरोहिता-ऽतीन्द्रिया-ऽमूर्त्तादिस्वरूपाः अतीता-ऽनागतवर्तमानरूपत्रिकालयुक्ता अपि ज्ञायन्त इति । Page #204 -------------------------------------------------------------------------- ________________ १८७ श्रीअनुयोगद्वारसूत्रम् [सू०२६२] (७) असुइ-कुणव-दुईसणसंजोगब्भासगंधनिप्फण्णो। निव्वेयऽविहिंसालक्खणो रसो होइ बीभत्सो ॥७४॥ बीभत्सो रसो जहा __ असुइमलभरियनिज्झर सभावदुग्गंधि सव्वकालं पि। धण्णा उ सरीरकलिं बहुमलकलुसं विमुंचंति ॥७५।। ____ अथ रौद्रं हेतुतो लक्षणतश्चाह - भय गाहा । रूपं शत्रु-पिशाचादीनाम्, शब्दस्तेषामेव, अन्धकार बहलतमोनिकुरुम्बरूपम्, उपलक्षणत्वादरण्यादयश्च पदार्था इह गृह्यन्ते, तेषां भयजनकानां रूपादिपदार्थानां येयं चिन्ता तत्स्वरूपपर्यालोचनरूपा, कथा तत्स्वरूपभणनलक्षणा, तथोपलक्षणत्वाद् दर्शनादि च गृह्यते, तेभ्य: समुत्पन्नो जातो रौद्रो रस इति योग: । किंलक्षण इत्याह - संमोहः किंकर्तव्यत्वमूढता, सम्भ्रमो व्याकुलत्वम्, विषादः किमहमत्र प्रदेशे समायात इत्यादिखेदस्वरूपः, मरणं भयोभ्रान्त गजसुकुमालहन्तृसोमिलद्विजस्येव प्राणत्यागः, तानि लिङ्गं लक्षणं यस्य स तथा । आह - ननु भयजनकरूपादिभ्य: समुत्पन्न: संमोहादिलिङ्गश्च भयानक एव भवति, कथमस्य रौद्रत्वम् ? सत्यम्, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवक्षितमित्यदोषः । तथा शत्रुजनादिदर्शने तच्छिर:कर्त्तनादिप्रवृत्तानां पशु-शूकर-कुरङ्गवधादिप्रवृत्तानां च यो रौद्राध्यवसायात्मको भ्रकुटीभङ्गादिलिङ्गो रौद्रो रस: सोऽप्युपलक्षणत्वादत्रैव द्रष्टव्यः, अन्यथा स निरास्पद एव स्यात्, अत एव रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्रपञ्चेन । उदाहरणमाह - भिउडी गाहा। त्रिवलीतरङ्गितललाटरूपया भ्रकुट्या विडम्बितं विकृतीकृतं मुखं यस्य तत्सम्बोधनं हे भ्रकुटीविडम्बितमुख ! संदष्टौष्ठ ! इत इति इतश्च इतश्च रुहिरमोक्किण्ण त्ति विक्षिप्तरुधिर ! इत्यर्थः, हंसि व्यापादयसि पशुम्, असुरो दानवस्तन्निभ ! तत्सदृश ! भीमं रसितं शब्दितं यस्य, तत्संबोधनं हे भीमरसित ! अतिरौद्र अतिशयरौद्राकृते ! रौद्रोऽसि रौद्रपरिणामयुक्तोऽसीति । अथ व्रीडारसं हेतुतो लक्षणतश्चाह - विणओ गाहा। विनयोपचार-गुह्य-गुरुदारमर्यादानां व्यतिक्रम: स्थितिलङ्घनं तदुत्पन्नो व्रीडनको नाम रसो भवति। तत्र विनयार्हाणां विनयोपचारव्यतिक्रमे शिष्टस्य व्रीडा प्रादुरस्ति - पश्यत, मया कथं पूज्यपूजाव्यतिक्रम: कृत: ? इति । तथा गुह्यं रहस्य तस्य च व्यतिक्रमेऽन्यकथनादिलक्षणे व्रीडारस: आविर्भवति । तथा गुरव: पूज्या: पितृव्यकलाग्राहकोपाध्यायादयस्तद्दारैश्च सहाब्रह्मसेवादिलक्षणे मर्यादाव्यतिक्रमे कृते लज्जारस: प्रादुर्भवतीति । एवमन्योऽपि द्रष्टव्यः। किंलक्षण इत्याह - लज्जाशङ्कयो: करणं विधानं लिङ्गं यस्य स तथा, तत्र शिरसोऽधोऽवनमन-गात्रसङ्कोचादिका लज्जा, मां न क्वचित् कश्चित् किञ्चिद्भणिष्यतीति Page #205 -------------------------------------------------------------------------- ________________ १८८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (८) रूव-वय-वेस-भासाविवरीयविलंबणासमुप्पन्नो। हासो मणप्पहासो पकासलिंगो रसो होति ॥७६॥ हासो रसो जहा पासुत्तमसीमंडियपडिबुद्ध देयरं पलोयंती। ही ! जह थणभरकंपणपणमियमज्झा हसति सामा ॥७७॥ सर्वत्राभिशङ्कितत्वं शङ्केति । अत्रोदाहरणं किं लोइय गाहा । इह क्वचिद्देशेऽयं समाचारः, यदुत अभिनववध्वा: स्वभ; यत् प्रथमयोन्युद्भेदे कृते शोणितचर्चितं तन्निवसनम्, ‘अक्षतयोनिरियं न पुनरग्रेऽप्यासेवितानाचारा' इति संज्ञापनार्थं प्रतिगृहं भ्राम्यते, सकलजनसमक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजन: सतीत्वख्यापनार्थं तद्वन्दत इति, एवं व्यवस्थिते सखीपुरतो वधूभणति - किं लोइयकरणीउ त्ति करणिः क्रिया, ततश्च लौकिकक्रियाया लौकिककर्त्तव्यात् सकाशात् किमन्यल्लज्जनीयतरम् ? न किञ्चिदित्यर्थः, इत्यतो लज्जिताऽहं भवामि । किमिति ? यतो वारेज्जो विवाहः, तत्र गुरुजनो वन्दते वहूपोत्तिं ति वधूनिवसनमिति । ___अथ बीभत्सं हेतुतो लक्षणतश्चाह - असुइ गाहा। अशुचि मूत्र-पुरीषादि वस्तु, कुणपं शव:, अपरमपि यदुर्दर्शनं गलल्लालादिकरालं शरीरादि, तेषां संयोगाभ्यासाद् अभीक्ष्णं तद्दर्शनादिरूपात् तद्गन्धाच्च निष्पन्नो 'बीभत्सो रसो भवतीति सम्बन्ध: । किंलक्षण इत्याह - निर्वेदश्च अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा । तत्र निर्वेद: उद्वेगः, अविहिंसा जन्तुघातादिनिवृत्ति:, इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्य: कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तेति । असुईत्याद्युदाहरणगाथा । इह कश्चिदुपलब्धशरीराद्यसारतास्वरूप: प्राह - कलि: जघन्य: कालविशेष: कलहो वा, तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलि: शरीरकलि:, तं मूर्छात्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्या: केचिद्विमुञ्चन्तीति सण्टङ्कः । कथंभूतम् ? अशुचिमलभृतानि निर्झराणीव निर्झराणि श्रोत्रादिविवराणि यस्य तं तथा, सर्वकालमपि स्वभावतो दुर्गन्धम्, तथा बहुमलकलुषमिति । एवं वाचनान्तराण्यपि भावनीयानि । अथ हास्यरसं हेतु-लक्षणाभ्यामाह - रूव गाहा । रूप-वयो-वेष-भाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना निर्वर्तना तत्समुत्पन्नो 'हास्यो रसो भवतीति संयोगः । तत्र पुरुषादेोषिदादिरूपकरणं रूपवैपरीत्यम्, तरुणादेवृद्धादिभावापादानं वयोवैपरीत्यम्, राजपुत्रादेर्वणिगादिवेषनिर्वर्तनं वेषवैपरीत्यम्, गुर्जरादेस्तु मध्यदेशादि-भाषाभिधानं भाषावैपरीत्यम् । स च कथंभूतं: स्यादित्याह - मणप्पहासो त्ति, मन:प्रहर्षकारी प्रकाशो नेत्र-वक्त्रादिविकाशस्वरूपो लिङ्गं यस्य स तथा, अथवा प्रकाशानि प्रकटान्युदरप्रकम्पना-ऽट्टहासादीनि लिङ्गानि यस्येति स तथेति । Page #206 -------------------------------------------------------------------------- ________________ १८२ श्रीअनुयोगद्वारसूत्रम् [सू०२६२] (९) पियविप्पयोग-बंध-वह-वाहि-विणिवाय-संभमुप्पन्नो। सोचिय-विलविय-पव्वाय-रुन्नलिंगो रसो कलुणो॥७८॥ कलुणो रसो जहा पज्झातकिलामिययं बाहागयपप्पुयच्छियं बहुसो । तस्स वियोगे पुत्तय ! दुब्बलयं ते मुहं जायं ॥७९॥ पासुत्तमसी त्यादिनिदर्शनगाथा । इह कयाचिद् वध्वा प्रसुप्तो निजदेवरश्चसूर्या मषीमण्डनेन मण्डित:, प्रबुद्धं च तं सा हसति, तां च हसन्तीमुपलभ्य कश्चित् पार्श्ववर्तिनं कञ्चिदामन्त्र्य प्राह - हीति कन्दर्पातिशयद्योतकं वचः, पश्यत भो: श्यामा स्त्री यथा हसतीति सम्बन्धः, किं कुर्वती ? देवरं प्रलोकयन्ती, कथंभूतम् ? पासुत्तेत्यादि छिन्नप्ररूढादिवदत्र कर्मधारयः, पूर्वं प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तम्, कथंभूता? स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा तथेति । अथ हेतुतो लक्षणतश्च करुणरसस्वरूपमाह - पियविप्पओय गाहा। प्रियविप्रयोग-बन्धवध-व्याधि-विनिपात-सम्भ्रमेभ्यः समुत्पन्न: करुणो रस इति योग: । तत्र विनिपात: सुतादिमरणम्, सम्भ्रम: परचक्रादिभयम्, शेषं प्रतीतम् । किंलक्षण इत्याह - शोचित-विलपितप्रम्लान-रुदितानि लिङ्गानि लक्षणानि यस्य स तथा । तत्र शोचितं मानसो विकारः, शेषं विदितमिति । पज्झायेत्याधुदाहरणगाथा । अत्र प्रियविप्रयोगदूमितां बालां प्रति वृद्धा काचिदाह - तस्य कस्यचित् प्रियतमस्य वियोगे हे पुत्रिके ! दुर्बलकं ते मुखं जातम् कथंभूतम्, ? पज्झायकिलामितयं ति, प्रध्यातं प्रियजनविषयमतिचिन्तितं तेन क्लान्तम् । बाहागयपप्पुतच्छयं ति, बाष्पस्यागतम् आगमनं तेन प्रप्लुते व्याप्ते अक्षिणी यत्र तत्तथा, बहुश: अभीक्ष्णमिति । ___अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरति- निद्दोस गाहा । निर्दोषं हिंसादिदोषरहितं यन्मनस्तस्य यत् समाधानं विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात् सम्भवो यस्य स तथा। प्रशान्तभावेन क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना । स चाविकारलक्षणो निर्विकारताचिह्न इत्यर्थः । सब्भावेत्याधुदाहरणगाथा । प्रशान्तवदनं कञ्चित् साधुमवलोक्य कश्चित् समीपस्थितं कञ्चिदाश्रित्य प्राह - हीति प्रशान्तभावातिशयद्योतकः, पश्य भोः ! यथा मुनेर्मुखकमलं शोभते, कथंभूतम् ? सद्भावतो न मातृस्थानतो निर्विकारं विभूषाभ्रूक्षेपादिविकाररहितम्, उपशान्ता रूपालोकनाद्यौत्सुक्यत्यागत: प्रशान्ता क्रोधादिदोषपरिहारतोऽत एव सौम्या दृष्टिर्यत्र तत्तथा । अस्मादेव च पीवरश्रीकम् उपचितोपशमलक्ष्मीकमिति । साम्प्रतं नवानामपि रसानां संक्षेपत: स्वरूपं कथयन्नुपसंहरन्नाह - एए नव गाहा। एते नव Page #207 -------------------------------------------------------------------------- ________________ १९० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (१०) निद्दोसमणसमाहाणसंभवो जो पसंतभावेणं । अविकारलक्खणो सो रसो पसंतो त्ति णायव्वो ॥८॥ पसंतो रसो जहा सब्भावनिव्विकारं उवसंत-पसंत-सोमदिट्ठीयं । ही ! जह मुणिणो सोहति मुहकमलं पीवरसिरीयं ॥८१॥ एए णव कव्वरसा बत्तीसादोसविहिसमुप्पण्णा। गाहाहिं मुणेयव्वा, हवंति सुद्धा व मीसा वा ॥८२॥ से तं नवनामे । (सू० २६३) से किं तं दसनामे ? दसनामे दसविहे पण्णत्ते । तं जहाकाव्यरसा: अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुणितव्या ज्ञातव्याः । कथंभूता: ? अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिल (आवश्यकनि०८८१-८८४, कल्पभा० २७८-२८१) इत्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधि: विरचनं तस्मात् समुत्पन्नाः, इदमुक्तं भवति - अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिद् रसो निष्पद्यते, यथा - तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्यश्व-रथवाहिनी ॥१॥ ( ) इत्येवंप्रकारं सूत्रमलीकतादोषदुष्टम्, रसश्चायमद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषेणाद्भुतो रसो निष्पन्नः । तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निर्वय॑ते, यथा - स एव प्राणिति प्राणी प्रीतेन कुपितेन च । वित्तैर्विपक्षरक्तैश्च प्रीणिता येन मार्गणा: ॥१॥ ( इत्यादिप्रकारं सूत्रं परोपघातलक्षणदोषदुष्टम्, वीररसश्चायम्, ततोऽनेनोपघातलक्षणेन सूत्रदोषेण वीररसोऽत्र निर्वृत्तः इत्येवमन्यत्रापि यथासम्भवं सूत्रदोषविधानाद्रसनिष्पत्तिर्वक्तव्या । प्रायोवृत्तिं चाश्रित्यैवमुक्तम्, तपोदानविषयस्य वीररसस्य प्रशान्तादिरसानां च क्वचिदनृतादिसूत्रदोषानन्तरेणापि निष्पत्तेरिति । पुन: किंविशिष्टा अमी भवन्तीत्याह - हवंति सुद्धा व मीसा व त्ति सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, क्वचित् काव्ये शुद्ध एक एव रसो निबध्यते, क्वचित्तु द्व्यादिरससंयोग इति भाव इति गाथार्थः । तदेवमेतैर्वीर-शृङ्गारादिभिर्नवभिर्नामभिरत्र वक्तु मिष्टस्य रसस्य सर्वस्याप्यभिधानान्नवनामेदमुच्यते । सेतं नवनामे ति निगमनम् । अथ दशनामाभिधानार्थमाह - से किं तं दसनामे इत्यादि । Page #208 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२६४-२६६] १९१ गोणे १, नोगोणे २, आयाणपदेणं ३, पडिपक्खपदेणं ४, पाहण्णयाए ५, अणादियसिर्द्धतेणं ६, नामेणं ७, अवयवेणं ८, संजोगेणं ९, पमाणेणं १० । (सू० २६४) से किं तं गोण्णे ? गोण्णे - खमतीति खमणो, तपतीति तपणो, जलती जलणो, पवतीति पवणो । सेतं गोण्णे । (सू० २६५) से किं तं नोगोण्णे ? नोगोण्णे - अकुंतो सकुंतो, अमुग्गो समुग्गो, अमुद्दो समुद्दो, अलालं पलालं, अकुलिया सकुलिया, नो पलं असतीति पलासो, अमातिवाहए मातिवाहए, अबीयवावए बीयवावए, नो इंदं गोवयतीति इंदगोवए । से तं नोगोण्णे । (सू० २६६) से किं तं आयाणपदेणं ? आयाणपदेणं - आवंती चातुरंगिज्जं असंखयं इज्जं पुरिसइज्जं एलइज्जं वीरियं धम्मो मग्गो समोसरणं आहत्तधिज्जं गंथे जमईयं । सेतं आयाणपदेणं । गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह से किं तं गुण्णे इत्यादि । गुणैर्निष्पन्नं गौणम्, यथार्थमित्यर्थः, तच्चानेकप्रकारम्, तत्र क्षमत इति क्षमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नम् । तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निर्वृत्तम् । एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् १ | से किं तं नोगुण्णे इत्यादि, गुणनिष्पन्नं यन्न भवति तन्नोगौणम्, अयथार्थमित्यर्थः अकुंते सकुंते इत्यादि, अविद्यमान कुन्ताख्यप्रहरणविशेष एव सकुन्तत्ति पक्षी प्रोच्यत इत्ययथार्थता । एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेषः समुद्रः । अङ्गुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो जलराशिः । अलालं पलालं ति इह प्रकृष्टा लाला यत्र तत् प्रलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु लालाऽभावस्तत् कथं तृणविशेषरूपं पलालमुच्यत इति प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं निर्व्युत्पत्तिकमेवोच्यते इति न यथार्था-ऽयथार्थचिन्ता संभवति । अउलिया सउलिय त्ति अत्रापि कुलिकाभिः सह वर्तमानैव प्राकृते सउलियत्ति भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति ? इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तच्चिन्तासम्भवः ? इत्येवमन्यथाऽप्यविरोधत: सुधिया भावना कार्या । पलं मांसमनश्नन्नपि पलाश इत्यादि तु सुगमम् । नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषा: । सेत्तं नोगुणणे त्ति निगमनम् २ | से किं तं आयाणपणमित्यादि । आदीयते तत्प्रथमतया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानम्, तच्च तत्पदं चादानपदम्, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च आवंतीत्यादि, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनम्, तत्र Page #209 -------------------------------------------------------------------------- ________________ १९२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २६७) से किं तं पडिपक्खपदेणं ? पडिपक्खपदेणं- णवेसु गामा-ऽऽगरणगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-ऽऽसम-संवाह-सन्निवेसेसु निविस्समाणेसु असिवा सिवा, अग्गी सीयलो, विसं महुरं, कल्लालघरेसु अंबिलं साउयं, जे लत्तए से अलत्तए, जे लाउए से अलाउए, जे सुंभए से कुसुभए, आलवंते विवलीयभासए । सेतं पडिपक्खपदेणं । आवन्ती केयावन्ती [आचाराङ्ग० १।५।१।१४७] इत्यालापको विद्यत इत्यादानपदेनैतन्नाम। चाउरंगिज्जं ति एतदुत्तराध्ययनेषु तृतीयमध्ययनम्, तत्र चादौ चत्तारि परमंगाणि दुल्लहाणीह जंतुणो (३१) इत्यादि विद्यते । असंखयं ति इदमपि उत्तराध्ययनेष्वेव चतुर्थमध्ययनम्, तत्र च आदावेव असंखयं जीविय मा पमायए (४।१) इत्येतत् पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वतीन्यध्ययनानि कानिचित्तु दशवैकालिक-सूयगडाद्यध्ययनानि स्वधिया भावनीयानि ३ । निगमयति - सेत्तं आयाणपएणं ति। से किं तं पडिवक्खपएणमित्यादि । विवक्षितवस्तुधर्मस्य विपरीतो धर्मो विपक्ष:, तद्वाचकं पदं विपक्षपदम्, तन्निष्पन्नं किञ्चिन्नाम भवति । यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शिवा भण्यते । किं सर्वदा ? नेत्याह - नवेसु इत्यादि, तत्र ग्रसते बुद्धयादीन् गुणानिति ग्राम: प्रतीतः । आकरो लोहाद्युत्पत्तिस्थानम् । नगरं कररहितम् । खेटं धूलीमयप्राकारोपेतम् । कर्बट कुनगरम् । मडम्बं सर्वतो दूरवर्तिसन्निवेशान्तरम्। द्रोणमुखं जलपथ-स्थलपथोपेतम् । पत्तनं नानादेशागतपण्यस्थानम् । तच्च द्विधा - जलपत्तनं स्थलपत्तनं च । रत्नभूमिरित्यन्ये । आश्रम: तापसादिस्थानम् । सम्बाध: अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेष: । सन्निवेशो घोषादिः, अथवा ग्रामादीनां द्वन्द्वे ते च ते सन्निवेशाश्चेत्येवं योज्यते । ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थं शिवेत्युच्यते, अन्यदा त्वनियमः, तथा कोऽपि कदाचित् केनापि कारणवशेनाग्नि: शीतो विषं मधुरमित्याद्याचष्टे । तथा कल्पपालगृहेषु किलाम्लशब्दे समुच्चारिते सुरा विनश्यति, अतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते । तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह - जे लत्तए इत्यादि, यो रक्तो लाक्षारसेन स एव रश्रुतेर्लश्रुत्या अलक्तक उच्यते । तथा यदेव लाति आदत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्तेर्लाबु तदेव अलाबु तुम्बकमभिधीयते । य एव च सुम्भकः शुभवर्णकारी स एव कुसुम्भकः । आलवंते त्ति आलपन् अत्यर्थं लपन्नसमञ्जसमिति गम्यते, स किमित्याह - विवलीयभासए त्ति भाषकाद् विपरीतो विपरीतभाषकं इति, राजदन्तादिवत् समास:, अभाषक इत्यर्थः, तथाहि - सुबह्वसम्बद्धं प्रलपन्तं कञ्चिद् दृष्ट्वा लोके वक्तारो भवन्ति अभाषक एवायं द्रष्टव्योऽसारवचनत्वादिति। Page #210 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२६८-२७१] (सू० २६८) से किं तं पाहण्णयाए ? पाहण्णयाए- असोगवणे सत्तवण्णवणे चंपकवणे चूयवणे नागवणे पुन्नागवणे उच्छुवणे दक्खवणे सालवणे । सेतं पाहण्णयाए। (सू० २६९) से किं तं अणादियसिद्धतेणं ? अणादियसिद्धतेणं- धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए, पोग्गलत्थिकाए, अद्धासमए । सेतं अणादियसिद्धतेणं। (सू० २७०) से किं तं नामेणं ? नामेणं- पिउपियामहस्स नामेणं उन्नामियए। सेतं णामेणं। (सू० २७१) से किं तं अवयवेणं ? अवयवेणंसिंगी सिही विसाणी दाढी पक्खी खुरी णही वाली । दुपय चउप्पय बहुपय णंगूली केसरी ककुही ॥८३॥ प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया । ननु च नोगौणादिदं न भिद्यते इति चेत्, नैतदेवम्, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावमात्रेणैवोक्तत्वात्, अस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेष: ४ । से किं तं पाहण्णयाए इत्यादि । प्रधानस्य भाव: प्रधानता, तया किमपि नाम भवति, यथा बहुष्वशोकवृक्षेषु स्तोकेषु त्वाम्रादिपादपेष्वशोकप्रधानं वनमशोकवनमिति नाम । सप्तपर्णाः सप्तच्छदास्तत्प्रधानं वनं सप्तपर्णवनमित्यादि सुगमम् । नवरमत्राप्याह - ननु गुणनिष्पन्नादिदं न भिद्यते, नैवम्, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्यार्थस्य सामस्त्येन व्याप्तत्वादत्र त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानां सामस्त्येन व्याप्तेरभावादिति भेद: ५। से किं तं अणाइसिद्धतेणमित्यादि । अमनम् अन्तो वाच्यवाचकरूपतया परिच्छेदोऽनादिसिद्धश्चासावन्तश्चानादिसिद्धान्तस्तेन, अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धः प्रतिष्ठितो योऽसावन्त: परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः, तच्च प्राग्व्याख्यातार्थं धर्मास्तिकायादि, एतेषां च नाम्नामभिधेयं धर्मास्तिकायादिवस्तु न कदाचिदन्यथात्वं प्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपि स्वस्वरूपमित्येतावता गौणनाम्नः पृथगेतदुक्तमिति ६ । से किं तं नामेणमित्यादि। नाम पितृपितामहादेर्वाचकमभिधानम्, तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, किं पुनस्तदित्याह - पिउपियामहस्स नामेणं उन्नामियए त्ति, पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्तादिनाम्ना यः पुत्रादिरुन्नामित उत्क्षिप्त: प्रसिद्धिं गत इति यावत् स एव नाम-तद्वतोरभेदोपचारान्नाम्ना हेतुभूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद् बन्धुदत्तादिनामाऽऽसीत् तत्पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम् ७ । से किं तं अवयवेणमित्यादि । अवयवोऽवयविन एकदेशस्तेन नाम यथा सिंगी सिही Page #211 -------------------------------------------------------------------------- ________________ १९४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं परियरबंधेण भडं जाणेज्जा, महिलियं निवसणेणं । सित्थेण दोणपागं, कविं च एगाइ गाहाए ॥ ८४ ॥ सेतं अवयवेणं । ( सू० २७२ ) से किं तं संजोगेणं ? संजोगे चउव्विहे पण्णत्ते । तंजहा- दव्वसंजोगे १, खेत्तसंजोगे २, कालसंजोगे ३, भावसंजोगे ४ । (सू० २७३ ) से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पण्णत्ते । तं जहा- सचित्ते १, अचित्ते २, मीसए ३ । (सू० २७४) से किं तं सचित्ते ? सचित्ते - गोहिं गोमिए, महिसीहिं माहिसिए, ऊरणीहिं ऊरणिए, उट्टीहिं उट्टवाले । सेतं सचित् । ( सू० २७५) से किं तं अचित्ते ? अचित्ते छत्तेण छत्ती, दंडेण दंडी, पडेण पडी, घडेण घडी, कडेण कडी । सेतं अचित्ते । ( सू० २७६ ) से किं तं मीसए ? मीसए- हलेणं हालिए, सकडेणं साकडिए, रहेणं रहिए, नावाए नाविए । सेतं मीसए । सेतं दव्वसंजोगे । ( सू० २७७ ) से किं तं खेत्तसंजोगे ? खेत्तसंजोगे - भारहे एरवए हेमवए एरण्णवए हरिवस्सए रम्यवस्सए, पुव्वविदेहए अवरविदेहए, देवकुरुए उत्तरकुरुए, अहवा मागहए मालवए सोरट्ठए मरहट्ठए कोंकणए कोसलए । सेतं खेत्तसंजोगे । त्यादिगाथा, शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यपि सुगमानि, नवरं द्विपदं स्त्र्यादि, चतुष्पदं गवादि, बहुपदं कर्णशृगाल्यादि, अत्रापि पादलक्षणावयवप्रधानता भावनीया । कहि ककुदं स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति ककुदी वृषभ इति । परियर गाहा । परिकरबन्धेन विशिष्टनेपथ्यरचनालक्षणेन भटं शूरपुरुषं जानीयात् लक्षयेत् । तथा निवसनेन विशिष्टरचनारचितपरिधानलक्षणेन महिलां स्त्रीम्, जानीयादिति सर्वत्र सम्बध्यते । धान्यद्रोणस्य पाक: स्विन्नतारूपस्तं च तन्मध्याद् गृहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयात् । एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कविं जानीयात् अयमत्राभिप्राय: - यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भट- महिला - पाक - कविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इति इह तदुपन्यास इति । इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतया प्रवृत्ताद् गौणनाम्नो भिद्यत इति ८ । से किं तं संजोएणमित्यादि । संयोगः सम्बन्धः, स चतुर्विधः प्रज्ञप्तः | द्रव्यसंयोग इत्यादि सर्वं सूत्रसिद्धमेव । नवरं सचित्तद्रव्यसंयोगेन गावोऽस्य सन्तीति गोमानित्यादि । अचित्तद्रव्यसंयोगेन छत्रमस्यास्तीति छत्रीत्यादि । मिश्रद्रव्यसंयोगेन हलेन व्यवहरतीति हालिक Page #212 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२७८-२८३] (सू० २७८) से किं तं कालसंजोगे? कालसंजोगे- सुसमसुसमए सुसमए सुसमदूसमए दूसमसुसमए दूसमए दूसमदूसमए, अहवा पाउसए वासारत्तए सरदए हेमंतए वसंतए गिम्हए। से तं कालसंजोगे। (सू० २७९) से किं तं भावसंजोगे ? भावसंजोगे दुविहे पण्णत्ते । तंजहा- पसत्थे य १, अपसत्थे य २। (सू० २८०) से किं तं पसत्थे ? पसत्थे- नाणेणं नाणी, दंसणेणं दंसणी, चरित्तेणं चरित्ती । सेतं पसत्थे । (सू० २८१) से किं तं अपसत्थे ? अपसत्थे- कोहेणं कोही, माणेणं माणी, मायाए मायी, लोभेणं लोभी । सेतं अपसत्थे । सेतं भावसंजोगे । सेतं संजोगेणं । (सू० २८२) से किं तं पमाणेणं? पमाणेणं चउव्विहे पण्णत्ते। तंजहा - णामप्पमाणे १, ठवणप्पमाणे २, दव्वप्पमाणे ३, भावप्पमाणे ४ । (सू० २८३) से किं तं नामप्पमाणे ? नामप्पमाणे- जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणे त्ति णामं कज्जति । सेतं णामप्पमाणे। इत्यादि, अत्र हलादीनामचेतनत्वाद् बलीवीनां तु सचेतनत्वान्मिश्रद्रव्यता भावनीया। क्षेत्रसंयोगाधिकारे भरते जातो भरते वाऽस्य निवास इति तत्र जात: (पा० ४।३।२५) सोऽस्य निवास: (पा० ४।३।८९) इति वाऽण्प्रत्यये भारत: । एवं शेषेष्वपि भावना कार्या । कालसंयोगाधिकारे सुषमसुषमायां जात इति सप्तमीपञ्चम्यन्ते जनेर्ड: (कातन्त्र० ४।३।९१) इति डप्रत्यये सुषमसुषमज:, एवं सुषमजादिष्वपि भावनीयम् । भावसंयोगाधिकारे भाव: पर्याय:, स च द्विधा प्रशस्तो ज्ञानादिरप्रशस्तश्च क्रोधादिः । शेष सुगमम् । इदमपि संयोगप्रधानतया प्रवृत्तत्वाद् गौणाद्भिद्यत इति ९ । ___ से किं तं पमाणेणमित्यादि । अत्रोत्तरं पमाणे चउविहे इत्यादि । प्रमीयते परिच्छिद्यते वस्तु निश्चीयतेऽनेनेति प्रमाणं नाम-स्थापना-द्रव्य-भावस्वरूपं चतुर्विधम् । अथ किं तन्नामप्रमाणम् ? नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणम्, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्राय:, एवमन्यत्रापि भावनीयम् । अत्रोत्तरमुच्यते- यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा यत् प्रमाणमिति नाम क्रियते तन्नामप्रमाणम्, न तत् स्थापना-द्रव्य-भावहेतुकम्, अपि तु नाममात्रविरचनमेव तत्र हेतुरिति तात्पर्यम् । Page #213 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २८४) से किं तं ठवणप्पमाणे ? ठवणप्पमाणे सत्तविहे पण्णत्ते । तंजहा - णक्खत्त-देवय-कुले पासंड-गणे य जीवियाहेउं । आभिप्पाउयणामे ठवणानामं तु सत्तविहं ॥८५॥ (सू० २८५) से किं तं नक्खत्तणामे ? नक्खत्तणामे- कत्तियाहिं जाए कत्तिए कत्तिदिण्णे कत्तिधम्मे कत्तिसम्मे कत्तिदेवे कत्तिदासे कत्तिसेणे कत्तिरक्खिए। रोहिणीहिं जाए रोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेणे रोहिणिरक्खिए। एवं सव्वणक्खत्तेसु णामा भाणियव्वा । एत्थ संगहणिगाहाओ - कत्तिय १ रोहिणि २ मिगसिर ३ अद्दा ४ य पुणव्वसू ५ य पुस्से ६ य । तत्तो य अस्सिलेसा ७ मघाओ ८ दो फग्गुणीओ य ९-१० ॥८६॥ हत्थो ११ चित्ता १२ सादी १३ (य) विसाहा १४ तह य होइ अणुराहा १५ । जेट्ठा १६ मूलो १७ पुव्वासाढा १८ तह उत्तरा १९ चेव ॥८७।। अभिई २० सवण २१ धणिट्ठा २२ सतिभिसदा २३ दो य होंति भद्दवया २४-२५ । रेवति २६ अस्सिणि २७ भरणी २८ एसा नक्खत्तपरिवाडी ॥८८॥ सेत्तं नक्खत्तनामे। (सू० २८६) से किं तं देवयणामे ? देवयणामे- अग्गिदेवयाहिं जाते अग्गिए अग्गिदिण्णे अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेणे अग्गिरक्खिए । एवं पि सव्व अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाप्रमाणं सप्तविधमित्यादि । नक्खत्त गाहा। इदमत्र हृदयम् - नक्षत्र-देवता-कुल-पाषण्ड-गणादीनि वस्तून्याश्रित्य यत् कस्यचिन्नामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुन: यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि ( )इत्यादिना पूर्व परिभाषितस्वरूपा, सैव प्रमाणम्, तेन हेतुभूतेन नाम सप्तविधं भवति । ___ तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति - कृत्तिकासु जात: कार्तिकः, कृत्तिकाभिर्दत्त: कृत्तिकादत्त:, एवं कृत्तिकाधर्म: कृत्तिकाशर्म: कृत्तिकादेव: कृत्तिकादास: कृत्तिकासेन: कृत्तिकारक्षित:, एवमन्यान्यपि रोहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना द्रष्टव्या । तत्र सर्वनक्षत्रसङ्ग्रहार्थं कत्तिय-रोहिणीत्यादि गाथात्रयं सुगमम्, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्विन्यादिक्रममुत्सृज्येत्थमेव पठितवानिति। ___एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातार: क्रमेणाग्न्यादयोऽष्टाविंशतिरेव देवताविशेषा भवन्त्यत: कृत्तिकादिनक्षत्रे जातस्य कश्चिदिच्छादिवशतस्तदधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह- से किं तं देवयाणामे इत्यादि । अग्निदेवतासु जात: आग्निकः, एव Page #214 -------------------------------------------------------------------------- ________________ १९७ श्रीअनुयोगद्वारसूत्रम् [सू०२८७-२९०] नक्खत्तदेवतनामा भाणियव्वा । एत्थं पि य संगहणिगाहाओ, तंजहा - अग्गि १ पयावइ २ सोमे ३ रुद्दे ४ अदिती ५ बहस्सई ६ सप्पे ७ । पिति ८ भग ९ अज्जम १० सविया ११ तट्ठा १२ वायू १३ य इंदग्गी १४ ॥८९॥ मित्तो १५ इंदो १६ णिरिती १७ आऊ १८ विस्सो १९ य बंभ २० विण्हू य २१ । वसु २२ वरुण २३ अय २४ विवद्धी २५ पूसे २६ आसे २७ जमे २८ चेव ॥९०॥ से तं देवयणामे। (सू० २८७) से किं तं कुलनामे ? कुलनामे- उग्गे भोगे राइण्णे खत्तिए इक्खागे णाते कोरव्वे । सेत्तं कुलनामे । (सू० २८८) से किं तं पासंडनामे ? पासंडनामे समणए पंडरंगए भिक्खू कावालियए तावसए परिव्वायगे । सेतं पासंडनामे । (सू० २८९) से किं तं गणनामे ? गणनामे- मल्ले मल्लदिन्ने मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए । सेतं गणनामे । (सू० २९०) से किं तं जीवियाहेडं ? जीवियाहेउं- अवकरए उक्कुरुडए उज्झियए कज्जवए सुप्पए । सेतं जीवियाहेडं । मग्निदत्तादीन्यपि । नक्षत्रदेवतानां सङ्ग्रहार्थम् अग्गीत्यादि गाथाद्वयम् । तत्र कृत्तिकानक्षत्रस्याधिष्ठाता अग्नि:, रोहिण्या: प्रजापतिः, एवं मृगशिर:प्रभृतीनां क्रमेण सोमो रुद्र: अदिति: बृहस्पति: सर्पः पितृ भग: अर्यमा सविता त्वष्टा वायु: इन्द्राग्निः मित्र: इन्द्रः निर्ऋति: अम्भ: विश्व: ब्रह्मा विष्णु: वसुः वरुण: अज: विवर्द्धि:, अस्य स्थानेऽन्यत्र अहिर्बुध्न: पठ्यते, पूषा अश्वि: यमश्चैवेति । से किं तं कुलनामे इत्यादि । यो यस्मिन्नुग्रादिकुले जातस्तस्य तदेवोग्रादिकुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः। से किं तं पासंडणामे इत्यादि । इह येन यत् पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र निग्गंथ-सक्क-तावस-गेरुय-आजीव पंचहा समणा (पिण्डनि० गा० ४४५) इति वचनान्निर्ग्रन्थादिपञ्चपाषण्डान्याश्रित्य श्रमण उच्यते, एवं नैयायिकादिपाषण्डमाश्रिता: पाण्डुराङ्गादयो भावनीया: । नवरं भिक्षुर्बुद्धदर्शनाश्रितः । से किं तं गणनामे इत्यादि । इह मल्लादयो गणा: तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनानामोच्यते इति मल्ले मल्लदिण्णे इत्यादि । से किं तं जीवियाहेतुमित्यादि । इह यस्या जातमात्रमपत्यं म्रियते सा लोकस्थितिवैचित्र्याज्जातमात्रमपि किञ्चिदपत्यं जीवननिमित्तमवकरादिष्वस्यति, तस्य चाऽवकरकः उत्कुरुटक इत्यादि Page #215 -------------------------------------------------------------------------- ________________ १९८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २९१) से किं तं आभिप्पाउयनामे ? आभिप्पाउयनामे- अंबए निंबए बबूलए पलासए सिणए पिलुयए करीरए। सेतं आभिप्पाउयनामे । सेतं ठवणप्पमाणे । (सू० २९२) से किं तं दव्वप्पमाणे ? दव्वप्पमाणे छव्विहे पण्णत्ते । तंजहा - धम्मत्थिकाए जाव अद्धासमए । सेतं दव्वप्पमाणे । (सू० २९३) से किं तं भावप्पमाणे ? भावप्पमाणे चउविहे पण्णत्ते । तंजहा - सामासिए १, तद्धितए २, धातुए ३, निरुत्तिए ४ । (सू० २९४) से किं तं सामासिए ? सामासिए सत्त समासा भवंति । तंजहा - दंदे १ य बहुव्वीही २ कम्मधारए ३ दिग्गु ४ य ।। तप्पुरिस ५ अव्वईभावे ६ एक्कसेसे ७ य सत्तमे ॥९१॥ यन्नाम क्रियते तज्जीविकाहेतो: स्थापनानामाख्यायते । सुप्पए त्ति य: सूर्पे कृत्वा त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते । शेषं प्रतीतम् । से किं तं आभिप्पाइयनामे इत्यादि । इह यत् वृक्षादिषु प्रसिद्धम् अम्बको निम्बक इत्यादि नाम देशरूढ्या स्वाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिप्रायिकं स्थापनानामेति भावार्थः । तदेतत् स्थापनाप्रमाणनिष्पन्नं सप्तविधं नामेति । से किं तं दव्वपमाणे इत्यादि । अयमत्र भावार्थ:- धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड् द्रव्यविषयाणि नामानि, द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि, धर्मास्तिकायादिद्रव्यं विहाय न कदाचिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्पर्यम् । अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेत्, उच्यताम्, को दोष: ? अनन्तधर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्यपदेशताया ९९अदुष्टत्वात् । एवमन्यत्रापि यथासम्भवं वाच्यमिति । से किं तं भावपमाणे इत्यादि । भावो युक्तार्थत्वादिको गुणः, स एव तद्द्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणम्, तेन निष्पन्नं तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं भवतीत्यत्र परमार्थः । ___ तत्र से किं तं सामासिए इत्यादि, द्वयोर्बहूनां वा पदानां समसनं संमीलनं समासस्तेन निर्वृत्तं सामासिकम्, समासाश्च द्वन्द्वादय: सप्त । तत्र समुच्चयप्रधानो द्वन्द्वः, दन्ताश्चौष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च स्तनोदरमिति, प्राण्यङ्गत्वात् समाहार:, वस्त्रपात्रमित्यादौ त्वप्राणिजातित्वादश्व ९८. स्वाभिप्रायानुरोधत इत्यादि । ततश्च डित्थ-डवित्थादि गुणनिरपेक्षनामाप्यभिप्रायिकमेव ज्ञेयम्, 'अयं डित्थशब्देनोच्यतामि'त्याद्यभिप्रायेण तस्य स्थापितत्वाद् । ९९. अदुष्टत्वादिति । तथाप्येतेषामाभिप्रायिकत्वं तु नास्त्येव, अनादित्वेन स्थापनाऽसम्भवात् । Page #216 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०२९५-२९८] (सू० २९५) से किं तं दंदे समासे ? दंदे समासे-दन्ताश्च ओष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च स्तनोदरम्, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वश्च महिषश्च अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलम् । सेतं दंदे समासे । (सू० २९६) से किं तं बहुव्रीहिसमासे ? बहुव्रीहिसमासे- फुल्ला जम्मि गिरिम्मि कुडय-कलंबा सो इमो गिरी फुल्लियकुडय-कलंबो । से तं बहुव्रीहिसमासे । (सू० २९७) से किं तं कम्मधारयसमासे ? कम्मधारयसमासे- धवलो वसहो धवलवसहो, किण्हो मिगो किण्हमिगो, सेतो पटो सेतपटो, रत्तो पटो रत्तपटो । से तं कम्मधारयसमासे। (सू० २९८) से किं तं दिगुसमासे ? दिगुसमासे- तिण्णि कडुगा तिकडुगं, तिण्णि महुराणि तिमहुरं, तिण्णि गुणा तिगुणं, तिण्णि पुरा तिपुरं, तिण्णि सरा तिसरं, तिण्णि पुक्खरा तिपुक्खरं, तिण्णि बिंदुया तिबिंदुयं, तिण्णि पहा तिपहं, पंच णदीओ पंचणदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं, दस गामा दसगामं, दस पुरा दसपुरं । सेतं दिगुसमासे। महिषमित्यादौ पुन: शाश्वतिकवैरित्वात्, एवमन्यान्यप्युदाहरणानि भावनीयानि । अन्यपदार्थप्रधानो बहुव्रीहिः, पुष्पिता: कुटज-कदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकुटज-कदम्बः । तत्पुरुषः समानाधिकरण: कर्मधारय: (पा० १।२।४२), स च धवलश्चासौ वृषभश्च धवलवृषभ इत्यादि । सङ्ख्यापूर्वो द्विगु: (पा० २।१।५२) , त्रीणि कटुकानि समाहृतानि त्रिकटुकम् । एवं त्रीणि मधुराणि समाहृतानि त्रिमधुरम्, पात्रादिगणे दर्शनादिह पञ्चपूलीत्यादिवत् स्त्रियामीप्रत्ययो न भवति, एवं शेषाण्यप्युदाहरणानि भावनीयानि। द्वितीयादिविभक्त्यन्तपदानां समासस्तत्पुरुषः, तत्र तीर्थे काक इवास्ते १०°तीर्थकाकः, ध्वाङ्केण क्षेपे (पा० २।१।४२)इति सप्तमीतत्पुरुषः, शेष प्रतीतम् । पूर्वपदार्थप्रधानोऽव्ययीभावः, तत्र ग्रामस्य अनु समीपेन मध्येन वाऽशनिर्गता अनुग्रामम्, एवं नद्या: समीपेन मध्येन वा अनुनदीत्याद्यपि भावनीयम् । सरूपाणामेकशेष एकविभक्तौ (पा० १।२।६४) इत्यनेन सूत्रेण समानरूपाणामेकविभक्तियुक्तानां पदानामेकशेष: समासो भवति, सति समासे एक: शिष्यतेऽन्ये तु लुप्यन्ते, यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोर्खप्तानां चार्थे वर्तते, अथ एकस्य लुप्तस्यात्मनश्चार्थे वर्तमानात् तस्मात् द्विवचनं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाद् बहुवचनम्, यथा पुरुषश्च ३ पुरुषाः, एवं बहूनां लुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च ४ पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयम् । १००. तीर्थकाक इति । अन्त्यदीपकन्यायेनायं तत्पुरुषसमासे दृष्टान्तो ज्ञेयः, द्वितीयादिविभक्त्यन्तपदसमासेषु सप्तमीतत्पुरुषस्यान्त्यत्वात् । Page #217 -------------------------------------------------------------------------- ________________ २०० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २९९) से किं तं तप्पुरिसे समासे ? तप्पुरिसे समासे- तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे मयूरो वणमयूरो। सेतं तप्पुरिसे समासे। (सू० ३००) से किं तं अव्वईभावे समासे? अव्वईभावे समासे- अणुगामं अणुणदीयं अणुफरिहं अणुचरियं । सेतं अव्वईभावे समासे । (सू० ३०१) से किं तं एगसेसे समासे ? एगसेसे समासे- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे सालिणो जहा बहवे सालिणो तहा एगो साली । सेतं एगसेसे समासे । सेतं सामासिए। (सू० ३०२) से किं तं तद्धियए ? तद्धियए - कम्मे १ सिप्प २ सिलोए ३ संजोग ४ समीवओ ५ य संजूहे ६ । इस्सरिया ७ऽवच्चेण ८ य तद्धितणामं तु अट्ठविहं ॥१२॥ (सू० ३०३) से किं तं कम्मणामे ? दोस्सिए सोत्तिए कप्पासिए सुत्तवेतालिए भंडवेतालिए कोलालिए णरदावणिए । सेतं कम्मनामे । इत: सूत्रमनुस्रियते- जहा एगो पुरिसो त्ति यथैकः पुरुषः, एकवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेष:, तहा बहवे पुरिसत्ति तथा बहव: पुरुषा:, बहुवचनान्त: पुरुषशब्द इत्यर्थः, एकशेष समासे सति बह्वर्थवाचक इति शेष:, यथा चैकशेषे समासे बहुवचनान्त: पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेष: । एतदुक्तं भवति- यथा पुरुषश्च ३ इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्त: पुरुषशब्दो बहूनर्थान् वक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तत्व-बहुवचनान्तत्वयोर्विशेष:, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति। एवं कार्षापण-शाल्यादिष्वपि भावनीयम् । अयं च समासो द्वन्द्वविशेष एवेष्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन । गतं सामासिकम् । से किं तं तद्धितए इत्यादि । तद्धिताज्जातं तद्धितजम्, इह तद्धितशब्देन तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुन्नाए तंतुवाए तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्धितजत्वं सिद्धं भवति । कम्मे गाहा पाठसिद्धा, नवरं श्लोक: श्लाघा, संयूथो ग्रन्थरचना, एते च कर्मशिल्पादयोऽर्थास्तद्धितप्रत्ययस्योत्पित्सोर्निमित्तीभवन्तीत्येतद्भेदात्तद्धितजं नामाष्टविधमुच्यत इति भावः। Page #218 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३०४-३०८] २०१ (सू० ३०४) से किं तं सिप्पनामे ? सिप्पनामे वत्थिए (तंतिए) तुण्णाए तंतुवाए पटकारे अहे वरुडे मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिकारे । सेतं सिप्पनामे । ( सू० ३०५ ) से किं तं सिलोयनामे ? सिलोयनामे- समणे माहणे सच्चतिही । सेतं सिलोयनामे । रणो (सू० ३०६) से किं तं संजोगनामे ? संजोगनामे- रण्णो ससुरए, रण्णो सालए, सड्दुए, रण्णो जामाउए, रन्नो भगिणीवती । सेतं संजोगनामे । ( सू० ३०७ ) से किं तं समीवनामे ? समीवनामे - गिरिस्स समीवे नगरं गिरिणगरं, विदिसाए समीवे णगरं वेदिसं, बेन्नाए समीवे नगरं बेन्नायडं, तगराए समीवे नगरं तगरायडं । सेतं समीवनामे | ( सू० ३०८ ) से किं तं संजूहनामे ? संजूहनामे- तरंगवतिकारे मलयवतिकारे अत्ताणुसट्टिकारे बिंदुकारे । से तं संजूहनामे | 1 तत्र कर्मतद्धितजं दोसिए सोत्तिए इत्यादि, दूष्यं पण्यमस्येति दौषिकः, सूत्रं पण्यमस्त सौत्रिकः, शेषं प्रतीतम्, नवरं भाण्डविचार: कर्मास्येति भाण्डवैचारिकः । को (क) लालाि मृद्भाण्डानि पण्यमस्येति कौलालिक: । अत्र क्वापि तणहारए इत्यादिपाठो दृश्यते, तत्र कश्चिदाहनन्वत्र तद्धितप्रत्ययो न कश्चिदुपलभ्यते, तथा वक्ष्यमाणेष्वपि तुन्नाए तंतुवाए इत्यादिषु नायं दृश्यते, तत् किमित्येवंभूतनाम्नामिहोपन्यासः ? अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरति वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते । यदि तद्धितोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्धित कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः । अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापकादेवं जानीया:- तद्धितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति । अथ शिल्पतद्धितनामोच्यते - वस्त्रं शिल्पमस्येति वास्त्रिकः, तन्त्रीवादनं शिल्पमस्येति तान्त्रिक:, तुन्नाए तंतुवाए इत्यादि प्रतीतम् । आक्षेप परिहारौ उक्तावेव । यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेऽप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम् । अथ श्लाघातद्धितनामोच्यते - समणे इत्यादि । श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषु रूढानि, अतोऽस्मादेव सूत्रनिबन्धात् श्लाघार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम् । संयोगतद्धितनाम - राज्ञः स्वसु ( श्वशु) र इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्धितनामता, चित्रं च पूर्वगतं शब्दप्राभृतम्, अप्रत्यक्षं च न:, अतः कथमिह Page #219 -------------------------------------------------------------------------- ________________ २०२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३०९) से किं तं ईसरियनामे ? ईसरियनामे- राईसरे तलवरे माडंबिए कोडुबिए इन्भे सेट्ठी सत्थवाहे सेणावई । सेतं ईसरियनामे । (सू० ३१०) से किं तं अवच्चनामे ? अवच्चनामे- तित्थयरमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणिमाया वायगमाया। सेतं अवच्चनामे । सेतं तद्धिते । (सू० ३११) से किं तं धाउए ? धाउए- भू सत्तायां परस्मैभाषा(ष:), एध वृद्धौ, स्पर्द्ध संह(घ?)र्षे, गाई प्रतिष्ठा-लिप्सयोर्ग्रन्थे च, बाधृ लोडने पा०धा० १-५] । सेतं धाउए। (सू० ३१२) से किं तं निरुत्तिए ? निरुत्तिए- मह्यां शेते महिष:, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसति मुसलं, कपिरिव लम्बते त्थच्च करोति कपित्थं, चिदिति करोति खल्लं च भवति चिखल्लं, ऊर्ध्वकर्ण: उलूकः, खस्य माला मेखला । सेतं निरुत्तिए। सेतं भावप्पमाणे । से तं पमाणनामे । सेतं दसनामे । सेतं नामे । भावनास्वरूपमस्मादृशैः सम्यगवगम्यते ? ___ समीपतद्धितनाम गिरिसमीपे नगरं गिरिनगरम्, अत्र अदूरभवश्च (पा० ४।२।७०) इत्यण न भवति, गिरिनगरमित्येव प्रतीतत्वात् । विदिशाया अदूरभवं नगरं वैदिशम्, अत्र तु अदूरभवश्च (पा० ४।२।७०) इत्यण् भवत्येव, इत्थमेव रूढत्वादिति । संयूथतद्धितनाम तरंगवतिकार इत्यादि, तद्धितनामता चेहोत्तरत्र च पूर्ववद्भावनीया। ऐश्वर्यतद्धितनाम- राईसरे इत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यम्, राजेश्वरादिशब्दार्थस्त्विहैव पूर्वं व्याख्यात एव । अपत्यतद्धितनाम- तित्थयरमाता इत्यादि, तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्धं विशि(शे?)ष्यते, अतस्तीर्थकरादिभिर्मातरो विशेषिताः । तद्धितनामत्वभावना तथैव । गतं तद्धितनाम । अथ धातुजमुच्यते- से किं तं धाउए इत्यादि, भूरयं परमस्मैपदी धातु: सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नामेति, एवमन्यत्रापि । ___ अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं भणनं निरुक्तम्, तत्र भवं नैरुक्तम्, तच्च मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव । तदेवमुक्तं नैरुक्तं नाम । तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थित प्रमाणनाम । तत्समर्थने च समापितं गौणादिकं दशनाम। एतैरपि च दशनामभि: सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेदमुच्यते, तत्समाप्तौ च समाप्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम्, अत: सेतं निरुत्तिए इत्यादि पञ्च निगमनानि । नामद्वारं समाप्तम् । Page #220 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३१३-३१६] २०३ (सू० ३१३) से किं तं पमाणे ? पमाणे चउव्विहे पण्णत्ते ? तंजहा-दव्वप्पमाणे १, खेत्तप्पमाणे २, कालप्पमाणे ३, भावप्पमाणे ४ ।। (सू० ३१४) से किं तं दव्वपमाणे ? दव्वपमाणे दुविहे पण्णत्ते। तंजहा-पदेसनिप्फण्णे य १, विभागनिप्फण्णे य २ । (सू० ३१५) से किं तं पदेसनिप्फण्णे ? पदेसनिप्फण्णे- परमाणुपोग्गले, दुपएसिए जाव अणंतपदेसिए । सेतं पदेसनिप्फण्णे । (सू० ३१६) से किं तं विभागनिप्फण्णे ? विभागनिप्फण्णे पंचविहे पण्णत्ते । तंजहा-माणे १, उम्माणे २, ओमाणे ३, गणिमे ४, पडिमाणे ५ । ___ उक्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम् । अथ तदन्तर्गतमेव क्रमप्राप्तं तृतीयं प्रमाणद्वारमभिधित्सुराह- से किं तं पमाणे इत्यादि । प्रमीयते परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणम् असति-प्रसृत्यादि, अथवा इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत् प्रमाणं यथोक्तमेव, यदि वा धान्यद्रव्यादेरेव प्रमिति: परिच्छेदः स्वरूपावगम: प्रमाणम्, अत्र पक्षेऽसति-प्रसृत्यादेस्तद्धेतुत्वात् प्रमाणता, तच्च प्रमाणं द्रव्यादिप्रमेयवशाच्चतुर्विधम्, तद्यथा- द्रव्यविषयं प्रमाणं द्रव्यप्रमाणम्, एवं क्षेत्र-काल-भावप्रमाणेष्वपि वाच्यम् । तत्र द्रव्यप्रमाणं द्विविधं प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र प्रदेशा एक-द्वित्र्याद्यणवः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । तत्रैकप्रदेशनिष्पन्न: परमाणु:, द्विप्रदेशनिवृत्तो द्विप्रदेशिकः, प्रदेशत्रयघटितस्त्रिप्रदेशिकः, एवं यावदनन्तैः प्रदेशैः सम्पन्नोऽनन्तप्रदेशिकः । नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवम्, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात्, तथाहि- प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति- प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीति, ततश्चैक-द्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात् परमाण्वादिद्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेक-द्वि-त्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु तत्स्वरूपयोगादुपचारतः, भावसाधनतायां तु प्रमितेः प्रमाण-प्रमेयाधीनत्वादुपचारादेव प्रमाण-प्रमेययो: प्रमाणताऽवगन्तव्या । तदेवं कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करण-भावसाधनपक्षयोस्तूपचारत इत्यदोषः। इदं च यथोत्तरमन्यान्यसङ्ख्योपेतैः स्वगतैरेव प्रदेशैर्निष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तम् । द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो भङ्गो विकल्प: प्रकार इति यावत्, तेन निष्पन्नं विभागनिष्पन्नम्, तथाहि- न धान्यमानादेः स्वगतप्रदेशाश्रयणेन स्वरूपं Page #221 -------------------------------------------------------------------------- ________________ २०४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३१७) से किं तं माणे ? माणे दुविहे पण्णत्ते । तंजहा-धनमाणप्पमाणे य १, रसमाणप्पमाणे य २ । (सू० ३१८) से किं तं धण्णमाणप्पमाणे ? धण्णमाणप्पमाणे- दो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थया आढयं, चत्तारि आढयाई दोणो, सढि आढयाई जहन्नए कुंभे, असीति आढयाई मज्झिमए कुंभे, आढयसतं उक्कोसए कुंभे, अट्ठआढयसतिए वाहे । (सू० ३१९) एएणं धण्णमाणप्पमाणेणं किं पओयणं ? एतेणं धण्णमाणप्पमाणेणं मुत्तोली-मुरव-इड्डर-अलिंद-अपवारिसंसियाणं धण्णाणं धण्णमाणप्पमाणनिव्वित्तिलक्खणं भवति । सेतं धण्णमाणप्पमाणे । (सू० ३२०) से किं तं रसमाणप्पमाणे ? रसमाणप्पमाणे धण्णमाणप्पमाणाओ चउभागविवड्डिए अभिंतरसिहाजुत्ते रसमाणप्पमाणे विहिजति । तंजहा-चउसट्ठिया ४, निरूपयिष्यते, अपि तु दो असतीओ पसती इत्यादिको यो विशिष्टः प्रकारस्तेनेति । ___तच्च पञ्चविधम्, तद्यथा- मानम् उन्मानम् अवमानं गणिमं प्रतिमानम्। पुनरपि मानप्रमाणं द्विधा- धान्यमानप्रमाणं च रसमानप्रमाणं च । तत्र मानमेव प्रमाणं मानप्रमाणम्, धान्यविषयं मानप्रमाणं धान्यमानप्रमाणम्, तच्च दो असतीओ इत्यादि, अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसति: अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तवयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृति:, द्वे च प्रसृती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वात्, अत इयं तत्प्रसिद्धा काचिदवगन्तव्या, चतस्र: सेतिका: कुडवः, ते चत्वार: प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव यावदष्टभिराढकशतैर्निर्वृत्तो वाहः । ___ अत्राह शिष्यः- एतेन असत्यादिना धान्यमानप्रमाणेन किं प्रयोजनम्?, किमनेन विधीयते इत्यर्थः । अत्रोत्तरम्- एतेन धान्यमानप्रमाणेन मुक्तोली-मुरवेड्डरा-ऽलिन्दा-ऽपवारिसंश्रितानां मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् इयत्तालक्षणं तदेव प्रमाणम्, तस्य निर्वृत्तिः सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः । तत्र मुक्तोली मोट्टा, अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्ठिका मुरवः, गन्त्र्या उपरि यद्दीयते सुम्बादिव्यूतं ढञ्चनकादि तदिड्डरम्, अलिन्दकं कुण्डकम्, अपवारि दीर्घतरधान्यकोष्ठाकारविशेष:। रसमानप्रमाणमाह- से किं तमित्यादि, रसो मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणम्, किमित्याह- धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं Page #222 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३२१-३२२] २०५ बत्तीसिया ८, सोलसिया १६, अट्ठभाइया ३२, चउभाइया ६४, अद्धमाणी १२८, माणी २५६ । दो चउसट्ठियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्ठभातिया, दो अट्ठभाइयाओ चउभाइया, दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी। (सू० ३२१) एतेणं रसमाणप्पमाणेणं किं पओयणं? एएणं रसमाणप्पमाणेणं वारगघडग-करग-किक्किरि-दइय-करोडि-कुंडियसंसियाणं रसाणं रसमाणप्पमाणनिव्वित्तिलक्खणं भवइ । सेतं रसमाणप्पमाणे । सेतं माणे । (सू० ३२२) से किं तं उम्माणे ? उम्माणे जण्णं उम्मिणिजइ । तंजहा-अद्धकरिसो करिसो अद्धपलं पलं अद्धतुला तुला अद्धभारो भारो । दो अद्धकरिसा करिसो, दो यद् रसमानं विधीयते क्रियते तद् रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात् किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवः, अतो बहि:शिखाऽभावात् धान्यमानाच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चाभ्यन्तरशिखायुक्तमित्युक्तम्, तद्यथा- चतुःषष्टिकेत्यादि । इदमुक्तं भवति- षट्पञ्चाशदधिकशतद्वयपलमाना माणिका नाम वक्ष्यमाणं रसमानम्, तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलपरिमाणा अष्टभागिका, तस्या एव चतुर्थभागवर्तित्वात् चतुःषष्टिपलमाना चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव, षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका । द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ? अत्रोत्तरम्- एतेन रसमानप्रमाणेन वारक-घटक-करकगर्गरी-दृतिक-करोडि-कुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्य निर्वृत्ति: सिद्धिस्तस्या लक्षणं परिज्ञानं भवति । तत्रातीवविशालमुखा कुण्डिकैव करोडि उच्यते, शेष प्रतीतम्, क्वचित् कलसिकेति दृश्यते, तत्र लघुतर: कलश एव कलशिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरमभ्यूह्यम्। सेतमित्यादि निगमनद्वयम् । अथोन्मानमभिधित्सुराह - से किं तं उम्माणे इत्यादि । उन्मीयते तदित्युन्मानम्, उन्मीयते अनेनेति वा उन्मानमित्यादि । तत्र कर्मसाधनपक्षमधिकृत्याह- जं णं उम्मिणिज्जईत्यादि, यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, तद्यथा- अर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैव चतुर्भाग: कर्षः, पलस्यार्द्धम् अर्द्धपलमित्यादि सर्वं मागधदेशप्रसिद्ध Page #223 -------------------------------------------------------------------------- ________________ २०६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं करिसा अद्धपलं, दो अद्धपलाई पलं, पंचुत्तरपलसतिया तुला, दस तुलाओ अद्धभारो, वीसं तुलाओ भारो। (सू० ३२३) एएणं उम्माणपमाणेणं किं पयोयणं ? एतेणं उम्माणपमाणेणं पत्तअगलु-तगर-चोयय-कुंकुम-खंड-गुल-मच्छंडियादीणं दव्वाणं उम्माणपमाणणिव्वत्तिलक्खणं भवति । सेतं उम्माणपमाणे । (सू० ३२४) से किं तं ओमाणे ? ओमाणे जण्णं ओमिणिजति। तंजहा-हत्थेण वा दंडेण वा धणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा । दंडं धणू जुगं णालिया य अक्ख मुसलं च चउहत्थं । दसनालियं च रज्जु वियाण ओमाणसण्णाए ॥१३॥ वत्थुम्मि हत्थ मिजं खित्ते दंडं धणुं च पंथम्मि । खायं च नालियाए वियाण ओमाणसण्णाए ॥१४॥ सूत्रसिद्धमेव, नवरम् एलापत्र-कर्मारीपत्रादिकं पत्रम्, चोयओ फलविशेषः, मच्छण्डिका शर्कराविशेष:। अवमानं विवक्षुराह - से किं तं ओमाणे इत्यादि । अवमीयते परिच्छिद्यते खाताद्यनेनेति अवमानं हस्त-दण्डादि, अथवा अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादि । तत्र कर्मसाधनपक्षमधिकृत्य तावदाह- जं णमित्यादि, यदवमीयते खातादि तदवमानम्, केनावमीयते इत्याह- हत्थेण वा दंडेण वा इत्यादि, तत्र हस्तो वक्ष्यमाणस्वरूपश्चतुर्विंशत्यङ्गुलमानः, अनेन च हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना अवमानविशेषा दण्ड-धनु-र्युग-नालिका-ऽक्ष-मुशलरूपाः षट् संज्ञा लभन्ते, अत एवाह- दंडं गाहा, दण्डं धनुर्युगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः । दण्डादिकं प्रत्येकं कथंभूतमित्याह - चतुर्हस्तम् । दशभिर्नालिकाभिर्निष्पन्नां रज्जु च विजानीयवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादय: सर्वे चतुर्हस्तप्रमाणास्तषेकेनैव दण्डाद्यन्यतरोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ? उच्यते, मेयवस्तुषु भेदेन व्याप्रियमाणत्वात्, तथा चाह- वत्थुम्मि गाहा, वास्तुनि गृहभूमौ, मीयतेऽनेनेति मेयं मानमित्यर्थः, लुप्तद्वितीयैकवचनत्वेन हस्तं विजानीहीति सम्बन्ध:, हस्तेनैव वास्तु मीयत इति तात्पर्यम्, क्षेत्रे कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धेनैवावमानप्रमाणेन विशेषेण क्षेत्रं मीयते इति हृदयम्, पथि मार्गविषये धनुरेव मानम्, मार्गगव्यूतादिपरिच्छेदो धनु:संज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते, न दण्डादिभिरिति भाव: । खातं च कूपादि नालिकयैव Page #224 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३२५-३२८] २०७ (सू० ३२५) एतेणं ओमाणपमाणेणं किं पओयणं? एतेणं ओमाणप्पमाणेणं खायचिय-करगचित-कड-पड-भित्ति-परिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिव्वत्तिलक्खणं भवति । सेतं ओमाणे । (सू० ३२६) से किं तं गणिमे ? गणिमे जण्णं गणिज्जति । तंजहा-एक्को दसगं सतं सहस्सं दससहस्साई सतसहस्सं दससतसहस्साई कोडी। (सू० ३२७) एतेणं गणिमप्पमाणेणं किं पओयणं? एतेणं गणिमप्पमाणेणं भितगभिति-भत्त-वेयण-आय-व्वयनिव्विसंसियाणं दव्वाणं गणिमप्पमाणनिवित्तिलक्खणं भवति । सेतं गणिमे । (सू० ३२८) से किं तं पडिमाणे ? पडिमाणे जण्णं पडिमिणिज्जइ। तंजहा-गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो । पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिण्णि निप्फावा कम्ममासओ, एवं चउक्को कम्ममासओ। बारस कम्ममासया मंडलओ, एवं अडयालीसाए (कागणीए) मंडलओ । सोलस कम्ममासया सुवण्णो, एवं चउसठ्ठीए (कागणीए) सुवण्णो । यष्टिविशेषरूपया मीयत इति गम्यते । एवं युगादेरपि यस्य यत्र व्यापारो रूढस्तस्य तत्र वाच्यः । यत् कथंभूतं हस्त-दण्डादिकमित्याह- अवमानसंज्ञयोपलक्षितमिति गाथार्थः। ___ एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव, नवरं खातं कूपादि, चितं त्विष्टिकादिरचितं प्रासादपीठादि, क्रकचितं करपत्रविदारितं काष्ठादि, कटादय: प्रतीता एव, परिक्षेपो भित्त्यादेरेव परिधि: नगरपरिखादिर्वा, एतेषां खातादिसंश्रितानामभेदेऽपि भेदकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति । तदेतदवमानमिति निगमनम् । __से किं तं गणिमे इत्यादि, गण्यते सङ्ख्यायते वस्त्वनेनेति गणिमम् एकादि, अथवा गण्यते सङ्ख्यायते यत्तद्गणिमं रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह- जण्णमित्यादि, गण्यते तद् गणिमम्, कथं गण्यते इत्याह- एक्को इत्यादि । __ एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतक: कर्मकरः, भृति: पदात्यादीनां वृत्तिः, भक्तं भोजनम्, वेतनकं कुविन्दादिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु विषये आय-व्ययनिर्विसंश्रितानां प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतद् गणिममिति । Page #225 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ३२९) एतेणं पडिमाणप्पमाणेणं किं पओयणं ? एतेणं पडिमाणप्पमाणेणं सुवण-रजत-मणि- मोत्तिय संख-सिल-प्पवालादीणं दव्वाणं पडिमाणप्पमाणनिव्वत्तिलक्खणं भवति । सेतं पडिमाणे । सेतं विभागनिप्फण्णे । सेतं दव्वपमाणे । ( सू० ३३० ) से किं तं खेत्तप्पमाणे ? खेत्तप्पमाणे दुविहे पण्णत्ते । तं जहा - पदेसणिप्फण्णे य १ विभागणिप्फण्णे य २ । २०८ ( सू० ३३१ ) से किं तं पदेसणिप्फण्णे ? पदेसणिप्फण्णे- एगपदेसोगाढे दुपदेसोगाढे जाव संखेज्जपदेसोगाढे असंखिज्जपदेसोगाढे । सेतं पएसणिप्फण्णे । ( सू० ३३२ ) से किं तं विभागणिप्फण्णे ? विभागणिप्फण्णे I अथ प्रतिमानप्रमाणं निरूपयितुमाह से किं तं पडिमाणे इत्यादि । मीयतेऽनेनेति मानम्, मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमानम् । तत्र गुञ्जा चणोठिया १, सपादा गुञ्जा काकणी २, सत्रिभागकाकण्या त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पावः ३, त्रयो निष्पावा: कर्ममाषकः ४, द्वादश कर्ममाषका एको मण्डलक: ५, षोडश कर्ममाषका एकः सुवर्ण: ६ । अमुमेवार्थं किञ्चित् सूत्रेऽप्याह- पंच गुंजाओ इत्यादि, पञ्च गुञ्जा एक: कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एक: कर्ममाषकः । इदमुक्तं भवति - अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु, पूर्वोक्तानुसारेण न कश्चिदर्थभेद इति । एवं चक्क कम्ममासओ इत्यादि, चतसृभिः काकिणीभिर्निष्पन्नत्वाच्चतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदम्, ते द्वादश कर्ममाषका एको मण्डलक:, एवमष्टचत्वारिंशत्काकणीभिर्मण्डलको 'भवति' इति शेष:, भावार्थ: पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णः, भावार्थ: स एव । एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थम्, नवरं रजतं रूप्यम्, मणय: चन्द्रकान्तादय:, शिला राजपट्टकः, गन्धपट्ट इत्यन्ये । शेषं प्रतीतं यावत् तदेतत् प्रतिमानप्रमाणम्, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपि विभागनिष्पन्नं द्रव्यप्रमाणम्, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् । अथ क्षेत्रप्रमाणमभिधित्सुराह से किं तं खेत्तप्पमाणे इत्यादि । इदमपि द्विविधम् (प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र) प्रदेशा इह क्षेत्रस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । विभागः पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नम् । तत्रैकप्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभि: क्षेत्र प्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया । प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमान (ण) त्वादिति । विभाग Page #226 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३३३,३३४] २०९ अंगुल विहत्थि रयणी कुच्छी धणु गाउयं च बोधव्वं । जोयण सेढी पयरं लोगमलोगे वि य तहेव ॥ ९५।। (सू० ३३३) से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते । तंजहा-आयंगुले १, उस्सेहंगुले २, पमाणंगुले ३ । ___ (सू० ३३४) से किं तं आयंगुले ? आयंगुले जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं, नवमुहाइं पुरिसे पमाणजुत्ते भवति, दोणिए पुरिसे माणजुत्ते भवति, अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवति । निष्पन्नं त्वङ्गुलादि, तदेवाह- अंगुल विहत्थि गाहा । अङ्गुलादिस्वरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति । तत्राङ्गुलस्वरूपनिर्धारणायाह- से किं तं अंगुले इत्यादि। अङ्गुलं त्रिविधं प्रज्ञप्तम्, तद्यथाआत्माङ्गुलम् उत्सेधाङ्गुलं प्रमाणाङ्गुलम् । तत्र ये यस्मिन् काले १०१भरत-सगरादयो मनुष्या: प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह- जे णमित्यादि, ये भरतादय: प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेष:, इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम् । अनेनैवात्मागुलेन पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्वन्नाह- अप्पणो अंगुलेणं दुवालसेत्यादि, यद्यस्यात्मीयमङ्गुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुष: प्रमाणयुक्तो भवति, प्रत्येकं द्वादशाङ्गुलैर्नवभिर्मुखैरष्टोत्तरं शतमगुलानां संपद्यते, ततश्चैतावदुच्छ्रय: पुरुष: प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाहद्रोणिक: पुरुषो मानयुक्तो भवति, द्रोणी जलपरिपूर्णा महती कुण्डिका, तस्यां प्रवेशितो य: पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणेन जलस्योनां वा तां पूरयति स द्रोणिक: पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाह- सारपुद्गलरचितत्वात् तुलारोपित: सन्नर्द्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति । तत्रोत्तमपुरुषा यथोक्तैः प्रमाणमानोन्मानैः अन्यैश्च १०१. भरतसगरादय इत्यादि । ननु यदा भरतादिसदृशानामुत्तमपुरुषाणामभावस्तदा का व्यवस्था ? अयमस्माकमाशयः-यत्काले बहूनां यूनां साधारणः सहज उच्छ्रयः सप्तहस्तप्रमाणो भवति, तदाऽऽत्मागुलेनाष्टोत्तरशतागुलमानोऽप्येकः पुरुषः षड्ढस्तप्रमाणोच्छ्रयो यदि भवेत्, तर्हि किं स प्रमाणयुक्त उच्येत न वा ? शृण्वत्रोत्तरं- येऽष्टोत्तरशतागुलमानाद्धीना अधिका वा तेषां स्वरादिशेषलक्षणवत्त्व एवोत्तमत्वमग्रे वक्ष्यते । ये त्वष्टोत्तरशताङ्गुलमाना एव तेषां स्वरादीनां न कोऽपि विचारः करिष्यते । अतो निश्चीयते यदष्टोत्तरशतागुलमानास्तूत्तमा Page #227 -------------------------------------------------------------------------- ________________ २१० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं माणुम्माण- पमाणजुत्ता लक्खण- वंजण- गुणेहिं उववेया । उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा ॥९६॥ पुण अहियपुरिसा असतं अंगुलाण उव्विद्धा । छण्णउति अहमपुरिसा चउरुत्तर मज्झिमिल्ला उ ।।१७।। हणा वा अहिया वा जे खलु सर-सत्त-सारपरिहीणा ते उत्तमपुरिसाणं अवसा पेसत्तणमुर्वेति ॥ ९८ ॥ सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतद्दर्शयन्नाह - माणुम्माण गाहा । अनन्तरोक्तस्वरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषाः चक्रवर्त्यादयो मुणितव्या इति सम्बन्ध:, तथा लक्षणानि शङ्खस्वस्तिकादीनि, व्यञ्जनानि मष - तिलकादीनि, गुणाः क्षान्त्यादयः, तैरुपेताः, तथोत्तमकुलानि उग्रादीनि तत्प्रसूता इति गाथार्थः । अथात्माङ्गुलेनैवोत्तम-मध्यमा -ऽधमपुरुषाणां प्रमाणमाह- हुति पुण गाहा, भवन्ति पुनरधिकपुरुषा उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमङ्गलानाम् उव्विद्धा उन्मिता उच्चैस्त्वेन, पुन:शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्माङ्गुलेनैव षण्णवत्यङ्गुलान्यधमपुरुषा भवन्ति, चउरुत्तर मज्झिमिल्ला उत्ति तेनैवाङ्गुलेन चतुरुत्तरमङ्गुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः । ये अष्टोत्तरशताङ्गुलमानाद्धीना अधिका वा ते किं भवन्तीत्याह- हीणा वा गाहा, अष्टोत्तरशताङ्गुलमानात् हीना वा अधिका वा ये खलु, स्वरः सकलजनादेयत्व-प्रकृतिगम्भीरतादिगुणालङ्कृतो ध्वनिः, सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः, सारः शुभपुद्गलोपचयजः शारीरः शक्तिविशेष:, तैः परिहीणाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्राग्भाराणाम् अवशा अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयान्ति । स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाद्धीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं न केवलमिति लक्ष्यते, भरतचक्रवर्त्यादीनां स्वाङ्गुल विंशत्यधिकाङ्गुलशतप्रमाणानामपि निर्णीतत्वात्, महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यङ्गुलप्रमाणत्वात् । भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनः, यत उक्तम् - एव भवन्ति । न चोत्तमानां तत्तत्कालीनस्वाभाविकोच्छ्रयापेक्षया हीनोच्छ्रयत्वं सम्भवति । ततश्चात्माङ्गुलेनाष्टोत्तरशतमानत्वे तत्कालीनस्वाभाविकोच्छ्रयाऽपेक्षया हीनोच्छ्रयत्वं प्रायो न सम्भवतीति वयं सम्भावयामः । तथापि तत्सम्भवे तत्पुरुषस्याङ्गुलं नात्माङ्गुलत्वेन ग्राह्यमिति तु स्पष्टमेव । यस्यात्माङ्गुलेनाष्टोत्तरशतमान उच्छ्रयस्तत्कालीनस्वाभाविकोच्छ्रयतुल्यो भवेत्तस्यैवाङ्गुलमात्माङ्गुलमिति मन्तव्यम् । Page #228 -------------------------------------------------------------------------- ________________ २११ श्रीअनुयोगद्वारसूत्रम् [सू०३३५,३३६] (सू० ३३५) एतेणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ दंडं धणू जुगे नालिया अक्खमुसले, दो धणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं ।। (सू० ३३६) एएणं आयंगुलप्पमाणेणं किं पओयणं ? एतेणं आयंगुलप्पमाणेण जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं अगड-दह-नदी-तलागवावी-पुक्खरणि-दीहिया-गुंजालियाओ सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ आरामुजाण-काणण-वण-वणसंड-वणराईओ देवकुल-सभा-पवा-थूभ-खाइयपरिहाओ पागार-ऽट्टालग-चरिय-दार-गोपुर-तोरण-पासाद-घर-सरण-लेण-आवण अस्थिष्वर्थाः सुखं मांसे त्वचि भोगा: स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥ ( ) इति गाथार्थः । एतेनाङ्गुलप्रमाणेन षडङ्गुलानि पादः, पादस्य मध्यतलप्रदेश: षडङ्गुलविस्तीर्णः पादैकदेशत्वात् पादः, द्वौ च युग्मीकृतौ पादौ वितस्ति: । द्वे च वितस्ती रत्नि:, हस्त इत्यर्थः । रनिद्वयं कुक्षि: । प्रत्येक कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्ड-धनु-युग-नालिका-ऽक्षमुशललक्षणा भवन्ति, तत्राक्षो धू:, शेषाश्च गतार्थाः, द्वे धनु:सहस्रे गव्यूतम्, चत्वारि गव्यूतानि योजनम् । एतेणं आयंगुलप्पमाणेणं किं पओयणमित्यादि गतार्थम्, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽङ्गुलेन स्वकीयकालसम्भवीन्यवट-हृदादीनि मीयन्त इति सण्टङ्कः । तत्र अवट: कूप: । तडाग: खानितो जलाशयविशेष: । वाप्य: चतुरस्रा जलाशयविशेषाः । पुष्करिण्यो वृत्तास्ता एव, पुष्करवन्त्यो वा । दीर्घिका: सारिण्यः। सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते । सरः स्वयंसम्भूतो जलाशयविशेष एव। सरपंतियाउ त्ति पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः। सरसरपंतियाउ त्ति यासु सर:पङ्क्तिष्वेकस्मात् सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ता: सर:सर:पङ्क्तय: । बिलपङ्क्तय: प्रतीता: । माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति क्रीडन्ति ते आरामा: । पुष्प-फलादिसमृद्धानेकवृक्षसङ्कुलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि । सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्य: परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्य: पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि । एकजातीयवृक्षाकीर्णानि वनानि । अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि वनखण्डानि । एकजातीयानामितरेषां वा शाखिनां पङ्क्तयो वनराजयः । सन्तो भजन्त्येतामिति सभा पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा । अध उपरि च समखातरूपा Page #229 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं सिंघाडग-तिय- चउक्क - चच्चर - चउमुह - महापह - पहा सगड - रह जाण - जुग्ग- गिल्लि - थिल्लि सीय- संदमाणिय- लोही- लोहकडाह - कडुच्छु य- आसण-सतण-खंभ- भंडमत्तोवगरणमादीणि अज्जकालिगाई च जोयणाई मविज्जंति । ( सू० ३३७ ) से समासओ तिविहे पण्णते । तंजहा - सूतिअंगुले १, पयरंगुले २, घणं ३ | अंगुलायता एगपदेसिया सेढी सूइअंगुले १, सूयी सूयीए गुणिया पयरंगुले २, पयरं सूईए गुणितं घणंगले ३ । २१२ , खातिका | अधः सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु परिखा । प्राकारोपरि आश्रयविशेषाः अट्टालका: । गृहाणां प्राकारस्य चान्तरे अष्टहस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका । प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि । राज्ञां देवतानां च भवनानि प्रासादाः, उत्सेधबहुला वा प्रासादा: । गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि । लयनानि उत्कीर्णपर्वतगृहाणि, गिरिगुहा वा, कार्पटिकाद्यावासस्थानं वा । आपणा हट्टा: । नानागृहाध्यासितस्त्रिकोणो भूभागविशेष: शृङ्गाटकम् स्थापना 4, त्रिपथसमागमो वा शृङ्गाटकम्, त्रिकं तु त्रिपथसमागम एव, तद्यथा । प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा चतुष्पथसमागम वा चतुष्कम् । चत्वरं चतुष्पथसमागम एव + षट्पथसमागमो वा चत्वरम् । चतुर्मुखदेवकुलिकादि चतुर्मुखम् । महान् राजमार्गो महापथः, इतरे पन्थानः । देवकुल- सभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते । शकटं गड्डकादि । रथो द्विधा - यानरथः सङ्ग्रामरथश्च, तत्र सङ्ग्रामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति विशेषः । यानं गन्त्र्यादि । जुग्गत्ति गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानम् | गिल्लि त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । थिल्लित लाटानां यदड्डपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते । सीय त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेषः । संदमणिय त्ति पुरुषप्रमाणायामो जम्पानविशेष एव । लोहि त्ति लोही मण्डकादिपचनिका कविल्ली। लोहकडाह त्ति लोहमयं बृहत्कडिल्लम् । भाण्डं मृन्मयादिभाजनम् । मात्र: कांश(स्य)भाजनाद्युपकरणमात्राया आधारविशेषः । उपकरणं त्वनेकविधं कट-पिटक - शूर्पादिकम् । शेषं तु यदिह क्वचित् किञ्चिन्न व्याख्यातं तत् सुगमत्वादिति मन्तव्यम् । तदेवमात्मागुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः । इदं चात्माङ्गुलं सूच्यङ्गुलादिभेदात् त्रिविधम् । तत्र दैर्घ्येणाङ्गुलायता बाहल्यतस्त्वेकप्रादेशिकी नभः प्रदेशश्रेणिः सूच्यङ्गुलमुच्यते एतच्च सद्भावतोऽसङ्ख्येयप्रदेशमप्यसत्कल्पनया " Page #230 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०३३८-३४२] २१३ ( सू० ३३८ ) एतेसि णं भंते ! सूतिअंगुल - पयरंगुल-घणंगुलाण य कतरे कतरेहिंतो अप्पे वा बहु वा तुले वा विसेसाहिए वा ? सव्वत्थोवे सूतिअंगुले, पतरंगुले असंखेज्जगुणे, घणंगले असंखेज्जगुणे । सेतं आयंगुले । ( सू० ३३९ ) से किं तं उस्सेहंगुले ? उस्सेहंगुले अणेगविहे पण्णत्ते । तंजहापरमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्ठगुणविवड्ढिया कमसो ॥ ९९ ॥ ( सू० ३४० ) से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते । तंजहा - सुहुमे य १, हारि २ । ( सू० ३४१ ) तत्थ णं जे से सहमे से ठप्पे । (सू० ३४२) से किं तं वावहारिए ? वावहारिए - अणंताणं सुहुमपरमाणुपोग्गलाणं सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यम्, तद्यथा-18], सूची सूच्यैव गुणिता प्रतराङ्गुलम्, इदमपि परमार्थतोऽसङ्ख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचितयैव गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं संपद्यते, स्थापना-, प्रतरश्च सूच्या गुणित दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं घनाङ्गुलं भवति, दैर्घ्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्येह रूढत्वात् । प्रतराङ्गुलं तु दैर्घ्य - विष्कम्भाभ्यामेव समं न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः । इदमपि वस्तुवृत्त्याऽसङ्ख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्ता (प्त) विंशतिप्रदेशात्मकम्, पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावात् । एषां च स्थापना [२७] अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्घ्य - विष्कम्भ - पिण्डैस्तुल्यमिदमापद्यते । एएसं णं भंते इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टन्यायानुसारतः सुखावसेयैव । तदेतदात्माङ्गुलमिति । अथोत्सेधाङ्गुलनिर्णयार्थमाह से किं तं उस्सेहंगुले इत्यादि । उत्सेधः अनंताणं सुहुमपरमाणुपोग्गलाणमित्यादिक्रमेणोच्छ्रयो वृद्धिनयनं तस्माज्जातमङ्गुलमुत्सेधाङ्गुलम्, अथवा उत्सेधो नारकादिशरीराणामुच्चैस्त्वम्, तत्स्वरूपनिर्णयार्थमङ्गुलमुत्सेधाङ्गुलम्, तच्च कारणस्य परमाणु-त्रसरेण्वादेरनेकविधत्वादनेकविधं प्रज्ञप्तम्, तदेव कारणानेकविधत्वं दर्शयति - तद्यथेत्यादि । परमाणू इत्यादिगाथां सूत्रकृत् स्वयमेव विवरीषुराह - से किं तं परमाणू इत्यादि । परमाणुर्द्विविधः प्रज्ञप्तः - सूक्ष्मो व्यावहारिकश्च तत्र सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः । से किं तं वावहारिए इत्यादि, कियद्भिः पुनः सूक्ष्मैर्नैश्चयिकपरमाणुभिरेको व्यावहारिक: Page #231 -------------------------------------------------------------------------- ________________ २१४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं समुदयसमितिसमागमेणं से एगे वावहारिए परमाणुपोग्गले निप्पजति । (सू० ३४३) (१) से णं भंते ! असिधारं वा खुरधारं वा ओगाहेज्जा? हंता ओगाहेजा। से णं तत्थ छिज्जेज वा भिज्जेज वा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमति । (२) से णं भंते ! अगणिकायस्स मज्झमझेणं वीतीवदेजा ? हंता वितीवदेजा। से णं तत्थ डहेज्जा ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति । (३) से णं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झंमज्झेणं वीतीवदेजा ? हंता परमाणुनिष्पद्यते ? अत्रोत्तरम्- अणंताणमित्यादि । अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदया: व्यादिसमुदायात्मकानि वृन्दानि तेषां या: समितयो बहूनि मीलनानि तासां समागमः संयोग एकीभवनं समुदयसमितिसमागमः, तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते । इदमुक्तं भवति- निश्चयनय: कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस-वर्ण-गन्धो द्विस्पर्श: कार्यलिङ्गश्च ॥१॥ ( ) इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यश्चैतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि य: शस्त्रच्छेदाऽग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्ते: परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयत: स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिक: परमाणुरुक्तः । न च वक्तव्यम्- अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुत्पादयति- से णं भंते इत्यादि, स भदन्त ! व्यावहारिकपरमाणु: कदाचित् असि: खड्गः तद्धारां वा क्षुरो नापितोपकरणं तद्धारां वा अवगाहेत आक्रामेद् ? अत्रोत्तरं हन्तावगाहेत, हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा, अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनम् । पुन: पृच्छतिस तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत भिद्येत वा अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ? उत्तरमाह- नायमर्थ: समर्थः, नैतदेवमिति भावः । अत्रोपपत्तिमाह- न खलु तत्र शस्त्र क्रामति, इदमुक्तं भवति- यद्यप्यनन्तैः परमाणुभिर्निष्पन्ना: काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्यानन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिक: परमाणुाह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह- स भदन्ताग्निकायस्य वह्नमध्यंमध्येन अन्तरे व्यतिव्रजेद् गच्छेत् ? हन्तेत्याद्युत्तरं पूर्ववत् । नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यम् । पुन: पृच्छति- से णं भंते पुक्खल इत्यादि, इदमपि सूत्रं पूर्ववद्भावनीयम्। नवरं पुष्करसंवर्तस्य Page #232 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३४३] २१५ वीतीवदेज्जा । से णं तत्थ उदउल्ले सिया ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति । (४) से णं भंते ! गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा ? हंता हव्वमागच्छेजा। से णं तत्थ विणिघायमावजेजा ? नो तिणढे समतु, णो खलु तत्थ सत्थं कमति । (५) से णं भंते ! उदगावत्तं वा उदगबिंदु वा ओगाहेज्जा ? हंता ओगाहेजा। से णं तत्थ कुच्छेज्ज वा परियावजेज वा ? णो इणमढे समढे, नो खलु तत्थ सत्थं कमति । १०२सत्थेण सुतिक्खेण वि छेत्तुं भेत्तुं व जं किर न सक्का । तं परमाणू सिद्धा वयंति आदी पमाणाणं ॥१००॥ महामेघस्येयं प्ररूपणा- इहोत्सर्पिण्यामेकविंशतिवर्षसहस्रमाने दुष्षमदुष्षमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघा: प्रादुर्भविष्यन्ति, तद्यथा- पुष्कलसंवर्तक उदकरस: प्रथम:, द्वितीय: क्षीरोदः, तृतीयो घृतोदः, चतुर्थोऽमृतोदः, पञ्चमो रसोदः । तत्र पुष्कलसंवर्गोऽस्य भरतक्षेत्रस्य पुष्कलं प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षता-दाहादिकं प्रशस्तस्वकीयोदकेन संवर्तयति नाशयति, एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्य: । उदउल्ले सिय त्ति उदकेनार्द्रः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया । से णं भंते ! गंगाए इत्यादि, गङ्गाया महानद्या: प्रतिश्रोतो हव्यं शीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाद्यभिमुख: स आगच्छेत् तन्मध्येनेति भावः । विणिहायमित्यादि, विनिघात: तच्छ्रोतसि प्रतिस्फलनम्, तमापद्येत प्राप्नुयात्, शेषं पूर्ववत् । से णं भंते उदगावत्तमित्यादि, उदकावर्तोदकबिन्द्वोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः, स च तत्रोदकसम्पर्कात् कुथ्येद्वा पूतिभावं यायात् पर्यापद्येत वा जलरूपतया परिणमेदित्यर्थः, शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपत: प्राह- सत्थेण गाहा गतार्था, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभते इत्येतत् किलशब्देन सूचयति, सिद्ध त्ति ज्ञानसिद्धा: केवलिनो न तु सिद्धा: सिद्धिगताः, तेषां वदनस्यासम्भवादिति । अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा, सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत् प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छ्लक्ष्णश्लक्ष्णिका, इतिरुपप्रदर्शने, वा उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति १०२. सत्येण सुतिखेणवित्ति । सामान्यतश्छेद्यापेक्षया छेदकस्य सूक्ष्मत्व एव छेद्यस्य छेदः सम्भवति । अत्र तु तद्वैपरीत्यमेव, सुतीक्ष्णस्यापि शस्त्रस्य जघन्यतोऽप्यनुलसङ्ख्येयभागप्रमाणत्वात् । ततश्च छेदासम्भवः स्पष्ट एव । Page #233 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३४४) अनंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसहिया ति वा सण्हसहिया ति वा उडरेणू ति वा तसरेणू ति वा रहरेणू ति वा । अट्ठ उस्सण्हसहियाओ सा एगा सहसहिया । अट्ठ सहसहियाओ सा एगा उरेणू । अट्ठ उडरेणूओ सा एगा तसरेणू । अट्ठ तसरेणूओ सा एगा रहरेणू । अट्ठ रहरेणूओ १०३ देवकुरु - उत्तरकुरुयाणं मणुयाणं से एगे वालग्गे । अट्ठ देवकुरु- उत्तरकुरुयाणं मणुयाणं वालग्गा हरिवास - रम्मगवासाणं मणुयाणं से एगे वालग्गे । अट्ठ हरिवस्स- रम्मयवासाणं मस्साणं वालग्गा, हेमवय- हेरण्णवयवासाणं मणुस्साणं से एगे वालग्गे । अट्ठ हेमवयहेरण्णवयवासाणं मणुस्साणं वालग्गा पुव्वविदेहअवरविदेहाणं मणुस्साणं से एगे वालग्गे । अट्ठ पुव्वविदेह-अवरविदेहाणं मणूसाणं वालग्गा भरहेरवयाणं मणुस्साणं से एगे वालग्गे । अट्ठ भरहेरवयाणं मणूसाणं वालग्गा सा एगा लिक्खा । अट्ठ लिक्खाओ सा एगा जूया । अट्ठ जूयातो से एगे जवमज्झे । अट्ठ जवमज्झे से एगे उस्सेहंगुले । ( सू० ३४५) एएणं अंगुलपमाणेणं छ अंगुलाई पादो, बारस अंगुलाई विहत्थी, चवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नउती अंगुलाई से एगे दंडे इवाइ वा जुगेइ वा नालिया इ वा अक्खे इ वा मुसले इ वा, एएणं धणुप्पमाणेणं वा इत्यादिष्वपि वाच्यम् । एते चोच्छ्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वसाम्यं न व्यभिचरन्त्यतः प्रथमं निर्विशेषितमप्युक्तं सा गा उस्सण्हसहिया इ वा इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्वलनधर्मा रेणुरूर्ध्वरेणुः, एतानि चोच्छ्लक्ष्णश्लक्ष्णिकादित्रीणि पदानि परमाणू तसरेणू इत्यादिगाथायाम् अनुक्तान्यप्युपलक्षणत्वाद् द्रष्टव्यानि । त्रस्यति पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, वालाग्र-लिक्षादयः प्रतीताः । देवकुरूत्तरकुरु- हरिवर्ष रम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया, शेषं निर्णीतार्थमेव यावत् नेरइयाणं भंते ! २१६ १०३. देवकुरुउत्तरकुरूणंति । ननु द्रव्यलोकप्रकाशे प्रथमसर्गे “स पूर्य उत्तरकुरुनृणां शिरसि मुण्डिते । दिनैरेकादिसप्तान्तैरूढकेशाग्रराशिभिः । ॥७३ ।।” इत्येवमुक्तम् । तत्किमनियतमानाः केशाग्रा ग्राह्याः ? इति चेत् ? न नियतमानत्वात्तेषाम् । तच्चैवम्-एकस्योत्सेधाङ्गुलमानस्य केशस्याष्टौ तुल्या भागाः कर्तव्याः । तदेकस्याष्टमभागस्य पुनरष्टौ भागाः कर्तव्याः । एवमुत्तरोत्तरमष्टकृत्वोऽष्ट- अष्टभागाः कर्तव्याः । एवं सर्वे केशखण्डा एका कोटिः सप्तषष्टिर्लक्षाणि सप्तसप्ततिसहस्राणि षोडशाधिके च द्वे शते प्राप्यन्ते । ततश्चोत्सेधाङ्गुलस्यैतावत्तमो (१६७ Page #234 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३४६-३४७] दो धणुसहस्सा गाउयं, चत्तारि गाउयाई जोयणं । ( सू० ३४६ ) एएणं उस्सेहंगुलेणं किं पओयणं ? एएणं उस्सेहंगुलेणं णेरइयतिरिक्खजोणिय-मणूस - देवाणं सरीरोगाहणाओ मविजंति । ( सू० ३४७ ) ( १ ) णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोतमा ! दुवा पण्णत्ता । जहा - भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ जा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं पंच धणूसयाई । तत्थ णं जा सा उत्तरवेउव्विया सा जहणणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुसहस्सं । (२) रयणप्पभापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता । गोयमा ! दुविहा पण्णत्ता । जहा - भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जास भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्तणू त रयणीओ छच्च अंगुलाई । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्त्रेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं पण्णरस धणूइं अड्डाइज्जाओ रयणीओ य । (३) सक्करप्पभापुढविणेरड्याणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गो० ! दुविहा पण्णत्ता । जहा - भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत् भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं पण्णरस धणूई केमहालिया सरीरोगाहणेत्यादि । अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा । यद्यनेनोत्सेधाङ्गुलेन नारकादीनां शरीरावगाहना मीयन्ते तर्हि भदन्त ! नारकाणां तावत् केमहालिया कियन्महती किंमहत्त्वोपेता, कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेव मनुजा ऽसुरवरायां पर्षदि प्रज्ञप्ता प्ररूपिता ? अत्र भगवान् गौतममामन्त्र्योत्तरमाह - गौतम ! द्विविधा द्विप्रकारा प्रज्ञप्ता, तद्यथा- भवधारणीया चोत्तरवैक्रिया च । ननु शरीरावगाहनाया: प्रमाणे पृष्टे तद्द्वैविध्यलक्षणभेदकथनमप्रस्तुतमिति चेत्, नैवम्, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन ७७२१६ तमो) भागो यत्प्रमाणस्तत्प्रमाणानामेव वालाग्राणां ग्राह्यत्वान्नानियतमानत्वं तेषाम् । तत्प्रमाणश्च केशाग्रः कस्यचिदुत्तरकुरुनरस्यैकेनैव दिनेन प्ररूढो भवति, कस्यचिद् द्वाभ्यां दिनाभ्यां कस्यचित्तु त्रिभिर्दिनैरेवं यावत् कस्यचित् सप्तभिर्दिनैरिति 'दिनैरेकादिसप्तान्तैरूढकेशाग्रराशिभिः' इत्यादिशास्त्रान्तरेषूक्तमिति ध्येयम् । अन्यत्र तु 'सप्तकृत्वोऽष्टअष्टभागाः कर्तव्याः' इत्युक्तमपि प्राप्यते । ततश्च तन्मते सर्वे केशाग्रा विंशतिर्लक्षाणि सप्तनवतिसहस्राणि द्विपञ्चाशदधिकं च शतं ( २०९७१५२) प्राप्यन्त इति ध्येयम् । २१७ Page #235 -------------------------------------------------------------------------- ________________ २१८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं अड्डाइजाओ रयणीओ य। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं एक्कत्तीसं धणूई रयणी य । (४) वालुयपभापुढवीए णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पं० ? गो० ! दुविहा पण्णत्ता, तंजहा-भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं एकतीसं धणूई रयणी य । तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं बासहिँ धणूई दो रयणीओ य।। (५) एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा-पंकप्पभाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बासहिँ धणूई दो रयणीओ य; उत्तरवेउब्विया जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं । धूमप्पभाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं; उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं उक्कोसेणं अड्डाइज्जाइं धणूसयाई । तमाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं अड्डाइजाई धणूसयाइं; उत्तरवेउब्विया जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पंच धणुसयाई । (६) तमतमापुढविनेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता । तंजहा-भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पंच धणूसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुसहस्सं। व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित् प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत् कथ्यत इति भावः । तत्र भवे नारकादिपर्यायभवनलक्षणे आयु:समाप्तिं यावत् सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया। तत्र भवधारणीया जघन्यतोऽगुलासङ्खयेयभागमात्रा उत्पद्यमानानाम्, उत्कृष्टा तु पञ्चधनु:शतमाना सप्तमपृथिव्याम् । उत्तरवैक्रिया त्वाद्यसमयेऽप्यनुलस्य सङ्खयेयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्खयेयभागस्य कर्तुमशक्यत्वादिति भाव: । उत्कृष्टा तु धनु:सहस्रप्रमाणा सप्तमपृथिव्यामेव । ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह- रयणप्पहापुढवीत्यादि सूत्रसिद्धमेव । नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु द्रष्टव्या, भवधारणीयायाश्चोत्कृष्टाया: सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया । तदेवं Page #236 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३४८,३४९] २१९ (सू० ३४८) (१) असुरकुमाराणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोतमा ! दुविहा पण्णत्ता । तं० भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेजइभाग, उक्कोसेणं जोयणसतसहस्सं। (२) एवं असुरकुमारगमेणं जाव थणितकुमाराणं ताव भाणियव्वं। (सू० ३४९) (१) पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजतिभागं । एवं सुहुमाणं ओहियाणं अपजत्तयाणं पजत्तयाणं, बादराणं ओहियाणं अपजत्तयाणं पजत्तयाणं च भाणियव्वं । एवं जाव बादरवाउक्काइयाणं अपज्जत्तयाणं पज्जत्तयाणं भाणियव्वं । (२) वणस्सइकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गो० ! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं। सुहुमवणस्सइकाइयाणं ओहियाणं १ अपजत्तयाणं २ पजत्तगाणं ३ तिण्ह वि जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजतिभागं । बादरवणस्सतिकाइयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं; अपजत्तयाणं जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं; पजत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । नेरइया असुराई पुढवाई बिंदियादओ तह य । पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥१।। ( ) इति समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितम्। साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह- असुरकुमाराणं भंते केमहालियेत्यादि सर्वं पाठसिद्धम्, नवरम् उत्तरवैक्रियावगाहनाऽत्रापि जघन्या अङ्गुलस्य सङ्खयेयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना, अन्ये त्वाहुः - नागकुमारादिनवनिकायेषूत्कृष्टाऽसौ योजनसहस्रमानैवेति। ___अथ पृथिव्यादिपदेऽवगाहनामानमाह - पुढविकाइयाणं भंते ! इत्यादि । इहौघिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते १, ततस्तेषामेवौघत: सूक्ष्माणाम् २, तत: सूक्ष्माणामप्यपर्याप्तानाम् ३, तथा पर्याप्तानाम् ४, तत औघिकबादराणाम् ५, ततोऽमीषामेवापर्याप्तत्वविशेषितानाम् Page #237 -------------------------------------------------------------------------- ________________ २२० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३५०) (१) एवं बेइंदियाईणं पुच्छा भाणियव्वा-बेइंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बारस जोयणाइं; अपजत्तयाणं जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं; पजत्तयाणं जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं बारस जोयणाई। (२) तेइंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं तिण्णि गाउयाइं; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं; पजत्तयाणं जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं तिण्णि गाउयाई। (३) चउरिदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं चत्तारि गाउयाई; अपजत्तयाणं जहन्नेणं उक्कोसेण वि अंगुलस्स असंखेजइभार्ग; पज्जत्तयाणं पुच्छा, जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं चत्तारि गाउयाई । ६, तथा पर्याप्तत्वविशेषितानाम् ७, तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानामगुलासङ्खयेयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते । एवमप्तेजो-वायु-वनस्पतिष्वगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौघिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽमुलासङ्खयेयभागरूपा, उत्कृष्टतस्तु समुद्र-गोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहस्रमाना अवगाहना द्रष्टव्या, अत्राह- ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारका-ऽसुरकुमारादिष्वप्यपर्याप्त-पर्याप्तभेदत: कस्मादसौ न प्रोक्ता ? सत्यम्, किन्तु ते लब्धित: सर्वेऽपि पर्याप्ता एव भवन्ति, १०४अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण । ___ अथ द्वीन्द्रियादिपदे अवगाहनामाह- तत्रौघिकद्वीन्द्रियाणाम् अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहना चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात् सूक्ष्मत्वाभावतो न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादिशङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामवगन्तव्या, एवं चतुरिन्द्रियेष्वपि, नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्वीपवर्तिनां भ्रमरादीनाम् । १०४. अतोऽपर्याप्तत्वेत्यादि । ननु पूर्वं (सू. २१६) द्विनामनिरूपणे 'अविसेसिए रयणप्पभापुढविणेरइए, विसेसिए पज्जत्तए य अपज्जत्तए य' त्तिसूत्रेऽपर्याप्तत्वलक्षणं प्रकारान्तरमुक्तमेवेति चेत् ? न, तत्र करणमपेक्ष्य तदुक्तं, अत्र तु लब्धिमपेक्ष्य चिन्त्यमानत्वात्तन्निषेध इति न कोऽपि विरोधः । ननु तत्र यदि करणापेक्षया पर्याप्तापर्याप्तत्वे चिन्तिते तत्रापि तदपेक्षयैव किं ते न चिन्तिते ? इत्याशङ्कायामाह-विचित्रत्वाद्वा सूत्रगतेरिति । Page #238 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०३५१] २२१ ( सू० ३५१ ) ( १ ) पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । (२) जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचेंदियाणं एवं चेव । अपज्जत्तगसम्मुच्छिमजलयरपंचेंदियाणं पुच्छा, जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असं० । पज्जत्तयसम्मुच्छि मजलयरपंचेंदियाणं पुच्छा, जहन्त्रेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । गब्भवक्कंतियजलयरपंचेंदियाणं पुच्छा, गो० जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । अपज्जत्तयाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं० । पज्जत्तयाणं पुच्छा, गोयमा ! जहन्नेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । (३) चउप्पयथलयराणं पुच्छा, गो० ! जह० अंगुलस्स असं०, उक्कोसेणं छ गाउयाई । सम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं, अपज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु ० असं०, उक्को० अंगु० असं० । पज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जहन्त्रेणं अंगु० संखे०, उक्को० गाउअपुहत्तं । गब्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गोयमा ! जह० अंगु० असं०, उक्को० छ गाउयाई । अपज्जत्तयगब्भवक्वंतियचउप्पयथलयरपंचेंदियाणं अत्र पञ्चेन्द्रियतिर्यक्पदेऽवगाहनां निरूपयितुमाह- पंचेंदियतिरिक्खजोणियाणमित्यादि । इहौघिकपञ्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते - सा चोत्कृष्ट योजनसहस्रम् १०५ जघन्यं तु पदं सर्वत्राङ्गुलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यञ्चो जलचर-स्थलचर-खचरभेदात् त्रिधा भवन्ति, तत्रौघिकजलचराणां प्रथममवगाहना निरूप्यते - साऽप्युत्कृष्टा योजनसहस्रम् १, ततस्तेषामेव सम्मूर्च्छजानां तावन्मानैव २, ततस्तेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टाऽप्यङ्गुलासङ्ख्येयभागमानैव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्टा योजनसहस्रम् ४, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षवती योजनसहस्रम् ५, अत एतेषामेवा - पर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यगुलासङ्ख्येयभागः ६, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७, इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि । अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयम् । १०५. जघन्यं तु पदं सर्वत्राङ्गुलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयमित्यादि । ननु सूत्रकारैः पृथ्वीकायिकादीनां पर्याप्तानामपि जघन्यतोऽङ्गुलस्यासङ्ख्येयभाग एवावगाहना प्रोक्ता । परन्तु द्वीन्द्रियादिविकलेन्द्रियाणां पञ्चेन्द्रियाणां च पर्याप्तविशेषितानां सा Page #239 -------------------------------------------------------------------------- ________________ २२२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जहन्नेणं अंगु० संखे० उक्कोसेणं छ गाउयाई । उरपरिसप्पथलयरपंचिंदियाणं पुच्छा, गो० ! जहन्त्रेणं अंगु० असं०, उक्कोसेणं जोयणसहस्सं । सम्मुच्छिमउरपरिसप्पथलयरपंचेंदियाणं पुच्छा, गो० ! जहन्नेणं अंगु० असंखे०, उक्कोसेणं जोयणपुहत्तं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगुल० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणपुहत्तं । गब्भवक्कंतियउरपरिसप्पथलयर० जह० अंगु० असं०, उक्कोसेणं जोयणसहस्सं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । भुयपरिसप्पथलयराणं पुच्छा, गो० ! जह० अंगु० असंखे०, उक्कोसेणं गाउयपुहत्तं । सम्मुच्छिमभुय० जाव जह० अंगु० असं०, उक्को० धणुपुहत्तं । अपज्जत्तगसम्मुच्छिमभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्को० अंगु० असं० । पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं धणुपुहत्तं । गब्भवक्वंतियभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयगब्भवक्वंतिय० जाव पुच्छा, गो० ! जह० अंगु० संखे०, उक्को० गाउयपुहत्तं । इदानीं स्थलचरेषु निरूप्यते - तेऽपि चतुष्पदोरः परिसर्प - भुजपरिसर्पभेदात् त्रिविधा भवन्ति, अत आदावौघिकचतुष्पदस्थलचराणामुच्यते - सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षड्गव्यूतप्रमाणा निश्चेतव्या १, ततस्तेषामेव सम्मूर्च्छजत्वविशेषितानां सा गव्यूतपृथक्त्वम् २, ततोऽपर्याप्तानामुत्कृष्टाऽप्यगुलासङ्ख्येयभागः ३, पर्याप्तानां गव्यूतपृथक्त्वम् ४, तेषामेव गर्भजानां गव्यूतषट्कम् ५, तेषामेवापर्याप्तानामङ्गुलासङ्घयेयभागः ६, पर्याप्तानां षड् गव्यूतानि ७, इति चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि । सर्वत्राङ्गुलस्य सङ्ख्येयभागमानैवोक्ता । ततश्च सूत्रकारवृत्तिकारयोः कथं न विरोधः, वृत्तिकारैः सर्वत्राविशेषेणाङ्गुलासङ्ख्येयभागस्य कथितत्वादिति चेत् ? न अभिप्रायापरिज्ञानात्, वृत्तिकारैरङ्गुलस्यासङ्ख्येयभागो य उक्तः स लब्धितो पर्याप्तानामप्यपर्याप्तावस्थामपेक्ष्य, सूत्रकारैस्तु सङ्ख्येयभागो यः कथितः स पर्याप्तावस्थामपेक्ष्येति कुतो विरोधगन्धोऽपि । एतेनेदमपि ज्ञायते यद् 'लब्धितः पर्याप्तानामपि त्रसानां भवाद्यसमये या जघन्याऽवगाहना साऽङ्गुलस्याऽसङ्ख्येयभागमानैव भवति, पर्याप्तावस्थायाञ्च सा जघन्याऽवगाहनाऽङगुलस्य सङख्येयभागमानैव भवति, न त्वसङ्ख्येयभागमाने 'ति । बादरवणप्फदिकाइयपत्तेयसरीरणिव्वत्ति-पज्जत्तयस्स जहण्णिया ओगाहणा असंखेज्जगुणा ।।४-२-५-८० ।। बेइंदियणिव्वत्तिपज्जत्तयस्स जहण्णिया ओगाहणा Page #240 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०३५१] २२३ (४) खहयरपंचेंदियतिरिक्खजोणियाणं०, गो० ! जह० अंगु० असं०, उक्को० धणुपुहत्तं । सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु वि गमेसु तहा भाणियव्वं । गब्भवक्कंतियाणं जह० अंगु०, असं०, उक्कोसेणं धणुपुहत्तं; अपज्जत्तयाणं जहन्त्रेणं अंगु० असं०, उक्को० अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्को० धत्तं । (५) एत्थं संगहणिगाहाओ भवंति । तंजहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोहं तु धणुपुत्तं सम्मुच्छिम होइ उच्चत्तं ॥ १०१ ॥ साम्प्रतं विषधराद्युर:परिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्ववगाहना प्रोच्यते- तत्रौधिकोर: परिसर्पाणां बहिर्द्वीपवर्तिगर्भजसर्पानाश्रित्योत्कृष्टा योजनसहस्रम् १, सम्मूर्च्छनजानां योजनपृथक्त्वम् २, तेषामप्यपर्याप्तानां अङ्गुलासङ्ख्येयभागः ३, पर्याप्तानां योजनपृथक्त्वम् ४, गर्भजानां सर्पाणां योजनसहस्रम् ५, अपर्याप्तानामङ्गुलासङ्घयेयभागः ६, पर्याप्तानां योजनसहस्रम् ७, इत्युरः परिसर्पेषु सप्त स्थानानि । एवं भुजपरिसर्पेष्वपि गोधा-नकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे १ सामान्यगर्भजपदे २ पर्याप्तगर्भजपदे च ३ गव्यूतपृथक्त्वम्, सामान्यसम्मूर्च्छनजपदे ४, पर्याप्तसम्मूर्च्छनजपदे ५ च धनुः पृथक्त्वम्, शेषपदद्वयेऽङ्गुलासङ्घयेयभागः ६-७, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता । एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्रापर्याप्तसम्मूर्च्छजाऽपर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकम् अङ्गुलासङ्घयेयभागः, शेषेषु पञ्चसु स्थानेषु धनुः पृथक्त्वम्, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह - एत्थ संगहणिगाहाओ भवंति, तंजहा जोअणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दुहं तु धणुपुहत्तं समुच्छिम होइ उच्चत्तं ॥ १ ॥ ( ) सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परत:, सम्मूर्च्छजअसंखेज्जगुणा ।। ८१ ।। तेइंदियणिव्वत्तिपज्जत्तयस्स जहण्णिया ओगाहणा संखेज्जगुणा ||८२ ।।... पंचिंदियणिव्वत्तिपज्जत्तयस्स उक्कस्सिया ओगाहणा संखेज्जगुणा ।।४-२-५-९४।। षट्खण्डागमोक्तैरेतैः सूत्रैरप्येतन्निश्चीयते यल्लब्धितः करणतश्च पर्याप्तकानां द्वीन्द्रियादीनां जीवानां जघन्याऽवगाहनाऽङ्गुलस्य सङ्ख्येयभागप्रमाणा भवतीति । यतश्चैतानि सूत्राणि ज्ञानावरणीयकर्मवेदकजीवक्षेत्रनिरूपणावसरे कथितानि, अतः पञ्चेन्द्रियपर्याप्तकोत्कृष्टावगाहनातया केवलिसमुद्घातप्राप्यमाणस्य सम्पूर्णलोकस्यात्रानुक्तिः । Page #241 -------------------------------------------------------------------------- ________________ २२४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जोयणसहस्स छग्गाउयाइं तत्तो य जोयणसहस्सं । गाउयपुत्त भुयगे पक्खी भवे धणुपुहत्तं ॥ १०२॥ ( सू० ३५२ ) ( १ ) मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं तिन्नि गाउयाई । (२) सम्मुच्छिममणुस्साणं जाव गोयमा ! जहन्नेणं अंगु० असं०, उक्को० अंगु० असं० । (३) गब्भवक्कंतियमणुस्साणं जाव गोयमा ! जह० अंगु० असं०, उक्कोसेणं तिन्नि गाउयाइं । अपज्जत्तगगब्भवक्वतियमणुस्साणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेण वि अंगु० असं० । पज्जत्तयग० पुच्छा, गो० ! जह० अंगु० संखे०, उक्कोसेणं तिन गाउयाइं । (सू० ३५३) वाणमंतराणं भवधारणिज्जा उत्तरवेउव्विआ य जहा असुरकुमाराणं तहा भाणियव्वं । ( सू० ३५४) जहा वाणमंतराणं तहा जोतिसियाणं । ( सू० ३५५ ) ( १ ) सोहम्मयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा प० । तं० भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जास भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतसहस्सं । चतुष्पदानां तु गव्यूतपृथक्त्वमेव, सम्मूर्च्छजोर : परिसर्पाणां योजनपृथक्त्वमेव, सम्मूर्च्छजभुजपरिसर्पखचरलक्षणयोर्द्वयोः प्रत्येकं धनुः पृथक्त्वमेवेति । तदेवं सम्मूर्च्छजविषय: सङ्ग्रहः कृतः । अथ गर्भजविषयं तं कुर्वन्नाह जो अणसहस्स छग्गाउआई तत्तो य जोअणसहस्सं । गाउयपुत्त भुयगे पक्खी भवे धणुपुहत्तं ॥ १ ॥ ( ) गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गव्यूतानि, गर्भजोरः परिसर्पाणां योजनसहस्रम्, गर्भजभुजगानां गव्यूतपृथक्त्वम्, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं गाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वाच्च लिखितम् । अथ मनुष्याणामवगाहना प्रोच्यते - तत्रौधिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गव्यूतानि १, वात-पित्त-शुक्र-शोणितादिषु सम्मूर्छितमनुष्याणामुत्कर्षतोऽप्यगुलासङ्घयेयभाग एव, ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव म्रियन्ते, अत एव पर्याप्तापर्याप्तचिन्ताऽप्यत्र न कृता, Page #242 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३५६] २२५ (२) जहा सोहम्मे तहा ईसाणे कप्पे वि भाणियव्वं । (३) जहा सोहम्मयदेवाणं पुच्छा तहा सेसकप्पाणं देवाणं पुच्छा भाणियव्वा जाव अच्चुयकप्पो । सणंकुमारे भवधारणिजा जह० अंगु० असं०, उक्कोसेणं छ रयणीओ; उत्तरवेउव्विया जहा सोहम्मे। जहा सणंकुमारे तह माहिंदे । बंभलोग-लंतएसु भवधारणिज्जा जह० अंगुल० असं०, उक्को० पंच रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । महासुक्कसहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु० असं०, उक्कोसेणं चत्तारि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । आणत-पाणत-आरण-अच्चुतेसु चउसु वि भवधारणिज्जा जह० अंगु० असं०, उक्कोसेणं तिण्णि रयणीओ; उत्तरवेउब्विया जहा सोहम्मे । (४) गेवेजयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गो० ! गेवेजगदेवाणं एगे भवधारणिजए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं दो रयणीओ। (५) अणुत्तरोववाइयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! अणुत्तरोववाइयदेवाणं एगे भवधारणिज्जए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं एक्का रयणी। (सू० ३५६) से समासओ तिविहे पण्णत्ते । तंजहा-सूईअंगुले पयरंगुले घणंगुले। अंगुलायता एगपदेसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले । १०६अपर्याप्तत्वादेवैषामिति २। एवं सामान्यतो गर्भजानां ततोऽपर्याप्तानां पर्याप्तानां च भावना कार्या । तदेवं पञ्चसु स्थानेषु मनुष्याणामवगाहना प्रोक्ता। व्यन्तर-ज्योतिष्काणामसुरकुमारवद्भावनीया। वैमानिकानामपि तथैव, नवरं सौधर्मेशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमार-माहेन्द्रयोः षट्, ब्रह्मलोक-लान्तकयो: पञ्च, ___१०६. अपर्याप्तत्वादेवैषामिति । ननु पूर्वं द्विनामनिरूपणे (सू. २१६) एषामपि पर्याप्तापर्याप्तत्वलक्षणं द्वैविध्यमुक्तमेवेति चेत् ? सत्यं, तत्र करणापेक्षया तदुक्तं, अत्र तु लब्ध्यपेक्षया तन्निषेध इति न दोषः । द्वयोः सूत्रयोर्विवक्षाभेदे विचित्रा सूत्रगतिरित्येव हेतु यः । ननु सूत्रगतिर्विचित्रा या भवति तत्र को हेतुः ? शिष्यबुद्धिवैशद्यकरणाभिप्राय इति गृहाण । अयम्भाव:-सूत्रकारा भगवन्तो करुणापरीतमानसा विशिष्टज्ञानिनो भवन्ति । सूत्रसूत्रणे तेषां न कोऽपि स्वार्थो भवति न वा किमप्यज्ञानं येन ते मिथोऽसम्बद्धं पूर्वापरविरुद्धं व्यर्थं वा किञ्चिदपि सूत्रयेयुः । यथा यथा शिष्यबुद्धिवैशद्यं स्यात्तथा तथा सूत्रं सूत्रयितव्यमित्येकाभिप्रायेणैवानुग्रहपरास्ते किमपि वदन्ति । ततश्चैकस्य सूत्रस्य रचनाकाले कोऽपि तादृक् प्रस्ताव Page #243 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ३५७ ) एएसि णं सूचीअंगुल - पयरंगुल -घणंगुलाणं कतरे कतरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घणंगले असंखेजगुणे । सेतं उस्सेहंगुले । ( सू० ३५८ ) से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स णं रण्णो चाउरंतचक्कवहिस्स अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्टकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अर्द्धगुलं, तं सहस्सगुणं पमाणंगुलं भवति । २२६ महाशुक्र-सहस्रारयोश्चत्वारः, आनत-प्राणता-ऽऽरणा - S -ऽच्युतेषु त्रयः । ग्रैवेयकेषु द्वौ, उत्तरवैक्रिया तु न वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्तरत्रापि । अनुत्तरविमानेषु त्वेको हस्तः । तदेवमेषावगाहना सर्वाऽप्युत्सेधाङ्गुलेन मीयते । एतच्च सूची - प्रतर - घनभेदात् त्रिविधमात्मागुलवद् भावनीयम् । उक्तमुत्सेधाङ्गुलम् । अथ प्रमाणाङ्गुलं विवक्षुराह से किं तं पमाणंगुले इत्यादि । सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गुलम्, नातः परं बृहत्तरमङ्गुलमस्तीति भावः । यदि वा समस्तलोकव्यवहार-राज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद् युगादिदेवो भरतो वा तस्याङ्गुलं प्रमाणाङ्गुलम् । एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यँस्तद्द्वारेण निरूपयितुमाह - एगमेस्स णं रण्णो इत्यादि, एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम्, तस्यैकैका कोटिरुत्सेधाङ्गुलविष्कम्भा, तच्छ्रमणस्य भगवतो महा-वीरस्यार्द्धाङ्गुलम्, तत्सहस्रगुणं प्रमाणाङ्गुलं भवतीति समुदायार्थः । तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् । निरुपचरितराजशब्दविषयज्ञापनार्थं राज-ग्रहणम् । आसीद्येन तैरेका विवक्षा गृहीता, परंतु पश्चादन्यस्य सूत्रस्य रचनाकाले प्रस्तावान्तरं तथाऽभवद् यथाऽन्यैव विवक्षा ग्राह्या स्यादिति तैस्तत्सूत्रं तया विवक्षया सूत्रित मिति मन्तव्यमेव । 'न च ते ( पूर्वऋषयः) पर्यनुयोगमर्हन्ति' इत्यादिना तीर्थान्तरीयैरपीदमेव सूचितम् । प्रस्तुतेऽपि द्विनामसूत्रे नारकादीनां द्वैविध्यं यदुक्तं, अवगाहनासूत्रे तु तन्निषेधो यत्सूचितः, तेन 'नारकादयः करणापेक्षया द्विविधा भवन्ति, लब्ध्यपेक्षया तु पर्याप्ता एव भवन्ति' इत्येवं शिष्यबुद्धिर्व्युत्पादिता भवत्येव । एवं द्विनामसूत्रे सम्मूर्छितमनुष्याणां द्वैविध्यं यदुक्तं, अवगाहनासूत्रेऽत्र तु तन्निषेधो यत्सूचितः तेन 'सम्मूर्छितमनुष्याः करणापेक्षया द्विविधा भवन्ति, लब्ध्यपेक्षया त्वपर्याप्ता एव भवन्ति' इत्येवं शिष्यबुद्धेर्व्युत्पादना भवत्येव । Page #244 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०३५९, ३६०] २२७ ( सू० ३५९) एतेणं अंगुलप्पमाणेणं छ अंगुलाई पादो, दो पाया दुवालस अंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं । ( सू० ३६०) एतेणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति पालयतीति चतुरन्तचक्रवर्ती, तस्य, परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः । मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषका एक: सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा क तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष् दिक्षु द्वे तूर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावात् द्वादश अम्रयः कोटयो यत्र तद् द्वादशाम्रिकम्, कर्णिका: कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकम्, अधिकरणि: सुवर्णकारोपकरणम्, तत्संस्थानेन संस्थितं तत्सदृशाकारम्, समचतुरस्रमिति यावत्, प्रज्ञप्तं प्ररूपितम् । तस्य काकणीरत्नस्यैकैका कोटिरुच्छ्रयाङ्गुलप्रमाणविष्कम्भा, द्वादशाप्यम्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायाम विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं भवति, यैव च कोटिरूर्ध्वकृता आयामं प्रतिपद्यते व तिर्यगू व्यवस्थापिता विष्कम्भभाग् भवतीत्यायाम-विष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधाङ्गुलप्रमाणमिदं सिद्धम् । यच्चान्यत्र चउरंगुलप्पमाणा सुवण्णवरकागणी नेया ( बृहत्सं० ३०२ ) इति श्रूयते तन्मतान्तरं संभाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्यार्द्धाङ्गुलम् । कथमिदम् ? उच्यतेश्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ट्यधिकशताङ्गुलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षया अर्द्धाङ्गुलमेव भवति, येषां तु मतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमान: स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात् तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च पञ्च नवभागा भवन्ति १५, अष्टषष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन Page #245 -------------------------------------------------------------------------- ________________ २२८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पब्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्तोव्वेह-परिक्खेवा मविजंति । तु भगवान् विंशत्यधिकमगुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः १३, अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाद्यमतमपेक्ष्यैकमुत्सेधाङ्गुलं भगवदात्माङ्गुलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथमिदमवसीयते ? उच्यतेभरतश्चक्रवर्ती प्रमाणागुलेनात्माङ्गुलेन च किल विंशं शतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् । उत्सेधाङ्गुलेन तु पञ्चधनु:शतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यङ्गुलानां संपद्यन्ते, अत: सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारि शतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात् । यद्येवमुत्सेधाजुलात् प्रमाणामुलं चतु:शतगुणमेव स्यात् कथ सहस्रगुणमुक्तम् ? सत्यम्, किन्तु १०७प्रमाणाङ्गुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाच्चतुःशतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधागुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदा अगुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते । इदमुक्तं भवति- अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिम्र: श्रेणय: कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतु:शतमानैव विष्कम्भतस्त्व ङ्गुलम्, ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽगुलप्रमाण: संपद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गुलस्य सूचि: सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाङ्गुलात् तत् सहस्रगुणमुक्तम्, वस्तुतस्तु चतुःशतगुणमेव, अत एव पृथ्वी-पर्वत-विमानादिमानान्यनेनैव चतुःशतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अगुलविष्कम्भया सूच्येति । शेषं १०७. प्रमाणामुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्तीत्यादि । यद्वाऽयमप्यत्र समाधानप्रकारः सम्भवेन्नवेति गीताथैर्विचारणीयम् । तद्यथा-उत्सेधामुलादिप्रमाणत्वेन शास्त्रेषु यत्कथितं न तत्तत्तदगुलायामप्रमाणं, अयम्भावः-अङ्गुलत्वेनात्रागुष्ठोऽभिप्रेतः, तत्राप्यङ्गुष्ठमूलादग्रभागं यावद्य आयामो न तत्प्रमाणमगुलत्वेनोक्तं, किन्त्वगुष्ठस्योर्ध्वाधोभागवर्तिनोयोर्भागयोर्यत् सन्धिस्थानं वेष्टकं (वेढो इति भाषायां) उच्यते, तत्स्थानीयविस्तारस्य यत्प्रमाणं, Page #246 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३६१] २२९ (सू० ३६१) से समासओ तिविहे पण्णत्ते । तंजहा-सेढीअंगुले पयरंगुले घणंगुले। असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेजएणं लोगो गुणितो संखेज्जा लोगा, असंखेजएणं लोगो गुणिओ असंखेजा लोगा। भावितार्थं यावत् पुढवीणं ति रत्नप्रभादीनाम्, कंडाणं ति रत्नकाण्डादीनाम्, पातालाणं ति पातालकलशानाम्, भवणाणं ति भवनपत्यावासादीनां भवणपत्थडाणं ति भवनप्रस्तटा नरकप्रस्तटान्तरे, तेषाम्, निरयाणं ति नरकावासानाम्, निरयावलियाणं ति नरकावासपङ्क्तीनाम्, निरयपत्थडाणं ति तेरेक्कारस नव सत्त पंच तिन्नि य तहेव एक्को य(बृहत्संग्रहणी० २५३) इत्यादिना प्रतिपादितानां नरकप्रस्तटानाम्, शेषं प्रतीतम्, नवरं टंकाणं ति छिन्नटङ्कानाम्, कूडाणं ति रत्नकूटादीनाम्, सेलाणं ति मुण्डपर्वतानाम्, सिहरीणं ति पर्वतानामेव शिखरवताम्, पब्भाराणं ति तेषामेवेषन्नतानाम्, वेलाणं ति जलधिवेलाविषयभूमीनाम्, उद्वेधो भूमिमध्येऽवगाहः, तदेवम् अंगुल विहत्थि रयणीत्यादिगाथोपन्यस्तान्यगुलादीनि योजनावसानानि पदानि व्याख्यातानि । साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह - असंखेजाओ जोयणकोडाकोडीओ सेढि त्ति अनन्तरनिर्णीतप्रमाणागुलेन यद्योजनं तेन योजनेनासङ्ख्येया योजनकोटीकोटय: संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति। कथं पुनर्लोक: संवर्त्य समचतुरस्रीक्रियते ? उच्यते- इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृत:, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपरि तु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु तदङ्गुलत्वेनोच्यते । एतस्माद्विस्तारादगुष्ठस्यायाम उत्तमपुरुषाणां सार्धद्विगुणो भवेदिति वयं सम्भावयामः । (अस्माकं त्वगुष्ठविस्तारात्तदायामः प्रायस्त्रिगुणो भवतीति ध्येयम्) । ततश्चोत्सेधाङ्गुलत्वेनोक्तादुत्सेधागुलविस्तारप्रमाणात् प्रमाणाङ्गुलत्वेनाभिप्रेतः प्रमाणाङ्गुलविस्तारश्चतुःशतगुणो भवति । तदपेक्षया च तदायामस्य सार्धद्विगुणत्वेनोत्सेधाङ्गुलविस्तारात् सहस्रगुणत्वं स्पष्टमेव । तदयमत्र सार उपलब्धः-उत्सेधागुलविस्तारात् प्रमाणागुलविस्तारश्चतुःशतगुणः, तदायामश्च सहस्रगुण इति । तथा शास्त्रीयव्यवहारेषूत्सेधाङ्गुलत्वेन तद्विस्तार एव व्यवह्रियते, यथा भरतचक्रवर्तिन उत्सेधाङ्गुलेन पञ्चधनुःशतमानत्वं यदुक्तं तद्विस्तारापेक्षयैव, न तु तदायामापेक्षया । ततश्च प्रमाणागुलेन यन्मानं प्रोक्तं, यथा जम्बूद्वीपस्य लक्षयोजनमानो विष्कम्भः, स प्रमाणागुलविस्तारापेक्षयैव ग्राह्यः, प्रमाणामुलतुल्यो भरतचक्रवर्तिनो य आत्मागुलस्तद्विस्तारापेक्षयैव ग्राह्यः, न तु तदायामापेक्षयेत्यर्थः । अतश्चतुःशतगुणत्वस्यैव मुख्यत्वं ज्ञेयम्, न तु सहस्रगुणत्वस्य । अत एव वृत्तिकारैरपि 'वस्तुतस्तु चतुःशतगुणमेव...' इत्यादि तथा 'न तु सहस्रगुणयाऽगुलविष्कम्भया सूच्या' इत्याधुक्तं वर्तते । Page #247 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ३६२ ) एतेसि णं सेढीअंगुल - पयरंगुल-घणंगुलाणं कतरे कतरेहिंतो अपे वा बहु वा तुले वा विसेसाहिए वा ? सव्वत्थोवे सेढिअंगुले, पयरंगुले असंखेज्जगुणे, घणंगले असंखेज्जगुणे । सेतं पमाणंगुले । सेतं विभागनिप्पण्णे । सेतं खेत्तप्पमाणे । क्वचित् कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् । एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते । तथाहि- रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वर्त्यधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्ज्वसङ्ख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा सा एवोत्तरपार्श्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्यार्द्धं देशोनरज्जुचतुष्टयविस्तीर्णं सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोSपि अधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते । इदानीमुपरितनलोकार्द्धं संवर्त्यते तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसम अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्ध्या गृहीत्वा तस्या एवोत्तरपार्श्वे पूवोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते एवं च कृते उपरितनं लोकस्यार्द्धं द्वाभ्यामङ्गुलसहस्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम् । इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहम्रभागः, एकदिग्वर्तित्वादेव, अपराभ्यामपि द्वाभ्यामित्थमेवेत्यतस्तद्द्द्वयाधिकत्वमुक्तं देशोनसप्तरज्जूच्छ्रितम्, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्य - संवर्तितलोकार्द्धस्योत्तरपार्श्वे संघात्यते, एवं च योजिते आधस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तत् खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्द्धवायतं संघात्यते, एवं च सातिरेकाः पञ्च रज्जव: क्वचिद्बाहल्यं सिद्ध्यति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्याद्देशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानबाहल्यादर्द्धं गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतच्चतुरस्रीकृतनभः खण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षड् रज्जवो भवन्ति, व्यवहारतस्तु सर्वं सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्टं बाहल्यादिधर्मं परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या, आयाम-विष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातम्, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता दृश्या, तदेवं २३० Page #248 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०३६३, ३६४ ] २३१ (सू० ३६३) से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते । तंजहापदेसनिप्पण्णे य विभागनिप्पण्णे य । (सू० ३६४) से किं तं पदेसनिप्पण्णे ? पदेसनिप्पण्णे एगसमयद्वितीए दुसमयट्ठितीए तिसमयद्वितीए जाव असंखेज्जसमयईिए । सेतं पदेसनिप्पणे । व्यवहारनयमतेनायाम-विष्कम्भ-बाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं भावनीयम्, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः । तदियं सप्तरज्ज्वायामत्वात् प्रमाणागुलतोऽसङ्खयेययोजनकोटीकोट्यायता एकप्रादेशिकी श्रेणि: । सा च तयैव गुणित: । यथोक्तश्रेण्या गुणितो लोकः । अयमपि सङ्खयेयेन राशिना गुणितः सङ्खयेया लोका:, असङ्खयेयेन तु राशिना समाहतोऽसङ्ख्या लोकाः, अनन्तैश्च लोकैरलोकः । नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता अलोकेन तु न किञ्चित् प्रमीयते इति कथं तस्य प्रमाणता ? उच्यते - यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात् । तदेवम् अंगुल विहत्थि रयणीत्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति । अथ कालप्रमाणमुच्यते - से किं तं कालप्पमाणे इत्यादि गतार्थमेव, नवरमिह प्रदेशा: कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम्, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा कालप्रदेशेन निष्पन्नः, द्विसमयस्थितिस्तु द्वाभ्याम्, एवं यावदसङ्खयेयसमयस्थितिकोऽसङ्घयेयैः कालप्रदेशैर्निर्वृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति । प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया। विभागनिष्पन्नं तु समयादि, तथा चाह- समयावलिय गाहा । एतां च गाथां स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थं तावदाह से किं तमित्यादि, अथ कोऽयं समय इति पृष्टे सत्याह- समयस्य प्ररूपणां विस्तरवतीं व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भावः । तदेवाहसे जहानाम इत्यादि, स कश्चित् यथानामको यत्प्रकारनामा, , देवदत्तादिनामेत्यर्थः, तुण्णागदारए सूचिक इत्यर्थः, स्यात् भवेत्, य: किमित्याह - तरुणादिविशेषणविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा सयराहं झटिति कृत्वा हस्तमात्रमपसारयेत् पाटयेदिति सण्टङ्कः, अथवा पूर्ववत्, यथेत्युपप्रदर्शने, नामेति सम्भावनायाम्, ए इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत् संभाव्यते तुण्णागदारको यस्तरुणादिविशेषणः स्यात् कदाचित् पटसाटिकां पट्टाटिकां वा Page #249 -------------------------------------------------------------------------- ________________ २३२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३६५) से किं तं विभागनिप्पण्णे ? विभागनिप्पण्णे - समया-ऽऽवलिय-मुहुत्ता दिवस-अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परिअट्टा ॥१०३॥ (सू० ३६६) से किं तं समए ? समयस्स णं परूवणं करिस्सामि-से जहाणामए तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणि-पायपास-पिटुंतरोरुपरिणते तलजमलजुयल-परिघणिभबाहू चम्मेदृग-दुहण-मुट्ठियसमाहयनिचियगत्तकाये लंघण-पवण-जइणवायामसमत्थे उरस्सबलसमण्णागए छए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा । तत्थ चोयए पण्णवयं एवं वयासी-जेणं कालेणं तेणं गृहीत्वा झटिति हस्तमात्रमपसारयेत् पाटयेदिति तथैव सम्बन्धः । तत्र तरुण: प्रवर्द्धमानवयाः। आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्ते:, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः, अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते । बलं सामर्थ्यं तदस्यास्तीति बलवान् । युगं सुषमदुष्षमादिकाल:, सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम् । जुवाणे त्ति युवा यौवनस्थ:, प्राप्तवया एष इत्येवम् अणति व्यपदिशति लोको यमसौ निरुक्तिवशात् युवान:, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् । अल्पशब्दोऽभाववचन:, अल्प आतङ्को रोगो यस्य स तथा, निरातङ्क इत्यर्थः । स्थिरः प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तो हस्ताग्रं यस्य स तथा । दृढं पाणि-पादं यस्य पार्टी पृष्ठ्यन्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः। तलयमलयुगलपरिघणिभबाहुः, तलौ तालवृक्षौ, तयोर्यमलं समश्रेणीकं यद् युगलं द्वयं परिघश्च अर्गला तन्निभौ तत्सदृशौ दीर्घ-सरल-पीनत्वादिना बाहू यस्य स तथा, आगन्तुकोपकरणजं सामर्थ्यमाह- चर्मेष्टका-द्रुघण-मुष्टिकसमाहतनिचितगात्रकाय:, चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि निबिडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव । औरस्यबलसमन्वागत आन्तरोत्साहवीर्ययुक्तः। व्यायामवत्तां दर्शयति- लङ्घन-प्लवनजवनव्यायामसमर्थः, जवनशब्दः शीघ्रवचन:। छेक: प्रयोगज्ञ: । दक्ष: शीघ्रकारी । प्राप्तार्थ: अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये । कुशल: आलोचितकारी । मेधावी सकृच्छ्रुतदृष्टकर्मज्ञः । निपुण उपायारम्भकः। निपुणशिल्पोपगत: सूक्ष्मशिल्पसमन्वितः । एवंविधो ह्यल्पेनैव Page #250 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३६६] २३३ तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ? नो इणमट्टे समढे। कम्हा ? जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं पडसाडिया निप्पजइ, उवरिल्लम्मि तंतुम्मि अच्छिण्णे हेढिल्ले तंतू ण छिज्जइ, अण्णम्मि काले उवरिल्ले तंतू छिज्जइ अण्णम्मि काले हिट्ठिल्ले तंतू छिजति, तम्हा से समए न भवति । एवं वयंतं पण्णवगं चोयए एवं वयासि-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिण्णे से समए ? ण भवति । कम्हा ? जम्हा संखेजाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हम्मि कालेन साटिकां पाटयतीति बहुविशेषणोपादानम् । स इत्थम्भूत एकां महतीं पटसाटिकां वा पट्टसाटिकां वा, पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानम्, गृहीत्वा सयराहमिति सकृत्, झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत् पाटयेदित्यर्थः । तत्रैवं स्थिते प्रेरक: शिष्यः प्रज्ञापयतीति प्रज्ञापको गुरुस्तमेवमवादीत्, किम् ? येन कालेन तेन तुण्णागदारकेण तस्या: पटसाटिकाया: वा पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति? प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मादिति पृष्ट उपपत्तिमाह- यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचका:, पटसाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने तन्तौ अच्छिन्ने अविदारिते हेट्ठिल्ले त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्- येन कालेन तेन तुन्नागदारकेण तस्याः पटसाटिकाया उपरितनस्तन्तुश्छिन्न: स समय: किं भवतीति शेष: । अत्र प्रज्ञापक आहन भवतीति, कस्मात् ? यस्मात् सङ्ख्येयानां पक्ष्मणां लोके प्रतीतस्वरूपाणां समुदयेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति । एवं वदन्तं प्रज्ञापकमित्याधुपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयम्, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घात:, तेषामनन्तानां संघातानां य: समुदयः संयोगस्तेषां समुदयानां या अन्योन्यानुगतिरसौ समितिः, तासां समागमेन एकवस्तुनिवर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादय:, तस्मादसावुपरितनैकपक्ष्मच्छेदनकाल: समयो न भवति । कस्तर्हि समय इत्याह- एत्तो णमित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतर: समय: प्रज्ञप्तो हे! श्रमणायुष्मन्निति । अत्राह- ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते, ते च सङ्घाता: क्रमेण छिद्यन्ते, तर्खेकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ता: समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्खयेयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तम्- असंखेज्जासु Page #251 -------------------------------------------------------------------------- ________________ २३४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं अच्छिणे हेट्ठिल्ले पम्हे न छिज्जति, अण्णम्मि काले उवरिल्ले पम्हे छिज्जति अण्णम्मि काले हेट्ठिल्ले पम्हे छिज्जति, तम्हा से समए ण भवति । एवं वदंतं पण्णवगं चोयए एवं वदासि - जेणं कालेणं तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पन्हे छिण्णे से समए ? ण भवति । कम्हा ? जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणं एगे पम्हे णिप्फज्जइ, उवरिल्ले संघाते अविसंघातिए हेट्ठिल्ले संघाते ण विसंघाडिज्जति, अण्णम्मि का वरिले संघा विसंघातिज्जइ अण्णम्मि काले हेट्ठिल्ले संघाए विसंघादिज्जइ, तम्हा से सम ण भवति । एत्तो वि णं सुहुमतराए समए पण्णत्ते समणाउसो ! | णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! असंखेज्जा । अता णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! अनंता ( ), तदेतत् कथम्, अत्रोच्यते - अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेद: संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, अत एवम्भूताः स्थूलतरसङ्घाता एकस्मिन् पक्ष्मण असङ्ख्येया एव भवन्ति, तेषां च क्रमेण छेदने असङ्खयेयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेषतः सूत्रेऽनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात्, १०८ सूत्राणां च सूचामात्रत्वादिति । ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्य १०८. सूत्राणां च सूचामात्रत्वादिति । एतस्मादपि सूत्रादभिप्रेतं सूचनं प्राप्यत एव । तच्चैवं-सूत्रेऽनन्तानां सङ्घातानां समुदयसमितिसमागमेनैकस्य पक्ष्मणो निष्पत्तिः कथिता । तदनन्तरं ‘प्रथमे सङ्घातेऽविसङ्घातिते द्वितीयः सङ्घातो न विसङ्घात्यते' इत्येवं नोक्तं, अपि तु सङ्घातैरवगाढं क्षेत्रमपि यथा संकलितं स्यात्तथा 'उपरितने सङ्घातेऽविसङ्घातित आधस्त्यः सङ्घातो न विसङ्घात्यते' इत्येवमुक्तम् । ततश्च यत एकेन सम्पूर्णेन पक्ष्मणा तदवयवभूतैर्वाऽनन्तैरपि सङ्घातैरवगाढं क्षेत्रमसङ्ख्येयनभः प्रदेशमानमेव, न त्वनन्तनभःप्रदेशमानं, अतः प्रथम उपरितनः सङ्घातो विसङ्घात्यते, तदनन्तरं तदाधस्त्यः, स विसङ्घात्यते... इत्येवंक्रमेण भिन्नभिन्नकाले विसङ्घात्यमानाः सङ्घाता असङ्ख्येया एव प्राप्यन्ते, न त्वनन्ता इति स्पष्टमेव । ततश्च एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते' इत्यादि वृत्तिकारैर्यदुक्तं तत्सूत्रादपि प्राप्तमेव, तद्विवक्षामन्तरेणानन्तानां सङ्घातानामसङ्ख्येयत्वस्यानुपपत्तेः । ननु वास्तविकानन्तसङ्घातमयो विवक्षित एकः सङ्घातस्त्वेकेनैव समयेन छिद्यते । ततश्च सूत्रकारैः 'जेणं कालेणं तेण तुण्णागदारएणं तस्स पम्हस्स उवरिल्ले संघाते छिण्णे से समए ' इत्यादिकं सूत्रं कुतो न सूत्रितमिति चेत् ? तस्य सङ्घातस्य अस्मदविषयत्वात् Page #252 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३६६] २३५ तन्न सूत्रितमिति गृहाण । अयम्भावः-अभिसंधिजवीर्यजन्या या काचिदपि क्रिया छद्मस्थैः क्रियते सा जघन्यतोऽप्यन्तर्मुहूर्तकालीनैव भवति, न कदाचिदप्येकसामयिकी । अपरञ्च छद्मस्थानां निश्चयात्मकः कोऽप्युपयोगोऽन्तर्मुहूर्तकालीन एव भवति, न कदाचिदप्येकसमयमात्रभावी, अत एव सर्वशास्त्रशिरोमणिश्रीकल्पसूत्रे 'चइस्सामित्ति जाणइ, चयमाणे न याणइ, चुएमित्ति जाणइ' इत्यादि कथितम् । च्यवमानस्तु न जानति, च्यवनस्यैकसामयिकत्वेन तज्ज्ञानागम्यत्वात्, जघन्यतोऽपि छाद्मस्थिकज्ञानोपयोगस्यान्तर्मुहूर्तिकत्वाद्' इत्यादि च कल्पकिरणावल्यां व्याख्यातम् । ततश्च विवक्षितः संघातः पक्ष्मतन्त्वादिछेदनान्तर्भूतछेदनस्य विषयो भवितुमर्हति, न कदाचिदपि तदनन्तर्भूततया स्वतन्त्रस्यच्छेदनस्य, अगुलासङ्ख्येयभागमात्रावगाढस्य कस्यचिदपि वस्तुनश्छेदनाद्यविषयत्वात् । तथाऽयमुपरितनः सङ्घातश्छिद्यते... अधुनाऽऽधस्त्यश्छिद्यते... साम्प्रतं तस्मादपि य आधस्त्यः स छिद्यते... इत्यादिज्ञानानां यद्वा 'अयमुपरितनः सङ्घात एतेन (एकसमयप्रमाणेन) कालखण्डेन छिन्नः' इत्यादिज्ञानानां छद्मस्थानामसम्भवः, छाद्मस्थिकस्योपयोगस्य जघन्यतोऽप्यन्तर्मुहूर्तकालीनतयैकस्मिन्नुपयोगे प्रवर्तमान एवासङ्ख्येयानां सङ्घातानां छेदनस्य निःशेषं संपन्नत्वात् । इत्यञ्च विवक्षितः सङ्घातश्छेदनक्रियायाश्छिन्नत्वज्ञानस्य चाविषय इति सिद्धम् । अत एव सूत्रकाराः सङ्घातं यावन्न गता इत्याभाति । यतश्च ते पक्ष्म यावद्गता तेन पक्ष्म, छेदनविषयश्छिन्नत्वज्ञानविषयश्च भवितुमर्हतीति निश्चीयते, पक्ष्मणोऽगुलसङ्ख्येयभागावगाढत्वात्, अगुलसङ्ख्येयभागावगाढे तन्तौ सङ्ख्येयानां पक्ष्मणां 'जम्हा संखेज्जाणं पम्हाणं' इत्यादिना प्रोक्तत्वात्, चक्षुषोपलभ्यमानत्वाच्च । तथाऽऽधुनिकसूक्ष्मदर्शकयन्त्र-तदन्ययन्त्रादिसहायेनैकस्यापि पक्ष्मणश्छेदस्य छिन्नत्वज्ञानस्य च सम्भवो न दुर्जेयः । यतश्चैकस्यापि पक्ष्मणश्छेदस्य सम्भवः, अत एव तत्रान्तर्मुहूर्तं तु लगत्येव, अभिसंधिजवीर्यजन्यायाश्छद्मस्थप्रवृत्तेर्जघन्यतोऽप्येतावत्कालत्वात् । इदमेव मनसिकृत्य 'एकस्मादुपरितनपक्ष्मच्छेदनकालादसङ्ख्याततमोऽशः समय इति स्थितम्' इत्येवं विशेषण व्याख्यानं कृतमिति ध्येयम् । नन्वेवं प्रसिद्धः समयो विभाज्यो वाऽविभाज्यो वा ? इति प्रश्ने 'स्याद्विभाज्यो वा स्यादविभाज्यो वा' इत्येवं स्याद्वादाश्रयणेनोत्तरं देयं भवति । नन्वेतत् कथं ? इत्थंएतत्स्पष्टीकरणार्थं पूर्वमेका कल्पना क्रियते । अधुना येन रूप्यकाख्यनाणकेन क्रयविक्रयादिव्यवहारः प्रवर्तते तज्जघन्यतमोऽशः पैसकं (पैसो इति भाषायां) उच्यते । ततश्च वयं कल्पनां कुर्मः । एकेन पैसकेन तिलानां शतकं प्राप्यते । एवं चणकानां दशकं प्राप्यते । यदा शतं तिलाः क्रेयास्तदैकं पैसकं मूल्यतया देयं भवति । परंतु यदा तदर्धाः पञ्चाशत् तिलाः क्रेया भवेत्तदाप्येकं पैसकमेव मूल्यतया देयं भवति, न तदर्धांशः, तदर्धांशस्य नाणकतयाऽसिद्धत्वात् । एवं यदैक एव तिलः क्रेयः स्यात्, तदापि मूल्यतयैकं पैसकं Page #253 -------------------------------------------------------------------------- ________________ २३६ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं तु देयमेव भवति, न तच्छतांशः, नाणकतयाऽप्रसिद्धत्वात् । एवं पैसकस्य नाणकतया विभागस्या(= अंशस्या ) ऽशक्यत्वादविभाज्यत्वं सिद्धम् । तथापि यदा पञ्चाशत् तिलाः पञ्च च चणकाः क्रेयाः स्युः, तदोभयमूल्यतयैकमेव पैसकं देयं भवति, न तु द्वे पैसके । क्रयणानन्तरं यदि कश्चित्पृच्छति, तदोत्तरमपि 'पैसकार्धेन तिलाः क्रीताः, अर्धकेन च चणकाः' इत्येवं दीयत इति तिलाद्यपेक्षया पैसकस्य विभाज्यत्वमपि सिद्धम् । ततश्च नाणकापेक्षया पैसकं स्यादविभाज्यमेव, तिलाद्यपेक्षया स्याद् विभाज्यमेवेति । एवमेव कालापेक्षया समयः स्यादविभाज्य एव, क्षेत्राद्यपेक्षया तु स्याद् विभाज्य एवेति । तच्चैवं परमाणुपुग्गलेणं भंते लोगस्स पुरच्छिमिल्लातो चरिमंताओ पच्चत्थमिल्लं चरिमंतं एगसमएणं गच्छति ? दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं चरिमंतं, उत्तरिल्लाओ चरिमंताओ दाहिणिल्लं चरिमंतं, उवरिल्लाओ चरिमंताओ हेठिल्लं चरिमंतं, हेठिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगेणं समएणं गच्छति ? हंता गोयमा जाव गच्छति ।। इति भगवतीसूत्रे शतक १६ उद्देश ८ ।। त्ति भगवतीसूत्रेण ज्ञायते यद् एकः परमाणुर्लोकस्य सर्वाधस्तनप्रतरादनुश्रेण्या गत्या सर्वोपरितनप्रतरं यावदेकेन समयेन गच्छतीति । यदि स परमाणुस्तिर्यग्लोकं यावदेव गच्छेत्, तदाप्येकः समयस्तु लगत्येव, 'तदर्धेन कालखण्डेन तेन सप्तरज्जूमितं तदर्धं क्षेत्रं व्यतिक्रान्तं' इति वक्तुं न पार्यते । एवं यदि स एकां रज्जूं यावदेव गच्छेत्, तदाप्येकः समयस्तु लगत्येव । एवं यावत् स एकं नभःप्रदेशमेव यदि व्यतिक्रामेत, तदाप्येकः समयस्तु लगत्येव । तथैकेनैव समयेनाधोलोकस्य सर्वान्तिमप्रतरादूर्ध्वलोकस्य सर्वोपरितनं प्रतरं गच्छन्तं परमाणुमुद्दिश्य केवलज्ञान्यपि 'अधुना स तिर्यग्लोकं प्राप्त, अथ च ब्रह्मलोकं प्राप्तः... साम्प्रतं सिद्धशिलां प्राप्तः...' इत्यादिविभागेन ज्ञातुं नैव समर्थः । इत्थञ्च समयस्य निरंशत्वसिद्ध्या स्यादविभाज्यत्वमेव, कालापेक्षया तद्विभागस्यासम्भवात् । अथ क्षेत्रापेक्षया यदि विचार्यते, तदा तस्य विभाज्यत्वमपि ज्ञायत एव । तच्चैवं द्वे एव द्रव्ये गतिशीले, पुद्गलो जीवश्चेति । तत्र पुद्गलः स्पर्शवानेव । जीवस्तु स्पर्शवानपि, स्पर्शशून्योऽपि । कर्मयुक्तो जीवस्तैजसकार्मणादिपुद्गलैः क्षीरनीरवद् व्याप्ततया कथञ्चिन्मूर्तत्वेन स्पर्शवान् व्यवह्रियते । कर्ममुक्तस्त्वमूर्ततया स्पर्शशून्य एव । अतो निर्वाणस्थानात् सिद्धशिलां प्रति कर्ममुक्तस्य जीवस्य यैकसामायिक्यनुश्रेणिर्गतिर्भवति सा 'अस्पृशतो द्रव्यस्य गतिरस्पृशद्गतिरिति व्युत्पत्त्या 'अस्पृशद्गतिः' उच्यते । तद्भिन्ना तु या कापि जीवस्य पुद्गलस्य वा गतिर्भवति सा सर्वाऽपि स्पृशद्गतिरेव, अन्यथा कर्ममुक्तस्य जीवस्य गतेरस्पृशद्गतित्वकथनस्यानतिप्रयोजनत्वापत्तेः । अतो लोकस्य सर्वाधस्तनप्रतरात् सर्वोपरितनप्रतरं यावत्परमाणोर्या गतिर्भवति सापि स्पृशद्गतिरेवेति 'तच्छ्रेणिगतान् सर्वान् नभःप्रदेशान् स्पृष्ट्वा स परमाणुर्गतः' इति मन्तव्यमेव । किञ्चैकयैव हेलया तु स परमाणुस्तच्छ्रेणिगतान् स्वावगाढ Page #254 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०३६७] २३७ (सू० ३६७) असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिय त्ति पवच्च । संखेज्जाओ आवलियाओ ऊसासो । संखेज्जाओ आवलियाओ नीसासो । हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो । एगे ऊसास - नीसासे एस पाणु त्ति वुच्चति ॥ १०४ ॥ सत् पाणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए || १०५।। माणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् तो वि णं सुहुमतराए समए इति सामान्येनैवोक्तवानिति एकस्मादुपरितनपक्ष्मच्छेदनकालादसङ्ख्याततमोंऽशः समय इति स्थितम् । युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिप्रस्थितानवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभःप्रदेशान् विलङ्घयाचिरेणैवेष्टदेशप्राप्तेर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिरेवेष्टदेशं प्राप्नुयात्, अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा (आवश्यकनि०३७) इत्यादिवचनादिति भावः । न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यम्, सर्वज्ञवचनप्रामाण्याद् । उक्तं च आगमश्चोपपत्तिश्च सम्पूर्णं विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ आगमश्चाप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ||२|| तदव्यवहितोर्ध्वाधोवर्तिलक्षणान् त्रीनेव नभःप्रदेशान् स्पृशतीति 'सर्वान् तच्छ्रेणिगतान् नभःप्रदेशान् स क्रमेण स्पृशति, न युगपद्' इत्यपि मन्तव्यमेव । अत्र क्रमः क्षेत्रापेक्षयैव ज्ञेयः, न तु कालापेक्षया, समयस्य ‘अयं पूर्वार्धः, एष पश्चार्धः' इत्यादिविभागाभावात् । ततश्च चतुर्दशरज्जुमितायां तस्यां श्रेण्यां यावन्तो नभःप्रदेशास्तावन्तः समयस्य क्षेत्रापेक्षया विभागा मन्तव्या एव, एकेन समयेन परमाणुना तेषां क्रमशः स्पृष्टत्वात् । एवञ्च क्षेत्रापेक्षया समयस्य विभाज्यत्वे सिद्धे सिद्धमेव ‘समयः स्यादविभाज्य एव स्याद्विभाज्य एवेत्युत्तरम् । सूक्ष्मेक्षिकया विचारणीयमेतदिति । तथा यतः कालापेक्षयाऽविभाज्यस्यापि समयस्य क्षेत्रापेक्षया विभाज्यत्वम्, अतः कालापेक्षया क्षेत्रस्यान्यत्रावश्यकनिर्युक्त्यादौ सुहुमो य होई कालो, तत्तो सुहुमतरं हवइ खित्तं । अंगुलसेढीमेत्ते ओसप्पिणीओ असंखेज्जाओ ||३७ // इत्यादिना कथितं सूक्ष्मत्वमप्युपपन्नं भवतीति ध्येयम् । नाणकतयाऽविभाज्यस्यापि पैसकस्य तिलापेक्षया विभाज्यत्वेन यथा पैसकापेक्षया तिलस्य सूक्ष्मत्वं तथैव प्रस्तुतेऽपि ज्ञेयम् । 'स्पृशतो द्रव्यस्य गतिः स्पृशद्गति 'रित्यादि व्युत्पत्तिरत्राश्रिता । अन्यत्र स्पृशदस्पृशद्गत्योरन्यापि परिभाषा दृश्यत इति ध्येयम् । Page #255 -------------------------------------------------------------------------- ________________ २३८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं तिण्णि सहस्सा सत्त य सयाणि तेहत्तरं च उस्सासा । एस मुहुत्तो भणिओ सव्वेहिं अणंतनाणीहिं ॥१०६॥ एतेणं मुहुत्तपमाणेणं तीसं मुहुत्ता अहोरत्ते, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणं, दो अयणाई संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससताई वाससहस्सं, सयं वाससहस्साणं वाससतसहस्सं, चउरासीई वाससयसहस्साइं से एगे पुव्वंगे, चउरासीतिं पुव्वंगसतसहस्साई से एगे पुव्वे, चउरासीइं पुव्वसयसहस्साइं से एगे तुडियंगे, चउरासीइं तुडियंगसयसहस्साइं से एगे तुडिए, चउरासीइं तुडियसयसहस्साइं से एगे अडडंगे, चउरासीई अडडंगसयसहस्साइं से एगे अडडे, चउरासीइं अडडसयसहस्साइं से एगे अववंगे, चउरासीइं अववंगसयसहस्साइं से एगे अववे, चउरासीति अववसतसहस्साइं से एगे हूहुयंगे, चउरासीइं हूहुयंगसतसहस्साइं से एगे हुहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका। साऽन्वय-व्यतिरेकादिलक्षणा सूरिभिः कृता ।।३।। ( ) इति । निदर्शितं चेहोभयमपीत्यलं विस्तरेण । शेषं गतार्थं यावत् हट्ठस्स गाहा, हृष्टस्य तुष्टस्य अनवकल्यस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तो: मनुष्यादेरेक उच्छ्वासयुक्तो नि:श्वास: उच्छ्वासनि:श्वासः, एष प्राण उच्यते, शोक-जरादिभिरस्वस्थस्य जन्तोरुच्छ्वासनिःश्वास: त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानम् । सत्त पाणूणीत्यादि श्लोकः, सप्त प्राणा यथोक्तस्वरूपा: स एकः स्तोकः, सप्त स्तोका: स एको लव:, लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहूर्तो व्याख्यातः । साम्प्रतं सप्तसप्ततिलवमानतया सामान्येन निरूपित मुहूर्तमेवोच्छ्वाससङ्ख्यया विशेषतो निरूपयितुमाह- तिण्णि सहस्सा गाहा, अस्या भावार्थ:- सप्तभिरुच्छ्वासैरेक: स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्वे सप्त प्रोक्ताः, तत: सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लॅवे एकोनपञ्चाशदुच्छ्वासा: सिद्धा:, एकस्मिंश्च मुहूर्ते लवा: सप्तसप्ततिनिर्णीताः, अत एकोनपञ्चाशत् सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छ्वासनि:श्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात् । अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषा: प्राक्कालानुपूर्व्यामेव निर्णीतार्थाः । एताव ताव गणिए इत्यादि, एतावत् शीर्षप्रहेलिकापर्यन्तमेव तावद् गणितम्, एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति, Page #256 -------------------------------------------------------------------------- ________________ २३९ श्रीअनुयोगद्वारसूत्रम् [सू०३६८-३७१] अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया, चउरासीतिं चूलियासतसहस्साई से एगे सीसपहेलियंगे, चउरासीतिं सीसपहेलियंगसतसहस्साइं सा एगा सीसपहेलिया। एताव ताव गणिए, एयावए चेव गणियस्स विसए, अतो परं ओवमिए । (सू० ३६८) से किं तं ओवमिए ? ओवमिए दुविहे पण्णत्ते । तंजहा-पलिओवमे य सागरोवमे य। (सू० ३६९) से किं तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते। तंजहाउद्धारपलिओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य । (सू० ३७०) से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते । तंजहासुहुमे य वावहारिए य ।। (सू० ३७१) तत्थ णं जे से सुहमे से ठप्पे । न परत इति भाव: । एतावानेव च शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य विषयः, गणितस्य प्रमेयमित्यर्थः । अत: परं सर्वमौपमिकम् । तदेव निरूपयितुमाह - से किं तं ओवमिए इत्यादि । उपमया निवृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः । तच्च द्विधा- पल्योपमं सागरोपमं च, तत्र धान्यपल्यवत् पल्यो वक्ष्यमाणस्वरूप:, तेनोपमा यस्मिन् तत् पल्योपमम्, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत् सागरोपमम्, तच्च पल्योपमं त्रिधा- तद्यथाउद्धारपलिओवमे येत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणम् अपोद्धरणमपहरणमुद्धारः, तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमम् । तथा अद्धेति काल:, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येक वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायु:काल: प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपमम्। तथा क्षेत्रम् आकाशम्, तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमम् । तत्राद्यं निरूपयितुमाह- से किं तं उद्धारपलिओवमे इत्यादि । उद्धारपल्योपमं द्विविधं प्रज्ञप्तम्, तद्यथा- वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च, तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्यावहारिकं चेति । तत्र यत् तत् सूक्ष्मं तत् स्थाप्यम्, तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया:, पश्चात् प्ररूपयिष्यते इति भावः । Page #257 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ३७२) तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया - जोयणं आयामविक्खंभेणं, जोयणं उड्ड उच्चत्तेणं, तं तिगुणं सविसेसं परिरएणं; से णं एगाहिय - बेहियतेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मट्ठे सन्निचिते भरिए वालग्गकोडीणं । ते णं वालग्गा नो अग्गी हेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेजा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतिएणं काणं से पल्ले खीणे नीरए निल्लेवे णिट्टिते भवति, सेतं वावहारिए उद्धारपलिओवमे । २४० एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिता । तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ।। १०७ ।। तत्र यत्तद् व्यावहारिकमुद्धारपल्योपमं ' तदिदम्' इति शेष:, तदेव विवक्षुराह - से जहानामए इत्यादि । तद्यथानाम धान्यपल्य इव पल्यः स्यात्, स च वृत्तत्वादायाम - विष्कम्भाभ्यां दैर्घ्यविस्तराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनम्, ऊर्ध्वमुच्चत्वेनापि ( योजनम् ) । तद्योजनं त्रिगुणं सविशेषं परिरयेणं भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिन्न्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः । स पल्य: एक्वाहिय-बेहिय-तेहिय त्ति षष्ठीबहुवचनलोपादेकाहिक-द्व्याहिक-त्र्याहिकीनामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः । तत्र मुण्डिते शिरस्येकेनाह्ना यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु या उत्तिष्ठन्ति ता द्व्याहिक्यः, त्रिभिस्तु त्र्याहिक्यः, कथंभूत इत्याह- संमृष्ट आकर्णं पूरितः, सन्निचित: प्रचयविशेषान्निबिडीकृतः । किं बहुना ? एवं asia तानि वालाग्राणि नाग्निर्दहेत्, न वायुरपहरेत्, अतीव निचितत्वादग्नि- पवनावपि न तत्र क्रामत इत्यर्थः । नो कुच्छेज्ज त्ति नो कुथ्येयुः, प्रचयविशेषादेव शुषिराभावात्, वायोरसम्भवाच्च नासारतां गच्छेयुः अत एव च नो परिविद्धंसेज्ज त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरन्नित्यर्थः, अत एव च नो पूइत्ताए हव्वमागच्छेज्ज त्ति न पूतित्वेन कदाचिदप्यागच्छेयुः, न कदाचिद् दुर्गन्धितां प्राप्नुयुरित्यर्थः, तओ णं ति तेभ्यो वालाग्रेभ्यः समये समये एकैकं वालाग्रमपहृत्य 'कालो मीयते' इति शेषः, ततश्च जावइएणमित्यादि, यावता कालेन स पल्य: क्षीणो वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा नीरए त्ति निर्गतरजः कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरज: कोष्ठागारवत्, तथा निल्लेवे त्ति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारान्निर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, एभिस्त्रिभिः प्रकारैर्निष्ठितो विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दा: अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति एतच्च पल्यान्तर्गत Page #258 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३७३,३७४] २४१ (सू० ३७३) एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं किं पयोयणं ? एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं णत्थि किंचि पओयणं, केवलं तु पण्णवणा पण्णविजति । सेतं वावहारिए उद्धारपलिओवमे ।। (सू० ३७४) से किं तं सुहुमे उद्धारपलिओवमे ? उद्धारपलिओवमे से जहानामए पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उड्डे उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेहिय-तेहिय० उक्कोसेणं सत्तरत्तपरूढाणं सम्मट्टे सन्निचिते भरिते वालग्गकोडीणं। तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाई कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, णो वाऊ हरेजा, णो कुच्छेजा, णो पलिविद्धंसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतितेणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति, सेतं सुहुमे उद्धारपलिओवमे । एतेसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स उद्धारसागरोवमस्स उ एगस्स भवे परीमाणं ॥१०८।। वालाग्राणां सङ्ख्येयत्वात् सङ्ख्येयै: समयैस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्रष्टव्यम् । सेत्तमित्यादि निगमनम् । व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह- एएसिं पल्लाणं गाहा । एतेषाम् अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमं भवतीति तात्पर्यम् । शिष्य: पृच्छति- एतैर्व्यावहारिकपल्योपम-सागरोपमैः किं प्रयोजनम् ? कोऽर्थ: साध्यते ? अनोत्तरम्नास्ति किञ्चित् प्रयोजनम् । निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह- केवलं प्रज्ञापना प्रज्ञाप्यते प्ररूपणामानं क्रियत इत्यर्थ: । ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम् ? अतो यत् किञ्चिदेतत्, नैवम्, अभिप्रायापरिज्ञानात्, एवं हि मन्यते- बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद्, अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति । तर्हि नास्ति किञ्चित् प्रयोजनमित्ययुक्तं प्राप्नोतीति चेत्, नैवम्, एतावत: प्रयोजनस्याल्पत्वेनाविवक्षितत्वात्, एवं बादराद्धापल्योपमादावपि वाच्यम् । से किं तं सुहमे इत्यादि गतार्थमेव यावत् तत्थ णं एगमेगे वालग्गे असंखेजाइमित्यादि, पूर्वं वालाग्राणि सहजान्येव गृहीतानि, अत्र त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यत इति भावः, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह- ते णं वालग्गा दिट्ठीओगाहणाओ इत्यादि, Page #259 -------------------------------------------------------------------------- ________________ २४२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३७५) एएहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं दीव-समुद्दाणं उद्धारे घेप्पति । (सू० ३७६) केवतिया णं भंते ! दीव-समुद्दा उद्धारेणं पन्नत्ता ? गो० ! जावइया णं अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवतिया णं दीव-समुद्दा उद्धारेणं पण्णत्ता। सेतं सुहमे उद्धारपलिओवमे । सेतं उद्धारपलिओवमे । (सू० ३७७) से किं तं अद्धापलिओवमे ? अद्धापलिओवमे दुविहे पण्णत्ते । तंजहासुहुमे य वावहारिए य । (सू० ३७८) तत्थ णं जे से सुहुमे से ठप्पे । (सू० ३७९) तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयामविक्खंभेणं, जोयणं उडे उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहियबेहिय-तेहिया जाव भरिये वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेजा, नो वाऊ तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनात: असङ्ख्येयभागमात्राणि, दृष्टिः चक्षुरोत्पन्नदर्शनरूपा, साऽवगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु इह दृष्ट्यवगाहना प्रोच्यते, ततोऽसङ्ख्येयभागवर्तीनि प्रत्येकं वालाग्रखण्डानि मन्तव्यानि। इदमुक्तं भवति- यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थ: पश्यति तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति । द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह- सुहुमस्सेत्यादि । अयमत्र भावार्थ:- सूक्ष्मपनकजीवशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति । बादरपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः । एषां च वालाग्रखण्डानामसङ्ख्येयत्वात् प्रतिसमयमुद्धारे किल सङ्ख्येया वर्षकोट्योऽतिक्रामन्ति, अत: सङ्ख्येयवर्षकोटिमानमिदमवसेयम् । शेषं तूक्तार्थप्रायं यावत् जावइया अट्ठाइजाणं उद्धारसागरोवमाणमित्यादि, यावन्तोऽर्द्धतृतीयसागरोपमेषु उद्धारसमया वालाग्रोद्धारोपलक्षिता: समया उद्धारसमया: एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीप-समुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ता:, असङ्ख्येया इत्यर्थः । उक्तमुद्धारपल्योपमम्, अथाद्धापल्योपमं निरूपयितुमाह- से किं तं अद्धापलिओवमे इत्यादि । इदमप्युद्धारपल्योपमवत् सर्वं भावनीयम् । नवरमुद्धारकालस्येह वर्षशतमानत्वाद् व्यावहारिकपल्योपमे सङ्ख्येया वर्षकोट्योऽवसेया:, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति । यदि नारकादीनामायूंष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त ! कियन्तं कालं स्थिति: प्रज्ञप्ता ? स्थीयते नारकादिभवेष्वनयेति स्थिति: आयु:कर्मानुभवपरिणति:। इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत् सामान्येनावस्थिति: कर्मशास्त्रेषु स्थिति: प्रतीता (ग्रन्थाग्रं ४०००) Page #260 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३८०,३८१] २४३ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा । ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवति, सेत्तं वावहारिए अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हविज दसगुणिया । तं वावहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥१०९।। (सू० ३८०) एएहिं वावहारिएहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं जाव नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्जति । सेत्तं वावहारिए अद्धापलिओवमे । (सू० ३८१) से किं तं सुहुमे अद्धापलिओवमे ? अद्धापलिओवमे से जहानामते पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उद्धं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय जाव भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाई कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, नो वाऊ हरेजा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा । ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवति । सेतं सुहमे अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥११०।। तथाऽप्यायु:कर्मपुद्गलानुभवनमेव जीवितं रूढम्, शास्त्रकारस्यापि च दशवर्षसहस्रादिकां स्थिति प्रतिपादयतस्तदेवाभिधातुमभिप्रेतम्, अन्यथा बद्धेनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन समधिकैव दशवर्षसहस्रादिका स्थितिरुक्ता स्यात्, न चैवम्, तस्मान्नारकादिभवप्राप्तानां प्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थिति:, सा च नारकाणामौघिकपदे जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमाणि । रत्नप्रभायां जघन्या तथैव, उत्कृष्टा तु सागरोपमम् । अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, तत: परमवश्यमेषां पर्याप्तत्वसम्भवात् । पर्याप्तपदे चापर्याप्तकालेन हीना औधिक्येव स्थितिर्द्रष्टव्या, एवमन्यास्वपि पृथिवीषु वाच्यम् । नवरमुत्कृष्टा स्थिति: सर्वासु इत्थमवसेया सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा । तेत्तीसं जाव ठिई सत्तसु वि कमेण पुढवीसु ।।१।। (बृहत्सं० २३३) त्ति । Page #261 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३८२) एएहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? तेहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं णेरतिय- तिरियजोणिय - मणूस देवाणं आउयाई मविज्जति । २४४ ( सू० ३८३ ) ( १ ) णेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ? गो० ! जहन्त्रेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई । (२) रयणप्पभापुढविणेरइयाणं भंते ! केवतियं कालं ठिती पं० ? गो० ! जहन्त्रेणं दसवाससहस्साइं उक्कोसेणं एक्वं सागरोवमं, अपज्जत्तगरयणप्पभापुढविणेरड्याणं भंते ! केवतिकालं ठिती पं० ? गो० ! जहन्नेणं अंतोमुहुत्तं उक्को० अंतो०, पज्जत्तग जाव जह० दसवाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं । (३) सक्करपभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं० ? गो० ! जहन्नेणं सागरोवमं उक्कोसेणं तिणि सागरोवमाई । (४) एवं सेसपहासु वि पुच्छा भाणियव्वा-वालुयपभापुढविणेरइयाणं जह० तिण्णि सागरोवमाइं, उक्कोसेणं सत्त सागरोवमाई। पंकपभापुढविनेरइयाणं जह० सत्त सागरोवमाई, उक्कोसेणं दस सागरोवमाई । धूमप्पभापुढविनेरइयाणं जह० दस सागरोवमाई, उक्कोसेणं सत्तरस सागरोवमाई । तमपुढविनेरइयाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं सत्तरस सागरोवमाई, उक्कोसेणं बावीसं सागरोवमाई । तमतमापुढविनेरइयाणं भते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं बावीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाई | ( सू० ३८४ ) ( १ ) असुरकुमाराणं भंते! देवाणं केवतिकालं ठिती पं० ? गो० ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सातिरेगं सागरोवमं । असुरकुमारीणं भंते ! देवीणं haतिकालं ठिती पं० ? गो० ! जहन्त्रेणं दसवाससहस्साई, उक्कोसेणं अद्धपंचमाइं पलिओ माई | जघन्या तु जा पढमाए जेट्टा सा बीयाए कणिट्टिया भणिया (बृहत्सं० २३४ ) इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहूर्तमेव, अपर्याप्तकाले चौघिकस्थितेर्विशोधिते सर्वत्र शेषा पर्याप्तस्थितिः । अपर्याप्ताश्च नारका देवा असङ्खयेयवर्षायुष्कतिर्यङ्-मनुष्याश्च करत द्रष्टव्याः, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्ध्याऽपर्याप्ताश्च पर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं चतुर्विंशतिदण्डकमनुसृत्य नारकाणामायुः स्थितिर्निरूपिता । T अथासुरकुमाराणां निरूपयितुमाह- असुरकुमाराणं भंते ! इत्यादि सूत्रसिद्धमेव यावन्मनुष्यसूत्रम् । Page #262 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३८५] २४५ (२) नागकुमाराणं जाव गो० ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं देसूणाई दोण्णि पलिओवमाइं । नागकुमारीणं जाव गो० ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं देसूणं पलिओवमं । (३) एवं जहा णागकुमाराणं देवाणं देवीण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं । ___ (सू० ३८५) (१) पुढवीकाइयाणं भंते ! केवतिकालं ठिती पन्नत्ता? गो० ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्सा । सुहुमपुढविकाइयाणं ओहियाणं अपजत्तयाणं पज्जत्तयाण य तिण्ह वि पुच्छा, गो० ! जहं० अंतोमुहत्तं उक्कोसेण वि अंतोमुहुत्तं । बादरपुढविकाइयाणं पुच्छा, गो० ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साई। अपज्जत्तयबादरपुढविकाइयाणं पुच्छा, गो० ! जहण्णेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरपुढविकाइयाणं जाव गो० ! जहं० अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साइं अंतोमुहुत्तूणाई। (२) एवं सेसकाइयाणं पि पुच्छावयणं भाणियव्वं-आउकाइयाणं जाव गो० ! जहं० अंतोमुहत्तं, उक्कोसेणं सत्त वाससहस्साइं। सुहुमआउकाइयाणं ओहियाणं अपजत्तयाणं पज्जत्तयाणं तिण्ह वि जहण्णेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । बादरआउकाइयाणं जाव गो० ! जहा ओहियाणं । अपजत्तयबादरआउकाइयाणं जाव गो०! जहं० अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । पजत्तयबादरआउ० जाव गो०! जहं० अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साइं अंतोमुहत्तूणाई । (३) तेउकाइयाणं भंते ! जाव गो० ! जहं० अंतोमुहत्तं उक्कोसेणं तिण्णि राइंदियाई। नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, तत: परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भावनीयम् । व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठसिद्धान्येव । नवरमेतेषामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थिति:, तत: परमवश्यं पर्याप्तत्वसंभवादेव भावनीयम्, ग्रैवेयकसूत्रे चाधस्तनास्त्रयः प्रस्तटा अधस्तनौवेयकशब्देनोच्यन्ते, मध्यमास्तु त्रयो मध्यमग्रैवेयकशब्देन, उपरितनास्तु त्रय उपरितनग्रैवेयकशब्देन । पुनरप्यधस्तनेषु त्रिषु प्रस्तटेषु मध्येऽधस्तन: प्रस्तटोऽधस्तनाधस्तनौवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन, एवं मध्यमेष्वपि त्रिषु प्रस्तटेषु मध्येऽधस्तनः प्रस्तटो मध्यमाधस्तनौवेयकशब्देनाभिधीयते मध्यमस्तु मध्यममध्यमशब्देन, उपरितनस्तु मध्यमोपरिमशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यमोपरिमोपरिमशब्दवाच्यता भावनीयेति। Page #263 -------------------------------------------------------------------------- ________________ २४६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सुहुमतेउकाइयाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि जहं० अंतो० उक्को० अंतो० । बादरतेउकाइयाणं भंते ! जाव गो० ! जहं० अंतोमुहत्तं, उक्कोसेणं तिण्णि राइंदियाइं । अपज्जत्तयबायरतेउकाइयाणं जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो०, पजत्तयबायरतेउकाइयाणं जाव गो० ! जहं० अंतो०, उक्कोसेणं तिण्णि राइंदियाई अंतोमुहुत्तूणाई। (४) वाउकाइयाणं जाव गो० ! जहं० अंतो० उक्को० तिण्णि वाससहस्साई । सुहमवाउकाइयाणं ओहियाणं अपज्जत्तयाणं पजत्तयाण य तिण्ह वि जहं० अंतो० उक्को० अंतोमुहत्तं । बादरवाउकाइयाणं जाव गो० ! जहं० अंतोमुहत्तं, उक्कोसेणं तिण्णि वाससहस्साइं। अपज्जत्तयबादरवाउकाइयाणं जाव गो० ! जहं० अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं, पज्जत्तयबादरवाउकातियाणं जाव गो० ! जहं० अंतोमुहुत्तं, उक्कोसेणं तिण्णि वाससहस्साइं अंतोमुहुत्तूणाई । (५) वणस्सइकाइयाणं जाव गो० ! जहं० अंतो० उक्को० दस वाससहस्साई । सुहमाणं ओहियाणं अपजत्तयाणं पज्जत्तयाण य तिण्ह वि जहं० अंतो० उक्कोसेणं अंतोमुहत्तं । बादरवणस्सइकाइयाणं भंते ! केवइयं कालं ठिती पन्नत्ता ? गो० जहं० अंतो० उक्को० दस वाससहस्साई। अपजत्तयाणं जाव गो० ! जहन्नेणं अंतोमुहत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरवणस्सइकाइयाणं जाव गो० ! जहं० अंतो० उक्को० दस वाससहस्साइं अंतोमुहुत्तूणाई । (सू० ३८६) (१) बेइंदियाणं जाव गो० ! जहं० अंतो० उक्कोसेणं बारस संवच्छराणि। अपजत्तय जाव गोतमा ! जहं० अंतो० उक्कोसेणं अंतोमुहत्तं, पजत्तयाणं जाव गोतमा ! जहं० अंतो० उक्कोसेणं बारस संवच्छराणि अंतोमुत्तूणाई । (२) तेइंदियाणं जाव गो० ! जहन्नेणं अंतो० उक्को० एकूणपण्णासं राइंदियाई । अपज्जत्तय जाव गोतमा ! जहं० अंतो० उक्कोसेणं अंतो०। पजत्तय जाव गो० ! जहं अंतो० उक्कोसेणं एकूणपण्णासं राइंदियाइं अंतोमुहुत्तूणाई । (३) चउरिंदियाणं जाव गो० ! जहं० अंतो० उक्को० छम्मासा । अपज्जत्तय जाव गो० ! जहं० अंतोमुहत्तं उक्को० अंतो० । पज्जत्तयाणं जाव गो० ! जहं० अंतो० उक्कोसेणं छम्मासा अंतोमुहुत्तूणा । (सू० ३८७) (१) पंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाइं। Page #264 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३८७] २४७ (२) जलयरपंचें दियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्कोसेणं पुव्वकोडी । सम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणियाणं जाव गोतमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी। अपज्जत्तयसम्मुच्छिमजलयरपंचेदियतिरिक्खजोणियाणं जाव गोयमा ! जहं० अंतोमुहुत्तं उक्कोसेणं अंतो० । पज्जत्तयसम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहन्नेणं अंतो० उक्कोसेणं पुवकोडी अंतोमुहुत्तूणा । गब्भवक्वंतियजलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतोमुहत्तं उक्कोसेणं पुव्वकोडी। अपजत्तयगब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० अंतो० । पजत्तयगब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणियाणं जाव गोयमा ! जहं० अंतो० उक्को० पुव्वकोडी अंतोमुत्तूणा ।। ___ (३) चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाइं । सम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० चउरासीतिवाससहस्साई । अपजत्तयसम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो०! जहन्नेणं अंतो० उक्को० अंतो० । पजत्तयसम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो उक्को० चउरासीतिवाससहस्साई अंतोमुत्तूणाई। गब्भवक्वंतियचउप्पयथलयर० जाव गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाइं। अपजत्तयगब्भववंतियचउप्पय० जाव गो० ! जहं० अंतो० उक्कोसेणं अंतोमुहत्तं । पज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव जहं० अंतो० उक्को० तिण्णि पलिओवमाई अंतोमुहत्तूणाई । १०९उरपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं ___१०९. उरपरिसप्पथलयर... इत्यादि । उरपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यगयोनिकानां सर्पादीनां यत उत्कृष्टतः पूर्वकोट्यायुष्कत्वमतोऽयुग्मधर्मित्वं निश्चीयते, युग्मधर्मिणां जीवानां जघन्यतोऽपि समयाधिकपर्वकोट्यायष्कत्वात । तदुक्तं लोकप्रकाशे-अन्येषां तु न युग्मित्वं नापि स्वर्गतिनिश्चयः । पूर्वकोटिप्रांतमायुस्तेषामुत्कर्षतोऽपि यत् ।।(लोकप्रकाश २९-२२३) ननु तर्हि ते देवकुर्वादियुगलिकक्षेत्रेषु सम्भवन्ति न वा ? इति प्रश्ने सम्भवन्तीति प्रतिवचनं ज्ञेयम् । ननु तर्हि सर्पदंशादिना कस्यचिद् युग्मधर्मिणोऽकालमृत्युरपि स्यादिति चेत् ? न, अयुग्मधर्मिणामपि सर्पादीनां मन्दपरिणामतयाऽहिंसकत्वादिति । तदुक्तं लोकप्रकाशे- ये सिंहचित्रकव्याघ्रभुजगाजगरादयः । कालस्वभावतस्तेऽपि न रौद्रा नापि हिंसकाः ।। (काललोकसर्ग-२९ श्लोकांक-२०४) Page #265 -------------------------------------------------------------------------- ________________ २४८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ठिती पं० ? गो० ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी। सम्मुच्छिमउरपरिसप्प० जाव गो० ! जहं० अंतो० उक्को० तेवन्नं वाससहस्साइं। अपजत्तयसम्मुच्छिमउरपरिसप्प० जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो० । पजत्तयसम्मुच्छिमउरपरिसप्प० जाव गो०! जहं० अंतो० उक्को० तेवण्णं वाससहस्साई अंतोमुहत्तूणाई। गम्भवक्कंतियउरपरिसप्पथलयर० जाव गो० ! जहं० अंतो० उक्कोसेणं पुव्वकोडी । अपज्जत्तयगब्भवक्वंतियउरपरिसप्प० जाव गोतमा ! जहं० अंतो० उक्को० अंतो०, पजत्तयगब्भवक्कंतियउरपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० पुव्वकोडी अंतोमुहत्तूणा। भुयपरिसप्पथलयर० जाव गो० ! जहं० अंतो० उक्कोसेणं पुव्वकोडी । सम्मुच्छिमभुयपरिसप्प० जाव गो० ! जहं० अंतो० उक्कोसेणं बायालीसं वाससहस्साइं । अपजत्तयसम्मुच्छिमभुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० अंतो० । पजत्तयसम्मुच्छिमभुयपरिसप्पथलयरपंचेंदिय० जाव गो० ! जहं० अंतो० उक्को० बायालीसं वाससहस्साइं अंतोमुहुत्तूणाई । गब्भवक्कंतियभुयपरिसप्पथलयरपंचेंदियाणं जाव गो० ! जहं० अंतो० उक्को० पुव्वकोडी । अपजत्तयगब्भवक्कंतियभुयपरिसप्पथलयर० जाव गो०! जहं० अंतो० उक्को० अंतोमुहुत्तं । पजत्तयगब्भवक्कंतियभुयपरिसप्पथलयर० जाव गो० जहं० अंतो० उक्कोसेणं पुव्वकोडी अंतोमुत्तूणा । (४) खहयरपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहं० अंतो० उक्को० पलिओवमस्स असंखेजइभाग। सम्मुच्छिमखहयर० जाव गो० ! जहं० अंतो० उक्को० बावत्तरिं वाससहस्साइं। अपजत्तयसम्मुच्छिमखहयर० जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो० । पज्जत्तगसम्मुच्छिमखहयर० जाव गोतमा ! जहं० अंतो० उक्कोसेणं बावत्तरि वाससहस्साइं अंतोमुहत्तूणाई। गब्भवक्कंतियखहयरपंचेंदियतिरिक्ख० जाव गो० ! जहं० अंतो० उक्को० पलिओवमस्स असंखेजइमागं । अपज्जत्तयगब्भवक्वंतियखहयर० जाव गो० ! जहं० अंतोमुहुत्तं उक्कोसेणं अंतोमुहुत्तं । पज्जत्तयगब्भवक्कंतियखहयरपंचेंदियतिरिक्ख० जाव गोतमा ! जहं० अंतो० उक्कोसेणं पलिओवमस्स असंखेजइभागं अंतोमुत्तूणं । (५) एत्थ एतेसिं संगहणिगाहाओ भवंति । तंजहासम्मुच्छ पुव्वकोडी, चउरासीतिं भवे सहस्साई । तेवण्णा बायाला, बावत्तरिमेव पक्खीणं ।।१११।। गन्भम्मि पुव्वकोडी, तिण्णि य पलिओवमाइं परमाउं । Page #266 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३८८-३९०] उर-भुयग पुव्वकोडी, पलिउवमासंखभागो य ।। ११२ ।। (सू० ३८८) (१) मणुस्साणं भंते ! केवइकालं ठिई पं० । गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिणि पलिओमाई । (२) सम्मुच्छिममणुस्साणं जाव गो० ! जहं० अंतो० उक्को० अंतो० । (३) गब्भवक्कंतियमणुस्साणं जाव जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिणि पलिओ माई | अपज्जत्तयगब्भवक्वतियमणुस्साणं जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो० । पज्जत्तयगब्भवक्कंतियमणुस्साणं जाव गोतमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिणि पलिओमाई अंतोमुहुत्तूणाई । २४९ ( सू० ३८९) वाणमंतराणं भंते! देवाणं केवतिकालं ठिती पण्णत्ता ? गो० ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं पलिओवमं । वाणमंतरीणं भंते! देवीणं केवतिकालं ठिती पण्णत्ता ? गो० ! जहनेणं दस वाससहस्साइं, उक्कोसेणं अद्धपलिओवमं । ( सू० ३९० ) ( १ ) जोतिसियाणं भंते ! देवाणं जाव गोतमा ! जहं० सातिरेगं अट्ठभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्समब्भहियं । जोइसीणं भंते ! देवीणं जाव गो० ! जहं० अट्ठभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । (२) चंदविमाणाणं भंते ! देवाणं जाव जहन्नेणं चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्साहियं । चंदविमाणाणं भंते ! देवीणं जाव जहन्नेणं चउभागपलिओवमं उक्को० अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । (३) सूरविमाणाणं भंते ! देवाणं जाव जहं० चउभागपलिओवमं, उक्को० पलिओवमं वाससहस्साहियं । सूरविमाणाणं भंते! देवीणं जाव जहं० चउभागपलिओवमं, उक्को० अद्धपलिओवमं पंचहिं वाससएहिं अधियं । (४) गहविमाणाणं भंते ! देवाणं जाव जहन्नेणं चउभागपलिओवमं, उक्को० पलिओवमं । गहविमाणाणं भंते ! देवीणं जाव जहं० चउभागपलिओवमं, उक्कोसेणं अलिओ | (५) णक्खत्तविमाणाणं भंते ! देवाणं जाव गोयमा ! जहं० चउभागपलिओवमं, उक्को० अद्धपलिओवमं । णक्खत्तविमाणाणं भंते ! देवीणं जाव गो० ! जहनेणं चउभागपलिओवमं, उक्को० सातिरेगं चउभागपलिओवमं । (६) ताराविमाणाणं भंते! देवाणं जाव गो० ! जहं० सातिरेगं अट्ठभागपलिओवमं, Page #267 -------------------------------------------------------------------------- ________________ २५० __ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं उक्को० चउभागपलिओवमं । ताराविमाणाणं भंते! देवीणं जाव गो० ! जहन्नेणं अट्ठभागपलिओवमं, उक्को० सातिरेगं अट्ठभागपलिओवमं । (सू० ३९१) (१) वेमाणियाणं भंते ! देवाणं जाव गो० ! जहणणेणं पलिओवमं, उक्कोसेणं तेत्तीसं सागरोवमाइं। वेमाणीणं भंते ! देवीणं जाव गो० ! जहं० पलिओवमं, उक्को० पणपण्णं पलिओवमाई । (२) सोहम्मे णं भंते ! कप्पे देवाणं केवतिकालं ठिती पं० ? गो०! जहं० पलिओवमं, उक्कोसेणं दोन्नि सागरोवमाइं। सोहम्मे णं भंते ! कप्पे देवीणं जाव गोतमा ! जहन्नेणं पलिओवमं, उक्कोसेणं सत्त पलिओवमाइं । सोहम्मे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव गो० ! जहं० पलिओवमं, उक्कोसेणं पन्नासं पलिओवमाइं । (३) ईसाणे णं भंते ! कप्पे देवाणं केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं सातिरेगं पलिओवमं, उक्को० सातिरेगाइं दो सागरोवमाइं । ईसाणे णं भंते ! कप्पे देवीणं जाव गो० ! जहं० सातिरेगं पलिओवमं, उक्को० नव पलिओवमाइं। ईसाणे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव गो० ! जहन्नेणं साइरेगं पलिओवमं, उक्कोसेणं पणपण्णं पलिओवमाइं । (४) सणंकुमारे णं भंते ! कप्पे देवाणं केवइकालं ठिती पन्नत्ता? गो० ! जहं० दो सागरोवमाई, उक्कोसेणं सत्त सागरोवमाइं । (५) माहिंदे णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं० साइरेगाइं दो सागरोवमाइं, उक्को० साइरेगाई सत्त सागरोवमाइं । (६) बंभलोए णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं० सत्त सागरोवमाइं, उक्कोसेणं दस सागरोवमाई । (७) एवं कप्पे कप्पे केवतिकालं ठिती पन्नत्ता ? गो० ! एवं भाणियव्वं-लंतए जहं० दस सागरोवमाई, उक्को० चोद्दस सागरोवमाई। महासुक्के जहं० चोद्दस सागरोवमाई, उक्कोसेणं सत्तरस सागरोवमाइं। सहस्सारे जहं० सत्तरस सागरोवमाइं, उक्कोसेणं अट्ठारस सागरोवमाइं । आणए जहं० अट्ठारस सागरोवमाइं, उक्को० एक्कूणवीसं सागरोवमाई। पाणए जहं० एक्कूणवीसं सागरोवमाइं, उक्को० वीसं सागरोवमाइं । आरणे जहं० वीसं सागरोवमाइं, उक्को० एक्कवीसं सागरोवमाइं। अच्चुए जहं० एक्कवीसं सागरोवमाइं, उक्कोसेणं बावीसं सागरोवमाई । (८) हेट्ठिमहेट्ठिमगेवेजविमाणेसु णं भंते ! देवाणं केवइकालं ठिती पं० ? गो० ! Page #268 -------------------------------------------------------------------------- ________________ २५१ श्रीअनुयोगद्वारसूत्रम् [सू०३९२-३९५] जहं० बावीसं सागरोवमाइं, उक्को० तेवीसं सागरोवमाइं, हेट्ठिममज्झिमगेवेज्जविमाणेसु णं जाव गो० ! जहं० तेवीसं सागरोवमाइं उक्कोसेणं चउवीसं सागरोवमाइं। हेट्ठिमउवरिमगेवेज० जाव जहं० चउवीसं सागरोवमाइं उक्को० पणुवीसं सागरोवमाइं। मज्झिमहेट्ठिमगेवेजविमाणेसु णं जाव गोतमा ! जहं० पणुवीसं सागरोवमाइं, उक्को० छव्वीसं सागरोवमाई, मज्झिममज्झिमगेवेज० जाव जहं० छव्वीसं सागरोवमाई उक्को० सत्तावीसं सागरोवमाइं। मज्झिमउवरिमगेवेजविमाणेसु णं जाव गोतमा ! जहं० सत्तावीसं सागरोवमाइं, उक्को० अट्ठावीसं सागरोवमाइं । उवरिमहेट्ठिमगेवेज० जाव जहं० अट्ठावीसं सागरोवमाइं, उक्को० एकूणतीसं सागरोवमाइं । उवरिममज्झिमगेवेज० जाव जहं० एक्कूणतीसं सागरोवमाई उक्को० तीसं सागरोवमाई । उवरिमउवरिमगेवेज० जाव जहं० तीसं सागरोवमाइं, उक्को० एक्कतीसं सागरोवमाई। (९) विजय-वेजयंत-जयंत-अपराजितविमाणेसु णं भंते ! देवाणं केवइकालं ठिती पण्णत्ता ? गो० जहण्णेणं एक्कतीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं । सव्वट्ठसिद्धे णं भंते ! महाविमाणे देवाणं केवइकालं ठिती पण्णत्ता ? गो० ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाइं। सेतं सुहमे अद्धापलिओवमे । सेतं अद्धापलिओवमे। (सू० ३९२) से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पण्णत्ते । तंजहासुहुमे य वावहारिए य । (सू० ३९३) तत्थ णं जे से सुहुमे से ठप्पे । (सू० ३९४) तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयामविक्खंभेणं, जोयणं उर्दू उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहियबेहिय-तेहिय० जाव भरिए वालग्गकोडीणं । ते णं वालग्गा णो अग्गी डहेज्जा, णो वातो हरेजा, जाव णो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स पल्लस्स आगासपदेसा तेहिं वालग्गेहिं अप्फुन्ना ततो णं समए समए गते एगमेगं आगासपएसं अवहाय जावतिएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ । सेतं वावहारिए खेत्तपलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया ।। तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥११३॥ (सू० ३९५) एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं किं पयोयणं ? एएहिं० नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविजइ । सेतं वावहारिए खेत्तपलिओवमे । Page #269 -------------------------------------------------------------------------- ________________ २५२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३९६) से किं तं सुहमे खेत्तपलिओवमे ? खेत्तपलिओवमे से जहाणामए पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उ8 उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय० जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचिते भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाई कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजइभागमेत्ता सुहमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, नो वातो हरेज्जा, णो कुच्छेज्जा, णो पलिविद्धंसेजा, णो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स पल्लस्स आगासपदेसा तेहिं वालग्गेहिं अप्फुन्ना वा अणप्फुण्णा वा तओ णं समए समए गते एगमेगं आगासपदेसं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति। सेतं सुहुमे खेत्तपलिओवमे । (सू० ३९७) तत्थ णं चोदए पण्णवर्ग एवं वदासी- अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा ? हंता अत्थि, जहा को दिटुंतो ? से जहाणामते कोट्ठए सिया कोहंडाणं भरिए, तत्थ णं माउलुंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माता, तत्थ णं आमलया पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता ते वि माया, तत्थ णं चणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा पक्खित्ता ते वि माया, तत्थ णं सरिसवा पक्खित्ता ते वि माता, तत्थ णं गंगावालुया पक्खित्ता सा वि माता, एवामेव एएणं दिटुंतेणं अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा । एएसिं पल्लाणं कोडाकोडी हवेज दसगणिया । तं सुहमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥११४॥ (सू० ३९८) एतेहिं सुहुमेहं खेत्तपलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं पलिओवम-सागरोवमेहिं दिट्ठिवाए दव्वाइं मविजंति । उक्तं सप्रयोजनमद्धापल्योपमम् । क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयम् । नवरं व्यावहारिकपल्योपमे जे णं तस्स पल्लस्सेत्यादि, तस्य पल्यस्यान्तर्गता नभ:प्रदेशास्तैर्वालाग्रैर्ये अप्फुण्ण त्ति आस्पृष्टा व्याप्ता आक्रान्ता इति यावत्, तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे असङ्ख्येया उत्सर्पिण्यवसर्पिण्योऽतिक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यम् । सूक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मैर्वालाग्रैः स्पृष्टा अस्पृष्टाश्च नभ:प्रदेशा गृह्यन्ते, अतस्तद् व्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम् । Page #270 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३९८] २५३ आह- यदि स्पृष्टा अस्पृष्टाश्च नभः प्रदेशा गृह्यन्ते तर्हि वालाग्रैः किं प्रयोजनम् ? यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात् सत्यम्, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टैरेव नभः प्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति । तत्थ णं चोय पण्णवगमित्यादि । तत्र नभः प्रदेशानां स्पृष्टा ऽस्पृष्टत्वरूप जातसन्देहः प्रेरकः प्रज्ञापकम् आचार्यमेवमवादीत् - भदन्त ! किमस्त्येतद् यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ? पूर्वोक्तप्रकारेण वालाग्राणां तत्र निबिडतयाऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभः प्रदेशाः सन्त प्रच्छकाभिप्रायः । तत्रोत्तरम् - हन्तास्त्येतत् नात्र सन्देहः कर्तव्यः । इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपत्तुमशक्तः पुनर्विनेयः पृच्छति - यथा कोऽत्र दृष्टान्त: ? प्रज्ञापक आह- से जहानामए इत्यादि। अयमत्र भावार्थ:- कूष्माण्डानां पुंस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुनर्भृतोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु बिल्वानि प्रक्षिप्तानि, तान्यपि मातानि, एवं तावद् यावत् सर्षपच्छिद्रेषु गङ्गावालुका प्रक्षिप्त माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टान् नभः प्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् १९० सन्त्येवासङ्ख्याता अस्पृष्टा नभः प्रदेशाः, दृश्यते च निबिडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय: कीलकानां बहूनां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण संभवति एवमिहापि भावनीयम् । ११०. सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशा इति । ननु कूष्माण्ड - बीजपूरकादिभृतेऽपि कोष्ठके प्रक्षिप्तानि बीजपूरक-बिल्वादीनि यतो मान्त्यतः कोष्ठके कूष्माण्डादिभिरस्पृष्टाश्छिद्ररूपा देशा यद्यपि सिध्यन्ति तथापि कूष्माण्डादिभिर्व्याप्तकोष्ठकक्षेत्रापेक्षया तदव्याप्तक्षेत्रमल्पमेव भवतीत्यनुभवसिद्धम् । एवमेव पल्ये वालाग्रैरस्पृष्टानां नभःप्रदेशानां सिद्धावपि स्पृष्टनभःप्रदेशापेक्षयाऽल्पीयस्त्वमेव सिद्ध्यति । किञ्च शैलेशीकरणप्रक्रियया निश्चीयते यद् 'आत्मप्रदेशैरस्पृष्टाः शरीरगताः शुषिरदेशा आत्मप्रदेशस्पृष्टशरीरदेशापेक्षया द्विगुणहीना (अर्धाः) एव भवन्ति, न त्वसङ्ख्येयगुणा इति । ततश्चात्रास्पृष्टनभःप्रदेशानामसङ्ख्येयगुणत्वं कथं श्रद्धेयमिति चेत् ? आगमप्रामाण्यात् तत् श्रद्धेयमिति गृहाण । तथापि हेतुरप्यत्र विचार्यते । तथाहि श्रीउत्तराध्ययननिर्युक्तिलोकप्रकाशादौ पुद्गलसंस्थानानि निरूपितानि । तत्र जघन्यप्रदेशनिष्पन्नयुग्मजातघनपरिमण्डलसंस्थाननिरूपण एवमुक्तं Page #271 -------------------------------------------------------------------------- ________________ २५४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं चतुर्दिशं तु चत्वारश्चत्वारः परमाणवः । विदिक्षु स्थाप्य एकैको भवेदेवंकृते सति ।।१२।। अणूनां विंशतेरेषामुपर्यणुषु विंशतौ ।। स्थापितेषु युग्मजातं स्याद् घनं परिमण्डलम् ।।९३ ।। एतच्चत्वारिंशदंशं तावत्खांशप्रतिष्ठितम् । (द्रव्यलोके एकादशे सर्गे) अत्र चेयं स्थापना - स्पृष्टानां खप्रदेशानां विंशतिः । - अस्पृष्टानां खप्रदेशानां षोडशकम् मान-विदिक्षु स्थिताः परमाणवः एषा च प्रतरपरिमंडलसंस्थानस्थापना । तच्च प्रतरपरिमंडलसंस्थानं सीमवर्तिषु विंशत्यभ्रप्रदेशेषु प्रतिष्ठितैर्विंशतिप्रदेशैर्निष्पन्नम् । तथा मध्ये षोडश नभःप्रदेशाः शुषिरतया प्राप्यन्त इत्यपि स्थापनायां दृश्यते । एतस्य प्रतरस्याव्यवहितोपरिवर्तिनि प्रतरेऽप्येवमेव विंशतिनभःप्रदेशेषु प्रतिष्ठिता विंशतिपरमाणुप्रदेशा एतैर्विंशतिप्रदेशैः सहैकं स्कन्धं यदाऽऽरभन्ते तदा चत्वारिंशत्प्रदेशकं तावत्खांशप्रतिष्ठितं युग्मजातघनपरिमण्डलसंस्थानं प्राप्यते । तत्र मध्ये द्वात्रिंशन्नभःप्रदेशाः शुषिरतया प्राप्यन्ते । एतच्च जघन्यप्रदेशकं घनपरिमण्डलसंस्थानम् । यदा त्वेतादंशि त्रिचतुरादीनि प्रतराणि गृह्यन्ते तदा मध्यमप्रदेशकं तत्प्राप्यते । यद्वा चतुर्पु दिक्षु चतूर्णा चतूर्णां परमाणूनां स्थाने पञ्चषादयः परमाणवो गृह्यन्ते तदापि मध्यमप्रदेशकं तत्प्राप्यते । ततश्च यदि चतुर्दिशं दश दश परमाणवः स्थाप्यन्ते विदिक्षु चैकैकस्तदा सीमवर्तिषु चतुश्चत्वारिंशत्खप्रदेशेषु प्रतिष्ठितैश्चतुश्चत्वारिंशत्प्रदेशैर्निष्पन्नं प्रतरपरिमंडलसंस्थानं प्राप्यते । तत्र च मध्ये शतं नभःप्रदेशाः शुषिरतया प्राप्यन्ते । ततश्च यद्येतादंशि दश प्रतराणि गृह्यन्ते तदा चत्वारिंशदधिकेषु चतुःशतेषु सीमवर्तिषु नभःप्रदेशेषु प्रतिष्ठितैस्तावत्परमाणुप्रदेशैरारब्धो घनपरिमण्डलसंस्थानकः स्कन्धः प्राप्यते । तत्र च सहस्रं नभःप्रदेशाः शुषिरतया प्राप्यन्ते । ततश्च तेन स्कन्धेन स्पृष्टानां नभःप्रदेशानामपेक्षयाऽस्पृष्टानां नभःप्रदेशानामाधिक्यं स्पष्टमेव । तच्चाधिक्यं साधिकद्विगुणप्रमाणं ज्ञायते । एवमेव चतुर्दिशं यदि शतं शतं परमाणवः स्थाप्यन्ते विदिक्षु चैकेकस्तदा सीमवर्तिषु चतुरधिकेषु चतुःशतेषु खप्रदेशेषु प्रतिष्ठितैस्तावत्प्रदेशैर्निष्पन्नं प्रतरपरिमण्डलसंस्थानं प्राप्यते, मध्ये च (१०० X १०० = १००००) दश सहस्राणि नभःप्रदेशाः शुषिरतया प्राप्यन्ते । ततश्च यद्येतादृशि शतप्रतराणि गृह्यन्ते तदा चतुःशताधिकेषु चत्वारिंशत्सहस्रेषु Page #272 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०३९९-४०१] २५५ (सू० ३९९) कइविधा णं भंते ! दव्वा पण्णता ? गो० ! दुविहा पण्णत्ता । तंजहाजीवदव्वा य अजीवदव्वा य ।। (सू० ४००) अजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? गो० ! दुविहा पन्नत्ता। तंजहा-अरूविअजीवदव्वा य रूविअजीवदव्वा य ।। (सू० ४०१) अरूविअजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? गो० ! दसविहा पण्णत्ता । तंजहा-धम्मत्थिकाए, धम्मत्थिकायस्स देसा, धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसा, अधम्मत्थिकायस्स पदेसा, आगासत्थिकाए, आगासत्थिकायस्स देसा, आगासत्थिकायस्स पदेसा, अद्धासमए । यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते, तर्हि कतिविधानि भदन्त ! तावद् द्रव्याणि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि, तदेवाह- जीवदव्वा य अजीवदव्वा य । तत्राल्पवक्तव्यत्वात् पश्चानिर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह- अजीवदव्वा णं भंते ! कइविहेत्यादि सुगम यावद् धम्मत्थिकाय इत्यादि, एकोऽपि धर्मास्तिकायो नयमतभेदात् त्रिधा भिद्यते, तत्र सीमवर्तिखप्रदेशेषु प्रतिष्ठितैस्तावत्प्रदेशैर्निष्पन्नं घनपरिमण्डलसंस्थानं प्राप्यते, मध्ये च (१००००x १०० = १००००००) दशलक्षाणि नभःप्रदेशाः शुषिरतया प्राप्यन्ते । इत्थञ्च तेन स्कन्धेन स्पृष्टा नभःप्रदेशाश्चतुःशताधिकचत्वारिंशत्सहस्राणि प्राप्ताः, अस्पृष्टाश्च दशलक्षाणि प्राप्ता इति स्पष्टापेक्षयाऽस्पष्टा नभःप्रदेशा देशोनाः पञ्चविंशतिगणाः प्राप्ताः । तस्मान्निश्चीयते यदयथा यथा चतुर्दिशं स्थाप्यमानाः परमाणवो वर्धन्ते तथा तथा प्राप्यमाणेन घनपरिमण्डलसंस्थानकेन स्कन्धेन स्पृष्टानां नभःप्रदेशानामपेक्षयाऽस्पृष्टानां नभ प्रदेशानां गुणकोऽपि वर्धत इति । अतोऽसङ्ख्येयनभःप्रदेशावगाढस्कन्धेषु स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानामसङ्ख्येयगुणत्वं नानुपपन्नमिति | एतेनेदमपि ज्ञायते यदौदारिकशरीरावगाढक्षेत्र आत्मप्रदेशैरनवरुद्धानां नभःप्रदेशानामपेक्षया तदवरुद्धा नभःप्रदेशा द्विगुणाः, औदारिकशरीरपुद्गलावरुद्धाश्च नभःप्रदेशा असङ्ख्येयगुणहीनाः (असङ्ख्येयभागवर्तिनः) एव भवन्तीति । तथा यत औदारिकस्कन्धापेक्षया वैक्रियस्कन्धानामवगाहनाऽसङ्ख्येयगुणहीनाऽत औदारिकस्कन्धेषु स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानां यो गुणको भवति तदपेक्षया वैक्रियस्कन्धेषु स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानां यो गुणको भवति स असङ्ख्येयगुणहीनो भवतीति । एवमेवाहारकादिषु कार्मणान्तेषु स्कन्धेषूत्तरोत्तरमवगाहना यतोऽसङ्ख्येय-असङ्ख्येयगुणहीना भवति, अतः स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानां गुणको यथाक्रममसङ्ख्येय-असङ्ख्येयगुणहीनो भवति । तथापि कार्मणस्कन्धेष्वपि स्पृष्टानां नभःप्रदेशानां यो राशिस्तदपेक्षयाऽस्पृष्टानां तेषां राशिरसङ्ख्येयगुणस्तु भवत्येवेति ध्येयम् । Page #273 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ४०२ ) रूविअजीवदव्वा णं भंते । कतिविहा पन्नत्ता ? गो० ! चउव्विहा पण्णत्ता । जहा - खंधा, खंधदेसा, खंधप्पदेसा, परमाणुपोग्गला । ( सू० ४०३ ) ते णं भंते! किं संखेज्जा, असंखेज्जा, अणंता ? गोतमा ! संखेज्जा, नो असंखेज्जा, अनंता । से केणट्टेणं भंते ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अनंता ? गो० ! अणंता परमाणुपोग्गला, अणंता दुपएसिया खंधा, जाव अनंता अणंतपदेसिया खंधा, से एतेणं अट्ठेणं गोतमा ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अनंता । २५६ ( सू० ४०४) जीवदव्वा णं भंते ! किं संखेज्जा, असंखेज्जा, अणंता ? गो० ! नो संखेज्जा, नो असंखेज्जा, अनंता । से केणट्टेणं भंते ! एवं वुच्चइ- जीवदव्वा णं नो संखेज्जा, नो असंखेज्जा, अणंता । गोतमा ! असंखेज्जा णेरइया, असंखेज्जा असुरकुमारा जाव असंखेज्जा थणियकुमारा, असंखेज्जा पुढवीकाइया जाव असंखेजा वाउकाड्या, अनंता वणस्सइकाइया, असंखेज्जा बेंदिया जाव असंखेज्जा चउरिंदिया, असंखेजा पंचेंदिथतिरिक्खजोणिया, असंखेज्जा मणूसा, असंखेज्जा वाणमंतरिया, असंखेज्जा जोइसिया, असंखेज्जा वेमाणिया, अणंता सिद्धा, से एएणं अद्वेणं गोतमा ! एवं वुच्चइजीवदव्वा णं नो संखेज्जा, नो असंखेज्जा, अनंता । सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकाय: पूर्वोक्तपदार्थः, व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभाग-त्रिभागादिकस्तस्यैव देश:, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः । ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागाः भागाः पृथगेव द्रव्याणि । एवम् अधर्मा-ऽऽकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः । अद्धासमय इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीता ऽनागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वात्, अत एवेह देश-प्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात् । तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा द्व्यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तद्विभाग- त्रिभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एव निरंशा भागाः, परमाणुपुद्गला स्कन्धभावमनापन्नाः एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यनन्तानि, कथमित्याह- अणंता परमाणुपोग्गला इत्यादि । एते च स्कन्धादयः . प्रत्येकमनन्ता: । अथ जीवद्रव्याणि विचारयितुमाह- जीवदव्वा णं भंते! किं संखेज्जा इत्यादि, यस्मान्नारकादिराशयः प्रत्येकमसङ्ख्याताः, वनस्पतयः सिद्धाश्चानन्ताः, अतो जीवद्रव्याण्यनन्तान्येवेत्यर्थः । Page #274 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०४०५-४०८ ] २५७ ( सू० ४०५) कति णं भंते ! सरीरा पं० ? गो० ! पंच सरीरा पण्णत्ता । तंजहाओरालिए वेउव्विए आहारए तेयए कम्मए । ( सू० ४०६ ) रइयाणं भंते ! कति सरीरा पन्नत्ता ? गो० ! तयो सरीरा पं० । तं० - वेउव्विए तेयए कम्मए । (सू० ४०७) असुरकुमाराणं भंते ! कति सरीरा पं० ? गो० ! तओ सरीरा पण्णत्ता । तंजा - बेउलिए तेयए कम्मए । एवं तिण्णि तिण्णि एते चेव सरीरा जाव थणियकुमाराणं भाणियव्वा । गो० ! तयो ( सू० ४०८ ) ( १ ) पुढवीकाइयाणं भंते ! कति सरीरा पण्णत्ता सरीरा पण्णत्ता । तंजहा - ओरालिए तेयए कम्मए । (२) एवं आउ - तेउ - वणस्सइकाइयाण वि एते चेव तिण्णि सरीरा भाणियव्वा । (३) वाउकाइयाणं जाव गो० ! चत्तारि सरीरा पन्नत्ता । तं० - ओरालिए वेउव्विए यए कम्मए । तदत्र नारकादयोऽसङ्ख्येयादिस्वरूपतः सामान्येन प्रोक्ताः, विशेषतस्तु तदसङ्खयेयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च तत्परिज्ञानं सिद्ध्यति । औदारिकादिशरीरस्वरूपबोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवा - ऽजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वाच्च तानि विचारयितुमुपक्रमते - कड़ णं भंते सरीरा इत्यादि । ओरालिए त्ति उदारं तीर्थकर - गणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानम्, उदारमेवौदारिकम् । अथवा उदारं सातिरेकयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो महाप्रमाणम्, तदेवौदारिकम् । वैक्रियमुत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनुः शतप्रमाणमेव, ततः सहजशरीरापेक्षया इदमेव महाप्रमाणम् १। वेउव्विए त्ति विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम्, विशिष्टं कुर्वन्ति तदिि वा वैकुर्विकम् २। आहारए त्ति तथाविधप्रयोजने चतुर्दशपूर्वविदा आह्रियते गृह्यत इत्याहारकम्, अथवा आह्रियन्ते गृह्यन्ते केवलिनः समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकम् ३ । य रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसम् ४। कम्मर त्ति अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकार: कर्मैव वा कार्मणम् ५। अत्र स्वल्पपुद्गलनिष्पन्नत्वाद्वादरपरिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहुबहुतर-बहुतमपुद्गलनिर्वृत्तत्वात् सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमत्वाच्च क्रमेण शेषशरीराणामिति । तदेवं सामान्येन शरीराणि निरूप्य चतुर्विंशतिदण्डके तानि चिन्तयितुमाह- नेरइयाणं भंते ! कइ सरीरा इत्यादि पाठसिद्धमेव यावत् केवड्या णं भंते ! ओरालियसरीरा इत्यादि, यिन्ति Page #275 -------------------------------------------------------------------------- ________________ २५८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४०९) बेंदिय-तेंदिय-चउरिदियाणं जहा पुढवीकाइयाणं । (सू० ४१०) पंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहा वाउकाइयाणं । (सू० ४११) मणूसाणं जाव गो० ! पंच सरीरा पन्नत्ता । तं० ओरालिए वेउव्विए आहारए तेयए कम्मए । कियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति । अत्रोत्तरम्- गोयमा ! दुविहेत्यादि, औदारिकशरीरसङ्ख्यायां पृष्टायां बद्ध-मुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवम्, बद्धमुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य । इदं च बद्ध-मुक्तौदारिकादिप्रमाणं क्वचिद् द्रव्येण अभव्यादिना वक्ष्यति, क्वचित्तु क्षेत्रेण श्रेणि-प्रतरादिना, क्वचित्तु कालेन समया-ऽऽवलिकादिना, भावेन तु न वक्ष्यति, १११तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात् । तत्र बद्धानामौदारिकशरीराणां कालत: क्षेत्रतश्च मानं निरूपयितुमाह- तत्थ णं जे ते बद्धेल्लया इत्यादि, इह नारक-देवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्मनुष्यैस्तथाविधकर्मोदयाद् यानि बद्धानि गृहीतानीत्यर्थः, पृच्छासमये तै: सह यानि सम्बद्धानि तिष्ठन्तीति यावत् तानि सामान्यत: सर्वाण्यसङ्ख्येयानि । न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि- असंखेजाहिमित्यादि, प्रतिसमयं यद्येकैकं शरीरमपह्रियते तदा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभि: सर्वाण्यपह्रियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्त: समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः । तदेतत् कालतो मानमुक्तम्, अथ क्षेत्रतस्तदाह- खेत्तओ असंखेजा लोग त्ति, इदमुक्तं भवति- प्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्येकैकं शरीरं व्यवस्थाप्यते तद्यसङ्ख्येया लोकास्तैर्धियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येकं तैर्व्यवस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्खयेयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाह: सिद्धान्ते निषिद्ध इति नेत्थमुच्यते, असत्कल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता ? केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति । आह- भवत्वेवम्, किन्त्वौदारिकशरीरिणां मनुष्य-तिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न १११. तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वादिति । यद्वा भावस्य नियतमानत्वाभावादित्यपि हेतुरत्र ज्ञेयः । अयम्भावः-यथाऽभव्यजीवानां सङ्ख्या नियता, श्रेणि-प्रतरादिगताकाशप्रदेशानां सङ्ख्या नियता, आवलिकादिगतसमयानां च सङ्ख्या नियता, न तथा कश्चिदपि भावः प्रसिद्धो यो नियतमानः स्याद्येन च कस्यचिदपि प्रमाणस्य निरूपणं शक्यं स्याद् । न ह्यनियतमानेनामुकग्रामनिवासिजनादिलक्षणेन द्रव्येण विन्ध्यपर्वतादिक्षेत्रादिना वाऽपि कस्यचिदपि प्रमाणं निरूपयितुं शक्यते । Page #276 -------------------------------------------------------------------------- ________________ २५९ श्रीअनुयोगद्वारसूत्रम् [सू०४१२,४१३] (सू० ४१२) वाणमंतराणं जोइसियाणं वेमाणियाणं जहा नेरइयाणं, वेउब्विय-तेयगकम्मगा तिन्नि तिनि सरीरा भाणियव्वा । (सू० ४१३) केवतिया णं भंते ! ओरालियसरीरा पण्णत्ता ? गो० ! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेजा लोगा । तत्थ णं भवन्ति येनासङ्खयेयान्येवोक्तानि ? उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ता:, किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्ख्येयान्येवेति । तत्थ णं जे ते मुक्केल्लयेत्यादि, भवान्तरसङ्क्रान्ती मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्यानन्तभेदत्वान्न ज्ञायते कियदप्यनन्तकमिदम्, तत: कालेन विशेषयति- प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः । अथ क्षेत्रतो विशिनष्टि- खेत्तओ अणंता लोग त्ति, क्षेत्रत: क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां य: प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः। द्रव्यतो नियमयति- अभवसिद्धिएहिमित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि सिद्धजीवद्रव्यसङ्ख्यायास्त्वनन्तभागवर्तीनीति । आह- यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वगमनतस्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते तत् किमेतानि तत्तुल्यानि भवन्ति ? नैतदेवम्, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे निर्दिष्टानि स्युः, न चैवम्, तत: प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति प्रतिपत्तव्यमिति । पुनरप्याह- ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि- किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि ? यद्याद्य: पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापर: पक्षस्तर्हि स कश्चित् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया ११२अनन्तशः परिणमय्य न मुक्तः, ततः सर्वस्यापि पुद्गलास्तिकायस्य ___ ११२. अनन्तशः परिणमय्यति । नन कुत एतन्निश्चय इति चेत् ? पुद्गलपरावर्तलक्षणात् तन्निर्णय इति जानीहि । तथाहि- एको जीवो यावता कालेन सर्वपुद्गलास्तिकायगतसर्वपुद्गलानौदारिकशरीररूपतया परिणमय्य मुञ्चति स काल औदारिकद्रव्यपुद्गलपरावर्त उच्यते । यतोऽतीतकाल एवंविधाश्चानन्ताः पुद्गलपरावर्ता अतीताः, अतो निश्चीयते यत्- ‘स कश्चित्पुद्गलो नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतयाऽनन्तशः परिणमय्य न Page #277 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं मुलगा ते णं अणंता अनंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ अभवसिद्धिएहिं अनंतगुणा सिद्धाणं अनंतभागो । ( सू० ४१४) केवतिया णं भंते ! वेउव्वियसरीरा पं० ? गोतमा ! दुविहा पण्णत्ता । ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वात्, अत्रोच्यते, नैष दोषः, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणामं परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि 'ग्रामो दग्धः, पटो दग्धः' इत्यादिवदवयवे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसङ्ख्यान्यौदारिशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितम् । तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, विभागतोऽप्युपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति १ । अथौघत एव वैक्रियसङ्ख्यामाह - केवइया णं भंते वेउव्वियेत्यादि । तत्र नारक - देवानामेतानि मुक्तः' इति । ननु सर्वपुद्गलास्तिकायगतसर्वपुद्गलानां सर्वजीवेभ्योऽनन्तानन्तगुणत्वं वृत्तावप्यग्रे कथयिष्यते। ततश्च कथमेकस्याप्येवंविधस्य पुद्गलपरावर्तस्य सम्पूर्णेऽप्यतीतकाले सम्भवः ? अयम्भावः-पृच्छासमयं यावदेकेन जीवेन गृहीताः पुद्गलाः कियन्त इति प्रापणार्थं 'प्रतिसमयं गृह्यमाणपुद्गलराशिप्रमाणेन गुण्यमानेऽतीतकालगतसमयराशौ यत्प्राप्यते तत्प्रमाणाः' इति करणमुपयुज्यते । अत्र च प्रतिसमयं गृह्यमाणपुद्गलराशिरभव्यजीवद्रव्यसङ्ख्यातो-ऽनन्तगुणप्रमाणः सिद्धजीवद्रव्यसङ्ख्यातश्चानन्तभागप्रमाणो वर्तते । तथाऽतीतकालगतसमयराशिः षण्मासगतसमयप्रमाणाऽसङ्ख्येयगुणितसिद्धजीवद्रव्यसङ्ख्याया न्यूनो भवति, मुक्तिप्राप्तेरुत्कृष्टान्तरस्य षण्मासत्वात् । ततश्च प्रथमराशि (सिद्ध - अनंत ) गुणितो द्वितीयराशिः (सिद्ध x असङ्ख्य ) सिद्धजीववर्गापेक्षया न्यूनः प्राप्यत इति स्पष्टम् । अयञ्च राशिर्न सर्वजीवेभ्योऽनन्तानन्तगुणः, अपि त्वनन्तभागवर्त्येवेत्यपि स्पष्टमेव । इत्थञ्चोपरि यादृशः पुद्गलपरावर्त उक्तः, तादृशो नैकोऽप्यद्य यावद् व्यतीत इति सिद्धम्, सर्वपुद्गलास्तिकायगतसर्वपुद्गलानन्तभागवर्तिपुद्गलानामेवैकेन जीवेन पृच्छासमयं यावद् गृहीतत्वात् । ननु शास्त्रे त्वनन्ता पुद्गलपरावर्ता व्यतीता इति श्रूयते । सत्यं, अत एव पुद्गलपरावर्तस्य या परिभाषाऽस्माभिरवबुध्यते तदन्यैव काचित्परिभाषा वस्तुतो भवेदिति मन्तव्यम् । 'साच का ?' इति निर्णेतुं न वयं समर्थाः, बहुश्रुता एवात्र प्रक्रमे प्रष्टव्याः । २६० Page #278 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४१५,४१६] २६१ तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पतरस्स असंखेजइभागो । तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, सेसं जहा ओरालियस्स मुक्केल्लया तहा एते वि भाणियव्वा । (सू० ४१५) केवइया णं भंते ! आहारगसरीरा पं० ? गोयमा ! दुविहा पं० । तं०- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिया अत्थि सिया नत्थि, जइ अत्थि जहण्णेणं एगो वा दो वा तिण्णि वा, उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओरालियसरीरस्स तहा भाणियव्वा । (सू० ४१६) केवतिया णं भंते ! तेयगसरीरा पण्णत्ता ? गोयमा! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ सिद्धेहिं अणंतगुणा सर्वदैव बद्धानि संभवन्ति, मनुष्य-तिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले, तत: सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्येयानि लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशिस्तत्सङ्ख्यानि भवन्ति । मुक्तानि यथौदारिकाणि तथैव २ । अथौघत एवाहारकाण्याह- केवइया णं भंते ! आहारगेत्यादि, एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यत: समयम् उत्कृष्टतस्तु षण्मासान् यावदभिहितम्, अत उक्तम्- बद्धानि कदाचित् सन्ति, कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्त्वम्, द्विप्रभृत्या नवभ्य: समयप्रसिद्ध्या पृथक्त्वमुच्यते। मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् तथैव तैजसान्याह- केवइया णं भंते तेयगेत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि, द्रव्यत: सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात् । नन्वौदारिकस्यापि स्वामिनो विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्य-तिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं तु चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, Page #279 -------------------------------------------------------------------------- ________________ २६२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत सव्वजीवाणं अणंतभागूणा । तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो अणंता लोगा, दव्वओ सव्वजीवेहिं अणंतगुणा जीववग्गस्स अणंतभागो। (सू० ४१७) केवइया णं भंते ! कम्मयसरीरा पन्नत्ता ? गो० दुविहा पण्णत्ता । तंजहा- बद्धेल्लया य मुक्केल्लया य । जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा । संसारिणश्च जीवा: सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अत: सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि । मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यत: सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिर्जीवराशिनैव गुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति ? नेत्याह- जीववग्गस्स अणंतभागो त्ति, सर्वजीवा: सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि, तानि च तैरेव गुणितानि, ततोऽसत्कल्पनया दशकोटिसङ्ख्यः सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्ततमे कल्पनया शततमे भागे एतानि वर्तन्ते, अत: सद्भावतोऽनन्तान्यपि किल दशलक्षसङ्ख्यानि तानि सिद्धानि । किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति? उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैर्भिद्यन्ते तानि तान्यसङ्ख्येयकालादूर्ध्वं तं परिणामं परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अत: प्रतिनियतकालावस्थायित्वादुत्कृष्टतोऽपि ११३यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते, नाधिकानीत्यलमतिविस्तरेण ४। केवइया णं भंते ! कम्मयेत्यादि, तैजस-कार्मणयोः समानस्वामिकत्वात् सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति ५ । तदेवमोघत: पञ्चापि शरीराण्युक्तानि । ११३. यथोक्तसङ्ख्यान्येवैतानीत्यादि । सङ्ख्याशास्त्रानुसारेणायमत्र हेतु यः । एकेन जीवेन मुक्तानि तैजसान्यनन्तभेदैर्यदा भिद्यन्ते तदाऽपि सिद्धजीवेभ्योऽनन्तभागवर्तिन्येव भवन्ति, उत्कृष्टतोऽप्येतावतामेव स्कन्धानां तत्र भावात् । किञ्च तान्युत्कृष्टतोऽप्यसङ्ख्येयकालं यावदेव समुदितानि प्राप्यन्ते, तदनन्तरं नियमात्परिणामान्तरासादनात् । ततश्च समुदितान्यपि तानि सिद्धजीवेभ्योऽनन्तभागवर्तिराशिप्रमाणान्येव प्राप्यन्ते, असङ्ख्येयगुणितस्यापि सिद्धजीवानन्तभागवर्तिराशेरेतावत्प्रमाणत्वाद् । ततश्च यद्येकेन जीवेन मुक्तानि तैजसानि शरीराण्येतावत्प्रमाणानि प्राप्यन्ते तर्हि देशोनसर्वजीवैर्मुक्तानि तानि कियन्ति प्राप्यन्ते ? इति त्रिराशिगणिते क्रियमाणे सिद्धजीवानन्तभागवर्तिराशिना गुण्यमानो देशोनसर्वजीवराशि ववर्गानन्तभागवर्तिराशितुल्य एव प्राप्यत इति स्पष्टम्, गुणकस्य सिद्धजीवानन्तभागवर्तिराशेर्जीवानन्तभागवर्तित्वात् । Page #280 -------------------------------------------------------------------------- ________________ २६३ श्रीअनुयोगद्वारसूत्रम् [सू०४१८] (सू० ४१८) (१) नेरइयाणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता? गोतमा ! दुविहा पण्णत्ता । तं०- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि। तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा । (२) नेरइयाणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूयी अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, अहव णं अंगुलबितियवग्गमूलघणपमाणमेत्ताओ सेढीओ । तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह- नेरइयाणं भंते केवइया ओरालियसरीरेत्यादि । द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमवसेयम्, न सद्रूपेण, अत एवोक्तम्- तत्र यानि बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि त्वौघिकमुक्तौदारिकवद्वाच्यानि। वैक्रियशरीराणि तु बद्धान्येषामसङ्ख्येयानि, प्रतिनारकमेकैकवैक्रियसद्भावात्, नारकाणां चासङ्ख्येयत्वात् । तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि। क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति। ननु प्रतरासङ्ख्येयभागे असङ्ख्येययोजनकोटयोऽपि भवन्ति, तत् किमेतावत्यपि क्षेत्रे या नभ:श्रेणयो भवन्ति ता इह गृह्यन्ते ? नेत्याह- तासि णं सेढीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः विस्तरश्रेणिः, ज्ञेयेति शेष: । कियतीत्याह- अंगुलेत्यादि, अङ्गुलप्रमाणे प्रतरक्षेत्रे य: श्रेणिराशिस्तत्र किलासङ्ख्येयानि वर्गमूलानि तिष्ठन्त्यत: प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं गुणितं तथा च सति यावत्योऽत्र श्रेणयो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्य: श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति- अगुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा २५६, अत्र प्रथमवर्गमूलं षोडश १६, द्वितीयं चत्वार: ४, चतुर्भि: षोडश गुणिता जाता चतुःषष्टिः ६४, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येया: श्रेणयो मन्तव्या:, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या । अहव णमित्यादि, णमिति वाक्यालङ्कारे, अथवा अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः । अहव ण त्ति क्वचित् पाठः, स चैवं व्याख्यायतेअथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भाव:, समुदितो वाऽयं शब्दोऽथवाशब्दस्यार्थे वर्तते । तदेव प्रकारान्तरमाह- अंगुलबीयवग्गमूलघणेत्यादि, Page #281 -------------------------------------------------------------------------- ________________ २६४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (३) णेरइयाणं भंते ! केवइया आहारगसरीरा पण्णत्ता ? गोयमा! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि । तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा । (४) तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भाणियव्वा । (सू० ४१९) (१) असुरकुमाराणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता? गो० ! जहा नेरइयाणं ओरालियसरीरा तहा भाणियव्वा । (२) असुरकुमाराणं भंते ! केवतिया वेउव्वियसरीरा पन्नत्ता ? गोतमा ! दुविहा पण्णत्ता । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेजतिभागो । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । अङ्गुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन: चतुःषष्टिलक्षणस्तत्प्रमाणा: तत्सङ्ख्या: श्रेणयोऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते, अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसङ्ख्येयानां श्रेणीनां य: प्रदेशराशिरेतावत्सङ्ख्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्त एव, एवं च सति पूर्वं नारका: सामान्येनैवासङ्ख्येया उक्ता:, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्ख्येयकं प्रतिनियतस्वरूपं सिद्धं भवति, एवमन्यत्रापि प्रत्येकशरीरिण: सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्या: । मुक्तवैक्रियाणि मुक्तौदारिकवद् वाच्यानि। आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात् तद्बन्धस्य। ११४मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणा प्रतिपतितचतुर्दशपूर्वविदा नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः । तैजस-कार्मणानि तु बद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि । ___ उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि वक्तुमाह- असुरकुमाराणं भंते ! इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि । वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्य: स्तोकत्वात् प्रस्तुतशरीराण्यपि स्तोकान्यतो विष्कम्भसूच्या विशेष: । सा चेयम्- तासि णं सेढीणं विक्खंभसूईत्यादि, तासाम् अनन्तरोक्तश्रेणीनां विष्कम्भसूचि: विस्तरश्रेणिरङ्गुलप्रथमवर्गमूलस्या ११४. मुक्तानि त्वित्यादि । अत्र 'कदाचित् सन्ति कदाचित्तु न' इत्येवं यन्न निरूपित तेनेदं निश्चीयते यत् ‘कृतोज्झिताहारकशरीराः प्रतिपतितचतुर्दशपूर्वविदः सर्वदैव प्राप्यन्त एव, न कदाचिदपि तेषां विरह' इति । Page #282 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४२०] २६५ (३) असुरकुमाराणं भंते ! केवइया आहारगसरीरा पन्नत्ता ? गो० ! दुविहा पण्णत्ता। तंजहा-बद्धेल्लया य मुक्केल्लया य । जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा । (४) तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भाणियव्वा । (५) जहा असुरकुमाराणं तहा जाव थणियकुमाराणं ताव भाणियव्वं । (सू० ४२०) (१) पुढविकाइयाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । एवं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । पुढविकाइयाणं भंते ! केवइया वेउब्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं णत्थि । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । आहारगसरीरा वि एवं चेव भाणियव्वा । तेयग-कम्मगसरीराणं जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा । सङ्ख्येयभाग:। इदमुक्तं भवति- प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्य: श्रेणयो भवन्ति तासां यत् प्रथमवर्गमूलं तस्याप्यसङ्ख्येयभागे या: श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ११५ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इति प्रतिपादितं भवति, इत्थमेव चैतत्, यत: प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ता:, किं पुन: समस्तनारकाणां केवलासुरकुमारा इति । आहारकाणि नारकवदेव । तैजस-कार्मणान्यत्रैवोक्तवैक्रियवदिति। एवं समानैव वक्तव्यता यावत् स्तनितकुमारा:। पुढविकाइया णं भंते ! इत्यादि । औदारिकाणि बद्धानि मुक्तानि चात्रौधिकौदारिकवद् वाच्यानि, केवलं यदौघिकबद्धानामसङ्ख्येयलोकप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यम्, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्,अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः । वैक्रिया-ऽऽहारकाणि बद्धानि अमीषा न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु सम्भवन्ति, तानि तु मुक्तौघिकौदारिकवदभिधानीयानि । तैजस-कार्मणान्यत्रैवोक्तौदारिकवद् दृश्यानि । एवमप्कायिकतेज:कायिकेष्वपि सर्वं वाच्यम्। वायुषु तु वैक्रियकृतो विशेष: समस्ति, तदभिधानार्थमाहवाउकाइयाणं भंते ! इत्यादि, इहापि सर्वं पृथिवीकायिकवद् वाच्यम्, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्येयानि लभ्यन्ते, तानि च प्रतिसमयमपह्रियमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभःप्रदेशा भवन्ति तत्सङ्ख्यैः समयैरपहियन्ते, क्षेत्रपल्योपमासङ्ख्येयभागवर्तिप्रदेशराशितुल्यानि ११५. ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इत्यादि । जीवसमासाख्ये ग्रन्थे तु नारकापेक्षयाऽसुरकुमाराणामसङ्ख्येयगुणत्वं कथितमिति ध्येयम् । Page #283 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सव्वसरीरा भाणियव्वा । (३) वाउकाइयाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गो० ! जहा पुढविकाइयाणं ओरालियसरीरा तहा भाणियव्वा । वाउकाइयाणं भंते ! केवतिया वेव्वियसरी पत्ता ? गो० ! दुविहा पं० । तं बद्धेल्लया य मुक्केल्लया । तथ जे ते बद्धेला ते णं असंखेज्जा समए समए अवहीरमाणा अवहीरमाणा पलिओ मस्स असंखेज्जइभागमेत्तेणं कालेणं अवहीरंति नो चेव णं अवहिया सिया | मुक्केल्लया जहा ओहिया ओरालियमुक्केल्लया । आहारयसरीरा जहा पुढविकाइयाणं वेउव्वियसरीरा तहा भाणियव्वा । तेयग-कम्मयसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा । (४) वणस्सइकाइयाणं ओरालिय- वेउव्विय- आहारगसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा । वणस्सइकाइयाणं भंते! केवइया तेयग-कम्मगसरीरा पण्णत्ता ? गो० ! जहा ओहिया तेयग- कम्मगसरीरा तहा वणस्सइकाइयाण वि तेयग - कम्मगसरीरा भाणियव्वा । २६६ भवन्तीत्यर्थः, नो चेव णं अवहिया सिय त्ति, परप्रत्यायनार्थं प्ररूपणैवेत्थं क्रियते, न तु तानि कदाचित् केनचिदित्थमपहियन्त इति भावः । ननु वायवः सर्वेऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव पठ्यन्ते ?, उच्यते, चतुर्विधा वायवः- सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, बादरा अपर्याप्ताः पर्याप्ताश्च । तत्राऽऽद्यरात्रिये प्रत्येकं ते असङ्ख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्ख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः, येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यातभागवर्तिन एव बद्धवैक्रियशरीराः पृच्छासमये प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवैषां बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति । अत्र केचिन्मन्यन्ते - ये केचन वान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः । उक्तं च - अत्थि णं भंते ! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति ?, हंता अत्थि । कया णं भंते! जाव वायंति गोयमा ! जया णं वाउयाए आहारियं रीयति, जया णं वाउयाए उत्तरकिरियं रीयइ, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्टाए वाउयायं उदीरंति, तया णं ईसि जाव वायंति ( भगवतीसूत्र ५।२।१० ) । आहारियं रीयति त्ति रीतं रीतिः स्वभाव Page #284 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४२१] २६७ (सू० ४२१) (१) बेइंदियाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गोतमा ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं से ढीणं विक्खंभसूयी असंखेजाओ जोयणकोडाकोडीओ असंखेजाइं सेढिवग्गमूलाई, बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लएहिं पयरं अवहीरइ असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए य असंखेजइभागपडिभागेणं । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । वेउव्विय-आहारगसरीरा णं बद्धेल्लया नत्थि, मुक्केल्लया जहा ओरालियसरीरा ओहिया तहा भाणियव्वा । तेया-कम्मगसरीरा जहा एतेसिं चेव ओरालियसरीरा तहा भाणियव्वा । (२) जहा बेइंदियाणं तहा तेइंदियाणं चउरिदियाण वि भाणियव्वं। इत्यर्थः, तस्यानतिक्रमेण यथारीतं रीयते गच्छति, यदा स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः । उत्तरकिरियं ति उत्तरा उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते । तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रेऽपि सर्वं पृथ्वीकायिकवद् वक्तव्यम्, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात् स्वस्थानबद्धौदारिकसङ्ख्यातुल्यानि तैजस-कार्मणान्युक्तानि, अत्र तु वनस्पतीनां बहूनां साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, तैजस-कार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि, ततो न स्वस्थानबद्धौदारिकतुल्यानि वक्तव्यानि, किन्तु यथौघिकतैजस-कार्मणान्यभिहितानि तथैवात्रापि भावनीयानि । बेइंदियाणं भंते ! इत्यादि । अत्र बद्धौदारिकाण्यसङ्ख्येयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च प्रतरासङ्ख्येयभागवर्तिश्रेणीनां विष्कम्भसूचिरसङ्ख्येययोजनकोटीकोटिप्रमाणाऽत्र ग्राह्या । एतदेव विशेषिततरमाह- असंखेज्जाइं सेढिवग्गमूलाई ति, एकस्या नभ:श्रेणेर्य: प्रदेशराशि: स च सद्भावतोऽसङ्ख्यातप्रदेशात्मकोऽपि कल्पनया पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानि ६५५३६, अस्य प्रथमं वर्गमूलम् २५६, द्वितीयम् १६, तृतीयम् ४, चतुर्थम् २, एतानि कल्पनया चत्वार्यपि सद्भावतोऽसङ्ख्येयानि वर्गमूलानि, एतेषां च मीलने कल्पनया अष्टसप्तत्यधिके द्वे शते सद्भावतस्त्वसङ्ख्येया: प्रदेशा जायन्ते, तत एतावत्प्रदेशा प्रस्तुतविष्कम्भसूचिर्भवति । Page #285 -------------------------------------------------------------------------- ________________ २६८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४२२) (१) पंचेंदियतिरिक्खजोणियाण वि ओरालियसरीरा एवं चेव भाणियव्वा। (२) पंचेंदियतिरिक्खजोणियाणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ जाव विक्खंभसूयी अंगुलपढमवग्गमूलस्स असंखेजइभागो । मुक्केल्लया जहा ओहिया ओरालियाणं । आहारयसरीरा जहा बेइंदियाणं । तेयग-कम्मगसरीरा जहा ओरालिया । ___ इदानीं प्रस्तुतशरीरमानमेव प्रकारान्तरेणाह- बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लएहिमित्यादि, द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः प्रतर: सर्वोऽप्यपह्रियते, कियता कालेनेत्याहअसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, केन पुन: क्षेत्रप्रतिभागेन कालप्रतिभागेन च एतावता कालेनायमपह्रियत इत्याह- अगुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्ख्येयभागरूप: प्रतिभाग: अंशस्तेन । इदमुक्तं भवति- यद्येकैकेन द्वीन्द्रियशरीरेण प्रतरस्यैकैकोऽमुलासङ्ख्येयभाग एकैकेनावलिकाऽसङ्ख्येयभागेन क्रमशोऽपह्रियते तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभि: सर्वोऽपि प्रतरो निष्ठां याति, एवं प्रतरस्यैकैकस्मिन्नगुलासङ्ख्येयभागे एकैकेनावलिकाऽसङ्ख्येयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वं प्रतरं पूरयन्तीत्यपि द्रष्टव्यम्, वस्तुत एकार्थत्वादिति, मुक्तौदारिक-वैक्रिया-ऽऽहारकाणि पृथ्वीकायिकवद्वाच्यानि, तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रिय-चतुरिन्द्रियाणामप्येवमेव वाच्यम् । पञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह- पंचिंदियतिरिक्खजोणियाणं भंते ! केवइया वेउब्वियसरीरा इत्यादि, इह च सामान्येनासङ्ख्येयतामात्राव्यभिचारतस्त्रीन्द्रियादीनामतिदेशो मन्तव्यः, न पुन: सर्वथा परस्परं सङ्ख्यासाम्यमेतेषाम्, यत उक्तम्- एएसि णं भंते एगिदिय-बेइंदियतेइंदिय-चउरिंदिय-पंचिंदियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ? सव्वथोवा पंचिंदिया, चउरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिंदिया अणंतगुणा (प्रज्ञापना० ३।३) तदेवमिह सूत्रे द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि तदिह द्रष्टव्यम्, प्रत्येकशरीरिणां जीवसङ्ख्याया: शरीरसङ्ख्यातुल्यत्वादित्यलं प्रसङ्गेन । प्रकृतमुच्यते- तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च श्रेणीनां Page #286 -------------------------------------------------------------------------- ________________ २६९ श्रीअनुयोगद्वारसूत्रम् [सू०४२३] (सू० ४२३) (१) मणूसाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता? गो० ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय संखेजा सिय असंखेजा, जहण्णपदे संखेजा, संखेजाओ कोडीओ, तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, अहवणं छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउतिछेयणगदाई रासी, उक्कोसपदे असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति, असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं कालओ, खेत्तगे अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । मुक्केल्लया जहा ओहिया ओरालियाणं ।। विष्कम्भसूचिरङ्गुलप्रथमवर्गमूलस्यासङ्ख्येयभाग: । शेषभावना असुरकुमारवत् कार्या । मणूसाणं भंते ! केवइया इत्यादि । इह मनुष्या द्विविधाः वान्तपित्तादिजन्मान: सम्मूछेजा:, स्त्रीगर्भोत्पन्ना गर्भजाश्च । तत्राद्या: कदाचिन्न भवन्त्येव, जघन्यत: समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परत: सर्वेषां निर्लेपत्वसम्भवात् । यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ख्येयाः, तत्र सम्मूर्छजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानि सङ्ख्येयान्येव, अत उक्तम्- जहण्णपए संखेज्ज त्ति । सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह- सङ्ख्येया: कोटय:, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चउजमलपयस्स हे? त्ति । इदमुक्तं भवतिअष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं त्रियमलपदम्, षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुविंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः । तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-, चउजमलपदस्स हे? त्ति, चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः । अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य तु वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि Page #287 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (२) मणूसाणं भंते ! केवतिया वेउव्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं०- बल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं संखेज्जा समए समए अवहीरमाणा अवहीरमाणा संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहिया सिया । मुक्केल्लया जहा ओहिया ओरालियाणं । २७० (३) मणूसाणं भंते ! केवइया आहारयसरीरा पन्नता ? गो० ! दुविहा पण्णत्ता । सप्तमवर्गस्य त्वधस्तात् प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्रापि तान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि । अथवा किमेतैरस्फुटैः प्रकारैः, स्फुटतरमेव प्रकारमाह- अहवणमित्यस्य शब्दस्य सपाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्ग: पञ्चमवर्गेण यदा प्रत्युत्पन्नो गुणतो भवति प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः । अथ कोऽयं षष्ठो वर्गः कश्च पञ्चम इति ?, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावद्वर्गः, तत्रैकवर्गस्य वर्ग एक एव भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्ग : ४, चतुर्णां वर्ग: षोडशेति द्वितीयो वर्ग : १६ । षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६ | अस्य राशेर्वर्गः पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्गः ६५५३६ । अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ । अउणावन्नं लक्खा सत्तहिं चेव य सहस्सा ||१|| दो य सया छन्नउया पंचमग्गो इमो विणिद्दिट्ठो ( ) त्ति । अङ्कतोऽप्येष दर्श्यते- ४२९४९६७२९६ । अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते लक्ख कोडाकोडीण चउरसीयं भवे सहस्साइं । चत्तारि य सत्तट्टा हुंति सया कोडकोडी ||१|| चोयालं लक्खाई कोडीणं सत्त चेव य सहस्सा | तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा ॥ २॥ पंचाणउई लक्खा गावन्नं भवे सहस्साइं । छस्सोलसोत्तरसया एसो छट्टो हवइ वग्गो || ३ || ( ) अङ्कतोऽपि दर्श्यते - १८४४६७४४०७३७०९५५१६१६ । तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तन्ते । सा चेयम् - ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ । अयं च राशि : कोटीकोट्यादिप्रकारेण केनाप्यभिधातुं न शक्यते, अतः पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थं गाथाद्वयम् Page #288 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४२३] २७१ तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय अत्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओहिया ओरालियाणं । (४) तेयग-कम्मगसरीरा जहा एतेसिं चेव ओहिया ओरालिया तहा भाणियव्वा । छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिन्नि चत्तारि । पंचेव तिण्णि नव पंच सत्त तिन्नेव तिन्नेव ॥१।। चउ छ हो चउ एक्को पण दो छक्केक्कगो य अढेव । दो दो नव सत्तेव य अंकट्टाणा पराहुत्ता ॥२॥ ( ) तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थं प्रकारान्तरेणाह- अहवणं छन्नउईच्छेयणगदाई रासि त्ति, छेदनकं राशेरर्धीकरणम्, तत: षण्णवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः । स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः । अयं हि पुन: पुनश्छिद्यमानोऽर्दीक्रियमाण: षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते । कथं पुनरत्र षण्णवतिच्छेदनानि भाव्यन्ते ? उच्यते- प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि- चतुर्णामः द्वौ, तयोरप्यढे एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयम् । द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ, चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अत: पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि । तदेवं जघन्यपदमुक्तम् । ___ अथोत्कृष्टपदमभिधित्सुराह- उक्कोसपए असंखेज्ज त्ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्खयेयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरेका नभ:प्रदेशश्रेणिरपह्रियते, कियता कालेनेत्याहअसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह- अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णन्ति, श्रेणेरङ्गुलप्रमाणे क्षेत्रे य: प्रदेशराशिस्तस्य यत् प्रथम वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च य: प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं प्रतिसमयमपहरति, इदमुक्तं भवति- श्रेणेमध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वापि श्रेणिरपह्रियते Page #289 -------------------------------------------------------------------------- ________________ २७२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४२४) (१) वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं । (२) वाणमंतराणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई, संखेजजोयणसयवग्गपलिभागो पतरस्स। मुक्केल्लया जहा ओहिया ओरालियाणं । (३) आहारगसरीरा दुविहा वि जहा असुरकुमाराणं । (४) वाणमंतराणं भंते ! केवइया तेयग-कम्मगसरीरा पं० ? गो० ! जहा एएसिं चेव वेउब्वियसरीरा तहा तेयग-कम्मगसरीरा वि भाणियव्वा। (सू० ४२५) (१) जोइसियाणं भंते ! केवइया ओरालियसरीरा पं० ? गो० ! जहा नेरइयाणं तहा भाणियव्वा । यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भज-संमूर्छजमनुष्याणामेतावतामेव भावादिति । तदेवं मनुष्याणां बद्धान्यौदारिकशरीराण्युक्तानि, मुक्तानि त्वोघवद् वाच्यानि।। अथ वैक्रियाण्याह- केवइया वेउव्वियसरीरा इत्यादि, वैक्रियाण्यमीषां सङ्खयेयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु, तत्रापि पृच्छासमये कियत्स्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि सङ्ख्येयेन कालेनापह्रियन्ते, मुक्तान्योघवद्वाच्यानि । आहारकाणि तु बद्धानि मुक्तानि च यथौघिकानि तथैव । तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । व्यन्तराणां सर्वं नारकवद्वाच्यम् । नवरं नारकेभ्यो व्यन्तराणामसङ्खयेयगुणत्वेन महादण्डके पठितत्वाद्विष्कम्भसूच्या विशेष इत्याह- तासि णं सेढीणमित्यादि, तासामसङ्ख्येयानां श्रेणीनां विष्कम्भसूचि: पूर्वोक्तस्य प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेषः । सा च पूर्वोक्तायाः पञ्चेन्द्रियतिर्यविष्कम्भसूचेरसङ्ख्येयगुणहीना द्रष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्येयगुणहीनत्वेन महादण्डके पठितत्वात् । कियता पुन: प्रतिभागेन व्यन्तरा: सर्वं प्रतरमपहरन्तीत्याह- संखेज्जजोयणेत्यादि, सङ्ख्येययोजनशतानां यो वर्गस्तद्रूपो य: प्रतिभाग: अंश:, कस्येत्याह- प्रतरस्य । इदमुक्तं भवति- सङ्ख्येययोजनशतवर्गरूपं प्रतरस्य भागं यद्येकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपहियते, यदि वा तावति भागे एकैकस्मिन् व्यन्तरे व्यवस्थाप्यमाने सर्वोऽपि प्रतर: पूर्यते । ज्योतिष्कसूत्रेऽपि तासि णं सेढीणं विक्खंभसूई स्वयमेव दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचे: सङ्ख्येयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्खयेयगुणत्वेन महादण्डके Page #290 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०४२६ ] २७३ (२) जोइसियाणं भंते ! केवड्या वेउव्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया जाव तासि णं सेढीणं विक्खंभसूची, बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स । मुक्केल्लया जहा ओहियओरालियाणं । (३) आहारयसरीरा जहा नेरइयाणं तहा भाणियव्वा । (४) तेयग - कम्मगसरीरा जहा एएसिं चेव वेउव्विया तहा भाणियव्वा । ( सू० ४२६) (१) वेमाणियाणं भंते! केवतिया ओरालियसरीरा पन्नत्ता ? गोयमा ! जहा नेरयाणं तहा भाणियव्वा । (२) वेमाणियाणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं०- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ । मुक्केल्लया जहा ओहिया ओरालियाणं । पठितत्वात् । इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादमीषां सङ्घयेयगुणहीनस्याभिधानात् यदाहबेछप्पन्नंगुलसयवग्गपलिभागो त्ति षट्पञ्चाशदधिकाङ्गुलशतद्वयवर्गरूपं प्रतिभागं प्रतरस्यांशं यद्येकैको ज्योतिष्कोऽपहरति तदाऽमी सर्वं प्रतरमपहरन्ति, प्रत्येकं स्थाप्यमाना वा तावति प्रतिभा सर्वं प्रतरं पूरयन्ति, व्यन्तरेभ्य एते सङ्घयेयगुणत्वाद् बहवः, ततो व्यन्तरोक्तप्रतरप्रतिभागक्षेत्रखण्डाद् यथोक्तरूपतया सङ्घयेयगुणहीनेन स्वल्पेनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वा इति भावः । वैमानिकसूत्रेऽपीत्थमेव, नवरं वैमानिका: प्रज्ञापनायां भवनपति - नारक - व्यन्तर- ज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्ख्येयगुणहीनाः पठ्यन्ते, अतो विष्कम्भसूच्यां विशेष:, तमाह - तासि सेढीणमित्यादि, तासां श्रेणीनां विष्कम्भसूचिरङ्गुलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन गुणितम् । इदमुक्तं भवति- अङ्गुलप्रमाणे प्रतरक्षेत्रे सद्भावतोऽसङ्ख्येया अपि कल्पनया द्वे शते षट्पञ्चाशदधिके श्रेणीनां भवतः २५६, अत्र प्रथमं वर्गमूलम् १६, द्वितीयम् ४, तृतीयम् २, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं जाता अष्टौ, एवमेताः सद्भूततयाऽसङ्ख्या: कल्पना त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, अहवणमित्यादि, अथवा अङ्गुलतृतीयवर्गमूलस्य द्विलक्षणस्य यो घनः अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः । तदेवं नारकादिसूचिभ्य एषाऽसङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोन्नेयं यावत् सेत्तं खेत्तपलिओमे त्ति । तदेवं समयावलियमुहुत्तेत्यादिगाधानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्चासादयो व्याख्याताः कालविभागाः, Page #291 -------------------------------------------------------------------------- ________________ २७४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( ३ ) आहारयसरीरा जहा नेरइयाणं । (४) तेयग - कम्मगसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा भाणियव्वा । सेतं सुहुमे खेत्तपलिओवमे । सेतं खेत्तपलिओवमे । सेतं पलिओवमे । सेतं विभागणिप्फण्णे । सेतं कालप्पमाणे । 1 ( सू० ४२७ ) से किं तं भावप्पमाणे ? भावप्पमाणे तिविहे पण्णत्ते । तंजहागुणप्पमाणे णयप्पमाणे संखप्पमाणे । ( सू० ४२८ ) से किं तं गुणप्पमाणे ? गुणप्पमाणे दुविहे पण्णत्ते । जहा - जीवगुणप्पमाणे य अजीवगुणप्पमाणे य । ( सू० ४२९) से किं तं अजीवगुणप्पमाणे ? अजीवगुणप्पमाणे पंचविहे पण्णत्ते । तंजहा- वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे । ( सू० ४३०) से किं तं वण्णगुणप्पमाणे ? वण्णगुणप्पमाणे पंचविहे पण्णत्ते । तं०- कालवण्णगुणप्पमाणे जाव सुकिल्लवण्णगुणप्पमाणे । सेतं वण्णगुणप्पमाणे । ( सू० ४३१ ) से किं तं गंधगुणप्पमाणे ? गंधगुणप्पमाणे दुविहे पण्णत्ते । तंo सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे य । सेतं गंधगुणप्पमाणे । ( सू० ४३२ ) से किं तं रसगुणप्पमाणे ? रसगुणप्पमाणे पंचविहे पण्णत्ते । ०तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे । सेतं रसगुणप्पमाणे । अत आह- सेत्तं विभागणिप्फण्णे त्ति । एवं च समर्थितं कालप्रमाणमित्याह- सेत्तं कालप्पमाणे त्ति । अथ भावप्रमाणमभिधित्सुराह से किं तं भावप्पमाणे इत्यादि । भवनं भावो वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च । प्रमिति:, प्रमीयते अनेन, प्रमीयते स इति वा प्रमाणम्, भाव एव प्रमाणं भावप्रमाणम्, भावसाधनपक्षे प्रमिति: वस्तुपरिच्छेदस्तद्धेतुत्वाद् भावस्य प्रमाणताऽवसेया । तच्च भावप्रमाणं त्रिविधं प्रज्ञप्तम्, तद्यथा- गुणप्रमाणमित्यादि, गुणो ज्ञानादि:, स एव प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणैर्द्रव्यम्, गुणाश्च गुणरूपतया प्रमीयन्तेऽतः प्रमाणता । तथा नयाः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः, त एव प्रमाणं नयप्रमाणम् । सङ्ख्यानं सैव प्रमाणं सङ्ख्याप्रमाणम् । नय-सङ्ख्ये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते । तत्र गुणप्रमाणं द्विधा - जीवगुणप्रमाणं च अजीवगुणप्रमाणं च । तत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह से किं तं अजीवगुणप्पमाणे इत्यादि, सङ्ख्या, - Page #292 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०४३३-४३८] २७५ (सू० ४३३) से किं तं फासगुणप्पमाणे ? फासगुणप्पमाणे अट्ठविहे पण्णत्ते । तं०० - कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे । सेतं फासगुणप्पमाणे । ( सू० ४३४ ) से किं तं संठाणगुणप्पमाणे ? संठाणगुणप्पमाणे पंचविहे पण्णत्ते । तं०-परिमंडलसंठाणगुणप्पमाणे जाव आययसंठाणगुणप्पमाणे । सेतं संठाणगुणप्पमाणे । सेतं अजीवगुणप्पमाणे । ( सू० ४३५ ) से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पण्णत्ते । तंजहाणाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे य । ( सू० ४३६ ) से किं तं णाणगुणप्पमाणे ? णाणगुणप्पमाणे चउव्विहे पण्णत्ते । तं०-पच्चक्खे अणुमा ओवम् आगमे । (सू० ४३७) से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते । तंजहा- इंदियपच्चक्खे योइंदियपच्चक्खे य । ( सू० ४३८) से किं तं इंदियपच्चक्खे ? इंदियपच्चक्खे पंचविहे पण्णत्ते । तंजहासोइंदियपच्चक्खे चक्खुरिंदियपच्चक्खे घाणिंदियपच्चक्खे जिब्भिंदियपच्चक्खे फासिंदियच्चखे । सेतं इंदियपच्चक्खे | एतत् सर्वमपि पाठसिद्धम् । नवरं परिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्र्यसं त्रिकोणं शृङ्गाटकफलवत्, चतुरस्रं समचतुष्कोणम्, आयतं दीर्घमिति । से किं तं जीवगुणप्पमाणे इत्यादि । जीवस्य गुणा ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणम् । तच्च ज्ञान-दर्शन- चारित्रगुणभेदात् त्रिधा । तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम्, तद्यथाप्रत्यक्षमनुमानमुपमानमागमः । तत्र अशू व्याप्तौ (पा० धा० १२६५, का० धा० ४।२२) इत्यस्य धातोरश्रुते ज्ञानात्मना अर्थान् व्याप्नोतीति अक्षो जीवः, अश भोजने (पा० धा० १५२४, का० धा० ८२४३) इत्यस्य वा अश्नाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो जीव एव, प्रतिगतम् आश्रितमक्षं प्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीयया (पा० वा० १३३६ ) इति समास:, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानं वर्तते तत् प्रत्यक्षमित्यर्थः । अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयम् - प्रत्यक्षा बुद्धि:, प्रत्यक्षो बोधः, प्रत्यक्षं ज्ञानमिति दर्शनात् । ततो यथादर्शितस्तत्पुरुष एवायम् । तच्च प्रत्यक्षं द्विविधम्- इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं सहकारिकारणं यस्योत्पित्सोस्तदलैङ्गिकं शब्द-रूप-रस-गन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । इदं चेन्द्रियलक्षणं जीवात् परं व्यतिरिक्तं निमित्तमाश्रित्योत्पद्यते Page #293 -------------------------------------------------------------------------- ________________ २७६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४३९) से किं तं णोइंदियपच्चक्खे ? णोइंदियपच्चक्खे तिविहे पं० । तं०ओहिणाणपच्चक्खे मणपज्जवणाणपच्चक्खे केवलणाणपच्चक्खे । सेतं णोइंदियपच्चक्खे। सेतं पच्चक्खे। (सू० ४४०) से किं तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते । तं०-पुव्ववं सेसवं दिट्ठसाहम्मवं । (सू० ४४१) से किं तं पुव्ववं ? पुव्ववं - माता पुत्तं जहा नटुं जुवाणं पुणरागतं । काई पच्चभिजाणेज्जा पुव्वलिगेण केणइ ॥११५॥ तंजहा- खतेण वा वणेण वा मसेण वा लंछणेण वा तिलएण वा। सेतं पुव्ववं । इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाक्षिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षम्, नोशब्दस्य सर्वनिषेधपरत्वात्, यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्, अवधि-मन:पर्याय-केवलाख्यमिति भावार्थ:। से किं तं अणुमाणे इत्यादि । अनु लिङ्गग्रहण-सम्बन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानम् । तच्च त्रिविधम्- पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि । विशिष्टं पूर्वोपलब्धं, चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत् पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तमित्यादि श्लोकः । यथा माता स्वकीयं पुत्रं बालावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित् तथाविधस्मृतिपाटववती, न सर्वा, पूर्वदृष्टेन लिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयात् मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनर्लिङ्गेनेत्याह- क्षतेन वेत्यादि, स्वदेहोद्भवमेव क्षतम्, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रण:, लाञ्छन-मष-तिलकास्तु प्रतीताः । तदयमत्र प्रयोग:मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति । साधर्म्य-वैधर्म्यदृष्टान्तयो: सत्त्वेतराभावादयमहेतुरिति चेत्, नैवम्, हेतो: परमार्थेनैकलक्षणत्वात्, तद्बलेनैव गमकत्वोपलब्धेः । उक्तं च न्यायवादिना पुरुषचन्द्रेण अन्यथाऽनुपपन्नत्वमानं हेतोः स्वलक्षणम् । सत्त्वासत्त्वे हि तद्धर्मो दृष्टान्तद्वयलक्षणे ।।१।। ( तद्धर्माविति अन्यथानुपपन्नत्वधर्मो, कथम्भूते सत्त्वासत्त्वे इत्याह- साधर्म्य-वैधर्म्यरूपे दृष्टान्तद्वये Page #294 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४४२,४४३] २७७ (सू० ४४२) से किं तं सेसवं? सेसवं पंचविहं पण्णत्तं । तंजहा-कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । (सू० ४४३) से किं तं कजेणं ? कजेणं- संखं सद्देणं, भेरि तालिएणं, वसभं ढंकिएणं, मोरं केकाइएणं, हयं हेसिएणं, गयं गुलगुलाइएणं, रहं घणघणाइएणं । सेतं कज्जेणं । लक्ष्येते निश्चीयेते दृष्टान्तद्वयलक्षणे, न च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मैर्व्यभिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मों यद्यपि क्वचिद्धेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यति, न कश्चिद्विरोध इति भावः । यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया। तथा चाह धूमादेर्यद्यपि स्यातां सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ।।१।। ( ) किञ्च, यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा ‘लोहलेख्यं वज्रम्, पार्थिवत्वात्, काष्ठादिवत्' इत्यादेरपि गमकत्वं स्यात् । अभ्यधायि च दृष्टान्ते सदसत्त्वाभ्यां हेतुः सम्यग् यदीष्यते । लोहलेख्यं भवेद्वजं पार्थिवत्वाद् द्रुमादिवद् ।।१।। ( ) इति । यदि च पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणं हेतोस्वैरूप्यमभ्युपगम्यापि यथोक्तदोषभयात् साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतया वक्तुमुचितम्, किं रूपत्रयेणेति । आह च अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥१॥ ( ) इत्यादि । अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थगहनताप्रसङ्गात्, अन्यत्र यत्नेनोक्तत्वाच्चेति। आहप्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तिरयुक्ता, नैवम्, पुरुषपिण्डमात्रप्रत्यक्षतायामपि मत्पुत्रो न वेति सन्देहाद् युक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन । __से किं तं सेसवमित्यादि, पुरुषार्थोपयोगिन: परिजिज्ञासितात् तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानम् । तच्च पञ्चविधम्, तद्यथा- कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हेषितेन अनुमिनुते' इत्यध्याहार:, हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवदनुमानमुच्यत इति Page #295 -------------------------------------------------------------------------- ________________ २७८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४४४) से किं तं कारणेणं ? कारणेणं- तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणं ण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं । सेतं कारणेणं । भाव: । क्वचित्तु प्रथमत: शङ्ख शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारत: सर्वोदाहरणेषु भावना कार्या । से किं तं कारणेणमित्यादि इह कारणेन कार्यमनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चिद् वृष्ट्यनुमानं करोति, यदाह रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवप्रायाः पयोमुचः ॥१॥ (न्यायमञ्जर्याम् ) इति । एवं चन्द्रोदयाज्जलधिवृद्धिरनुमीयते कुमुदविकासश्च, मित्रोदयाज्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात् सस्यनिष्पत्तिः कृषीवलमन:प्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य, नाकारणम्, तत्र कार्यकारणभाव एव केषाञ्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाहतन्तव: पटस्य कारणम्, न तु पटस्तन्तूनां कारणम्, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भात् । अत्राह- ननु यदा कश्चिन्निपुण: पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेन व्यपदिश्यते, ११६यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तव: समुत्पद्यन्ते तेषां कथं पट: कारणं निर्दिश्यते ? न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वर: कारणमिति शक्यते वक्तुम्। यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवम्, तन्तुपरिणामरूप एव हि पटः, ११७यदि च तन्तव: सर्वथाऽभावीभवेयुस्तदा ११६. यथा मृत्पिण्डो घटस्येति । अत्र ‘पिण्ड'शब्दो द्रव्यार्थको ज्ञेयः, ततश्च यथा मृद्रव्यं घटस्येत्यर्थो लभ्यते । अन्यथा घटावस्थायां पिण्डस्याभावेन सत्त्वेनोपयोगाभावाविशेषात् पटस्येवाकारणत्वमेव स्यात् । अत एवाग्रे 'तदा मृदभावे घटस्येव' इत्यत्र वृत्तिकारैः 'मृत्पिण्डाभावे' इत्येवं नोक्तम्, अपि तु 'मृदभावे (= मृद्रव्याभावे)' इत्येवमेवोक्तम् । ११७. यदि च तन्तवः सर्वथाऽभावीभवेयुरित्यादि । ननु वियोजनकाले पटोऽपि नैव सर्वथाऽभावीभवति, कस्यचिदपि भावस्य सर्वथाऽभावीभवनस्य निषिद्धत्वेन तदापि तन्तुत्वेन पटस्य भावात् । तथा श्रीतत्त्वार्थसूत्रे पञ्चमेऽध्याये 'सङ्घातभेदेभ्य उत्पद्यन्ते' ।।२७।। 'भेदादणुः ।।२८ ।।' इत्यादिना व्यणुकभेदात् परमाणोरुत्पत्तिः कथितैव । ततश्च पटोऽपि कथं न तन्तुकारणमिति चेत् ? न, अभिप्रायापरिज्ञानात् । तथाहि-पटकालेऽपि तन्तूनां Page #296 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४४४] २७९ मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तव: सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्। एवं वीरण-कटादिष्वपि भावना कार्या । तदेवं यद् यस्य कार्यस्य कारणत्वेन निश्चितं तत् तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । तन्तुत्वावच्छिन्नप्रतियोगिताकाभावो यथा नैव भवति, न तथा वियोजनानन्तरं तन्तुकाले पटस्य पटत्वावच्छिन्नप्रतियोगिताकपटाभावो न भवतीति, पटकाले तन्त्वभावो न भवति, तन्तुकाले पटाभावस्तु भवत्येवेत्यर्थः । यद्वा तन्तुकाले पटः पटत्वेनाभावीभवत्येवेत्यर्थः । अतः पट एव तन्तुपरिणामत्वेन व्यवह्रियते, न तन्तवः पटपरिणामत्वेन, परिणामकालेऽपि विद्यमानस्यैव परिणामित्वात् । एवं परमाणुकाले व्यणुकादीनां व्यणुकादिकाले च परमाणूनां पुद्गलत्वेनाभावो यद्यपि नैव भवति, तथापि परमाणुकाले व्यणुकादीनां व्यणुकादित्वेन तु यतोऽभाव एव, अतो न परमाणुर्च्यणुकादीनां परिणामत्वेन, ट्यणुकादयश्च परमाणोः परिणामित्वेनोच्यन्ते । अत एव न द्वयणुकादीनां परमाणुपरिणामिकारणत्वम् । ननु ‘भेदादणुः' इति सूत्रेण तु ट्यणुकादेः परमाणुकारणत्वमुक्तमेवेति चेद् ? अहो भ्रान्तिः, यतस्तेन सूत्रेण व्यणुकादिभेदस्यैव परमाणुकारणत्वेनोक्तत्वात्। 'यद्रव्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयम्' इति न्यायं कथयद्भिरन्यैरपि महाद्रव्यध्वंसस्यैव लघुद्रव्यजनकत्वमुक्तं, न तु महाद्रव्यस्य। नन्वेवं तु पटस्यापि तन्तुपरिणामत्वं न स्यात् । अयम्भावः-द्व्यणुकादिकाले परमाणूनामभावो मन्तव्य एव, परमाणूनामसङ्ख्येयलक्षणस्यान्तरकालस्य पूर्वं (सू. क्रमांक १०१) कथितत्वात्, स्कन्धभेदात् परमाणोरुत्पत्तिं प्रतिपादयता 'भेदादणुः' इति तत्त्वार्थसूत्रेण भेदात्प्राक् स्कन्धकाले परमाणूनामभावस्य सूचितत्वाच्च । ततश्च यथा व्यणुकादयो न परमाणुपरिणामाः, तथैव पटोऽपि न तन्तुपरिणाम इति चेत् ? न, व्याख्याप्रज्ञप्त्यादिषु परमाणूनां शाश्वतिकत्वस्याप्युक्तत्वात् तदभिप्रायेण द्व्यणुकादिकालेऽपि परमाणूनां भाव एव, न त्वभाव इति न काप्यनुपपत्तिः । इत्थञ्च परमाणूनां परमाणुत्वेनैव नित्यत्वमनित्यत्वं च शास्त्रसम्मतमिति ज्ञेयम् । तच्च कथमित्यन्यत्र न्यायविशारदैर्महोपाध्यायश्रीमद्यशोविजयवाचकैः गूर्जरभाषासन्दृब्धस्य 'द्रव्यगुणपर्यायनो रास' इति ग्रन्थस्य गूर्जरभाषानिबद्धे मत्कृतविवरणे विस्तरः । तन्तूनां तु पटपरिणामित्वे न कोऽपि प्रश्नः, पटपर्यायापेक्षया द्रव्यत्वात् तेषाम् । इदमुक्तं भवति-मृत्पिण्डस्य भिन्नकालीनावस्थारूपत्वाद् घटपर्यायापेक्षया पर्यायान्तरत्वं, न तु द्रव्यत्वं, परन्तु मृदस्तु द्रव्यत्वमेव, घटकालेऽपि विद्यमानत्वात्, मृन्मयत्वेन प्रतीयमानत्वात्। एवमेव पटे चिन्त्यमाने तन्तूनां मृत्स्थानीयत्वमेव निश्चीयते, न तु मृत्पिण्डस्थानीयत्वं, पटकालेऽपि विद्यमानत्वात्, तन्तुमयत्वेन प्रतीयमानत्वात् । ततश्च तन्तूनां पटपर्यायापेक्षया न पर्यायान्तरत्वं, अपि तु द्रव्यत्वमेवेति पटपरिणामित्वमपि निःशङ्कम् । Page #297 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ४४५ ) से किं तं गुणेणं । गुणेणं- सुवण्णं निकसेणं, पुष्पं गंधेणं, लवणं रसेणं, मदिरं आसायिएणं, वत्थं फासेणं । सेतं गुणेणं । ( सू० ४४६ ) से किं तं अवयवेणं ? अवयवेणं- महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंछेणं, आसं खुरेणं, वग्घं नहेणं, चमरं वालगंडेणं, दुपयं मणूसमाइ, उपयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयबाहाए । परियरबंधेण भडं, जाणिज्जा महिलियं णिवसणेणं । २८० सित्थेण दोणपागं, कई च एक्काए गाहाए | | ११६ ।। सेतं अवयवेणं । ( सू० ४४७ ) से किं तं आसएणं ? आसएणं- अग्गिं धूमेणं, सलिलं बलागाहिं, वुट्ठ अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं । इङ्गिताकारितैर्ज्ञेयैः क्रियाभिर्भाषितेन च । नेत्र- वक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ||११७।। सेतं आसएणं । सेतं सेसवं । से किं तं गुणेणमित्यादि, निकषः कषपट्टगता कषितसुवर्णरेखा, तेन सुवर्णमनुमीयते, यथा पञ्चदशादिवर्णकोपेतमिदं सुवर्णम्, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत् । एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धप्रदेशवत्, एवं लवण-मदिरा- वस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वाद-स्पर्शादिगुणोपलब्धेः प्रतिनियतस्वरूपाः साधयितव्याः । से किं तं अवयवेणमित्यादि, अवयवदर्शनेनावयवी अनुमीयते, यथा महिषः अत्र, , तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत् । अयं च प्रयोगो वृति - वरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धेरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्टमनुष्यवत् । एवं चतुष्पद - बहुपदेष्वपि । गोम्ही कर्णशृगाली । परियरबंधेण भमित्यादि गाथा पूर्वं व्याख्यातैव, तदनुसारेण भावार्थोऽभ्यूह्य इति । से किं तं आसएणमित्यादि, आश्रयतीत्याश्रयो धूम - बलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव । आकारेङ्गितादिभिश्च पूर्वं व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धमेव । अत्राह - ननु धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान गतत्वात् किमिहोपन्यासः ? सत्यम्, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः । तदेतत् शेषवदनुमानम् । Page #298 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४४८-४५०] २८१ (सू० ४४८) से किं तं दिट्ठसाहम्मवं ? दिट्ठसाहम्मवं दुविहं पण्णत्तं। तंजहासामन्नदिटुं च विसेसदिटुं च । (सू० ४४९) से किं तं सामण्णदिटुं ? सामण्णदिटुं- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे कारिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो । सेतं सामण्णदिढें ।। (सू० ४५०) से किं तं विसेसदिटुं ? विसेसदिटुं से जहाणामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुव्वदिटुं पच्चभिजाणेज्जा-अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुव्वदिटुं करिसावणं पच्चभिजाणिज्जा-अयं से करिसावणे । तस्स समासतो तिविहं गहणं भवति । तंजहा- तीतकालगहणं पडुप्पण्णकालगहणं अणागतकालगहणं । से किं तं दिट्ठसाहम्मवमित्यादि, दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्यम्, तद् गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत् । पूर्वदृष्टश्चार्थ: कश्चित् सामान्यत: कश्चित्तु विशेषतो दृष्टः स्यात्, अतस्तद्भेदादिदं द्विविधम्, सामान्यतो दृष्टार्थयोगात् सामान्यदृष्टम्, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टम् । तत्र सामान्यदृष्टम्- यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि । इदमुक्तं भवतिनालिकेरद्वीपादायातः कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषात्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गात्, गवादिवत्। बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति- यथाऽमी परिदृश्यमाना: पुरुषा एतदाकारवन्त: तथाऽपरोऽप्येकः कश्चित् पुरुषः एतदाकारवानेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिप्रसङ्गात्, अश्वादिवदिति । एवं कार्षापणादिष्वपि वाच्यम् । विशेषतो दृष्टमाह- जहानामए इत्यादि, अत्र पुरुषा: सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित् पुरुषविशेषं दृष्ट्वा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति- य: पूर्वं मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात्, उभयाभिमतपुरुषवदिति । एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वात् । एवं कार्षापणादिष्वपि वाच्यम् । ___तदेवमनुमानस्य त्रैविध्यमुपदी साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह- तस्स समासतो तिविहं गहणमित्यादि, तस्येति सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा- अतीतकालविषयं ग्रहणं ग्राह्यस्य वस्तुन: परिच्छेदोऽतीतकालग्रहणम्, Page #299 -------------------------------------------------------------------------- ________________ २८२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ___ (सू० ४५१) से किं तं तीतकालगहणं ? तीतकालगहणं- उत्तिणाणि वणाणि निप्पण्णसस्सं वा मेदिणिं पुण्णाणि य कुंड-सर-णदि-दीहिया-तलागाइं पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी आसि । सेतं तीतकालगहणं ।। (सू० ४५२) से किं तं पडुप्पण्णकालगहणं? पडुप्पण्णकालगहणं- साहुं गोयरग्गगयं विच्छड्डियपउरभत्त-पाणं पासित्ता तेणं साहिज्जइ जहा-सुभिक्खं वदृइ । सेतं पडुप्पण्णकालगहणं । (सू० ४५३) से किं तं अणागयकालगहणं ? अणागयकालगहणंअब्भस्स निम्मलत्तं कसिणा य गिरी सविजया मेहा ।। थणियं वाउब्भामो संझा रत्ता य णिद्धा य ॥११८॥ वारुणं वा माहिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहासुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । (सू० ४५४) एएसिं चेव विवच्चासे तिविहं गहणं भवति । तंजहा-तीतकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं । (सू० ४५५) से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-णदि-दह-तलागाइं पासित्ता तेणं साहिजति जहा-कुवुट्ठी आसी । सेतं तीयकालगहणं ।। प्रत्युत्पन्नो वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणम्, कालत्रयवर्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोग:- सुवृष्टिरिहासीत्, उत्तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनात्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः । साधं च गोचराग्रगतं भिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति- सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्त-पानलाभदर्शनात्, पूर्वदृष्टप्रदेशवदिति । अब्भस्स निम्मलत्तं गाहा सुगमा । नवरं स्तनितं मेघगर्जितम् । वाउब्भामो त्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः। वारुणं ति आर्द्रा-मूलादिनक्षत्रप्रभवम्, माहेन्द्रं रोहिणी-ज्येष्ठादिनक्षत्रसम्भवम्, अन्यतरमुत्पातम् उल्कापात-दिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते, यथा- सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति । विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यत: प्रतिपत्त्रैव तत्र निपुणेन भाव्यमिति । एतेसिं Page #300 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४५६-४६०] २८३ (सू० ४५६) से किं तं पडुप्पण्णकालगहणं? पडुप्पण्णकालगहणं- साहु गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा-दुभिक्खं वट्टइ । सेतं पडुप्पण्णकालगहणं। (सू० ४५७) से किं तं अणागयकालगहणं ? अणागयकालगहणं- अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा-कुवुट्ठी भविस्सइ। सेतं अणागतकालगहणं । सेतं विसेसदिटुं । सेतं दिट्ठसाहम्मवं । सेतं अणुमाणे । (सू० ४५८) से किं तं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते । तंजहा-साहम्मोवणीते य वेहम्मोवणीते य । (सू० ४५९) से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते । तं०किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे य । (सू० ४६०) से किं तं किंचिसाहम्मे ? किंचिसाहम्मे जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खजोतो, जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुंदो जहा कुंदो तहा चंदो । सेतं किंचिसाहम्मे। चेव विवच्चासे इत्यादि, एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे व्यत्यये साध्यस्यापि व्यत्यय: साधयितव्यः यथा- कुवृष्टिरिहासीन्नितृणवनादिदर्शनादित्यादिव्यत्यय: सूत्रसिद्धः । नवरमनागतकालग्रहणे माहेन्द्र-वारुणपरिहारेणाग्नेय-वायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकत्वादितरेषां सुवृष्टिहेतुत्वादिति । सेतं विसेसदिलु, सेतं दिट्ठसाहम्मवमित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदद्वयस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते तदा दृष्टसाधर्म्यवतोऽपि सभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैव, अतस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम्, तदेतदनुमानमिति । अथोपमानमभिधित्सुराह- से किं तं ओवम्मे इत्यादि। उपमीयते सदृशतया वस्तु गृह्यते अनयेत्युपमा, सैवौपम्यम्, तच्च द्विविधम्- साधर्म्यणोपनीतम् उपनयो यत्र तत् साधोपनीतम्, वैधhणोपनीतम् उपनयो यत्र तद् वैधोपनीतम् । तत्र साधोपनीतं त्रिविधम्- किञ्चित्साधादिभेदात् । किञ्चित्साधर्म्यं च मन्दर-सर्षपादीनाम्, तत्र मन्दर-सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यम्, समुद्र-गोष्पदयो: सोदकत्वमात्रम्, आदित्य-खद्योतयोराकाशगमनोयोतकत्वरूपम्, चन्द्र-कुन्दयोः शुक्लत्वमिति । से किं तं पायसाहम्मे इत्यादि । खुर-ककुद-विषाण-लाङ्गलादेर्द्वयोरपि समानत्वात्, नवरं Page #301 -------------------------------------------------------------------------- ________________ २८४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० ४६१) से किं तं पायसाहम्मे ? पायसहम्मे- जहा गो तहा गवयो, जहा गवयो तहा गो । सेतं पायसाहम्मे । (सू० ४६२) से किं तं सव्वसाहम्मे ? सव्वसाहम्मे- ओवम्मं णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । सेतं सव्वसाहम्मे। सेतं साहम्मोवणीए । __ (सू० ४६३) से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते। तंजहाकिंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । (सू० ४६४) से किं तं किंचिवेहम्मे ? किंचिवेहम्मे जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । सेतं किंचिवेहम्मे। (सू० ४६५) से किं तं पायवेहम्मे ? पायवेहम्मे जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । सेतं पायवेहम्मे । सकम्बलो गौत्तकण्ठस्तु गवय इति प्राय:साधर्म्यता । सर्वसाधर्म्य तु क्षेत्र-कालादिभिर्भेदान्न कस्यापि केनचित् सार्द्धं संभवति, संभवे त्वेकताप्रसङ्गः । तथुपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्कयाह- तथापि तस्य विवक्षितस्याहंदादेस्तेनैव अर्हदादिना औपम्यं क्रियते, तद्यथाअर्हता अर्हतः सदृशं कृतम्, तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते । लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते- तत् किमपीदं भवद्भिः कृतं यद् भवन्त एव कुर्वन्ति नान्य: कश्चिदिति। एवं चक्रवर्ति-(बलदेव-)वासुदेवादिष्वपि वाच्यम्। ___ से किं तं वेहम्मोवणीए इत्यादि । यथेति यादृश: शबलाया गोरपत्यं शाबलेयो न तथा न तादृशो बहुलाया अपत्यं बाहुलेयः, यथा चायं न तथेतरः, अत्र च शेषधर्मेंस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किञ्चिद्वैधयँ भावनीयम् । से किं तं पायवेहम्मे इत्यादि । अत्र वायस-पायसयोः सचेतनत्वा-ऽचेतनत्वादिभिबहुभिर्धर्मेविसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमावतश्च साम्यात् प्रायोवैधर्म्यता भावनीया । सर्ववैधयं तु न कस्यचित् केनापि संभवति, सत्त्व-प्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह- तथापि तस्य तेनैवौपम्यं क्रियते, यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि। आह- नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान्न वैधर्म्यम्, सत्यम्, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति Page #302 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०४६६-४६९] २८५ (सू० ४६६ ) से किं तं सव्ववेहम्मे ? सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओवम्मं कीर, जहा - णी णं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, पाणेणं पाणसरिसं कयं । सेतं सव्ववेहम्मे । सेतं वेहम्मोवणीए । सेतं ओवम् । (सू० ४६७ ) से किं तं आगमे ? आगमे दुविहे पण्णत्ते । तंजहा - लोइए य लोगुत्तरिए य । ( सू० ४६८) से किं तं लोइए ? लोइए- जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पियं । तंजहा भारहं रामायणं जाव चत्तारि य वेदा संगोवंगा । सेतं लोइए आगमे । ( सू० ४६९ ) से किं तं लोगुत्तरिए ? लोगुत्तरिए - जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाण- दंसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय- महिय-पूइएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तंजहा - आयारो जाव दिट्ठवाओ । सेतं लोगुत्तरिए आगमे । किं पुनरनीचः ? ततः सकलजगद्विलक्षणप्रवृत्तित्वविवक्षया वैधर्म्यमिह भावनीयम् । एवं दासाद्युदाहरणेष्वपि वाच्यम् । सेतं सव्ववेहम्मे इत्यादि निगमनत्रयम् । से किं तं आग इत्यादि । गुरुपारम्पर्येणागच्छतीत्यागमः, आ समन्ताद् गम्यन्ते ज्ञायन्ते जीवादयः पदार्था अनेनेति वा आगमः । अयं च द्विधा प्रज्ञप्तः, तद्यथा - लोइए इत्यादि, इदं चेव पूर्वं भावश्रुतं विचारयता व्याख्यातं यावत् सेत्तं लोगुत्तरिए आगमे त्ति । अहवा आग तिविहे इत्यादि, तत्र सूत्रमेव सूत्रागम:, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः । अथवा अन्येन प्रकारेणाऽऽगमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमः, यथा तीर्थकराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धेः । गणधराणां तु सूत्रस्यात्मागमः स्वयमेव ग्रथितत्वात्, अर्थस्यानन्तरागम:, अनन्तरमेव तीर्थकरादागतत्वात् । उक्तं च अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं (आवश्यकनि० ९२ ) इत्यादि । गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागम:, अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागम:, गणधरेणैव व्यवधानात् । ततः ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागम:, तल्लक्षणायोगात्, अपि तु परम्परागम एव । अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः । ताल्वादि Page #303 -------------------------------------------------------------------------- ________________ २८६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४७०) अहवा आगमे तिविहे पण्णत्ते । तंजहा- सुत्तागमे य अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं०-अत्तागमे अणंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । सेतं लोगुत्तरिए । सेतं आगमे। सेतं णाणगुणप्पमाणे । (सू० ४७१) से किं तं दंसणगुणप्पमाणे ? दंसणगुणप्पमाणे चउव्विहे पण्णत्ते । तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे य । चक्खुदंसणं चक्खुदंसणिस्स घड-पड-कड-रधादिएसु दव्वेसु, भिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वात्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् । न च वक्तव्यम्- वचनस्य पौद्गलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्य-कुड्यस्खलनाद्यन्यथानुपपत्तेः । तस्मान्नैकान्तेनापौरुषेयमागमवच:, ताल्वादिव्यापाराभिव्यङ्ग्यत्वात्, देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरनिर्णीतत्वादिति । सेत्तं लोगुत्तरिए इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणम् । अथ दर्शनगुणप्रमाणमाह- से किं तं दसणगुणप्पमाणे इत्यादि। दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं च - जं सामन्नग्गहणं भावाणं नेय कटुमागारं । अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ॥१|| ( ) तदेवात्मनो गुणः, स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाच्चतुर्विधम्, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिन: चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत् सामान्य-विशेषयो: कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । उक्तं च- निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते ( ) इत्यादि । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम्, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिन: अचक्षुर्दर्शनलब्धिमतो जीवस्याऽऽत्मभावे भवति, आत्मनि जीवे भाव: संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुरस्तीत्यर्थः । इदमुक्तं भवति- चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य Page #304 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७२] २८७ अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपज्जवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहिं सव्वपज्जवेहि य । सेतं दसणगुणप्पमाणे। (सू० ४७२) से किं तं चरित्तगुणप्पमाणे ? चरित्तगुणप्पमाणे पंचविहे पण्णत्ते । तंजहा- सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं कृतम्, श्रोत्रादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति। उक्तं च - पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु (आवश्यकनि० गा०५) इत्यादि । अवधेर्दर्शनमवधिदर्शनम् अवधिदर्शनिन: अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुन: सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता: सङ्ख्येया असङ्ख्येया वा पर्याया विषयत्वेनोक्ता:, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूप-रस-गन्ध-स्पर्शलक्षणाश्चत्वार: पर्याया इत्यर्थः । उक्तं च दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहइ । दो पज्जवे दुगुणिए लहइ य एगाउ दव्वाओ ॥१॥ ( ) अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, तत् कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तम्, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मंदादि सामान्यमेव तथा तथा विशिष्यते, न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यत: सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यास: । केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनं केवलदर्शनिन: तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तदर्शनं नोक्तमिति । तदेतद्दर्शनगुणप्रमाणम् । से किं तं चरित्तगुणप्पमाणे इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रम्, तदेव चारित्रम्, चारित्रमेव गुण:, स एव प्रमाणं (चारित्रगुणप्रमाणं) सावद्ययोगविरतिरूपम् । तच्च पञ्चविधं सामायिकादि । पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते । तत्राद्यं विशेषाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । सामायिकं पूर्वोक्तशब्दार्थम्, तच्चेत्वरं यावत्कथिकं च । तत्रेत्वरं भाविव्यपदेशान्तरत्वात् स्वल्पकालम्, तच्चाद्य Page #305 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं T गुणप्पमा दुवि पण्णत्ते । तंजहा- इत्तरिए य आवकहिए य । छेदोवट्ठावणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - सातियारे य निरतियारे य । परिहारविसुद्धियचरित्तगुणप्पमामणे दुविहे पण्णत्ते । तंजहा - णिव्विसमाणए य णिविट्ठकायिए य । सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं- जहा पडिवाई य अपडिवाई यछत्थे चरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति । आत्मन: कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम् । एतच्च भरतैरावतेष्वाद्य-चरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति । पूर्वपर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थापनम्, भरतैरावतप्रथम-पश्चिमतीर्थकरतीर्थ एव, नान्यत्र । तच्च सातिचारं निरतिचारं च । तत्रेत्वरसामायिकस्य शिक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्क्रामतः साधोर्यथा पार्श्वनाथतीर्थान्महावीरतीर्थं सङ्क्रामतस्तन्निरतिचारम् । मूलगुणघातिनस्तु यत् पुनर्व्रतारोपणं तत् सातिचारम् । परिहारः तपोविशेषस्तेन विशुद्धम्, अथवा परिहारः अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम् । तदपि द्विविधम्निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारः साधवो निर्विश्यमानकाः, तत्सहयोगात्तदपि निर्विश्यमानकम् । निर्विष्ट आसेवितप्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिका: साधवः, तदाश्रयित्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । इदमत्र हृदयम्- तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपन्नपूर्वं तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यते, नान्यस्य समीपे, तत्रैकः कल्पस्थितो यदन्ति सर्वा सामाचा क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्यकर्तृत्वं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते । तत्र परिहारकाणां तपः प्रोच्यतेग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठम् उत्कृष्टतस्त्वष्टमम्, शिशिरे जघन्य मध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमं च, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थिता-ऽनुपरिहारिकाः पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च नवानामप्याचामाम्लमेव, नान्यत् । ततः परिहारिकाः षण्मासान् यावद्यथोक्तं तपः कृत्वा अपरिहार प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकताम्, तैरपि षण्मासान् यावद्यदा तपः कृतं भवति तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अग्रेतनश्चासौ षड् मासान् यावद्यथोक्तं तपः करोति, शेषास्तु सप्ताऽनुचरतामाश्रयन्ति । एवं चाष्टादशभिर्मासैरयं कल्पः समाप्यते । तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्येरन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गतिः । अपरं २८८ Page #306 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७३,४७४] २८९ य केवलिए य । सेतं चरित्तगुणप्पमाणे । सेतं जीवगुणप्पमाणे । सेतं गुणप्पमाणे । (सू० ४७३) से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पण्णत्ते। तंजहा-पत्थयदिटुंतेणं वसहिदिटुंतेणं पएसदिटुंतेणं । (सू० ४७४) से किं तं पत्थगदिटुंतेणं ? पत्थगदिलुतेणं से जहानामए केइ पुरिसे परसुं गहाय अडविहत्ते गच्छेजा, तं च केइ पासित्ता वदेजा-कत्थ भवं गच्छसि ? चैतच्चारित्रं छेदोपस्थापनचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन । तदेवमिह यो यस्तप: कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते, ये तु तप: कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम् । संपरैति पर्यटति संसारमनेनेति सम्पराय: क्रोधादिकषाय:, लोभांशमात्रावशेषतया सूक्ष्म: सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि सक्लिश्यमान-विशुद्ध्यमानकभेदाद् द्विधैव । तत्र श्रेणिमारोहतो विशुद्ध्यमानकमुच्यते, तत: प्रच्यवमानस्य सक्लिश्यमानकमिति । अहक्खाय त्ति अथशब्दोऽत्र याथातथ्ये, आङभिविधौ, आ समन्ताद्याथातथ्येन ख्यातमथाख्यातम्, कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः । एतदपि प्रतिपात्यप्रतिपातिभेदाद् द्वेधा । तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रतिपाति, अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोह-क्षीणमोहस्य तद् भवति, अतः स्वामिभेदाद् द्वैविध्यमिति । तदेतच्चारित्रगुणप्रमाणम्, तदेतज्जीवगुणप्रमाणम्, तदेतद् गुणप्रमाणमिति। ___ तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह - से किं तं नयप्पमाणे इत्यादि । अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणम्, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगम-सङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वात् त्रैविध्यमुच्यते, तथा चाह- तद्यथा- प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः । तत्र प्रस्थकदृष्टान्तं दर्शयति- तद्यथानामकः कश्चित् पुरुष: परशुंकुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि । इदमुक्तं भवति- प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषः, तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत् क्व भवान् गच्छति ? ११८ तत्राऽविशुद्धनैगमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः । किमित्याह__११८. तत्राविशुद्धनैगमो भणतीत्यादि । नन्वत्र नैगमे शुद्धाशुद्धत्वं किम् ? प्रश्नेऽत्रायमाशयःयस्य नयस्य या स्वकीया दृष्टिः, तदन्यनयदृष्टेरंशतोऽपि संमिश्रणं यथा न स्यात्तथा तयैव केवलया यद्दर्शनं तत्र तस्य नयस्य विशुद्धतमत्वं व्यवह्रियते । तथा यथा यथा तदन्यनयदृष्टेरंशाः Page #307 -------------------------------------------------------------------------- ________________ २९० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं संमिश्रीभवन्ति, तथा तथा तस्य नयस्य विशुद्धिहीयते, अशुद्धिश्च वर्धत इति व्यवह्रियते। यथा सङ्ग्रह्णातीति सङ्ग्रहः । ततश्च 'सद्' इत्येवं सत्तामहासामान्येन सर्वेषां सङ्ग्राहिका सदद्वैतवादिनी दृष्टिविशुद्धतमः सङ्ग्रह उच्यते । तस्यां च यथा यथा भेदग्राहिणी दृष्टिः संमिश्रीभवति तथा तथा विशुद्धेर्हासः, अशुद्धश्च वृद्धिर्भवति । अतो जीवत्वेन सर्वेषां जीवानां सङ्ग्राहिकायाः सङ्ग्रहदृष्टेर्न विशुद्धतमत्वं, अपि तु विशुद्धतरत्वमेव, पुद्गलादेरसङ्ग्रहात् । एवमेव विशुद्धत्वं, अशुद्धत्वं, अशुद्धतरत्वादिकं ज्ञेयम् । इत्थञ्चान्यनयदृष्टिसंमिश्रणमशुद्ध्यापादकं, अशुद्धिश्च स्वविशुद्धतमदृष्ट्यपेक्षया भवतीति निश्चीयते । अथ नैगमश्चिन्त्यते । नैके गमा यस्य स नैकगमः, नैगम इति यावत् । ततश्च सर्वा अपि दृष्टयो नैगमस्य स्वकीया एवेति कुतोऽन्यनयदृष्टिसंमिश्रणस्य सम्भवः कुतो वाऽशुद्धेः सम्भवः । अपरञ्च तस्य न काऽप्येका नियता दृष्टिा विशुद्धतमत्वेन व्यपदेष्टुं शक्या । ततश्चाशुद्ध-शुद्धतरत्वादिकं किंरूपं कथं वा सम्भवतीति प्रश्नः । अत्रेदमस्मत्परिशीलितमुत्तरम्- यतो नैगमस्य न कापि नियता दृष्टिर्यामपेक्ष्य विशुद्धिः शक्यव्यवहारा स्यात्, एवं न कापि प्रतिपक्षभूता दृष्टिर्यामपेक्ष्याशुद्धिः शक्यव्यवहारा स्यादित्यतः कस्यचिदप्यन्यस्यैव नयस्यापेक्षया शुद्ध्यशुद्धिव्यवहारः कर्तव्यः स्यात् । अन्येषु च नयेषु सामान्यतया व्यवहारनय एव शुद्ध्यशुद्ध्यादेर्यतो व्यवहर्ता, अतस्तमपेक्ष्यैव तद्व्यवहारः कर्तव्य इत्यभिप्रायेणात्राधिकारे स व्यवहारनयमपेक्ष्य कृत इति प्रतिभाति । अत एव व्यवहारनयस्य योऽभिप्रायस्तस्यैवाभ्युपगन्ता नैगमोऽत्र विशुद्धतमत्वेन प्रतिपादितः । यस्तु तस्माद् दूर-दूरतराद्यवस्थाया ग्राहकः, स अशुद्ध-अशुद्धतरादित्वेन कथितः । नन्वत्र कारणे कार्योपचारादशुद्धिवृत्तिकारैः कथिता । तथा च वृत्तिग्रन्थ:- यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनं, न तु प्ररथकनिमित्तं, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे कार्योपचारात् तथाव्यवहारदर्शनादेवमप्यभिधत्तेऽसौ 'प्ररथकस्य गच्छामी'ति । तथा च कथं शुद्ध्यादिव्यवहारो व्यवहारापेक्षः कथ्यत इति चेत् ? न, अभिप्रायापरिज्ञानात् । तथाहि-काष्ठे प्ररथककारणभूतत्वं यत् कथितं, तद्व्यवहारनयेन, एवं कारणे कार्योपचारश्च यः कथितः, सोऽपि व्यवहारनयेनैव, ‘तथाव्यवहारदर्शनाद्' इत्यनेनैतस्य सूचितत्वात्, अनेकप्रकारवस्त्वभ्युपगमपरत्वकथनान्यथाऽनुपपत्तेश्च । सा चानुपपत्तिरेवं ज्ञेया-यदि गमनोद्देश्यभूतस्य काष्ठस्य प्ररथककारणतया कारणे कार्योपचारादेव प्रस्थकत्वं नैगमोऽभ्युपगच्छेत्, तदा मूलतः प्ररथकत्वेन प्ररथकत्वस्य तु प्ररथक एव पर्यवसानान्नैगमस्याप्येकप्रकारवस्त्वभ्युपगमपरत्वमेवापतेत। अस्याश्चापत्तेर्निवारणार्थं गमनोद्देश्यभूतं काष्ठमपि प्रस्थकत्वेनैव, न तु प्रस्थककारणत्वेन, मौलिकः प्रस्थक एवेति नैगमाभ्युपगमो मन्तव्य एव । एवमेव छिद्यमानं काष्ठं, तक्ष्यमाणं काष्ठं, उत्कीर्यमाणं काष्ठमित्यादिक्रमेण 'प्रस्थकोऽयमित्येवं नामाङिकतं निष्पन्नं प्रस्थकं Page #308 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७४] २९१ प्रस्थकस्य गच्छामि । इदमुक्तं भवति नैके गमा वस्तुपरिछेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनम्, न तु प्रस्थकनिमित्तम्, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे कार्योपचारात् तथाव्यवहारदर्शनादेवमप्ययावत् सर्वोऽपि मौलिकः प्रस्थक एवेति नैगमाभ्युपगमोऽपि मन्तव्य एव एवमेवानेकप्रकारवस्त्वभ्युपगमपरत्वस्योक्तस्योपपत्तेः । तथैवमेव नैगमस्य व्यवहाराद्विशेषोऽप्युपपद्येत, गमनोद्देश्यभूते काष्ठे प्रस्थकत्वेन प्रस्थकत्वाभ्युपगमस्य नैगमत्वात्, प्रस्थककारणत्वेनोपचरितप्रस्थकत्वाभ्युपगमस्य च व्यवहारत्वात् । ननु सूत्रे तु 'एवमेव ववहारस्स वि' त्त्यतिदेशेन नैगमाद् व्यवहारस्य विशेषाभाव एवोक्त इति चेत् ? न, अभिप्रायापरिज्ञानात् । गमनोद्देश्यभूतं काष्ठं प्रस्थकः, छिद्यमानं काष्ठं प्रस्थकः... इत्येवंक्रमेण निष्पन्नः प्रस्थकोऽपि प्रस्थक इति यथा नैगमस्याभ्युपगमस्तथैव व्यवहारस्यापि तत्सर्वं प्रस्थक इत्यभ्युपगमोऽस्त्येव । एतावतांशेनैव नैगमाद् व्यवहारस्याविशेषोऽतिदेशश्च ज्ञेयः । परंतु 'प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक एव प्रस्थकत्वेन निरुपचरितः प्रस्थकः, गमनोद्देश्यभूतकाष्ठादिकं तु प्रस्थककारणत्वेनोपचारादेव प्रस्थक इति व्यवहारनयाभ्युपगमः । गमनोद्देश्यभूतकाष्ठादिकं सर्वं प्रस्थकत्वेन निरुपचरित एव प्रस्थक इति तु नैगमनयाभ्युपगमः । एतावांस्तु तयोर्विशेषोऽभ्युपेय एव, अन्यथाऽनेकप्रकारवस्त्वभ्युपगमपरत्वं नैगमस्य यदुक्तं 'कारणे कार्योपचारात् तथाव्यवहारदर्शनादि 'त्यादि च यदुक्तं तदनुपपत्तेः । किञ्च 'लोकव्यवहारप्राधान्येनायं व्यवहारनयः' इति तु वृत्तिकारैरपि कथितमेव । लोकश्च प्रधानतया निष्पन्नं प्रस्थकमेव प्रस्थकतया व्यवहरति । गमनोद्देश्यभूतकाष्ठादिकं तु केनचिदभिप्रायविशेषेणैव कदाचिदेव प्रस्थकतया व्यवहरति । अतोऽपि तत्तदवस्थं काष्ठादिकमुपचारेणैव प्रस्थक इति व्यवहारनयाभिप्रायो मन्तव्य एवेति ध्येयम् । इत्थञ्चैतद् मन्तव्यम् । नैगमादारभ्यैवंभूतं यावद्ये ये वचनप्रयोगा यस्य यस्य नयस्याभिप्रेतास्ते सर्वेऽपि क्वचित् कदाचित् केनचित्प्रयोजनविशेषेण लोके प्रयुज्यमाना दृश्यन्त एवेति यः कोऽपि वचनप्रयोगो लोके दृश्यते स सर्वोऽपि व्यवहारस्योपचारेण विना मुख्यतयैव संमत इत्यभ्युपगमे नैगमाद् व्यवहारस्य विशेषाभावापत्तिः स्फुटैव, विभिन्ननयमान्यस्य सर्वस्याप्यर्थस्य नैगमस्येव व्यवहारस्याप्यविशेषेण मान्यत्वादिति तदापत्तिवारणार्थं 'लोके प्राधान्येन प्रयोजनविशेषमनपेक्ष्यैव यो व्यवह्रियते स व्यवहारनयस्य विषयः, तद्भिन्नस्तु यदि स्यादुपचारेणैव, न तु मुख्यतया, नैगमस्य तु सर्वोऽपि मुख्यतयैव विषयः' इत्यभ्युपगन्तव्यमेव । ततश्च नैगमस्यानेकवस्त्वभ्युपगमपरत्वं व्यवहारस्य त्वेकवस्त्वभ्युपगमपरत्वमिति विशेषोऽपि लभ्यत एव । अधिकं निक्षेपविंशिकायां द्रष्टव्यम् । Page #309 -------------------------------------------------------------------------- ________________ २९२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं अविसुद्ध नेगमो भणति - पत्थगस्स गच्छामि । तं च केइ छिंदमाणं पासित्ता वइज्जाकिं भवं छिंदसि ? विसुद्धतराओ नेगमो भणति - पत्थयं छिंदामि । तं च केइ तच्छेमाणं पासित्ता वदेज्जा - किं भवं तच्छेसि ? विसुद्धतराओ गमो भणति - पत्थयं तच्छेमि । तं च केइ उक्किरमाणं पासित्ता वदेज्जा - किं भवं उक्तिरसि ? विसुद्धतराओ गमो भणतिपत्थयं उक्तिरामि । तं च केइ (वि) लिहमाणं पासेत्ता वदेज्जा - किं भवं (वि) लिहसि ? भिधत्तेऽसौ- प्रस्थकस्य गच्छामीति । तं च कश्चित् छिन्दन्तम्, वृक्षमिति गम्यते, पश्येत्, दृष्ट्वा च वदेत्- किं भवाँच्छिनत्ति ? ततः प्राक्तनात् किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति - प्रस्थकं छिन, अत्रापि कारणे कार्योपचारात्तथाव्यवहतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनद्मीत्युत्तरम्, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र किञ्चिदासन्नत्वाद्विशुद्धत्वम्, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम् । एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया । नवरं तक्ष्णुवन्तं तनूकुर्वन्तम्, उत्किरन्तं वेधनकेन मध्याद्विकिरन्तम्, विलिखन्तं लेखन्या मृष्टं कुर्वाणम् । एवमनेन प्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य नामाउडियउत्ति आकुट्टितनामा, प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति । एवमेव व्यवहारस्यापीति, लोकव्यवहारप्रधानो नयः व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिि भावः । संगहस्सेत्यादि, सामान्यरूपतया सर्वं वस्तु संगृह्णाति क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चितो धान्येन व्याप्त:, स च देशतोऽपि भवत्यत आह- मित: पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितादेराकृतिगणत्वान्मेयसमारूढ: । अयमत्र भावार्थ:- प्राक्तननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः, निष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः, सोऽपि प्रस्थकसामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति । उज्जुसुयस्सेत्यादि, ऋजुसूत्र : पूर्वोक्तशब्दार्थः, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीते:, अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने एव मान - मेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति । तिन्हं सद्दनयाणामित्यादि, शब्दप्रधाना नया: शब्दनयाः शब्द- समभिरूढैवंभूताः, शब्देऽन्यथा Page #310 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७५] २९३ विसुद्धतराओ णेगमो भणति-पत्थयं (वि)लिहामि । एवं विसुद्धतरागस्स णेगमस्स नामाउडितओ पत्थओ । एवमेव ववहारस्स वि । संगहस्स चितो मिओ मिजसमारूढो पत्थओ, उजुसुयस्स पत्थयो वि पत्थओ मिजं पि से पत्थओ, तिण्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ । सेतं पत्थयदिटुंतेणं। (सू० ४७५) से किं तं वसहिदिटुंतेणं ? वसहिदिट्ठतेणं से जहानामए केइ पुरिसे कंचि पुरिसं वदिजा, कहिं भवं वससि ? तत्थ अविसुद्धो णेगमो भणइ-लोगे वसामि। लोगे तिविहे पण्णत्ते, तंजहा-उड्डलोए अधोलोए तिरियलोए, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-तिरियलोए वसामि । तिरियलोए जंबुद्दीवादीया सयंभुरस्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थं गमयन्तीत्यत: शब्दनया उच्यन्ते, आद्यास्तु यथाकथञ्चिच्छब्दा: प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनया: प्रकीर्त्यन्ते, अत एषां त्रयाणां शब्दनयाना प्रस जी ने अतां त्रयाणां शब्टनयानां प्रस्थकाधिकारजः प्रस्थकस्वरूपपरिजानोपयक्त प्रस्थक. भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽत: स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीव:, उपयोगश्चेत् प्रस्थकादिविषयतया परिणत: किमन्यज्जीवस्य रूपान्तरमस्ति यत्र व्यपदेशान्तरं स्यादिति भावः, जस्स वा वसेणेत्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थकः, न हि प्रस्थकेऽनुपयुक्तः प्रस्थकं निवर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमां च तेऽत्र युक्तिमभिदधति- सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्त्या एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानम्, तत् कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति ? चेतना-ऽचेतनयो: सामानाधिकरण्याभावात्, तस्मात् प्रस्थकोपयुक्त एव प्रस्थकः । सेत्तमित्यादि निगमनम्। से किं तं वसहीत्यादि । वसति: निवासः, तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कश्चित् पुरुष: पाटलिपुत्रादौ वसन्तं कञ्चित् पुरुषं वदेत्- क्व भवान् वसति ? तत्राविशुद्धनैगमो भणति अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति- लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकादनान्तरत्वात् । इत्थमपि च व्यवहारदर्शनात् । विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते ततस्तिर्यग्लोके वसामीति संक्षिप्योत्तरं ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह, एवं भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्रदेवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवं विसुद्धस्स णेगमस्स वसमाणो वसति त्ति Page #311 -------------------------------------------------------------------------- ________________ २९४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं मणपज्जवसाणा असंखेजा दीव-समुद्दा पण्णत्ता, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-जंबुद्दीवे वसामि । जंबुद्दीवे दस खेत्ता पण्णत्ता, तंजहा-भरहे एरवए हेमवए एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन् वसति, नान्यथा, इदमुक्तं भवति- यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षित: तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुन: कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते अतिप्रसङ्गादिति भावः ।१९एवमेवेत्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयः, लोके च नैगमोक्तप्रकारा: सर्वेऽपि दृश्यन्त इति भावः । अथ ११९. एवमेवेत्यादीति । ननु यथा प्रस्थकदृष्टान्ते 'एवमेव ववहारस्सवित्ति अतिदिष्टं, तथैवात्रापीति यथा तत्र ‘प्रस्थकोऽय'मित्येवं नामाङ्कितो निष्पन्नः प्रस्थक एव व्यवहारस्य मुख्यतया प्रस्थकः, तदन्ये तु सर्वेऽप्युपचारत एव, तथैवात्रापि किमुत्तरं व्यवहारस्य मुख्यतया संमतमित्युच्यताम् । शृणु-प्ररथकदृष्टान्ताद् विलक्षणं वसतिदृष्टान्तमिति व्यवहारनयाभिप्रायोऽप्यत्र भिन्न एव । तत्रैक एव मुख्यतया व्यवहारविषयः, अत्र तु प्रायः सर्वाण्यपि मुख्यतया व्यवहारविषयारेणीति । 'क्व वसति भवान् ?' इति प्रश्नकाले पृच्छ्यमानो जनो यत्र क्षेत्रेऽवस्थितस्तत्क्षेत्रं मनसिकृत्य व्यवहारनयः प्रत्युत्तरं ददाति । तद्यथा-मित्रदेवादिसहायेनोर्ध्वलोकं गतवान् यदि केनचित् पृष्टः स्यात्तदा 'तिर्यग्लोके वसामि' इत्युत्तरं व्यवहारस्य मुख्यतयैव संमतं, न तत्र कोऽप्युपचारः । प्रश्नकर्ता 'अहं तिर्यग्लोके वसामी'ति तु कथमपि जानात्येव, परन्तु 'तिर्यग्लोके जम्बूद्वीपादौ कुत्र वसामि ?' इति तु न जानातीति तज्जिज्ञासया प्रश्नं पृच्छतीति पृच्छयमानेन यदि प्रतीयते तदा 'जम्बूद्वीपे वसामी'त्युत्तरमेव व्यवहारस्य मुख्यतया संमतम् । एवमेव पृष्टो जनो यदि नन्दीश्वरद्वीपादिकं गतवान् तत्र च पृष्टः, तदा 'जम्बूद्वीपे वसामी'ति, यदि महाविदेहक्षेत्रे पृष्टस्तदा भरतक्षेत्रे वसामी' ति, एवं यद्युत्तरार्धभरतक्षेत्रे पृष्टस्तदा ‘दक्षिणार्द्धभरते वसामी'ति, एवंक्रमेण पाटलिपुत्रात्, स्वपाटकात्, स्वगृहाद्, स्वापवरकाद्वा बहिर्यदि पृष्टस्तदा यथाक्रमं पाटलिपुत्रे, अमुकस्मिन् पाटके, देवदत्तगृहे, गर्भगृहे वा वसामी'त्युत्तरं यद्दीयते तद्व्यवहारस्य मुख्यतया संमतमिति ध्येयम् । तथा च 'प्रश्नकाले पृच्छयमानस्यावस्थानक्षेत्रं प्रष्टुर्जिज्ञासां वाऽनुसृत्य दीयमानं यत्किमप्युत्तरं तत्सर्वं व्यवहारनयस्य मुख्यतयाऽभिप्रेतं, न तत्र कोऽप्युपचार इति पर्यवसितम् । ननु नैगमेन यद्यदुत्तरं दीयते तत्सर्वमपि यदि व्यवहारस्यापि मुख्यतयैव संमतं स्यात्तदा तयोर्विशेषाभावापत्तिरिति चेत् ? न, व्यवहारस्य सर्वस्योत्तरस्य मुख्यतया संमतत्वाभावात् । प्रश्नकाले पाटलिपुत्र एवावस्थितः पृच्छ्यमानो जनः ‘क्व वसति भवान् ?' इति पृष्टे प्रयोजनविशेषो यदि न स्यात्तदा पाटलिपुत्रे वसामी'त्यादिकं तूत्तरं नैव ददाति, प्रष्टुर्जिज्ञासायास्तेनोत्तरेणानुपशमनात्, तस्य पाटलिपुत्रे वसनस्योत्तर श्रवणात्पूर्वमेव प्रष्ट्रा ज्ञातत्वात्, Page #312 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७५] २९५ एरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-भरहे वसामि । भरहे वासे दुविहे पण्णत्ते, तंजहादाहिणड्डभरहे य उत्तरड्डभरहे य, तेसु सव्वेसु भवं वससि? विसुद्धतराओ णेगमो भणतिदाहिणड्डभरहे वसामि । दाहिणड्डभरहे अणेगाइं गाम-णगर-खेड-कब्बड-मडंब-दोणमुहपट्टणा-ऽऽगर-संवाह-सण्णिवेसाइं, तेसु सव्वेसु भवं वससि ? विसुद्धतरातो णेगमो चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवम्, प्रोषिते देवदत्ते स इह वसति न वेति केनचित् पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति । संगहस्सेत्यादि । प्राक्तनाद् विशुद्धत्वात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते । इदमुक्तं भवति- संस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूप वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति। ऋजुसूत्रस्य तु पूर्वस्माद् विशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात्, येषु प्रदेशेषु संस्तारको वर्त्तते ते संस्तारकेणैवाक्रान्ताः ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते, स च वर्तमानकाल एवास्ति, अतीतानागतयोविनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति । त्रयाणां शब्दनयानामात्मभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, १२०तथाहि- अन्योऽन्यत्र वर्तमान: किं सर्वात्मना वर्तते देशात्मना वा ? यद्वा ‘कस्मिन्नगरे स वसती'त्यस्याजिज्ञासितत्वात्, 'कस्मिन् पाटके स वसती'त्यस्यैव सामान्यतयाऽत्र जिज्ञासितत्वात् । ततश्चैतादृशे प्रस्तावे सामान्यतया 'अमुकस्मिन् पाटके वसामी'ति प्रत्युत्तरमेव दीयते, तदेव च व्यवहारस्य मुख्यतया संमतम् । तथापि यद्यत्र 'पाटलिपुत्रे वसामी'त्युत्तरं दीयते, तदा तत्र केनचित्प्रयोजनविशेषेण भवितव्यमेवेति नैगमस्य मुख्यतया संमतत्वेऽपि व्यवहारस्य तु तदुत्तरं मुख्यतयाऽसंमतमेव, सामान्यतया लोकव्यवहारेऽदृश्यमानत्वात् । अतो व्यवहारस्य तदुपचारेणैव संमतमिति निःशङ्कमेवेति नैगमव्यवहारयोर्विशेषाभावाऽऽशङ्कागन्धोऽपि कुतः ? __ १२०. तथाहि-अन्योऽन्यत्रेत्यादि । यद्वाऽयमप्यत्र युक्तिप्रकारो ज्ञेयः । तथाहि- अन्योऽन्यत्र वर्तमानः किमभेदसम्बन्धेन वर्तते भेदसम्बन्धेन वा ? यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, यथा हि संस्तारकाद्याधारस्य स्वरूपमभेदसम्बन्धेन Page #313 -------------------------------------------------------------------------- ________________ २९६ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं भणति - पाडलिपुत्ते वसामि । पाडलिपुत्ते अणेगाई गिहाई, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ गमो भणति - देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगा कोट्ठगा, सु सव्वे भवं वससि ? विसुद्धतराओ णेगमो भणति - गब्भघरे वसामि । एवं विसुद्ध स गमस्स वसमाणो वसति । एवमेव ववहारस्स वि । संगहस्स संथारसमारूढो वसति । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ । तिन्हं सहनयाणं आयभावे वस । सेतं वसहिदिट्टंतेणं । ( सू० ४७६ ) से किं तं पदेसदिट्ठतेणं ? पदेसदिट्टंतेणं णेगमो भणति छण्हं पदेसो, तंजा - धम्मपदेसो अधम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो देसपदेसो | एवं वयं गमं संगहो भाइ जं भणसि छण्हं पदेसो तण्ण भवइ, कम्हा ? जम्हा जो सो देसपदेसो सो तस्सेव दव्वस्स, जहा को दिट्ठतो ?, दासेण खरो कीओ दासो यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, यथा हि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यते एवं देवदत्तादिरपि सर्वात्मना तत्राधीयमानस्तद्व्यतिरेकेण नोपलभ्यते ( भ्येत ) । अथ द्वितीयो विकल्प: स्वीक्रियते तर्हि तत्रापि देशे अनेन वर्त्तितव्यम्, ततः पुनरपि विकल्पद्वयम् - किं सर्वात्मना वर्तते देशात्मना वेति ? सर्वात्मपक्षे देशिनो देशरूपताऽऽपत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यम् । ततः पुनरपि तदेव विकल्पद्वयम्, तदेव च दूषणमित्यनवस्था । तस्मात् सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य नि:स्वभावताप्रसङ्गादित्यलं बहुभाषितया । सेत्तमित्यादि निगमनम् । से किं तं पएसदिट्टंतेणमित्यादि । प्रकृष्टो देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्ते तत्र नैगमो भणति षण्णां प्रदेश:, तद्यथा - धम्मपदेसो इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेश: एवमधर्मा-ऽऽकाशजीवास्तिकायेष्वपि योज्यम् । स्कन्ध: पुद्गलद्रव्यनिचयः, तस्य प्रदेश: स्कन्धप्रदेश: । देश : एषामेव पञ्चानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवः, तस्य प्रदेशो देशप्रदेश: । अयं च I तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यत एवं देवदत्तादिरप्यभेदसम्बन्धेन तत्राऽऽधीयमानस्तदव्यतिरेकेण नोपलभ्येत । अथ द्वितीयो विकल्पः स्वीक्रियते तर्हि अनवस्थादोषापत्तिः । सा चैवंभेदसम्बन्धस्तत्र वर्तमानः किमभेदसम्बन्धेन वर्तते भेदसम्बन्धेन वा ? यद्याद्यः पक्षस्तर्हि आधेयभूतेनान्येन किमपराद्धं येन स तत्राभेदसम्बन्धेन न वर्तेतेति नाद्यः पक्षः । अथ द्वितीयः पक्षस्तर्हि तस्यापि तत्र भेदसम्बन्धस्याभ्युपगन्तव्यत्वादनवस्थापत्तिः स्पष्टैव । तस्मात्सर्वोऽपि नान्यत्र निवसति, अपि तु स्वस्वभाव एव निवसति । Page #314 -------------------------------------------------------------------------- ________________ २९७ श्रीअनुयोगद्वारसूत्रम् [सू०४७५] वि मे खरो वि मे, तं मा भणाहि-छण्हं पएसो, भणाहि पंचण्हं पएसो, तंजहा-धम्मपएसो अहम्मपएसो आगासपदेसो जीवपएसो खंधपदेसो । एवं वयंतं संगहं ववहारो भणइजं भणसि-पंचण्हं पएसो तं ण भवइ, कम्हा ? जइ जहा पंचण्हं गोट्ठियाणं केइ दव्वजाए सामण्णे, तंजहा-हिरण्णे वा सुवण्णे वा धणे वा धण्णे वा, तो जुत्तं वत्तुं जहा पंचण्हं पएसो, तं मा भणाहि-पंचण्हं पएसो, भणाहि-पंचविहो पएसो, तंजहा-धम्मपदेसो अहम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो। एवं वदंतं ववहारं उज्जुसुओ भणतिप्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तम्, विशेषविवक्षायां तु षट् प्रदेशा: । एवं वदन्तं नैगमं ततो निपुणतर: सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश इति तन्न भवति तन्न युज्यते, कस्मात् ? यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य य: प्रदेश: स वस्तुवृत्त्या तस्यैव द्रव्यस्य सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य हि देशस्य य: प्रदेश: स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टान्त इत्याह- दासेणेत्यादि, लोकेऽप्येवं व्यवहृतिर्दश्यते, यथा कश्चिदाह- मदीयदासेन खरः क्रीत:, तत्र दासोऽपि मदीय:, खरोऽपि मदीय:, दासस्य मदीयत्वात् तत्क्रीत: खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात् तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भाव:, तस्मान्मा भण-षण्णां प्रदेश:, अपि त्वेवं भण-पञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवाघटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि तत्प्रदेशाश्चेत्येवमविशुद्धसङ्ग्रह एव मन्यते, अवान्तरद्रव्यसामान्याद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुत्वसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन । प्रकृतमुच्यते- एवं वदन्तं सङ्ग्रहं १२१ततोऽपि निपुणो व्यवहारो भणति- यद् भणसि पञ्चानां प्रदेश इति तन्न भवति न युज्यते, कस्मात् ? यदि यथा पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम् एकं भवति, तद्यथा- हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्येत वक्तुं पञ्चानां प्रदेश इति, इदमुक्तं भवति- यथा केषाञ्चित् पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येक: कश्चित् साधारण: प्रदेश: स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्मा भण-पञ्चानां प्रदेश:, १२१. ततोऽपि निपुणो व्यवहार इत्यादि । ततश्च ‘सङ्ग्रहाद् व्यवहार एव निपुणः, यद्वा व्यवहारात्सङ्ग्रह एव निपुणः इति नियमेन न किञ्चिदपि वक्तुं पार्यते, प्रस्थकवसतिदृष्टान्तयोर्व्यवहारात् सङ्ग्रहस्य निपुणत्वात्, प्रदेशदृष्टान्ते च सङ्ग्रहाद् व्यवहारस्य निपुणत्वादिति । Page #315 -------------------------------------------------------------------------- ________________ २९८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जं भणसि-पंचविहो पदेसो तं न भवइ, कम्हा ? जइ ते पंचविहो पएसो एवं ते एक्केको पएसो पंचविहो एवं ते पणुवीसतिविहो पदेसो भवति, तं मा भणाहि-पंचविहो पएसो, भणाहि-भतियव्वो पदेसो-सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसो । एवं वयंत उजुसुयं संपति सद्दणओ भणति-जं भणसि भइयव्वो पदेसो तं न भवति, कम्हा ? जइ ते भइयव्वो पदेसो एवं ते धम्मपदेसो वि सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसो १, अपि तु भण-पञ्चविध: पञ्चप्रकार: प्रदेशः, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह- धर्मप्रदेश इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो भणति- यद् भणसि पञ्चविध: प्रदेश: तन्न भवति, कस्मात् ? यस्माद्यदि ते पञ्चविध: प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: पञ्चविधः प्राप्त:, शब्दाद्धि अत्र वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविध: प्रदेश: प्राप्नोति. तन्मा भण- पञ्चविध: प्रदेश:, किन्त्वेवं भण-भाज्य: प्रदेश:, स्याद्धर्मस्येत्यादि, इदमुक्तं भवति- भाज्यो विकल्पनीयो विभजनीय: प्रदेश:, कियद्भिविभागैः ? स्याद्धर्मप्रदेश इत्यादिपञ्चभिः, ततश्च पञ्चभेद एव प्रदेश: सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीय:, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुतनयमतेनासत्त्वादिति । ___ एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद् भणसि भाज्य: प्रदेश: तन्न भवति, कुत: ? यतो यदि भाज्य: प्रदेश:, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेश: स्यात्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्यात्, इत्थमपि भजनाया अनिवारितत्वात्, यथा एकोऽपि देवदत्त: कदाचिद्राज्ञो भृत्य: कदाचिदमात्यादेरिति, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यम्, तदेवं १२२ यत्याभावादनवस्था प्रसज्येत, तन्मैवं भण-भाज्य: प्रदेश:, अपि तु इत्थं भण-धम्मे पएसे से पएसे धम्मे इत्यादि, इदमुक्तं भवति- धर्म: प्रदेश इति, धर्मात्मक: प्रदेश इत्यर्थः, अत्राह- नन्वयं प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्त: सन् तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह- से पदेसे धम्मे त्ति स प्रदेशो धर्मः, सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेश: स नि:शेषजीवास्तिकायैकदेशवृत्तिरेव सन् १२२. नैयत्याभावादनवरथा प्रसज्येतेतीति । तवाप्यनवस्थादोषः प्रसज्येतेति नार्थः, किन्तर्हि ? तवाप्यव्यवरथादोषः प्रसज्येतेत्यर्थः, विवक्षितः प्रदेशो धर्मास्तिकायस्यैव, तदन्यस्त्वधर्मास्तिकायस्यैवेत्यादि व्यवस्थाया अभावप्रसक्तेः । Page #316 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७६]] अधम्मपदेसो वि सिया धम्मपदेसो सिया आगासपएसो सिया जीवपएसो सिया खंधपएसो २, आगासपएसो वि सिया धम्मपदेसो सिया अहम्मपएसो सिया जीवपएसो सिया खंधपएसो ३, जीवपएसो वि सिया धम्मपएसो सिया अधम्मपएसो सिया आगासपएसो सिया खंधपएसो ४, खंधपएसो वि सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो ५, एवं ते अणवत्था भविस्सइ, तं मा भणाहि-भइयव्वो पदेसो, भणाहि-धम्मे पदेसे से पदेसे धम्मे, अहम्मे पदेसे से पदेसे अहम्मे, आगासे पदेसे से जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सन् तत्प्रदेशो धर्मात्मक उच्यत इति भावः । अधर्मा-ऽऽकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयम् । जीवास्तिकाये तु जीवे पएसे से पएसे नोजीवे त्ति, जीव: प्रदेश इति जीवास्तिकायात्मक: प्रदेश इत्यर्थः, स च प्रदेशो नोजीव:, नोशब्दस्यैकदेशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेश: स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः । एवं स्कन्धात्मक: प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वात् तदेकदेशवृत्तिरित्यर्थः । ___ एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः स प्राह- यद् भणसि धर्म: प्रदेश: स प्रदेशो धर्म इत्यादि, तन्न भवति न युज्यते, कस्मादित्याह- इह खलु द्वौ समासौ भवतः, तद्यथा- तत्पुरुषश्च कर्मधारयश्च । इदमुक्तं भवति- धम्मे पएसे से पएसे धम्मे इत्युक्ते समासद्वयारम्भकं वाक्यद्वयमत्र संभाव्यते, तथाहि- यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यम्, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ? उच्यते, समासारम्भकवाक्ययो: समासोपचारात्, अथवा अलुक्समासविवक्षया समासावप्येतौ भवतः, यथा कण्ठेकाल इत्यादीत्यदोष:, यदि नाम द्वौ समासावत्र भवतस्तत: किमित्याह- तन्न ज्ञायते कतरेण समासेन भणसि? किं तत्पुरुषेण कर्मधारयेण वा ? यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादिति शेष:, स चायं दोषो ‘धर्मे प्रदेशः' इति भेदापत्ति:, यथा कुण्डे बदराणीति, न च प्रदेश-प्रदेशिनौ भेदेनोपलभ्येते, अथवा अभेदेऽपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोष: स्यात् । अथ कर्मधारयेण भणसि, ततो विशेषेण भण- धम्मे य से पएसे य से त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारयः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भाव: । आह- नन्वयं प्रदेश: समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते, उत तदेकदेशवृत्तिः सन् यथा जीवास्ति Page #317 -------------------------------------------------------------------------- ________________ ३०० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पदेसे आगासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे णोखंधे। एवं वयंतं सद्दणयं समभिरूढो भणति-जं भणसि-धम्मे पदेसे से पदेसे धम्मे जाव खंधे पदेसे से पदेसे नोखंधे, तं न भवइ, कम्हा ? एत्थ दो समासा भवंति, तंजहा-तप्पुरिसे य कम्मधारए य, तं ण णजइ कतरेणं समासेणं भणसि ? किं तप्पुरिसेणं किं कम्मधारएणं ?, जड़ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहिधम्मे य से पदेसे य से से पदेसे धम्मे, अहम्मे य से पदेसे य से से पदेसे अहम्मे, आगासे य से पदेसे य से से पदेसे आगासे, जीवे य से पदेसे य से से पदेसे नोजीवे, कायैकदेशवृत्तिर्जीवप्रदेशः ? इत्याशङ्क्याह- से पएसे धम्मे त्ति स च प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना पूर्ववत्, (से पएसे नोजीवे)। से पएसे नोखंधे इत्यत्रापि पूर्ववदेवार्थकथनम् । एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत् सर्वं समस्तं कृत्स्नं देश-प्रदेशकल्पनारहितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेष तदेवैकत्वान्निरवयवमेकग्रहणगृहीतम् एकाभिधानाभिधेयं नो नानाभिधानाभिधेयम्, तानि ह्येकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद् धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देश-प्रदेशौ ममावस्तुभूतौ, १२३अखण्डस्यैव वस्तुनः सत्त्वेनोपगमात्, तथाहि- प्रदेश-प्रदेशिनो/दो वा स्यादभेदो वा ? यदि प्रथम: पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति । अथाभेदस्तर्हि धर्म-प्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नया:, एते च परस्परं निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनया:, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्ण जिनमतं भवति, नैकैकावस्थायाम् । उक्तं च स्तुतिकारेण उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः ।। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ।। (सिद्धसेनद्वा० ४।६) १२३. अखण्डस्यैव वस्तुनः सत्त्वेनोपगमादिति । देशप्रदेशयोरवस्तुभूतत्वसाधनार्थमेवंभूतनयेन दत्तस्यैतस्य हेतोरेतदपि विवरणं शक्यते कर्तुम् । तथाहि- अखण्ड एव घटादिके वस्तुनि यतो जलाहरणाद्यर्थक्रियाकारित्वं वर्ततेऽतस्तस्यैव वस्तुभूतत्वम् । कण्ठमात्ररूपेण पृथुबुध्नादिमात्ररूपेण वा देशेन यतो जलाहरणाद्यर्थक्रिया न शक्यते कर्तुम्, अतोऽर्थक्रियाकारित्वाभावेन देशस्यावस्तुभूतत्वमेव । एवमेव प्रदेशस्याप्यर्थक्रियाकारित्वाभावेनावस्तुभूतत्वं ज्ञेयम् । Page #318 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७७-४७९] ३०१ य खंधे से देय से से पदेसे नोखं । एवं वयंतं संपयं समभिरूढं एवंभूओ भाइसव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहितं, देसे वि मे अवत्थू अ । सेतं पदेसदिते । सेतं णयप्पमाणे । जं जं भणसि ( सू० ४७७ ) से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते । तंजहानामसंखा ठवणसंखा दव्वसंखा ओवमसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा । ( सू० ४७८ ) से किं तं नामसंखा ? नामसंखा जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा संखा ति णामं कज्जति । सेतं नामसंखा | ( सू० ४७९) से किं तं ठवणासंखा ? ठवणासंखा- जण्णं कटुकम्मे वा पोत्थकम्मे वा चित्तम्मे वा लेप्पकम्मे वा गंथिकम्मे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराड वा एक्को वा अणेगा वा सब्भावठवणाए वा असम्भावठवणाए वा संखा ति ठवणा ठवेज्जति । सेतं ठवणासंखा । एते च नया ज्ञानरूपाः, ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद् बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात् पृथगुक्ताः । तदेतत् प्रदेशदृष्टान्तेनेति निगमनम् । प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति- तदेतन्नयप्रमाणमिति । अनेन च दृष्टान्तत्रयेण दिङ्मात्रदर्शनमेव कृतम्, यावता यत् किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचारः प्रवर्तते इत्यलं बहुजल्पितेनेति । इतः क्रमप्राप्तं सङ्ख्याप्रमाणं विवरीषुराह से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठवि पण्णत्ते, तंजहा - नामसंखा इत्यादि । सङ्ख्यानं सङ्ख्या संख्यायते ऽनयेति वा सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम्। इह सङ्ख्याशब्देन सङ्ख्या - शङ्खयोर्द्वयोरपि ग्रहणं द्रष्टव्यम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशु-भूम्यादिवत् । उक्तं च गोशब्दः पशु-भूम्यंशु-वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगो दृष्ट्यम्बु- वज्र- स्वर्गाभिधायकः || १ || ( एवमिहापि संखा इति प्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रमीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नाम - स्थापना - द्रव्यादिविचारेऽपि प्रक्रान्ते सङ्ख्या शङ्खा वा यत्र घटते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति । से किं तं नामसंखेत्यादि सर्वं पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् जाणयसरीर-भवियसरीरवइरित्ते दव्वसंखे तिविहे पण्णत्ते इत्यादि । Page #319 -------------------------------------------------------------------------- ________________ ३०२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४८०) नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा ।। (सू० ४८१) से किं तं दव्वसंखा ? दव्वसंखा दुविहा पं० । तं०- आगमओ य नोआगमतो य । (सू० ४८२) से किं तं आगमओ दव्वसंखा ? आगमओ दव्वसंखा- जस्स णं संखा ति पदं सिक्खितं ठियं जियं मियं परिजियं जाव कंगिण्ह(कंठोट्ठ)विप्पमुक्कं (गुरुवायणोवगयं), से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमिति कट्ट । (सू० ४८३) (१) (णेगमस्स) एक्को अणुवउत्तो आगमतो एका दव्वसंखा, दो अणुवउत्ता आगमतो दो दव्वसंखाओ, तिन्नि अणुवउत्ता आगमतो तिन्नि दव्वसंखाओ, एवं जावतिया अणुवउत्ता तावतियाओ (णेगमस्स आगमतो) दव्वसंखाओ । (२) एवामेव ववहारस्स वि । (३) संगहस्स एको वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा (आगमओ) दव्वसंखा वा दव्वसंखाओ वा (सा एगा दव्वसंखा)। (४) उज्जुसुयस्स (एगो अणुवउत्तो) आगमओ एका दव्वसंखा, पुहत्तं णेच्छति । (५) तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेतं आगमओ दव्वसंखा । इह यो जीवो मृत्वाऽनन्तरभवे शखेषु उत्पत्स्यते स तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविक: शङ्ख उच्यते, यत्र भवे वर्तते स एवैको भव: शोषूत्पत्तेरन्तरेऽस्तीति कृत्वा । एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः । शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखे जघन्यत: समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नाम-गोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्र: । तदेष त्रिविधोऽपि भाविभावशङ्खताकारणत्वात् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते । यद्येवं द्विभविक-त्रिभविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत्, नैवम्, तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात्, तत्कारणस्यैव द्रव्यत्वात् । इदानीं त्रिविधमपि शङ्ख कालत: क्रमेण निरूपयन्नाह- एगभविए णं भंते इत्यादि, एकभविक: शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालत: कियच्चिरं भवतीति । अत्रोत्तरम्जहण्णेणमित्यादि, इदमुक्तं भवति- पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्तं जीवित्वा योऽनन्तरं श षूत्पद्यते Page #320 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४८४-४८९] ३०३ (सू० ४८४) से किं तं नोआगमतो दव्वसंखा ? दव्वसंखा तिविहा पं० । तं०जाणयसरीरदव्वसंखा भवियसरीरदव्वसंखा जाणगसरीर-भवियसरीरवतिरित्ता दव्वसंखा। (सू० ४८५) से किं तं जाणगसरीरदव्वसंखा ? जाणगसरीरदव्वसंखा- संखा ति पयत्थाहिकारजाणगस्स जं सरीरयं ववगय-चुय-चइत-चत्तदेहं जीवविप्पजढं जाव अहो ! णं इमेणं सरीरसमूसएणं संखा ति पयं आघवितं जाव उवदंसियं, जहा को दिटुंतो ? अयं घयकुंभे आसि । सेतं जाणगसरीरदव्वसंखा । (सू० ४८६) से किं तं भवियसरीरदव्वसंखा ? भवियसरीरदव्वसंखा जे जीवे जोणीजम्मणणिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं संखा ति पयं सेकाले सिक्खिस्सति, जहा को दिटुंतो? अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वसंखा। (सू० ४८७) से किं तं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा? जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा तिविहा पण्णत्ता । तंजहा- एगभविए बद्धाउए अभिमुहणामगोत्ते य । (सू० ४८८) एगभविए णं भंते ! एगभविए त्ति कालतो केवचिरं होति ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी। (सू० ४८९) बद्धाउए णं भंते ! बद्धाउए त्ति कालतो केवचिरं होति? जहण्णेणं अंतोमुहत्तं, उक्कोसेणं पुव्वकोडीतिभागं । सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु मत्स्याद्यन्यतमभवे पूर्वकोटी जीवित्वा तेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वेन लभ्यते। अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणम्, यस्तु पूर्वकोट्यधिकायुष्क: सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शर्केष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम् । आयुर्बन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्वन्ति, उत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टत: पूर्वकोटित्रिभाग उक्तः । आभिमुख्यं चासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यत: समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्तः, यथोक्तकालात् परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः । इदानीं नैगमादिनयानां मध्ये को नयो १२४यथोक्तत्रिविधशङ्खस्य मध्ये के ____ १२४. यथोक्तत्रिविधशङ्खस्य मध्ये कं शङ्खमिच्छतीति । कं द्रव्यशङ्खमिच्छतीत्यर्थोऽत्र कर्तव्यः, द्रव्यशङ्खस्यैवैकभविकत्वादित्रैविध्यस्य ग्रन्थ उक्तत्वात् । ततश्च शङ्खप्रायोग्यं तिर्यग्गतिनामकर्मादि विपाकतो वेदयतो भावशङ्खत्वाद् मुख्यद्रव्यशङ्खत्वेनाभिमुखनामगोत्रास्तु Page #321 -------------------------------------------------------------------------- ________________ ३०४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४९०) अभिमुहनामगोत्ते णं भंते ! अभिमुहनामगोत्ते त्ति कालतो केवचिरं होति ? जहन्नेणं एकं समयं, उक्कोसेणं अंतोमुहत्तं । (सू० ४९१) इयाणिं को णओ कं संखं इच्छति ?-तत्थ णेगम-संगह-ववहारा तिविहं संखं इच्छंति, तंजहा-एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तंजहा-बद्धाउयं च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति। सेतं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा । सेतं नोआगमओ दव्वसंखा। सेतं दव्वसंखा। शङ्खमिच्छतीति विचार्यते- तत्र नैगम-सङ्ग्रह-व्यवहारा: स्थूलदृष्टित्वात् त्रिविधमपि शङ्खमिच्छन्ति, दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि । ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद् द्विविधमेवेच्छति । १२५शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेवैकं चरममेवेच्छन्ति । सेत्तमित्यादि निगमनम्। ग्राह्या एवेति, अन्यथा मौलिकस्य द्रव्यशङ्खस्यासम्भवात् सूत्रकृतोक्तस्य तद्व्यतिरिक्तद्रव्यशङ्खभेदस्य शून्यत्वापत्तेः । तस्माद् वृत्तिकृता 'कारणे कार्योपचारं कृत्वेत्थं व्यपदेशप्रवृत्ति रिति यदुक्तं तेनैकभविकबद्धायुष्कयोरेवोपचरितं द्रव्यशङ्खत्वं प्राप्यते, न त्वभिमुखनामगोत्रस्य, तस्य मुख्यद्रव्यशङ्खत्वादिति ध्येयम् । तथा बद्धायुष्कत्वमभिमुखनामगोत्रत्वस्य कारणं भवत्येव, अबद्धायुष्करय शङ्खप्रायोग्यनामगोत्रकर्मणोर्विपाकत उदयाभिमुख्यस्यासम्भवात् । अत ऋजुसूत्रो मुख्यद्रव्यशङखस्याभिमुखनामगोत्रस्य कार्यस्य कारणे बद्धायुष्कत्व उपचारं कृत्वा बद्धायुष्कं द्रव्यशङ्खत्वेन स्वीकरोति, परन्त्वेकभविकं न स्वीकरोति, तस्य तत्कारणत्वाभावेनोपचारासम्भवात् । नैगम-सङ्ग्रह-व्यवहारास्तु दूरवर्तिनोऽपि कारणत्वं रवीकृत्यैकभविकमपि द्रव्यशङ्खत्वेनाभ्युपगच्छन्ति । १२५. शब्दादयस्त्वित्यादि । यद्वा शब्दादीनामयमप्यभिप्रायः शक्यते ग्रहीतुम्-यतः शब्दादय उपचारं न स्वीकुर्वन्ति, अतोऽभिमुखनामगोत्रलक्षणं मुख्यद्रव्यशङ्खमेवेच्छन्ति, न बद्धायुष्काख्यमुपचरितद्रव्यशङ्खमिति । ननु ‘भावं चिय सद्दणया' (वि. आ.भा.२८४७) इति वचनात् 'शब्दनया भावनिक्षेपमेवेच्छन्तीति ज्ञायते, तदत्र कथं 'तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति त्ति कथितम् ? अभिमुखनामगोत्रस्य द्रव्यशङ्खत्वादिति चेत् ? सत्यं, तथापि 'सिद्धस्य गतिश्चिन्तनीये'तिन्यायात् सूत्रसिद्धस्यास्य सङ्गतिश्चिन्तनीयैव । सा चैवं प्रतिभातियथा सङ्ग्रहनयस्य सामान्यग्राहित्वेऽपि क्वचिदशुद्धसङ्ग्रहो कञ्चिद्विशेषमप्यभ्युपगच्छति, एवं शुद्धानां शब्दादीनां भावनिक्षेपमात्रग्राहित्वेऽप्यशुद्धानां तेषां क्वचिद् द्रव्यनिक्षेपग्राहित्वमपि Page #322 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४९२] ३०५ (सू० ४९२) (१) से किं तं ओवमसंखा ? ओवमसंखा चउव्विहा पण्णत्ता । तंजहा-अत्थि संतयं संतएणं उवमिज्जइ १, अत्थि संतयं असंतएणं उवमिज्जइ २, अत्थि असंतयं संतएणं उवमिज्जइ ३, अत्थि असंतयं असंतएणं उवमिज्जइ ४ । (२) तत्थ संतयं संतएणं उवमिज्जइ जहा-संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडएहिं संतएहिं वच्छएहिं उवमिजंति, तंजहा पुरवरकवाडवच्छा फलिहभुया दुंदुभित्थणियघोसा । सिरिवच्छंकियवच्छा सव्वे वि जिणा चउव्वीसं ॥११९।। (३) संतयं असंतएणं उवमिज्जइ जहा-संताई नेरइय-तिरिक्खजोणिय-मणूस-देवाणं आउयाइं असंतएहिं पलिओवम-सागरोवमेहिं उवमिजंति । (४) असंतयं संतएणं उवमिज्जति जहापरिजूरियपेरंतं चलंतबेंट पडंत निच्छीरं । पत्तं वसणप्पत्तं कालप्पत्तं भणइ गाहं ॥१२०॥ जह तुब्भे तह अम्हे, तुम्हे वि य होहिहा जहा अम्हे । अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥१२१।। णवि अत्थि णवि य होही उल्लावो किसल-पंडुपत्ताणं । उवमा खलु एस कया भवियजणविबोहणट्ठाए ॥१२२।। से किं तं ओवम्मसंखा इत्यादि । सङ्ख्यानं सङ्ख्या परिच्छेदः, वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या। इयं चोपमानोपमेययोः सत्त्वासत्त्वाभ्यां चतुर्दा, तद्यथासंतयं संतएणमित्यादि । तत्र प्रथमभङ्गे तीर्थकरादेरुपमेयस्य कपाटादिना उपमानेन स्वरूपं संख्यायते निश्चीयते इत्यौपम्यसङ्ख्यात्वं भावनीयम्, यस्य तीर्थकरा: स्वरूपतोऽनिश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो नगरपरिघोपमबाहवस्ते भवन्तीत्याधुपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यमानत्वादिति भाव: । द्वितीयभङ्गे पल्योपम-सागरोपमाणां योजनप्रमाणपल्य-वालाग्रादिकल्पनामात्रेण प्ररूपितत्वादसत्त्वमवसेयम्, उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति । तृतीयभङ्गे परिजूरियपेरंतमित्यादि गाथा। तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलद्वन्तं नासम्भवि । यद्वा नैगम-सङ्ग्रह-व्यवहाराणां स्थूलदृष्टितया त्रिविधद्रव्यशङ्खाभ्युपगन्तृत्वमुक्तं, ऋजुसूत्रस्य विशुद्धतया द्विविधद्रव्यशङ्खाभ्युपगन्तृत्वमुक्तम् । अतो 'विशुद्धतरतयैकविधमेव द्रव्यशङ्खमभ्युपगच्छन् नयः कः ?' इति जिज्ञासायां ऋजुसूत्रापेक्षया शब्दादीनामेव विशुद्धतरत्वात्तेषां तदभ्युपगन्तृत्वमत्रोक्तमिति मन्तव्यम् । Page #323 -------------------------------------------------------------------------- ________________ ३०६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (५) असंतयं असंतएण उवमिजति-जहा खरविसाणं तहा ससविसाणं । सेतं ओवमसंखा। (सू० ४९३) से किं तं परिमाणसंखा ? परिमाणसंखा दुविहा पण्णत्ता ? तं०कालियसुयपरिमाणसंखा दिट्ठिवायसुयपरिमाणसंखा य । (सू० ४९४) से किं तं कालियसुयपरिमाणसंखा ? कालियसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पज्जवसंखा अक्खरसंखा संघायसंखा पदसंखा पादसंखा वृक्षात् पतद् भ्रश्यत् पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव नि:क्षीरं वृक्षवियोगादित्वलक्षणव्यसनप्राप्तं विनाशकालप्राप्तमिति । तामेव गाथामाह- जह तुब्भे इत्यादि । वृक्षात् पतता केनचिज्जीर्णपत्रेण किशलयानाश्रित्योक्तम्, किं तत् ? उच्यते, शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयानि ! अवहितानि भूत्वा, वृक्षात् तद् मल्लक्षणं पाण्डुपत्रं युष्माकम् अप्पाहेइ त्ति कथयति, किं तदित्याह- जह तुब्भे तह अम्हे त्ति यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्धिलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहार:, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्वबुद्धिः परासमृद्धौ तु हीलामतिर्विधेया, अनित्यत्वात् सकलसमृद्धिसम्बन्धानामिति भावः । ननु अलौकिकमिदं यत् पत्राणि परस्परं जल्पन्ति, सत्यमित्याह- नवि अस्थि गाहा सुगमा । नवरं वृक्षपत्रसमृद्ध्यसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः । तदेवं जह तुब्भे तह अम्हे इत्यत्र किशलयपत्रावस्थया पाण्डुपत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावित्वात् सती पाण्डुपत्राणां तूपमेयभूता साऽवस्था भूतपूर्वत्वादसती, तुब्भे वि य होहिहा इत्यादौ तु पाण्डुपत्रावस्थया किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगित्वात् सती, किशलयदलानां तूपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत् सता उपमीयत इति तृतीयभङ्गविषयता संगच्छते । सुधिया तु यदि घटते तदाऽन्यथापि सा वाच्येति । चतुर्थभङ्गे असंतयं असंतएणेत्यादि, यथा खरविषाणमभावरूपं प्रतीतं तथा शशविषाणमप्यभावरूपं निश्चेतव्यम्, यथा वा शशविषाणमभावरूपं निश्चितमित्थमितरदपि ज्ञातव्यमिति भावः । एवं चोपमानोपमेययोरसत्त्वं स्फुटमेवेति । से किं तं परिमाणसंखा इत्यादि । संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि, तद्रूपा सङ्ख्या परिमाणसङ्ख्या । सा च कालिक-दृष्टिवादविषयत्वेन द्विविधा। तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पजवसंखा इत्यादि, पर्यवादिरूपेण परिमाणविशेषेण कालिकश्रुतं संख्यायत इति Page #324 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०४९५-४९८] ३०७ गाहासंखा सिलोगसंखा वेढसंखा निजुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुयखंधसंखा अंगसंखा । सेतं कालियसुयपरिमाणसंखा । (सू० ४९५) से किं तं दिट्ठिवायसुयपरिमाणसंखा ? दिट्ठिवायसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पज्जवसंखा जाव अणुओगदारसंखा पाहुडसंखा पाहुडियासंखा पाहुडपाहुडियासंखा वत्थुसंखा पुव्वसंखा । सेतं दिट्ठिवायसुयपरिमाणसंखा। सेतं परिमाणसंखा । (सू० ४९६) से किं तं जाणणासंखा? जाणणासंखा जो जं जाणइ सो तं जाणति, तंजहा-सदं सद्दिओ, गणियं गाणिओ, निमित्तं नेमित्तिओ, कालं कालनाणी, वेजो वेजियं । सेतं जाणणासंखा । (सू० ४९७) से किं तं गणणासंखा ? गणणासंखा एक्को गणणं न उवेति, दुप्पभितिसंखा । तंजहा-संखेजए असंखेजए अणंतए । (सू० ४९८) से किं तं संखेजए ? संखेज्जए तिविहे पण्णत्ते । तंजहा-जहण्णए भावः । तत्र पर्यवाः पर्याया धर्मा इति यावत्, तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुन: प्रत्येकमनन्तपर्यायत्वात् । एवमन्यत्रापि समासः कार्यः । नवरं सङ्ख्येयान्यकाराद्यक्षराणि, व्याद्यक्षरसंयोगरूपा: सङ्ख्येया: सङ्घाता:, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाथादिचतुर्थांशरूपा: सङ्ख्येया: पादाः, सङ्ख्येया गाथा:, सङ्ख्येयाश्च श्लोका: प्रतीता: एव, छन्दोविशेषरूपा: सङ्ख्येया वेष्टका: । निक्षेपनियुक्त्युपोद्घातनियुक्ति-सूत्रस्पर्शकनियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशा:, सङ्ख्येयान्यध्ययनानि, सङ्ख्येया: श्रुतस्कन्धा:, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या । एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादय: पूर्वान्तर्गता: श्रुताधिकारविशेषाः । सेत्तमित्यादि निगमनद्वयम् । से किं तं जाणणासंखा इत्यादि, जाणणा ज्ञानम्, संख्यायते निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ? उच्यते, यो देवदत्तादिर्यच्छब्दादिकं जानाति स तज्जानाति, तच्च जानन्नसावभेदोपचाराद् ज्ञानसङ्ख्येत्युपस्कारः । शेष पाठसिद्धम् ।। से किं तं गणणसंखा इत्यादि । एतावन्त एते इति सङ्ख्यानं गणनसङ्ख्या, तत्र एगो गणणं न उवेति एकस्तावद् गणनं सङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्राय: प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, अथवा आदान-समर्पणादिव्यवहारकाले Page #325 -------------------------------------------------------------------------- ________________ ३०८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं उक्कोसए अहण्णमणुक्कोसए । ___(सू० ४९९) से किं तं असंखेजए ? असंखेजए तिविहे पण्णत्ते। तंजहापरित्तासंखेजए जुत्तासंखेजए असंखेजासंखेजए । एकं वस्तु प्रायो न कश्चिद् गणयत्यतोऽ१२६संव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद् द्विप्रभृतिरेव गणनसङ्ख्या । सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा- सङ्खयेकमसङ्खयेयकमनन्तकम् । तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्येयकं १२६. असंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरतीति । यद्वैकत्वस्यासङ्ख्यात्वेऽयमपि द्वित्वादिसङ्ख्याविलक्षणत्वलक्षणो हेतु यः । द्वित्वादयो ये सङ्ख्यापरिणामा लोकप्रसिद्धास्तेभ्य एकत्वपरिणामस्यानेकधा वैलक्षण्यं यतो वर्ततेऽतो नैकत्वस्य सङ्ख्यापरिणामत्वमिति । तच्चानेकधा वैलक्ष्ण्यमेवं प्रकारं ज्ञेयं• घटगतद्वित्वादयः सङ्ख्या अन्यघटादिरूपं पदार्थान्तरमपेक्षते, न त्वेकत्वपरिणामः । द्वित्वादयः सङ्ख्या अपेक्षाबुद्धिजन्या भवन्ति, अपेक्षाबुद्धिनाशे च नश्यन्ति, एकत्वपरिणामस्तु न तथा, स्वाश्रयभूतघटादेर्या कारणसामग्री तयैव जन्यत्वात्, घटकालं यावदवस्थाय घटनाश एव नश्यमानत्वाच्च । द्वित्वादयः सङ्ख्यापरिणामा यदपेक्षाबुद्धिजन्यास्तत्पुरुषप्रत्यक्षविषया एव भवन्ति, न सर्वेषां प्रत्यक्षविषयाः, एकत्वपरिणामस्तु सर्वेषां प्रत्यक्षविषयः । • 'इमौ द्वौ' इति यदैकस्य द्वित्वप्रत्यक्षं भवति, तदैवान्यस्य 'न द्वौ, अपि तु त्रय इमे' इत्यादिरूपेण द्वित्वाभावप्रत्यक्षमपि सम्भवति, न तथैकत्वस्य सम्भवः, एकत्वस्य सर्वदा भावात्, द्वित्वाद्यर्थमपि 'अयमेकः' 'अयमेकः' इत्यपेक्षाबुद्धेरपेक्षणाच्च ।। एवञ्च द्वित्वादिसङ्ख्यापरिणामाद् एकत्वपरिणामस्य यतोऽनेकविधं वैलक्षण्यमतो नैकत्वस्य सङ्ख्यात्वमिति । ननु पूर्वं ‘से किं तं गणिमे ? गणिमे जण्णं गणिज्जति। तं जहा- एक्को दसणं सतं...' इत्यादिसूत्रे (सू.क्र.३२६) 'गणिमं सङ्ख्याप्रमाणमेकादि' इति हारिभद्रीयवृत्तौ ‘गण्यते सङ्ख्यायते वस्त्वनेनेति गणिममेकादि' इति हेमचन्द्रसूरिरचितवृत्ती चैकत्वस्य सङ्ख्यात्वमुक्तमेवेति चेत् ? सत्यं, विवक्षितस्य राशेर्यथा द्वित्रादिभि_नाधिक्यं सम्भवति तथैवैकेनापि सम्भवति, द्वित्रादीनां यथा २, ३ इत्याद्यङ्कस्थापना क्रियते तथैवैकस्यापि १ इत्यङ्कस्थापना क्रियत एव, दशगुणिता द्वित्रादयो यथा विंशतिस्त्रिंशदित्यादि रूपेण दशगुणाः संजायन्ते तथैव दशगुणित एककोऽपि दशरूपेण दशगुणः संजायत एव, तस्मादेकस्य द्वित्रादिभ्यः सत्यपि पूर्वोक्ते वैलक्षण्येऽनेकधा सादृश्यमपि सम्भवत्येव । अतस्तत्सूत्र एकस्यापि सङ्ख्याप्रमाणत्वमुक्तमित्यस्माकं प्रतिभाति । Page #326 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०५००-५०८] ३०९ ( सू० ५०० ) से किं तं परित्तासंखेज्जए ? परित्तासंखेज्जए तिविहे पण्णत्ते । तं०जहणए उक्कोसए अजहण्णमणुक्कोस । ( सू० ५०१ ) से किं तं जुत्तासंखेज्जए ? जुत्तासंखेज्जए तिविहे पण्णत्ते । तं० - जहण्णए उक्कोसए अजहण्णमणुक्कोस । ( सू० ५०२ ) से किं तं असंखेज्जासंखेज्जए ? असंखेज्जासंखेज्जए तिविहे पण्णत्ते । तंजहा-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । ( सू० ५०३) से किं तं अनंतए ? अनंतए तिविहे पण्णत्ते । तंजहा - परित्ताणंतए जुत्ताणंत अनंतात । ( सू० ५०४ ) से किं तं परित्ताणंतए ? परित्ताणंतए तिविहे पण्णत्ते । तं० - जहण्णए उक्कोसए अजहण्णमणुक्कोस । ( सू० ५०५ ) से किं तं जुत्ताणंतए ? जुत्ताणंतए तिविहे पण्णत्ते । तंजहा- जहण्णए उक्कोसए अजहण्णमणुक्कोस । ( सू० ५०६ ) से किं तं अणंताणंतए ? अणंताणंतए दुविहे पण्णत्ते । तंजहा जहण्णए य अजहण्णमणुक्कोस य । ( सू० ५०७ ) जहण्णयं संखेज्जयं केत्तियं होइ ? दो रुवाई, तेण परं अजहण्णमणुकोसयाई ठाणाई जाव उक्कोसयं संखेज्जयं ण पावइ । ( सू० ५०८) उक्कोसयं संखेज्जयं केत्तियं होइ ? उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि - से जहानामए पल्ले सिया, एगं जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि युक्तासङ्ख्येयकम् असङ्ख्येयासङ्घयेयकम्, पुनरेकैकं जघन्यादिभेदात् त्रिविधमिति सर्वमपि नवविधम् । अनन्तकमपि परीतानन्तकं युक्तानन्तकं अनन्तानन्तकम् । अत्राद्यभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रिविधम्, अनन्तानन्तकं तु जघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तानन्तकस्य क्वाप्यसम्भवादिति सर्वमपीदमष्टविधम् । तदेवं संक्षेपतः सङ्ख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः तत्स्वरूपनिरूपणार्थमाहजहणणयं संखेज्जयं केत्तियमित्यादि, तत्र जघन्यं सङ्ख्येयकं द्वौ ततः परं त्रि- चतुरादिकं सर्वमजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति । तत्र कियत् पुनरुत्कृष्टं सङ्ख्येयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादित्थमाह- उत्कृष्टस्य सङ्ख्येयकस्य प्ररूपणां करिष्यामि । तदेवाह - तद्यथानाम कश्चित् पल्य: स्यात्, कियन्मान इत्याह- आयाम - विष्कम्भाभ्यां योजनशतसहस्रम्, परिधिना तु Page #327 -------------------------------------------------------------------------- ________________ ३१० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जोयणसयसहस्साइं सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवतिए खेत्ते पल्ले आइटे। से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसऽहिया । कोसतिय अट्टवीसं धणुसय तेरंगुलऽद्धहियं ।।१।। (बृहत्क्षेत्र० ६) इति गाथाप्रतिपादितमानः, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाढो द्रष्टव्य:, रत्नप्रभापृथिव्या रत्नकाण्डं भित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः । स चैवंप्रमाण: पल्यो जम्बूद्वीपवेदिकान्त उपरि सप्रशिख: सिद्धार्थानां सर्षपानां भ्रियते । ततो णं तेहिमित्यादि, इदमुक्तं भवति- ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह- एस णं एवइए खेत्ते पल्ले त्ति, यावन्तो द्वीप-समुद्रास्तै: सर्षपै; अप्फुण्णत्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्य: सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, तत: किमित्याह- पढमा सलाग त्ति, तत: शलाकापल्ये प्रथमशलाका एक: सर्षप: प्रक्षिप्यत इत्यर्थः, एवइयाणं सलागाणं असंलप्पा लोगा भरिय त्ति लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणशलाकापल्यरूपा गृह्यन्ते, ते चैक-दशशत-सहस्र-लक्ष-कोटिप्रकारेण संलपितुमशक्या असंलप्या:, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता: पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद् भवतीति भावः । ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं भृतमुच्यते ? सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्त दिदर्शयिषुराहयथा को दृष्टान्त: ? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथानाम कश्चिन्मञ्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यते, यच्च तदुत्तरकालं तत्र मञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अतिबहवः सप्रशिखा: पल्या असत्कल्पनया Page #328 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५०८] एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे, एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुन्ना एस णं एवतिए खेत्ते पल्ले पढमा सलागा, एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहा वि उक्कोसयं संखेजयं ण पावइ, जहा को दिद्रुतो? से जहाणामए मंचे सिया आमलगाणं भरिते, तत्थ णं एगे आमलए भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थः । भावार्थस्त्वयम्पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रय: पल्या बुद्ध्या कल्प्यन्ते, तत्र प्रथम: शलाकापल्यो द्वितीय: प्रतिशलाकापल्यस्तृतीयो महाशलाकापल्य:, तत्रानवस्थितपल्यो भृत: शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम्, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपा: समुत्क्षिप्यैको द्वीपे एक: समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितै: शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तरोऽनवस्थितपल्य: सर्षपभृतः परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्, पुन: सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपा: प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तमोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, पुन: सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, एवं यथोत्तरं वृद्धस्यानवस्थितपल्यस्य भरण-रिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भृतोऽपि नोत्क्षिप्यते, किन्तु शलाकापल्य एवोद्धियते, अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात् परत एकैकसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात् परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरण-रेचनक्रमेण शलाकापल्य: शलाकानां भ्रियते, ततोऽनवस्थित-शलाकापल्ययो तयोः शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: समुद्धृत्य शलाकापल्यनिष्ठास्थानात् परतस्तेनैव न्यायेन प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्य: शलाकानां भरणीय:, शलाकापल्यस्य तूत्क्षेपप्रक्षेपविधिना प्रतिशलाकापल्य: प्रतिशलाकानां पूरणीयः, यदा च प्रतिशलाकापल्य: शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीप-समुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका प्रक्षिप्यते, तत: शलाकापल्य Page #329 -------------------------------------------------------------------------- ________________ ३१२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पक्खित्ते से माते, अण्णे वि पक्खित्ते से वि माते, अन्ने वि पक्खित्ते से वि माते, एवं पक्खिप्पमाणे पक्खिप्पमाण होही से आमलए जम्मि पक्खित्ते से मंचए भरिजिहिइ जे वि तत्थ आमलए न माहिति । (सू० ५०९) एवामेव उक्कोसए संखेजए रूवं पक्खित्तं जहण्णयं परित्तासंखेजयं भवति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाइं जाव उक्कोसयं परित्तासंखेजयं ण पावइ। (सू० ५१०) उक्कोसयं परित्तासंखेजयं केत्तियं होति ? जहण्णयं परित्तासंखेजयं जहण्णयपरित्तासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्तासंखेजयं होति, अहवा जहन्नयं जुत्तासंखेज्जयं रूवणं उक्कोसयं परित्तासंखेजयं होइ । उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्यो भरणीय:, शलाकापल्योद्धरण-विकिरणविधिना प्रतिशलाकापल्य: पूरणीय:, प्रतिशलाका-पल्योत्पाटन-प्रक्षेपणाभ्यां महाशलाकापल्य: पूरयितव्यः, यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्ख्येयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्य-शलाकापल्य-प्रतिशलाकापल्योत्क्षेप-प्रक्षेपक्रमेण द्वीप-समुद्रा व्याप्तास्तावत्सङ्ख्यमुत्कृष्ट सङ्खयेयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भाव: । एतावद्भिश्च सर्षपैरसंलप्या लोका: शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुत्कृष्टं सङ्ख्येयकम्, जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत् सर्वमजघन्योत्कृष्टम् । आगमे च यत्र क्वचिदविशेषितं सङ्ख्येयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । इदं चोत्कृष्टं सङ्ख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सङ्ख्येयकम् । अथ नवविधमसङ्खयेयकं प्रागुद्दिष्टं निरूपयितुमाह- एवामेव उक्कोसए संखेजए रूवमित्यादि। असङ्ख्येयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिप्ररूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं सङ्ख्येयकमानीतम्, तस्मिंश्च यदेकं रूपं पूर्वमधिकं दर्शितं तद् यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासङ्ख्येयकं भवति । तेण परमित्यादि सूत्रम्, ततः परं परीतासङ्ख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति यावदुत्कृष्टं परीतासङ्ख्येयकं न प्राप्नोति । शिष्य: पृच्छति- कियत् पुनरुत्कृष्टं परीतासङ्ख्येयकं भवति ? अत्रोत्तरम्- जहण्णयं परित्तासंखेज्जयं इत्यादि, जघन्यं परीतासङ्ख्येयकं यावत्प्रमाणं भवतीति शेष:, तावत्प्रमाणानां जघन्यपरीतासङ्ख्येयकमात्राणां जघन्यपरीतासङ्ख्येयकगतरूपसङ्ख्यानामित्यर्थः, राशीनामन्योन्यमभ्यास: परस्परं गुणनास्वरूप एकेन Page #330 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५११,५१२] ३१३ (सू० ५११) जहन्नयं जुत्तासंखेजयं केत्तियं होति ? जहन्नयं परित्तासंखेजयं जहण्णयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं हवति, अहवा उक्कोसए परित्तासंखेजए रूवं पक्खित्तं जहण्णयं जुत्तासंखेजयं होति, आवलिया वि तत्तिया चेव, तेणं परं अजहण्णमणुक्कोसयाई ठाणाइं जाव उक्कोसयं जुत्तासंखेजयं ण पावइ । (सू० ५१२) उक्कोसयं जुत्तासंखेजयं केत्तियं होति ? जहण्णएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेजयं होइ, अहवा जहन्नयं असंखेज्जासंखेजयं रूवूणं उक्कोसयं जुत्तासंखेजयं होति । रूपेणोन उत्कृष्टं परीतासङ्ख्येयकं भवति । इदमत्र हृदयम्- प्रत्येकं जघन्यपरीतासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्त: पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्ट परीतासङ्ख्येयकं मन्तव्यम् । अत्र सुखप्रतिपत्त्यर्थमुदाहरणं दर्श्यतेजघन्यपरीतासङ्ख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, तत: पञ्चैव वारा: पञ्च पञ्च व्यवस्थाप्यन्ते, तद्यथा ५५५५५, अत्र पञ्चभिः पञ्च गुणिता: पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मान: सद्भावतस्त्वसङ्ख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं संपद्यते, यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह- अहवा जहण्णयं जुत्तासंखेजयमित्यादि । अनन्तरोक्ताद्धि युक्तासंख्येयकादेकस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पद्यते इति प्रतीयते एवेति । उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्ख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासङ्ख्येयकस्य निरूपणार्थमाह- जहण्णयं जुत्तासंखेज्जयं कित्तियमित्यादि । अत्रोत्तरं जहण्णयं परित्तासंखेज्जयमित्यादि, व्याख्या पूर्ववदेव, नवरम् अन्नमन्नब्भासो पडिपुन्नो त्ति अन्योन्याभ्यस्त: परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः (ग्र० ५०००)। अहवा उक्कोसए परित्तासंखेज्जए इत्यादि भावितार्थमेव । आवलिया वि तत्तिया चेव त्ति, यावन्ति जघन्ययुक्तासङ्ख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्त: समया भवन्तीत्यर्थः, तत्र सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्ख्येयकतुल्यसमयराशिमानाऽसौ द्रष्टव्या। तेण परमित्यादि, ततो जघन्ययुक्तासङ्ख्येयकात् परत: एकोत्तरया वृद्ध्या असङ्खयेयान्यजघन्योत्कृष्टानि युक्तासङ्ख्येयकस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्ख्येयकं न प्राप्नोति । अत्र शिष्य: पृच्छतिउक्कोसयं जुत्तासंखेज्जयमित्यादि । अत्र प्रतिवचनम्- जहण्णएणमित्यादि, जघन्येन Page #331 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५१३) जहण्णयं असंखेज्जासंखेज्जयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णभासो पडिपुण्णो जहण्णयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होति, तेण युक्तासङ्ख्येयकेनावलिकासमयराशिर्गुण्यते, किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स ए रूपेणोनः उत्कृष्टं युक्तासङ्ख्येयकं भवति । यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्ये - यासङ्ख्येयकं जायते, अत एवाह- अहवा जहण्णयं असंखेज्जासंखेज्जयं रूवूणमित्यादि गतार्थम् । ३१४ उक्तं युक्तासङ्ख्येयकं त्रिविधम्, इदानीमसङ्ख्येयासङ्ख्येयकं त्रिविधं बिभणिषुराह - जहण्णयं असंखेज्जासंखेज्जयं कित्तियमित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णो त्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः । अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसङ्ख्येयासङ्ख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति यावदुत्कृष्टमसङ्ख्येयासङ्ख्येयकं न प्राप्नोति । अत्र विनेयः प्रश्नयति- उक्कोसयं असंखेज्जासंखेज्जयं केत्तियमित्यादि । अत्रोत्तरम् - जहण्णयं असंखेज्जासंखेज्जयमित्यादि, जघन्यमसङ्ख्येयासंख्येयकं यावद् भवतीति शेषः, तावत्प्रमाण जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येकरूपसङ्ख्यानामित्यर्थः, राशीना - मन्योन्यमभ्यास: परस्परं गुणनास्वरूपः एकेन रूपेणोन: उत्कृष्टमसङ्ख्येयासङ्ख्येयकं भवति । अयमत्र भावार्थः- प्रत्येकं जघन्यासङ्ख्येयासङ्ख्येयकरूपा जघन्यासङ्ख्येयासङ्ख्यक एव रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीनः उत्कृष्टमसङ्ख्येयासङ्ख्येयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति - अहवा जहणणयं परित्ताणंतयमित्यादि गतार्थमेव इत्येकीयाचार्यमतं तावद्दर्शितम् । अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासमयेयकमन्यथा प्ररूपयन्ति, तथाहि - जघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारात्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्घयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा लोगागासपएसा १ धम्मा - ऽधम्मेगजीवदेसा य २-३-४ । दव्वट्टिया निओया ५ पत्तेया चेव बोद्धव्वा ६ || १ || Page #332 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०५१४,५१५] ३१५ परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं ण पावति । (सू० ५१४) उक्कोस असंखेज्जासंखेज्जयं केत्तियं होति ? जहण्णयं असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहणणयं परित्ताणंतयं रूवूणं उक्कोसयं असंखेज्जासंखेजयं होति । ( सू० ५१५) जहण्णयं परित्ताणंतयं केत्तियं होति ? जहण्णयं असंखेज्जासंखेज्जयं ठिबंधझवसाणा ७ अणुभागा ८ जोगछेयपलिभागा ९ । दोण्ह य समाण समया १० असंखपक्खेवया दस उ || २ || ( ) इदमुक्तं भवति- लोकाकाशस्य यावन्तः प्रदेशाः १ तथा धर्मास्तिकायस्य २ अधर्मास्तिकायस्य ३ एकस्य च जीवस्य ४ यावन्तः प्रदेशाः । दव्वट्ठिया निओय त्ति सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः ५, पत्तेया चेव त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिण: सर्वेऽपि जीवा इत्यर्थः ६, ते चासङ्ख्या भवन्ति । ठिइबंधज्झवसाण त्ति स्थितिबन्धस्य कारणभूतानि अध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यप्यसङ्ख्येयान्येव, तथाहि - ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटिप्रमाण, मध्यमपदे त्वेक-द्वि-त्रि- चतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसयेयभेदः, एषां च स्थितिबन्धानां निर्वर्तकानि अध्यवसायस्था प्रत्येकं भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्थानान लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति ७ । अणुभाग त्ति अनुभागाः, ज्ञानावरणादिकर्मणां जघन्य-मध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति अतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् ८ । जोगच्छेयपलिभाग त्ति योगो मनोवाक्कायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिताः जघन्यादिभेदभिन्ना असमयेया मन्तव्याः ९ । हयमाण समय त्ति द्वयोश्च समयो: उत्सर्पिण्यवसर्पिणीकालस्वरूपयो: समयाः असङ्ख्येयस्वरूपा: १० । एवमे प्रत्येकमसङ्ख्येयस्वरूपाः दश प्रक्षेपाः पूर्वोक्ते वारात्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशि: पिण्डित: संपद्यते स पुनरपि पूर्ववद्वारात्रयं वर्ण्यते, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्घयेयासङ्ख्येयकं भवति । उक्तं नवविधमप्यसङ्घयेयकम् । साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह - जहन्नयं परित्ताणंतयमित्यादि भावितार्थमेव, Page #333 -------------------------------------------------------------------------- ________________ ३१६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जहण्णयअसंखेज्जासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं परित्ताणंतयं होति, अहवा उक्कोसए असंखेज्जासंखेजए रूवं पक्खित्तं जहण्णयं परित्ताणतयं होइ। तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं परित्ताणतयं ण पावइ । (सू० ५१६) उक्कोसयं परित्ताणंतयं केत्तियं होइ ? जहण्णयं परित्ताणंतयं जहण्णयपरित्ताणंतयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्ताणतयं होइ, अहवा जहण्णयं जुत्ताणतयं रूवूणं उक्कोसयं परित्ताणतयं होइ । (सू० ५१७) जहण्णयं जुत्ताणतयं केत्तियं होति ? जहण्णयं परित्ताणतयं जहप्रणयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्ताणंतयं होइ, अहवा उक्कोसए परित्ताणतए रूवं पक्खित्तं जहन्नयं जुत्ताणतयं होइ, अभवसिद्धिया वि तेत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्ताणतयं ण पावति। नवरं परिपूर्ण इति रूपं न पात्यते इत्यर्थः । तेण परमित्यादि गतार्थमेव। उक्कोसयं परित्ताणतयमित्यादि, जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति । अहवा जहण्णयं जुत्ताणतयमित्यादि स्पष्टम् । जहण्णयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव । अहवा उक्कोसए परित्ताणंतए इत्यादि सुबोधम् । जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवन्ति अभवसिद्धिका अपि जीवा: केवलिना तावन्त एव दृष्टाः, तेण परमित्यादि कण्ठ्यम्। उक्कोसयं जुत्ताणतयं केत्तियमित्यादि, जघन्येन युक्तानन्तकेनाभव्यराशिर्गुणितो रूपोन: सन्नुत्कृष्ट युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह- अहवा जहण्णयं अणंताणतयमित्यादि गतार्थम् । जहण्णयं अणंताणतयं केत्तियमित्यादि भावितार्थमेव । अहवा उक्कोसए जुत्ताणंतए इत्यादि प्रतीतमेव । तेण परं अजहण्णुक्कोसयाई इत्यादि, जघन्यादनन्तानन्तकात् परतः सर्वाण्यपि अजधन्योत्कृष्टान्येवानन्तानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्राय: । अन्ये त्वाचार्याः प्रतिपादयन्ति- जघन्यमनन्तानन्तकं वारात्रयं पूर्ववद् वर्ग्यते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते । तद्यथा -- सिद्धा १ निओयजीवा २ वणस्सई ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६ छप्पेतेऽणंतपक्खेवा ॥१॥ ( ) अयमर्थ:- सर्वे सिद्धा: १, सर्वे सूक्ष्मबादरनिगोदजीवा: २, प्रत्येकानन्ता: सर्वे वनस्पतिजन्तवः ३, सर्वोऽप्यतीतानागतवर्तमानकालसमयराशि: ४, सर्वपुद्गलद्रव्यसमूह: ५, सर्वोऽलोकाकाशप्रदेशराशि: Page #334 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५१८-५२०] ३१७ (सू० ५१८) उक्कोसयं जुत्ताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणतयं होइ, अहवा जहण्णयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ। (सू० ५१९) जहण्णयं अणंताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणतएणं अभवसिद्धिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहणणयं अणंताणतयं होइ, अहवा उक्कोसए जुत्ताणंतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाई। सेतं गणणासंखा ।। (सू० ५२०) से किं तं भावसंखा ? भावसंखा- जे इमे जीवा संखगइनाम-गोत्ताई कम्माई वेदेति । सेतं भावसंखा। सेतं संखप्पमाणे। सेतं भावप्पमाणे। सेतं पमाणे। पमाणे त्ति पयं सम्मत्तं ॥ ६, एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारात्रयं पूर्ववद्वयेते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञान-केवलदर्शनपर्याया: प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात्, अत: परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादिति भावः । सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्ट न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति । सूत्रे च यत्र क्वचित् अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । तदेवं प्ररूपितमनन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या । अथ भावसङ्ख्यानिरूपणार्थमाह- से किं तं भावसंखा इत्यादि, इह संख्या(खा)शब्देन प्रागुक्तयुक्त्या शङ्खा: परिगृह्यन्ते, अत एव नाम-स्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणं गुणप्रमाणात् पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वात् गुणप्रमाण एवान्तर्भावः स्यादिति । तत्र भावशङ्खस्वरूपं दर्शयितुमाह- जे इमे इत्यादि, ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवा: आयु:प्राणादिमन्त: संखगतिनामगोयाई ति शङ्खगतिनामशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एते भावशङ्खा: प्रोच्यन्ते । तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति- सेत्तं संखप्पमाणे त्ति । तत्समाप्तौ चावसितं भावप्रमाणमित्याह- सेत्तं भावप्पमाणे त्ति । एतदवसाने च नि:शेषितं प्रमाणद्वारमित्युपसंहरति- सेत्तं पमाणे त्ति । प्रमाणद्वारं समाप्तम् । Page #335 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५२१) से किं तं वत्तव्वया ? वत्तव्वया तिविहा पण्णत्ता । तं०- ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया । ( सू० ५२२ ) से किं तं ससमयवत्तव्वया ? ससमयवत्तव्वया - जत्थ णं ससमए आघविज्जति पणविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेतं ३१८ ससमयवत्तव्वया । (सू०५२३) से किं तं परसमयवत्तव्वया ? परसमयवत्तव्वया जत्थ णं परसमए आघविज्जति जाव उवदंसिज्जति । सेतं परसमयवत्तव्वया । अथ क्रमप्राप्तं वक्तव्यताद्वारं निरूपयितुमाह से किं तं वत्तव्वया इत्यादि । तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा स्वसमयादिभेदात् । तत्र यस्यां णमिति वाक्यालङ्कारे, स्वसमयः स्वसिद्धान्तः आख्यायते यथा पञ्च अस्तिकायाः, तद्यथाधर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा- स एवासङ्ख्यातप्रदेशात्मकादिस्वरूप:, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा- तथैवैषोऽपि जीव- पुद्गलानां गत्युपष्टम्भक इत्यादि, तदेवं दिङ्मात्रप्रदर्शनेन व्याख्यातमिदम्, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु यस्यां परसमय आख्यायत इत्यादि । यथा सूत्रकृदङ्गप्रथमाध्ययने - संति पंच महभूया, इहमेगेसि आहिया । पुढवी आऊ तेऊ वाऊ आगासपंचमा || १ || एते पंच महभूया, तेभो एगो त्ति आहिया । अह तेसि विणासेणं, विणासो होइ देहिणो ||२|| ( १|१|७ - ८ ) इत्यादि । अस्य च श्लोकद्वयस्य सूत्रकृद्वृत्तिकारलिखित एवायं भावार्थ:- एकेषां नास्तिकानां स्वकीयाप् आहितानि आख्यातानि इह लोके सन्ति विद्यन्ते पञ्च समस्तलोकव्यापकत्वान्महाभूतानि, तान्येवाहपृथिवीत्यादि । पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह- एते पंचेत्यादि, एतानि अनन्तरोक्त पृथिव्यादीनि यानि पञ्च महाभूतानि तेभो त्ति तेभ्य: कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्तः परलोकयायीत्येवं ते आहिय त्ति आख्यातवन्तः । अथ तेषां भूतानां विनाशेन देहिनः जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेति । एवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्तव्यतेयमुच्यते, आख्यायते इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्ध्या कार्य: । सेयं परसमयवक्तव्यता । स्वसमय-परसमयवक्तव्यता पुनर्यत्र Page #336 -------------------------------------------------------------------------- ________________ ३१९ श्रीअनुयोगद्वारसूत्रम् [सू०५२४,५२५] (सू० ५२४) से किं तं ससमयपरसमयवत्तव्वया ? ससमयपरसमयवत्तव्वया- जत्थ णं ससमए परसमए आघविजइ जाव उवदंसिज्जइ । सेतं ससमयपरसमयवत्तव्वया । (सू० ५२५) (१) इयाणिं को णओ कं वत्तव्वयमिच्छति ? तत्थ णेगम-ववहारा तिविहं वत्तव्वयं इच्छंति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं । (२) उज्जुसुओ दुविहं वत्तव्वयं इच्छति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविठ्ठा, तम्हा दुविहा वत्तव्वया, णत्थि तिविहा वत्तव्वया । (३) तिण्णि सद्दणया (एग) ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया । कम्हा ? जम्हा परसमए अणटे अहेऊ असब्भावे अकिरिया उम्मग्गे अणुवएसे स्वसमय: परसमयश्च आख्यायते, यथा आगारमावसंता वा, आरण्णा वा वि पव्वया । इदं दरिसणमावन्ना, सव्वदुक्खा विमुच्चती ॥१।। (सूत्रकृ० १।१।१९) त्यादि। आगारं गृहं तत्राऽऽवसन्तो गृहस्था इत्यर्थः, आरण्या वा तापसादय:, पव्वय त्ति प्रव्रजिताश्च शाक्यादयः, इदम् अस्मदीयं दर्शनं मतम् आपन्ना: आश्रिता: सर्वदु:खेभ्यो विमुच्यन्त इति । एवं यदा साङ्ख्यादय: प्रतिपादयन्ति तदेयं परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमय-परसमयवक्तव्यतोच्यते । ___अथ वक्तव्यतामेव नयैर्विचारयन्नाह- इयाणिं को नओ इत्यादि, तत्र नैगम-व्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद् व्यवहारस्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः । ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह - तत्थ णं जा सा इत्यादि, तृतीये वक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता, न त्रिविधेति । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त इति । त्रय: शब्दनया: शब्दसमभिरूद्वैवम्भूताः शुद्धतमत्वादेकां स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते । कस्मात् ? इत्याह- यस्मात् परसमयोऽनर्थः इत्यादि, इत्थं चेह योजना कार्या-नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादहेतुत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवाऽऽत्मेत्यनर्थप्रतिपादकत्वात्, आत्मनास्तित्वस्य चानर्थत्वमात्माऽभावे तत्प्रतिषेधानुपपत्तेः । उक्तं च Page #337 -------------------------------------------------------------------------- ________________ ३२० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं मिच्छादसणमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णत्थि ससमयपरसमयवत्तव्वया । सेतं वत्तव्वया । जो चिंतई सरीरे नत्थि अहं स इव(इध) होइ जीवो त्ति । न हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥१।। ( ) इत्याद्यन्यदप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धे:, हेत्वाभासश्चायम्, ज्ञानादेस्तद्गुणस्योपलब्धेः । उक्तं च नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईणं ।।१।। ( इत्यादि प्रागेवोक्तमिति । असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वात्, एकान्तक्षणभङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्, तथाहि धम्मा-ऽधम्मुवएसो कया-ऽकयं परभवाऽऽय-गमणं च । सव्वा वि ह लोयठिई न घडइ एगंतखणियम्मी ॥१॥ __) त्यादि । अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवात् । उक्तं च सव्वं सुन्नं ति जयं पडिवन्नं जेहि ते वि वत्तव्वा । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ॥१॥ ( ) त्यादि । उन्मार्गत्वं परस्परविरोध(धात्) स्थाण्वाद्याकुलत्वात् । तथाहिन हिंस्यात् सर्वभूतानि, त्रसानि स्थावराणि च । आत्मवत् सर्वभूतानि, य: पश्यति स धार्मिकः ॥१।। ( इत्याद्यभिधाय पुनरपि - षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभि: ।।१।। ( ) इत्यादि प्रतिपादयन्तीति । अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, तदुक्तम्सर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्तते ? । विषयादौ विपाको मे न भावीति विनिश्चयात् ॥१।। ( ) इत्यादि । Page #338 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५२६,५२९] ३२१ (सू० ५२६) से किं तं अत्थाहिगारे ? अत्थाहिगारे- जो जस्स अज्झयणस्स अत्थाहिगारो । तंजहा सावज्जजोगविरती १ उक्तित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१२३।। सेतं अत्थाहिगारे। (सू० ५२७) से किं तं समोयारे ? समोयारे छव्विहे पण्णत्ते । तं०-णामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे । (सू० ५२८) से किं तं णामसमोयारे ? नाम-ठवणाओ पुव्ववणियाओ । (सू० ५२९) से किं तं दव्वसमोयारे ? दव्वसमोयारे दुविहे पण्णत्ते। तं०-आगमतो य णोआगमतो य । जाव सेत्तं भवियसरीरदव्वसमोयारे। यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा नास्ति परसमयवक्तव्यतेति वर्तते । एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति । तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपेक्षतया दुर्णयत्वादसत्त्वेनैते नया: प्रतिपद्यन्त इति भाव: । स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव । प्रोक्तं च महामतिना नयास्तव स्यात्पदलाञ्छना इमे रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥१।। (बृहत्स्वयम्भू०) इत्यादि, सेयं वक्तव्यतेति निगमनम् । वक्तव्यता समाप्ता ।। साम्प्रतमर्थाधिकारावसर:- तत्र यो यस्य सामायिकाद्यध्ययनस्याऽऽत्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च सावज्जजोगविरतीत्यादिगाथावसरे प्रागेव कृतमिति न पुन: प्रतन्यत . इति । वक्तव्यता-ऽर्थाधिकारयोस्त्वयं भेद:- अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति। __ अथ समवतारं निरूपयितुमाह- से किं तं समोयारे इत्यादि। समवतरणं- वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनं समवतार: । स च नामादिभेदात् षोढा । तत्र नाम-स्थापने सुचर्चिते । एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्य:, यावद् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्त:, तद्यथा- आत्मसमवतार इत्यादि । तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे स्वकीयस्वरूपे समवतरन्ति वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति, निश्चयत: सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भाव:, तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कट-कुड्य-देहली-पट्टादिसमुदायात्मके Page #339 -------------------------------------------------------------------------- ________________ ३२२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५३०) (१) से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे ? जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे तिविहे पण्णत्ते । तंजहा-आयसमोयारे परसमोयारे तदुभयसमोयारे । सव्वदव्वा वि य णं आयसमोयारेणं आयभावे समोयरंति, परसमोयारेणं जहा कुंडे बदराणि, तदुभयसमोयारेणं जहा घरे थंभो आयभावे य, जहा घडे गीवा आयभावे य । (२) अहवा जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते । तंजहाआयसमोयारे य तदुभयसमोयारे य । चउसट्ठिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं बत्तीसियाए समोयरति आयभावे य । बत्तीसिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सोलसियाए समोयरति आयभावे य । सोलसिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अट्ठभाइयाए समोयरति आयभावे य । अट्ठभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं चउभाइयाए समोयरति आयभावे य। चउभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अद्धमाणीए समोयरइ आयभावे य । अद्धमाणी आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं माणीए समोयरति आयभावे य । सेतं जाणयसरीर-भवियसरीरवतिरित्ते गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवं बुध्मोदर-कपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति । ___आह-यद्येवं शुद्धः परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेविद्यमानत्वात्, सत्यम्, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतः, वस्तुवृत्त्या तु द्विविध एव समवतार: । अत एवाह- अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्त:, तद्यथा- आत्मसमवतारस्तदभयसमवतारश्च, शुद्धस्य परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्व चात्मवृत्त्यविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् ।। चउसट्ठिया आयसमोयारेणमित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशिकायाम्, षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम्, अष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायाम्, चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम्, एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समाप्तो द्रव्यसमवतारः । Page #340 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५३१,५३२] ३२३ दव्वसमोयारे । सेतं नोआगमओ दव्वसमोयारे । सेतं दव्वसमोयारे । (सू० ५३१) से किं तं खेत्तसमोयारे ? खेत्तसमोयारे दुविहे पण्णत्ते। तंजहाआयसमोयारे य तदुभयसमोयारे य । भरहे वासे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं जंबुद्दीवे समोयरति आयभावे य । जंबुद्दीवे दीवे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं तिरियलोए समोयरति आयभावे य। तिरियलोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं लोए समोयरति आयभावे य; लोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अलोए समोयरति आयभावे य । सेत्तं खेत्तसमोयारे। (सू० ५३२) से किं तं कालसमोयारे ? कालसमोयारे दुविहे पण्णत्ते। तं०आयसमोयारे य तदुभयसमोयारे य । समए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं आवलियाए समोयरति आयभावे य। एवं आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे णलिणंगे णलिणे अत्थिनिउरंगे अत्थिनिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया सीसपहेलियंगे सीसपहेलिया पलिओवमे। सागरोवमे आयसमोयारेणं अथ क्षेत्रसमवतारं बिभणिषुराह- से किं तं खेत्तसमोयारे इत्यादि, इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तर वृद्धक्षेत्रे समवतारो भावनीयः । एवं कालसमवतारेऽपि समयादे: कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतार: सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव । अथ भावसमवतारं विवक्षुराह- से किं तं भावसमोयारेत्यादि, इहौदयिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृताः, तत्राहङ्कारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायायां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतार:, मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतार:, एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यम्, लोभात्मकत्वाच्च रागस्य लोभो रागे समवतरति, रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वात् षट्सु भावेषु, भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्वात् समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरूपितः । अत्र च प्रस्तुते आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि व्याख्येयत्वेन प्रस्तुत Page #341 -------------------------------------------------------------------------- ________________ ३२४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत आयभावे समोतरति, तदुभयसमोयारेणं ओसप्पिणि-उस्सप्पिणीसु समोयरति आयभावे य, ओसप्पिणि-उस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं पोग्गलपरियट्टे समोयरंति आयभावे य । पोग्गलपरियट्टे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं तीतद्धा-अणागतद्धासु समोयरति आयभावे य; तीतद्धा-अणागतद्धाओ आयसमोयारेणं आयभावे समोतरंति, तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य। सेतं कालसमोयारे । (सू० ५३३) से किं तं भावसमोयारे ? भावसमोयारे दुविहे पण्णत्ते। तंजहाआयसमोयारे य तदुभयसमोयारे य । कोहे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं माणे समोयरति आयभावे य। एवं माणे माया लोभे रागे मोहणिज्जे । अट्ट कम्मपगडीओ आयसमोयारेण आयभावे समोयरंति, तदुभयसमोयारेणं छविहे भावे समोयरंति आयभावे य । एवं जीवे जीवत्थिकाए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सव्वदव्वेसु समोयरति आयभावे य । एत्थं संगहणिगाहात्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु क्व समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितम्, सोपयोगत्वात् स्थानाशून्यार्थं किञ्चिद् वयमेव निरूपयाम:- तत्र सामायिकं चतुर्विंशतिस्तव इत्याद्युत्कीर्तनविषयत्वात् सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति । तथा गणनानुपूर्त्यां च, तथाहि- पूर्वानुपूर्व्या गण्यमानमिदं प्रथमम्, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु व्यादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तम् । नाम्नि च औदयिकादिभावभेदात् षण्णाम प्रागुक्तम्, तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात् क्षायोपशमिकभावनाम्नि समवतरतीति । आह च भाष्यकार: - छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ॥१।। (विशेषावश्यकभा० ९४५) प्रमाणे च द्रव्यादिभेदैः प्राग्निर्णीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति । उक्तं चदव्वाइ चउन्भेयं पमीयए जेण तं पमाणं ति । इणमज्झयणं भावो त्ति भावमाणे समोयरइ ।।१।। (विशेषावश्यकभा० ९४६) भावप्रमाणं च गुण-नय-सङ्ख्याभेदतस्विधा प्रोक्तम्, तत्रास्य गुण-सङ्ख्याप्रमाणयोरेवावतारः । नयप्रमाणं तु यद्यपि- आसज्ज उ सोयारं नए नयविसारओ बूया (आवश्यकनि० ७६१) इत्यादिवचनात् कश्चिन्नयसमवतार उक्त: तथापि साम्प्रतं तथाविधनयविचाराभावाद् वस्तुवृत्त्याऽनवतार एव । यत इदमप्युक्तम्- मूढनइयं सुयं कालियं तु न नया समोयरंति इह (आवश्यकनि० ७६२) मित्यादि । नि । Page #342 -------------------------------------------------------------------------- ________________ ३२५ श्रीअनुयोगद्वारसूत्रम् [सू०५३४-५३५] कोहे माणे माया लोभे रागे य मोहणिजे य । पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥१२४।। सेतं भावसमोयारे । सेतं समोयारे । सेतं उवक्कमे । ॥ उपक्रम इति प्रथमं द्वारमतिक्रान्तम् ।। (सू० ५३४) से किं तं निक्खेवे ? निक्खेवे तिविहे पण्णत्ते । तंजहा-ओहनिप्फण्णे य नामनिप्फण्णे य सुत्तालावगनिप्फण्णे य । (सू० ५३५) से किं तं ओहनिप्फण्णे ? ओहनिप्फण्णे चउव्विहे पण्णत्ते । तंजहाअज्झयणे अज्झीणे आए झवणा ।। महामतिनाऽप्युक्तम्- मूढनयं तु न संपइ नयप्पमाणेऽवयारो से (विशेषावश्यकभा० ९४९) त्ति । गुणप्रमाणमपि जीवाऽजीवगुणभेदतो द्विधा प्रोक्तम्, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञान-दर्शन-चारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतार:, तत्रापि प्रत्यक्षा-ऽनुमानोपमाना-ऽऽगमभेदाच्चतुर्विधे प्रकृताध्ययनस्याऽऽप्तोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिक-लोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमाऽनन्तरागम-परम्परागमभेदतस्त्रिविधेऽप्यस्य समवतार: । सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्तपरिमाणसङ्ख्यायामस्यावतार: । वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयत: स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वे स्वसमयत्वात्, सम्यग्दृष्टिर्हि परसमयमपि विषयविभागेन योजयति न त्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीत: स्वसमय एव, अत एव परमार्थत: सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः । तदुक्तम् परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं । तो सव्वऽज्झयणाई ससमयवत्तव्वनिययाइं ॥१।। (विशेषावश्यकभा० ९५३) एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्त: समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् । अथ निक्षेपद्वारं निरूपयितुमाह- से किं तं निक्खेवे इत्यादि। निक्षेप: पूर्वोक्तशब्दार्थ: त्रिविध: प्रज्ञप्त:, तद्यथा- ओघनिष्पन्न इत्यादि। तत्रौघ: सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्न: ओघनिष्पन्न:, नाम श्रुतस्यैव सामायिकादिकं विशेषाभिधानं तेन निष्पन्नो नामनिष्पन्न:, सूत्रालापका:- करेमि भंते ! सामायियमित्यादिकास्तैर्निष्पन्न: सूत्रालापकनिष्पन्न: । एतदेव भेदत्रयं विवरीषुराह- से किं तं ओहनिप्फण्णे इत्यादि, ओघनिष्पन्नश्चतुर्विध: प्रज्ञप्त:, तद्यथा Page #343 -------------------------------------------------------------------------- ________________ ३२६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ५३६ ) से किं तं अज्झयणे ? अज्झयणे चउविहे पण्णत्ते । तं० - णामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे । (सू० ५३७) णाम - ट्ठवणाओ पुव्ववण्णियाओ । I (सू० ५३८) से किं तं दव्वज्झयणे ? दव्वज्झयणे दुविहे पण्णत्ते । तंजहा- आगमओ य णोआगमओ य । ( सू० ५३९ ) से किं तं आगमतो दव्वज्झयणे ? आगमतो दव्वज्झयणे - जस्स णं अज्झयणेति पदं सिक्खितं ठितं जितं मितं परिजितं जाव जावइया अणुवत्ता आगमओ तावइयाई दव्वज्झयणाई । एवमेव ववहारस्स वि। संगहस्स णं एगो वा अणेगो वा तं चैव भाणियव्वं जाव से तं आगमतो दव्वज्झयणे । ( सू० ५४० ) से किं तं णोआगमतो दव्वज्झयणे ? णोआगमतो दव्वज्झयणे तिविहे पण्णत्ते । तं जहा - जाणयसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणयसरीरभवियसरीरवतिरित्ते दव्वज्झयणे । ( सू० ५४९ ) से किं तं जाणगसरीरदव्वज्झयणे ? जाणगसरीरदव्वज्झयणेअज्झयणपयत्थाहिगारजाणयस्स जं सरीरयं ववगत-चुत चड्य- चत्तदेहं जाव अहो ! णं इमेणं सरीरसमुस्सएणं अज्झयणे त्ति पदं आघवियं जाव उवदंसियं ति, जहा को दिट्ठतो ? अयं घयकुंभे आसी, अयं महुकुंभे आसी । सेतं जाणयसरीरदव्वज्झयणे । ( सू० ५४२ ) से किं तं भवियसरीरदव्वज्झयणे ? भवियसरीरदव्वज्झयणे - जे जीवे जोणीजम्मणनिक्खं इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं अज्झणे त्ति यं सेकाले सिक्खिस्सति ण ताव सिक्खति, जहा को दिट्ठतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भवियसरीरदव्वज्झयणे । अध्ययनम् अक्षीणम् आय: क्षपणा । एतानि चत्वार्यपि सामायिक - चतुर्विंशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि तथाहि - सामायिकमध्ययनमुच्यते, तदेवाक्षीणं निगद्यते, इदमेवाऽऽयः प्रतिपाद्यते, एतदेव क्षपणाऽभिधीयते, एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयम् । साम्प्रतमेतेषां चतुर्णामपि निक्षेपं प्रत्येकमभिधित्सुराह - से किं तं अज्झयणे इत्यादि, नाम-स्थापना-द्रव्यभावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः । तत्र नामादिविचारः सर्वोऽपि पूर्वोक्तद्रव्या (नामा ) - वश्यकानुसारेण वाच्यो यावन्नोआगमतो भावाध्ययने अज्झप्पस्साणयणमित्यादि गाथा, व्याख्याअज्झप्पस्स आणयणं इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च पकार-सकार-आकारणकारलक्षणमध्यगतवर्णचतुष्टयलोपे अज्झयणमिति भवति । अध्यात्मं चेतस्तस्याऽऽनयनमध्य Page #344 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५४३-५५१] ३२७ (सू० ५४३) से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झयणे? जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे-पत्तय-पोत्थयलिहियं । सेतं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे । सेतं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे ।। (सू० ५४४) से किं तं भावज्झयणे ? भावज्झयणे दुविहे पण्णत्ते । तंजहा-आगमतो य णोआगमतो य । (सू० ५४५) से किं तं आगमतो भावज्झयणे ? आगमतो भावज्झयणे जाणए उवउत्ते। सेतं आगमतो भावज्झयणे । (सू० ५४६) से किं तं नोआगमतो भावज्झयणे ? नोआगमतो भावज्झयणेअज्झप्पस्साऽऽणयणं, कम्माणं अवचओ उवचियाणं । अणुवचओ य नवाणं, तम्हा अज्झयणमिच्छंति ॥१२५।। सेतं णोआगमतो भावज्झयणे । सेतं भावज्झयणे । सेतं अज्झयणे । (सू० ५४७) से किं तं अज्झीणे ? अज्झीणे चउव्विहे पण्णत्ते । तंजहा-णामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे । (सू० ५४८) नाम-ठवणाओ पुव्ववणियाओ । (सू० ५४९) से किं तं दव्वज्झीणे ? दव्वज्झीणे दुविहे पण्णत्ते। तं०-आगमतो य नोआगमतो य । (सू० ५५०) से किं तं आगमतो दव्वज्झीणे ? आगमतो दव्वज्झीणे- जस्स णं अज्झीणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं तं चेव जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं आगमतो दव्वज्झीणे। (सू० ५५१) से किं तं नोआगमतो दव्वज्झीणे ? नोआगमतो दव्वज्झीणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झीणे भवियसरीरदव्वज्झीणे जाणयसरीर-भवियसरीरवतिरित्ते दव्वज्झीणे । यनमुच्यते इति भावः । आनीयते च सामायिकाद्यध्ययनेन शोभनं चेत:, अस्मिन् सति अशुभकर्मप्रबन्धविघटनात्, अत एवाह- कर्मणामुपचितानां प्रागुपनिबद्धानां यतोऽपचय: ह्रासोऽस्मिन् सति सम्पद्यते, नवानां चानुपचय: अबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थोपपत्ते: अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमप्यध्ययनमुच्यत इति । सामायिकादिकं चाध्ययनं ज्ञान-क्रियासमुदायात्मकम्, ततश्चागमस्यैकदेशवृत्तित्वान्नोशब्दस्य च देशवचनत्वाद् नोआगमतो अध्ययनमिदमुक्तमिति गाथार्थः । सेतमित्यादि निगमनत्रयम् । Page #345 -------------------------------------------------------------------------- ________________ ३२८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५५२) से किं तं जाणयसरीरदव्वज्झीणे ? जाणयसरीरदव्वज्झीणेअज्झीणपयत्थाहिकारजाणयस्स जं सरीरयं ववगय-चुत-चइत-चत्तदेहं जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं जाणयसरीरदव्वज्झीणे। (सू० ५५३) से किं तं भवियसरीरदव्वज्झीणे ? भवियसरीरदव्वज्झीणेजे जीवे जोणीजम्मणनिक्खंते जहा दव्वज्झयणे, जाव सेतं भवियसरीरदव्वज्झीणे । (सू० ५५४) से किंतं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झीणे? जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे सव्वागाससेढी। सेतं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झीणे । सेतं नोआगमओ दव्वज्झीणे। सेतं दव्वज्झीणे । (सू० ५५५) से किं तं भावज्झीणे ? भावज्झीणे दुविहे पण्णत्ते। तंजहा-आगमतो य नोआगमतो य । (सू० ५५६) से किं तं आगमतो भावज्झीणे? आगमतो भावज्झीणे जाणए उवउत्ते। सेतं आगमतो भावज्झीणे । (सू० ५५७) से किं तं नोआगमतो भावज्झीणे ? नोआगमतो भावज्झीणेजह दीवा दीवसतं पड़प्पए, दिप्पए य सो दीवो । दीवसमा आयरिया दिप्पंति, परं च दीवेंति ॥१२६।। उक्तमध्ययनम् । अथाक्षीणनिक्षेपं विवक्षुराह- से किं तं अज्झीणे इत्यादि। अत्रापि तथैव विचारो यावत् सव्वागाससेढि त्ति, सर्वाकाशं लोका-ऽलोकनभ:स्वरूपम्, तस्य सम्बन्धिनी श्रेणि: प्रदेशापहारतोऽपह्रियमाणाऽपि न कदाचित् क्षीयते, अतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चास्याकाशद्रव्यान्तर्गतत्वादिति । से किं तं आगमतो भावज्झीणे ?, भावज्झीणे जाणए उवउत्ते। अत्र वृद्धा व्याचक्षते- यस्माच्चतुर्दशपूर्वविद: आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यायास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पह्रियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति । एतदेवाह- जह दीवा गाहा, व्याख्या- यथा दीपाद् अवधिभूताद् दीपशतं प्रदीप्यते प्रवर्तते, स च मूलभूतो दीप: तथापि दीप्यते तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति । प्रकृते सम्बन्धयन्नाह- एवं दीपसमा आचार्या:, दीप्यन्ते स्वयं विवक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं च शिष्यवर्गं दीपयन्ति श्रुतसम्पदं लम्भयन्ति । अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्योपयोगस्याऽऽगमत्वाद् वाक्काययोगयोश्चानागमत्वाद् नोशब्दस्य च मिश्रवचनत्वाद् भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः । Page #346 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५५८-५७०] ३२९ सेतं नोआगमतो भावज्झीणे । सेतं भावज्झीणे । सेतं अज्झीणे। (सू० ५५८) से किं तं आए ? आए चउव्विहे पण्णत्ते । तंजहा-नामाए ठवणाए दव्वाए भावाए। (सू० ५५९) नाम-ठवणाओ पुव्वभणियाओ । (सू० ५६०) से किं तं दव्वाए ? दव्वाए दुविहे पण्णत्ते । तंजहा-आगमतो य नोआगमतो य । (सू० ५६१) से किं तं आगमतो दव्वाए ? (आगमतो दव्वाए) जस्स णं आए त्ति पयं सिक्खितं ठितं जाव अणुवओगो दव्वमिति कट्ट, जाव जावइया अणुवउत्ता आगमओ तावइया ते दव्वाया, जाव सेतं आगमओ दव्वाए । (सू० ५६२) से किं तं नोआगमओ दव्वाए ? नोआगमओ दव्वाए तिविहे पण्णत्ते। तंजहा-जाणयसरीरदव्वाए भवियसरीरदव्वाए जाणयसरीर-भवियसरीरवइरित्ते दव्वाए। (सू० ५६३) से किं तं जाणयसरीरदव्वाए ? जाणयसरीरदव्वाए- आयपयत्थाहिकारजाणगस्स जं सरीरगं ववगय-चुत-चतिय-चत्तदेहं सेसं जहा दव्वज्झयणे, जाव से तं जाणयसरीरदव्वाए। ___ (सू० ५६४) से किं तं भवियसरीरदव्वाये ? भवियसरीरदव्वाये- जे जीवे जोणीजम्मणणिक्खंते सेसं जहा दव्वज्झयणे, जाव सेतं भवियसरीरदव्वाये । (सू० ५६५) से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वाये ? जाणयसरीरभवियसरीरवइरित्ते दव्वाये तिविहे पण्णत्ते । तंजहा- लोइए कुप्पावयणिए लोगुत्तरिए। (सू० ५६६) से किं तं लोइए ? लोइए तिविहे पण्णत्ते । तंजहा-सचित्ते अचित्ते मीसए य । (सू० ५६७) से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते । तंजहा-दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं दासाणं दासीणं, चउप्पयाणं आसाणं हत्थीणं, अपयाणं अंबाणं अंबाडगाणं आए । सेतं सचित्ते। (सू० ५६८) से किं तं अचित्ते ? अचित्ते सुवण्ण-रयत-मणि-मोत्तिय-संखसिलप्पवाल-रत्तरयणाणं (संतसावएजस्स) आये । सेतं अचित्ते ।। (सू० ५६९) से किं तं मीसए ? मीसए दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालंकियाणं आये । सेतं मीसए । सेतं लोइए। (सू० ५७०) से किं तं कुप्पावयणिये ? कुप्पावयणिये तिविहे पण्णत्ते । तंजहा Page #347 -------------------------------------------------------------------------- ________________ ३३० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सचित्ते अचित्ते मीसए य । तिण्णि वि जहा लोइए, जाव सेतं कुप्पावयणिए । (सू० ५७१) से किं तं लोगुत्तरिए ? (लोगुत्तरिए) तिविहे पण्णत्ते । तंजहा-सचित्ते अचित्ते मीसए य । (सू० ५७२) से किं तं सचित्ते ? सचित्ते सीसाणं सिस्सिणियाणं आये। सेतं सचित्ते । (सू० ५७३) से किं तं अचित्ते ? अचित्ते पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं आए । सेतं अचित्ते । (सू० ५७४) से किं तं मीसए ? मीसए सीसाणं सिस्सिणियाणं सभंडोवकरणाणं आये। सेतं मीसए । सेतं लोगुत्तरिए । सेतं जाणयसरीर-भवियसरीरवइरित्ते दव्वाए। सेतं नोआगमओ दव्वाए । सेतं दव्वाए । (सू० ५७५) से किं तं भावाए ? भावाए दुविहे पण्णत्ते । तंजहा-आगमतो य नोआगमतो य। (सू० ५७६) से किं तं आगमतो भावाए ? आगमतो भावाए जाणए उवउत्ते। सेतं आगमतो भावाए। (सू० ५७७) से किं तं नोआगमतो भावाए ? नोआगमतो भावाए दुविहे पण्णत्ते। तंजहा-पसत्थे य अप्पसत्थे य । (सू० ५७८) से किं तं पसत्थे ? पसत्थे तिविहे पण्णत्ते । तंजहा-णाणाए दंसणाए चरित्ताए । सेतं पसत्थे ।। (सू० ५७९) से किं तं अपसत्थे ? अपसत्थे चउव्विहे पण्णत्ते । तंजहा-कोहाए माणाए मायाए लोभाए । सेतं अपसत्थे । सेतं णोआगमतो भावाए । सेतं भावाए। सेतं आये। (सू० ५८०) से किं तं झवणा ? झवणा चउव्विहा पण्णत्ता। तंजहा-नामज्झवणा ठवणज्झवणा दव्वज्झवणा भावज्झवणा । (सू० ५८१) नाम-ठवणाओ पुव्वभणियाओ। (सू० ५८२) से किं तं दव्वज्झवणा ? दव्वज्झवणा दुविहा पण्णत्ता। तंजहा अथाऽऽयनिक्षेपं कर्तुमाह- से किं तं आये इत्यादि । आय: प्राप्तिाभ इत्यनर्थान्तरम् । अस्यापि नामादिभेदभिन्नस्य विचार: सूत्रसिद्ध एव, यावत् से किं तं अचित्ते ? अचित्ते सुवण्णेत्यादि, लौकिकोऽचित्तस्य सुवर्णादेरायो मन्तव्यः, तत्र सुवर्णादीनि प्रतीतानि, सिल त्ति शिला-मुक्ता-शैल-राजपट्टादीनाम्, रक्तरत्नानि पद्मरागरत्नानि, संतसावएज्जस्स त्ति सद् विद्यमान Page #348 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०५८३-५९१] ३३१ आगमतो य नोआगमतो य । (सू० ५८३) से किं तं आगमतो दव्वज्झवणा ? आगमतो दव्वज्झवणा- जस्स णं झवणेति पदं सिक्खियं ठितं जितं मितं परिजियं, सेसं जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं आगमतो दव्वज्झवणा । (सू० ५८४) से किं तं नोआगमओ दव्वज्झवणा ? नोआगमओ दव्वज्झवणा तिविहा पण्णत्ता। तंजहा-जाणयसरीरदव्वज्झवणा भवियसरीरदव्वज्झवणा जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा। (सू० ५८५) से किं तं जाणयसरीरदव्वज्झवणा ? जाणयसरीरदव्वज्झवणाझवणापयत्थाहिकारजाणयस्स जं सरीरयं ववगय-चुय-चइय-चत्तदेहं, सेसं जहा दव्वज्झयणे, जाव य सेतं जाणयसरीरदव्वज्झवणा । (सू० ५८६) से किं तं भवियसरीरदव्वज्झवणा ? भवियसरीरदव्वज्झवणा- जे जीवे जोणीजम्मणणिक्खंते आयत्तएणं० जिणदिट्टेणं भावेणं ज्झवण त्ति पयं सेयकाले सिक्खिस्सति, ण ताव सिक्खइ, को दिद्रुतो ? जहा अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भवियसरीरदव्वज्झवणा । (सू० ५८७) से किं तं जाणयसरीर-भवियसरीरवइरित्ता दव्वज्झवणा ? जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा- जहा जाणयसरीर-भवियसरीरवइरित्ते दव्वाए तहा भाणियव्वा, जाव सेतं जाणयसरीर-भवियसरीरवइरित्ता दव्वज्झवणा। सेतं नोआगमओ दव्वज्झवणा । सेतं दव्वज्झवणा । (सू० ५८८) से किं तं भावज्झवणा ? भावज्झवणा दुविहा पण्णत्ता। तंजहाआगमतो य णोआगमतो य । (सू० ५८९) से किं तं आगमओ भावज्झवणा ? आगमओ भावज्झवणाझवणापयत्थाहिकारजाणए उवउत्ते । सेतं आगमतो भावज्झवणा । (सू० ५९०) से किं तं णोआगमतो भावज्झवणा ? णोआगमतो भावज्झवणा दुविहा पण्णत्ता । तंजहा-पसत्था य अप्पसत्था य । (सू० ५९१) से किं तं पसत्था ? पसत्था चउव्विहा पण्णत्ता । तंजहा-१२°कोहज्झवणा माणज्झवणा मायज्झवणा लोभज्झवणा । सेतं पसत्था । १२७. कोहज्झवणा माणज्झवणा... इत्यादि । यद्यप्यत्र केशरबाई ज्ञानमंदिर, पाटणनगरतः प्रकाशिते मुद्रितप्रते प्रशस्ताप्रशस्तक्षपणयोर्व्यत्यासो दृश्यते । श्रुतभक्तश्रीजम्बूविजयसम्पादिते Page #349 -------------------------------------------------------------------------- ________________ ३३२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५९२) से किं तं अप्पसत्था ? अप्पसत्था तिविहा पण्णत्ता। तंजहानाणज्झवणा दंसणज्झवणा चरित्तज्झवणा । सेतं अप्पसत्था। सेतं नोआगमतो भावज्झवणा। सेतं भावज्झवणा । सेतं झवणा। सेतं ओहनिप्फण्णे । (सू० ५९३) से किं तं नामनिप्फण्णे ? नामनिप्फण्णे सामाइए । से समासओ चउव्विहे पण्णत्ते । तंजहा-णामसामाइए ठवणासामाइए दव्वसामाइए भावसामाइए । (सू० ५९४) णाम-ठवणाओ पुव्वभणियाओ। (सू० ५९५) दव्वसामाइए वि तहेव, जाव सेतं भवियसरीरदव्वसामाइए । (सू० ५९६) से किं तं जाणयसरीर-भवियसरीरवइरित्ते जाणयसरीर-भवियसरीरवइरित्ते दव्वसामाइए? दव्वसामाइए पत्तय-पोत्थयलिहियं । सेतं जाणयसरीर-भवियसरीरवइरित्ते दव्वसामाइए । सेतं णोआगमतो दव्वसामाइए । सेतं दव्वसामाइए । (सू० ५९७) से किं तं भावसामाइए ? भावसामाइए दुविहे पण्णत्ते। तं०-आगमतो य नोआगमतो य । (सू० ५९८) से किं तं आगमतो भावसामाइए ? आगमतो भावसामाइएभावसामाइयपयत्थाहिकारजाणए उवउत्ते । सेतं आगमतो भावसामाइए। स्वापतेयं द्रव्यं तस्याऽऽय:, समाभरिया-ऽऽउज्जालंकियाणं ति आ(समा)भरितानां सुवर्णसङ्कलिकादिभूषितानाम् आतोद्यैझल्लरीप्रमुखैरलङ्कृतानाम् । अथ क्षपणानिक्षेपं विवक्षुराह- से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरा इति पर्याया: । शेषं सूत्रसिद्धमेव, यावदोघनिष्पन्नो निक्षेप: समाप्तः । सर्वत्र चेह भावे विचार्येऽध्ययनमेव योजनीयम् । प्रकाशने क्रोधक्षपणादीनां प्रशस्ततया ज्ञानक्षपणादीनां चाप्रशस्ततयोपन्यासः, स च सुगम एव । उक्तमुद्रितप्रते तु क्रोधक्षपणादीनामप्रशस्ततया ज्ञानक्षपणादीनां च प्रशस्ततयोपन्यासः। तत्र 'जं अज्जियं चरित्तं देसुणाए वि पुव्वकोडिए । तं पि कसाइयमित्तो हारेइं णरो मुहूत्तेण ।। (बृहत्कल्पभाष्य-२७१५) इत्यादि वचनात् क्रोधेन संयमगुणादीनां यः क्षयो भवति तस्याप्रशस्ततया क्रोधेन गुणादीनां क्षपणा क्रोधक्षपणेत्येवं मध्यमपदलोपिसमासः कार्यः । तथा 'जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेण ।। (बृ.क.भाष्य ११७० ।। ) इत्यादिवचनात् ज्ञानेन प्रचुराणां कर्मणां यः क्षयो भवति तस्य प्रशस्ततया ज्ञानेन कर्मादीनां क्षपणा ज्ञानक्षपणेत्येवं मध्यमपदलोपिसमासः कर्तव्यः । ततश्चोक्तमुद्रितप्रतगतस्य सूत्रस्य सङ्गतिरपि स्यादेव । Page #350 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०५९९] (सू० ५९९) से किं तं नोआगमतो भावसामाइए ? भावसामाइएजस्स सामाणिओ अप्पा संजमे णियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥१२७॥ जो समोसव्वभूएस तसेसुं थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ १२८ ॥ हम ण पि दुक्खं जाणिय एमेव सव्वजीवाणं । न हाइ न हणावेइ य सममणती तेण सो समणो || १२९ ।। णत्थि य से कोई वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पज्जाओ || १३०|| अथ नामनिष्पन्नं निक्षेपमाह से किं तं नामनिप्पन्ने इत्यादि । इहाध्ययना - क्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम् । अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नाम-स्थापना - द्रव्य - १ - भावभेदाच्चतुर्विधो निक्षेप: । अत एवाह से समासओ चउव्विहे इत्यादि, सूत्रसिद्धमेव, यावत् जस्स सामाणिओ अप्पा इत्यादि, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? संयमे मूलगुणरूपे नियमे उत्तरगुणसमूहात्म अनशनादौ तस्येत्थम्भूतस्य सामायिकं भवतीत्येतत् केवलिभाषितमिति श्लोकार्थः । ३३३ जो समो इत्यादि, यः समः सर्वत्र मैत्रीभावात् तुल्यः सर्वभूतेषु सर्वजीवेषु त्रसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितम्, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात् पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद् धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । य एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यत इति दर्शयन्नाह - जह मम गाहा, व्याख्यायथा मम स्वात्मनि हननादिजनितं दुःखं न प्रियम् एवमेव सर्वजीवानां तन्नाभीष्टमिति ज्ञात्वा चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयम्, नाप्यन्यैर्घातयति, चशब्दाद् घ्नतश्चान्यान् न समनुजानीत इत्यनेन प्रकारेण सममणति सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण इति गाथार्थः । तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येक: पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह - नत्थि य से गाहा, व्याख्या - नास्ति च से तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वात्, अनेन भवति समं मनोऽस्येति निरुक्तिविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थः । तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपणार्थमाह Page #351 -------------------------------------------------------------------------- ________________ ३३४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं उरग - गिरि- जलण - सागर-नहतल-तरुगणसमो य जो होइ । भमर-मिग-धरणि- जलरुह-रवि-पवणसमो य सो समणो ॥ १३१ ॥ तो समणो जइ सुमणो, भावेण य जड़ ण होड़ पावमणो । सयणे य जणे य समो, समो य माणा -ऽवमाणे ||१३२|| १२८ उरगः तं नोआगमतो भावसामाइए। सेतं भावसामाइए। सेतं सामाइए। सेतं नामनिप्फण्णे । ( सू० ६०० ) से किं तं सुत्तालावगनिप्फण्णे ? सुत्तालावगनिष्फण्णे इदाणिं उर गाहा, स श्रमणो भवतीति सर्वत्र सम्बध्यते, य: कथम्भूतो भवति ? इत्याहसर्पस्तत्समः परकृताश्रयनिवासादिति । एवं समशब्दोऽपि सर्वत्र योज्यते । तथा गिरिसम: परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसमः तपस्तेजोमयत्वात् । सागरसमो गुणरत्नपरिपूर्णत्वाद् ज्ञानादिगुणैरगाधत्वाद्वा । नभस्तलसम: निरालम्बनत्वात् । तरुगणसम: सुख-दुःखयोरदर्शितविकारत्वात् । भ्रमरसमोऽनियतवृत्तित्वात् । मृगसमः संसारं प्रति नित्योद्विनत्वात् । धरणिसमः सर्वंसहत्वात् । जलरुहसमः निष्पङ्कत्वात्, पङ्क-जलस्थानीयकाम-भोगोपरिवृत्तेरित्यर्थः रविसमः तमोविघातकत्वात् । पवनसमश्च सर्वत्राप्रतिबद्धत्वात् । स एवम्भूतः श्रमणो भवतीति गाथार्थ: । यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति- तो समो गाहा, व्याख्या- तत: श्रमणो यदि द्रव्यमनः प्रतीत्य सुमनाः, भावेन च भावमनश्चाश्रित्य यदि न भवति पापमना: । सुमनस्त्वचिह्नान्येव श्रमणगुणत्वेन दर्शयति- स्वजने च पुत्रादिके जने च सामान्ये समः निर्विशेष:, माना- ऽपमानयोश्च सम इति गाथार्थः । इह च ज्ञान-क्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञान-क्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वात्, एवं च सति सामायिकवत: साधोरपीह आगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिक-तद्वतोरभेदोपचारादिति भावः । नामनिष्पन्नो निक्षेपः समाप्तः । अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह से किं तं सुत्तालावयेत्यादि । अथ कोऽयं सूत्रालापक निष्पन्नो निक्षेप: ?, 'करोमि भदन्त ! सामायिकम्' इत्यादीनां सूत्रालापकानां नाम १२८. उरगः सर्पस्तत्समः, परकृताश्रयनिवासादितीति । यद्वा सर्पसमत्वं श्रमणस्यान्यथा भाव्यते । तद्यथा-सर्पस्य बिलाद् बहिर्गोमूत्राकारतुल्या वक्रा गतिर्यद्यपि भवति, तथापि बिले तु ऋजुरेव सा भवति, एवं श्रमणोऽपि मुखे प्रक्षेपानन्तरं कवलं रसास्वादनार्थं मुखदक्षिणवामपार्श्वयोर्न भ्रामयति, अपि तु ऋजुरेव गलकाधो नयति । अतः सर्पसमत्वं श्रमणस्य स्पष्टमेव । Page #352 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०६०१,६०२] ३३५ सुत्तालावयनिप्फण्णे निक्खेवे इच्छावेइ, से य पत्तलक्खणे विण णिक्खिप्पड़, कम्हा ? लाघवत्थं । इतो अत्थि ततिये अणुओगद्दारे अणुगमे त्ति, तहिं णं णिक्खित्ते इहं णिक्खित्ते भवति, इहं वा णिक्खित्ते तहिं णिक्खित्ते भवति, तम्हा इहं ण णिक्खिप्पड़, तहिं व णिक्खिप्पिस । सेतं निक्खेवे । ( सू० ६०१ ) से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते । तंजहा - सुत्ताणुगमे य निज्जुत्तिअणुगमे य । (सू० ६०२) से किं तं निज्जुत्तिअणुगमे ? निज्जुत्तिअणुगमे तिविहे पण्णत्ते । तंजहानिक्खेवनिज्जुत्तिअणुगमे उवघातनिज्जुत्तिअणुगमे सुत्तप्फासियनिज्जुत्तिअणुगमे । स्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः । इयाणिमित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेपः एषयति अवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते न सूत्रालापकनिक्षेप - द्वारेणाभिधीयते, कस्मात् ? इत्याह- लाघवार्थम्, तदेव लाघवं दर्शयति- अस्ति इतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, हवा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति । आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवम्, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं तस्मादिह न निक्षिप्यते इत्यादि। पुनरप्याह- यद्येवं किमर्थं सूत्रालापकनिक्षेपस्यात्रोपन्यास: ?, उच्यते, निक्षेपसाम्यमात्रादित्यलं त्रिस्तरेण। निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् । अथ तृतीयमनुयोगद्वारं निरूपयितुमाह से किं तं अणुगमे इत्यादि । अनुगम: पूर्वोक्तशब्दार्थ:, स द्वेधा सूत्रानुगमः सूत्रव्याख्यानमित्यर्थः, निर्युक्त्यनुगमश्च, नितरां युक्ता: सूत्रेण सह लोलीभावेन सम्बद्धा १२९ निर्युक्ता अर्थास्तेषां युक्ति: स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपान्निर्युक्तिः, नाम-स्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्या वा अनुगमो व्याख्यानं निर्युक्त्यनुगमः, स च त्रिविधः । निक्षेपो नाम स्थापनादिभेदभिन्नः, तस्य तद्विषया वा निर्युक्तिः पूर्वोक्तशब्दार्था निक्षेपनिर्युक्तिः, तद्रूपस्तस्या वाऽनुगमो निक्षेपनिर्युक्त्यनुगमः, तथा उपोद्धनं व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा निर्युक्तिरुपोद्घातनिर्युक्तिः, I १२९. निर्युक्ता अर्थास्तेषां युक्तिरिति । इदं 'निर्युक्ति' शब्दस्य व्युत्पत्तिनिमित्तं ज्ञेयम् । अग्रे 'निर्युक्तिः = नामस्थपानादिप्रकारैः सूत्रविभजनेत्यर्थः' इत्यादि यद्वक्ष्यति तत् प्रवृत्तिनिमित्तं ज्ञेयम् । Page #353 -------------------------------------------------------------------------- ________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० ६०३) से किं तं निक्खेवनिज्जुत्तिअणुगमे ? निक्खेवनिज्जुत्तिअणुगमे अणुगए । ( सू० ६०४ ) से किं तं उवघायनिज्जुत्तिअणुगमे ? उवघायनिज्जुत्तिअणुगमे इमाहिं दोहिं गाहाहिं अणुगंतव्वे । जहा उसे १ निसे य २ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९ णये १० समोयारणा ११ ऽणुमए १२ ।। १३३ ।। तद्रूपस्तस्या वा अनुगम: उपोद्घातनिर्युक्त्यनुगम:, तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका, साचा निर्युक्तिश्च सूत्रस्पर्शकनिर्युक्तिः । तत्र निक्षेपनिर्युक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति - अत्रैव प्रागावश्यक-सामायिकादिपदानां नाम - स्थापनादिनिक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनिर्युक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेप प्रस्तावे पुनर्वक्ष्यते च । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्य:, तद्यथा - उद्देसे गाहा, किं कइविहं गाहा, व्याख्या- उद्देशनमुद्देशः सामान्याभिधानरूपो यथा अध्ययनमिति वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो विशेषाभिधानं यथा सामायिकमिति । अत्राह - ननु सामान्यविशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव तत् किमितीह पुनरुच्यते ? नैतदेवम्, यतोऽत्र सिद्धस्यैव तस्य तत्र निक्षेपमात्राभिधानं कृतमित्यदोषः । तथा निर्गमनं निर्गम: कुत: सामायिकं निर्गतमित्येवंरूपो वक्तव्य:, तथा क्षेत्र - कालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ । यद्वक्ष्यत्यावश्यकेवइसाहसुद्धएक्कारसीऍ पुव्वण्हदेसकालंमि । महसेणवणुज्जाणे अणंतर परंपरं सेसं ||१|| ( आवश्यकनि०७३४) ति I तथा कुतः पुरुषात् तन्निर्गतमिति वक्तव्यम्, तथा केन कारणेन गौतमादयः सामायिकं भगवतः समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यम्, यदभिधास्यति - गोय (म) माई सामाइयं तु किंकारणं निसामिंती (आवश्यकनि०७४५) त्यादि, तथा प्रत्यायतीति प्रत्यय: केन प्रत्ययेन भगवतेदमुपदिष्टम् ? केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच् छृण्वन्ति, इत्येतद्वक्तव्यमित्यर्थः, तथा च वक्ष्यति - ३३६ केवलनाणि त्ति अहं अरहा सामाइयं परिकहे । तेसिं पि पच्चओ खलु सव्वन्नू तो निसामिति ||१|| ( आवश्यकनि०७५० ) त्ति । तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणम्, श्रुतसामायिकस्य जीवादिपरिज्ञानम्, चारित्रसामायिकस्य सावद्यविरति:, देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रं लक्षणम्, निर्देक्ष्यति च - सद्दहण जाणणा खलु विरई मीसं च लक्खणं कहए (आवश्यक नि०७५३) इत्यादि । एवं नैगमादयो नया वाच्या: । तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः, Page #354 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०६०४] ३३७ यतो निवेदयिष्यति मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥११॥ (आवश्यकनि०७६२) इत्यादि। तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयम्, भणिष्यति चतवसंजमो अणुमओ निगथं पवयणं च ववहारो । सदुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥ (आवश्यकनि०७८९) त्ति । किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति- जीवो गुणपडिवण्णो णयस्स दव्वट्टियस्स सामइय (आवश्यक नि०७९२) मित्यादि। कतिविधं तदित्यत्र निर्वचनयिष्यति- सामाइयं च तिविहं संमत्त सुयं तहा चरित्तं चे (आवश्यकनि० ७९६) त्यादि । कस्य सामायिकमित्यत्राभिधास्यति- जस्स सामाणिओ अप्पा (आवश्यकनि० ७९७) इत्यादि । क्व सामायिकमित्येतदपि खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे (आवश्यकनि०८०४) इत्यादिना द्वारकलापेन निरूपयिष्यति । केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरइं पडुच्चा दुण्हवि पडिसेहणं कुज्जा ।।१।। (आवश्यकनि०८३०) इति दर्शयिष्यति । कथं सामायिकमवाप्यत इत्यत्र माणुस्स खेत्त जाई कुलरूवारोग्ग आउयं बुद्धी (आवश्यकनि०८३१) त्यादि प्रतिपादयिष्यति । कियच्चिरं कालं तद्भवतीति चिन्तायामभिधास्यति - सम्मत्तस्स सुयस्स य छावट्टि सागरोवमाइं ठिती। सेसाण पुव्वकोडी देसूणा होइ उक्कोसा ।।१।। (आवश्यकनि०८४९) इति । कइ त्ति कियन्त: सामायिकस्य युगपत् प्रतिपद्यमानका: पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यम्, भणिष्यति च सम्मत्त-देसविरया पलियस्स असंखभागमेत्ता उ (आवश्यकनि०८५०) इत्यादि । सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यतिकालमणंत च सुए अद्धापरियट्टओ य देसूणो । १३०आसायणबहुलाणं उक्कोसं अंतरं होइ ॥१॥ (आवश्यकनि०८५३) त्ति । १३०. आसायणबहुलाणं ति । अत्र 'हिंसादिबहुलानां' यद्वा 'वासनादिबहुलानां' इति नोक्तं, अपि ‘त्वाशातनाबहुलानां' इति यदुक्तं तेन ज्ञायते यद् ‘उपास्यतत्त्वानामाशातनया Page #355 -------------------------------------------------------------------------- ________________ ३३८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं किं १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ किच्चिरं हवइ कालं १९ । कइ २० संतर २१ मविरहितं २२ भवा २३ऽऽगरिस २४ फासण २५ निरुत्ती २६ ॥१३४॥ सेतं उवघातनिज्जुत्तिअणुगमे । अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यतिसम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ । अट्ट समया चरित्ते सव्वेसु जहण्ण दो समया ।।१।। (आवश्यकनि०८५४) इत्यादि । कियतो भवान् उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यतिसम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ । अट्ट भवा उ चरित्ते अणंतकालं च सुयसमए ॥१॥ (आवश्यकनि०८५६) त्ति । आकर्षणमाकर्ष: एकस्मिन्नानाभवेषु वा पुन: पुन: सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यम्, तच्च वक्ष्यति - तिण्ह सहस्सपुहत्तं सयपुहत्तं च होइ विरईए । एगभवे आगरिसा एवइया होति नायव्वा ।।१।। तिण्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । नाणभवे आगरिसा एवइया हुंति नायव्वा ।।२।। (आवश्यकनि०८५७,८५८) इति । फासण त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयम्, तच्चैवम्सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए पंच य सुयदेसविरईए ॥१।। (आवश्यक नि०८५९) इत्यादि। निश्चिता उक्तिर्निरुक्तिर्वक्तव्या, तत्र चसम्मद्दिट्टि अमोहो सोही सब्भाव दंसणं बोही । अविवज्जओ सुदिट्टि त्ति एवमाई निरुत्ताई ।।१।। (आवश्यकनि०८६१) इत्यादि वक्ष्यति। एवं तावद्गाथाद्वयसंक्षेपार्थः । विस्तरार्थस्त्वावश्यकनियुक्ति-टीकाभ्यामवसेय इति । तुल्या न कापि विराधना वर्तते, हिंसा-वासनाद्यपेक्षयाऽप्याशातना पापतरे'ति । ततश्चेदमपि निश्चीयते यद् 'उपास्यतत्त्वानामुपासनया तुल्या न काप्याराधना भवतीति । Page #356 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०६०५ ] ( सू० ६०५ ) से किं तं सुत्तप्फासियनिज्जुत्तिअणुगमे ? सुत्तप्फासियनिज्जुत्तिअणुगमे सुत्तं उच्चारेयव्वं अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठो विप्पमुक्कं गुरुवायणोवगयं । तो तत्थ णज्जिहिति ससमयपयं वा परसमयपयं वा तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनिर्युक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति । ततः प्रत्यवयवं सूत्रव्याख्यानरूपायाः सूत्रस्पर्शकनिर्युक्तेरवसरः संपद्यते । सूत्रं च सूत्रानुगमे सत्येव भवति, सोऽप्यवसर प्राप्त एव, ततस्तभिधित्सुराह - सुत्तं उच्चारेयव्वं अखलियमित्यादि । आह - ननु यदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शकनिर्युक्त्या प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ? यावता सूत्रानुगमं निर्दिश्य पश्चात् किमिति नोच्यते ? सत्यम्, किन्तु निर्युक्तिसाम्यात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । ३३९ प्रकृतमुच्यते - तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग् द्रव्यावश्यकविचारे कृता थै द्रष्टव्या, अयं च सूत्रदोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणम्, तच्चेदम् अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणत्तं सुतं अहि य गुणेहि उववेयं ॥ १ ॥ ( आवश्यक नि०८८०) अस्या व्याख्या- अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः, उत्पादव्ययध्रौव्ययुक्तं सत् (तत्त्वार्थ० ५।२९) इत्यादिवत् सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः । यच्च द्वात्रिंशद्दोषविरहितं तत् सूत्रं भवति, के पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीया: ? उच्यते अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुत्तं वाहतमत्तं ॥ १ ॥ कमभिन्नवयणभिन्नं विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपदमेव य सभावहीणं ववहियं च ॥२॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमेत्तं च । अत्थावत्तदोसो नेओ असमासदोसो य || ३ || उवमारूवगदोसो निद्देसपयत्थसंधिदोसो य । ते उ त्तदोसा बत्ती हुति नायव्वा ॥४॥ ( आवश्यकनि०८८१-८८४) तत्रानृतमभूतोद्भावनं भूतनिह्नवश्च यथा ईश्वरकर्तृकं जगदित्याद्यभूतोद्भावनम्, नास्त्यात्मेत्यादिकस्तु भूतनिह्नवः १ | उपघातः सत्त्वघातादिः, तज्जनकं यथा 'वेदविहिता हिंसा धर्माय' इत्यादि २ । निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थः, यथा अ आ इ ईत्यादि डित्थादिवद्वा Page #357 -------------------------------------------------------------------------- ________________ ३४० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ३ | असम्बद्धार्थकमपार्थक, यथा- दश दाडिमानि, षडपूपा:, कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४ । यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलम्, यथा नवकम्बलो देवदत्त इत्यादि ५ । जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं लिम्, यथा एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः || १ || पिब खाद च चारुलोचने यदतीतं वरगात्रि तन्न ते । न हि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ||२|| ( ) इत्यादि ६ । ( वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारम् ७ । अक्षर - पदादिभिरतिमात्रमधिकम् ८, तैरेव हीनमूनम्, अथवा हेतोर्दृष्टान्तस्य वाऽऽधिक्ये सत्यधिकम्, यथा- अनित्यः शब्दः कृतकत्व-प्रयत्नानन्तरीयकत्वाभ्यां घट - पटवदित्यादि । एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्य:, अत्र च प्रत्येकं द्वयाभिधानादाधिक्यमिति भाव: । हेतु दृष्टान्ताभ्यामेव हीनमूनम्, यथाअनित्यः शब्दो घटवदिति, तथा अनित्यः शब्दः कृतकत्वादित्यादि ९ । पुनरुक्तं द्विधा शब्दतोऽर्थतश्च, तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुक्तम्, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घटः कुट: कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो वा न भुङ्क्ते इत्युक्ते अर्थादापन्नं रात्रौ भुङ्क्त इति, तत्रार्थापन्नमपि य एतत् साक्षाद् ब्रूयात्तस्य पुनरुक्तता १० । व्याहतं यत्र पूर्वेण परं विहन्यते यथा कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम् ) इत्यादि ११ । अयुक्तमनुपपत्तिक्षमं यथा तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभि: ( ) इत्यादि १२ । क्रमभिन्नं यत्र क्रमो नाराध्यते यथा स्पर्शन- रसन-प्राण- चक्षुः - श्रोत्राणामर्थाः स्पर्श-रस- गन्धरूप-शब्दा इति वक्तव्ये स्पर्श-रूप- शब्द - गन्ध-रसा इति ब्रूयात् इत्यादि १३ | वचनभिन्नं यत्र वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिता इत्यादि १४ । विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः, यथा वृक्षं पश्य इति वक्तव्ये वृक्ष: पश्य इति ब्रूयादित्यादि १५ । लिङ्गभिन्नं यत्र लिङ्गव्यत्ययः, यथा अयं स्त्रीत्यादि १६ । अनभिहितं स्वसिद्धान्तेऽनुपदिष्टम्, यथा सप्तमः पदार्थो वैशेषिकस्य, प्रकृतिपुरुषाभ्यधिकं सावयस्य, दुःख समुदय-मार्ग-निरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि १७ | यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदम्, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि १८, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत् स्वभावहीनम्, यथाशीतो वह्निः, मूर्तिमदाकाशमित्यादि १९ । यत्र प्रकृतमुत्सृज्याऽप्रकृतं व्यासतोऽभिधाय पुन: प्रकृतमुच्यते तद्व्यवहितम् २० | कालदोषो यत्रातीतादिकालव्यत्ययः यथा रामो वनं प्रविवेशेति वक्तव्ये रामो Page #358 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वारसूत्रम् [सू०६०५] वनं प्रविशतीत्याह २१ । यतिदोषोऽस्थानविरति: सर्वथाऽविरतिर्वा २२ । छविः अलङ्कारविशेषस्तेन शून्ये विदोष: २३ । समयविरुद्धं स्वसिद्धान्तविरोधि यथा सावयस्यासत् कारणे कार्यं वैशेषिकस्य वासदिति २४ | वचनमात्रं निर्हेतुकम्, यथा कश्चिद्यथेच्छया कञ्चित् प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति २५ । यत्रार्थापत्त्याऽनिष्टमापतति तदर्थापत्तिदोषो यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्ट इत्यापतति २६ । यत्र समासविधिप्राप्तौ समासं न करोति तत्रासमासदोषः २७ । उपमादोषो यत्र हीनोपमा क्रियते यथा मेरुः सर्षपोपमः, अधिकोपमा वा क्रियते यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि २८ । रूपकदोषः स्वरूपभूतानामवयवानां व्यत्ययो यथा पर्वते रूपयितव्ये शिखरादींस्तदवयवान् रूपयति अन्यस्य वा समुद्रादेः सम्बन्धिनोऽवयवाँस्तत्र रूपयतीति २९ । निर्देशदोषो यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते ३० । पदार्थदोषो यत्र वस्तु पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते तच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति ३१ । यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोष: ३२ । एते द्वात्रिंशत् सूत्रदोषाः, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रम् । अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते । ते चेमे गुणा:निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ||१|| ( आवश्यकनि०८८५) तत्र निर्दोषं सर्वदोषविप्रमुक्तम् १ । सारवद् गोशब्दवद् बहुपर्यायम् २ | हेतवः अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् ३ । उपमोत्प्रेक्षाद्यलङ्कारैरलङ्कृतम् ४ । उपनयोपसंहृतमुपनीतम् ५। ग्राम्यभणितिरहितं सोपचारम् ६ । वर्णादिनियतपरिमाणं मितम् ७ । श्रवणमनोहरं मधुरम् ८ । अन्यैश्च कैश्चिद् षड् गुणा: सूत्रस्य पठ्यन्ते, तद्यथाअप्पक्खरमसंदिद्धं सारखं विस्सओमुहं । अत्थोभमणवज्जं च सुत्तं सव्वण्णुभासि || १ || ( आवश्यकनि०८८६) तत्राल्पाक्षरं मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं सैन्धवशब्दवद्यल्लवण-वसनतुरगाद्यनेकार्थसंशयकारि न भवति, सारवत्त्वं पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षमम्, यथा धम्मो मंगलमुक्किट्टं ( दशवै० १११ ) इत्यादि श्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यतो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिँश्च व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभका: चकार - वाशब्दादयो निपातास्तैर्वि ३४१ Page #359 -------------------------------------------------------------------------- ________________ ३४२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं बंधपयं वा मोक्खपयं वा सामाइयपयं वा णोसामाइयपयं वा । तो तम्मि उच्चारिते समाणे केसिंचि भगवंताणं केइ अत्थाहिगारा अहिगया भवंति, केसिंचि य केइ अणहिगया भवंति, ततो तेसिं अणहिगयाणं अत्थाणं अभिगमणत्थाए पदेणं पदं वत्तइस्सामि - संहिता य पदं चेव पदत्थो पदविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१३५।। युक्तमस्तोभकम्, अनवयं कामादिपापव्यापाराप्ररूपकम्, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्टौ सूत्रगुणा: प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणांस्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रहं प्रतिपादयन्ति । ____ एवं च सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतत् स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदम्, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदम् । अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके । अन्ये तु व्याचक्षते प्रकृति-स्थित्यनुभाव-प्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम् कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति। आह- नन्वत्र व्याख्याने बन्ध-मोक्षप्रतिपादकं पदद्वयं स्वसमयपदान्नातिरिच्यते तत् किमिति भेदेनोपन्यास: ? सत्यम्, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति । सामायिकव्यतिरिक्तानां नारक-तिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतच्च सूत्रोच्चारणस्य फलं दर्शितम् । इदमुक्तं भवति- यत: सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगता: परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थं पदेन पदं वर्तयिष्यामि एकैकं पदं व्याख्यास्यामीत्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह- संहिया येत्यादि, १३१तत्रास्खलितपदोच्चारणं संहिता, यथा १३१. तत्रास्खलितपदोच्चारणं संहितेति । नन्वर्थकथनं व्याख्योच्यते । ततश्चास्खलिपदोच्चारणं कथं व्याख्याङ्गमिति ? प्रश्ने प्रतिवचनमिदं ज्ञेयं- व्याख्याऽर्थबोधार्थं भवति । ततश्च येन येनार्थबोधो भवति तत्सर्वं व्याख्याङ्गम् । अस्खलितादिगुणोपेतं यथा स्यात्तथा सूत्र उच्चारितमात्र एव केषाञ्चिद् मेधाविसाधूनां केचिदर्थाधिकाराः परिज्ञाता भवन्ति । परंतु यदि सूत्रोच्चारणे स्खलनादिदोषाः स्युस्तदा न तथाऽर्थबोधो भवतीत्यस्खलितादिगुणोपेतसूत्रोच्चारलक्षणायाः संहिताया व्याख्याङ्गत्वे न काऽपि शङ्केति । Page #360 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] सेतं सुत्तफासियनिज्जुत्तिअणुगमे । सेतं निज्जुत्तिअणुगमे । सेतं अणुगमे । ( सू० ६०६ ) से किं तं गए ? सत्त मूलणया पण्णत्ता । तंजहा-णेगमे संगहे ववहारे करोमि भयान्त सामायिकमित्यादि । पदं तु करोमीत्येकं पदम्, भयान्त इति द्वितीयम्, सामायिकमिति तृतीयम् इत्यादि । पदार्थस्तु करोमीत्यभ्युपगमः, भयान्त इति गुर्वामन्त्रणम्, समस्याऽऽय: सामायिकमित्यादिकः । पदविग्रहः समासः, स चानेकपदानामेकत्वापादानविषयो यथा भयस्यान्तो भयान्त इत्यादि । १३२सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना । तस्यैवानेकोपपत्तिभिस्तथैव स्थापन प्रसिद्धिः । एते च चालना - प्रसिद्धी आवश्यके सामायिकव्याख्यावसरे स्वस्थान एव विस्तरवत्यौ द्रष्टव्ये । एवं षड्विधं विद्धि जानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद्गम्यते इति श्लोकार्थः । अत्राह- नन्वस्याः षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषयः को वा सूत्रालापकनिक्षेपस्य ? कश्च सूत्रस्पर्शकनिर्युक्तेः ? किं वा नयैर्विषयीक्रियते ? उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते पदच्छेदे च कृते सूत्रालापकानामेव नाम-स्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थ-पदविग्रहादिनियोग: सर्वोऽपि सूत्रस्पर्शकनिर्युक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्राय: स पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शकनिर्युक्त्यन्तर्भाविन एव नया:, आह च भाष्यकार:- होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयागमो । सुत्तालावगनासो नामाइन्नासविणिओगं || १ || सुत्तफासियनिज्जुत्तिणिओगो से पत्थई । पाय सोच्चि गमनयाइमयगोयरो होइ || २ || (विशेषावश्यक भा०१००९-१०१०) अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत् समाप्यन्ते यत आह भाष्यसुधाम्भोनिधि: सुत्तं सुत्तागमो सुत्तालावयकओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ती नया य समगं तु वच्चति ॥ | १ || (विशेषावश्यकभा० १००११) इत्यलं विस्तरेण । सेतं अणुगमे त्ति अनुगमः समाप्तः । अथ नयद्वारमभिधित्सुराह - से किं तं नए इत्यादि । अथ कोऽयं पूर्वोक्तशब्दार्थो नयः ? ३४३ १३२. सूत्रस्यार्थस्य वाऽनुपपत्त्युद्भावनं चालनेति । ननु सूत्रे काऽनुपपत्तिः सम्भवति ? इयं-व्याकरणापेक्षया छन्दोभङ्गाद्यपेक्षया वाऽनुपपत्तिः सम्भवतीति ज्ञेयम् । तदुक्तं विशेषावश्यकभाष्यवृत्तौ शब्दार्थन्यायतः- शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्त्या शब्दगतदूषणस्य परिहारः ||१००७ वृत्तिः । । Page #361 -------------------------------------------------------------------------- ________________ ३४४ उज्जुसुए सद्दे समभिरू एवंभूते । तत्थ हिं माणेहिं मिणइ त्ती णेगमस्स य निरुत्ती १ । साणं पि नयाणं लक्खणमिणमो सुणह वोच्छं ।। १३६ ।। संगहियपिंडियत्थं संगहवयणं समासओ र्बेति २ । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं ३ |।१३७।। पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेयव्वो ४ । इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो ५ ।। १३८ ।। तत्रोत्तरोत्तरभेदापेक्षया सप्तैव मूलभूता नया मूलनया:, तद्यथा नैगम इत्यादि । तत्र नैगमं व्याचिख्यासुराह- णेगेहिमित्यादि गाथा, व्याख्या - न एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः महासत्ता-सामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगम:, इतीयं नैगमस्य निरुक्तिः व्युत्पत्तिः, अथवा निगमा लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहव: परिच्छेदास्तेषु भवो नैगमः । शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽहमिति गाथार्थः । आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं यथाप्रतिज्ञातमेवाह - संगहियगाहा, व्याख्या सम्यग् गृहीत उपात्त: सङ्गृहीतः पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत् सङ्गृहीतपिण्डितार्थं सङ्ग्रहस्य वचनं सङ्ग्रहवचनं समासतः संक्षेपतो ब्रुवते तीर्थकर गणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सङ्गृहीतसामान्यार्थमेव भवति, अत एव सङ्गृह्णाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते, युक्तिश्चात्र लेशतः प्राग्दर्शितैव । वच्चईत्यादि, निराधिक्ये, चयनं चयः पिण्डीभवनम् अधिकश्चयो निश्चयः सामान्यम्, विगतो निश्चयो विनिश्चयो विसामान्यभाव:, तदर्थं तन्निमित्तं व्रजति प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः, क्व ? सर्वद्रव्येषु सर्वद्रव्यविषये, लोके हि घट- स्तम्भाऽम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात् सामान्यमसौ नेच्छतीति भाव:, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापि लेशतः प्रागुक्तैव । अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सम्बद्धः, तदर्थं व्रजति व्यवहारनयः सर्वद्रव्येषु, इदमुक्तं भवति यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालाङ्गनादीनां यत्रैव क्वचिदेकस्मिन् स्थूले नीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः । Page #362 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] वत्थूओ संकमणं होइ अवत्थं गये समभिरूढे ६ । - तदुभयं एवंभूओ विसेसेइ ७ ।। १३९ || वंजण-अत्थ पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः, तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्मुणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु अकुटिलं वर्तमानकालभावि वस्तु सूत्रयतीति ऋजुसूत्र:, अतीतानागतयोर्विनाशानुत्पत्तिभ्यामसत्त्वाद् असदभ्युपगमश्च कुटिल इति भावः, अथवा ऋजु अवक्रं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च सुनाय उन्नं केवले तयणंतरं । अप्पणो य परेसिं च जम्हा तं परिभावगं ॥१॥ ( ३४५ ) ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति परकीयस्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरं च - भिन्नलिङ्गैर्भिन्नवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नाम स्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाणनयस्त्वतिविशुद्धत्वाल्लिङ्ग-वचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नाम - स्थापना - द्रव्याणि च नाभ्युपगमिष्यतीति भावः इत्युक्त ऋजुसूत्रः । अथ शब्द उच्यते, तत्र शप आक्रोशे ( पा०धा० १०६९, १२४४), शप्यते अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्नं वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि - तटस्तटी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्री-पुरुष नपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुरव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात् पुरुषः पुरुषा इत्यादिवदिति, नाम-स्थापना-द्रव्यरूपाश्च नेन्द्राः, तत्कार्याकरणात्, १३३ खपुष्पवदिति, प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्ग-वचनानां तु बहूनामपि शब्दानामेकमभिधेयमसौ मन्यते यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः । वत्थूओ इत्यादि, वस्तुन: इन्द्रादे: सङ्क्रमणमन्यत्र शक्रादाविति दृश्यम्, भवति अवस्तु असंभवीत्यर्थः, क्वेत्याह- नये समभिरूढे, समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् १३३. खपुष्पवदिति । क्वचित् कदाचित् केनचिद् घटादेरपि 'इन्द्र' इति नाम कृतं स्यात्तदा घटादेरपि नामेन्द्रतया पक्षान्तर्गतत्वेन दृष्टान्तत्वासम्भवाद् घटादिकं प्रसिद्धं सन्तं दृष्टान्तं विहायासतः खपुष्पस्यात्र दृष्टान्ततयोपादानं कृतमिति ध्येयम् । Page #363 -------------------------------------------------------------------------- ________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं शक्र वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:- इन्द्रक - पुरन्दरादिशब्दान् अनन्तरं १३४ शब्दनयेन एकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, भिन्नप्रवृत्तिनिमित्तत्वात्, सुर - मनुजादिशब्दवत्, तथाहि इन्दतीति इन्द्रः, शक्नोतीति शक्रः, पुरं दारयतीति पुरन्दरः, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गः घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण । उक्तः समभिरूढः। वंजणअत्थेत्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं ३४६ १३४. शब्दनयेनैकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वादित्यादि । इदमत्र हृदयम - विभक्त्यन्तेन पदेनाभिधेयगतं लिङ्गवचनादिकं यथा बुध्यते तथैवेन्दन- शकनादिधर्मा अपि बुध्यन्ते । तथापीन्द्रशक्रादिशब्दश्रवणमात्रेणेन्दन-शकनादिधर्मावबोधः केषाञ्चिद् मेधाविनामेव भवति, तदन्येषां तु लिङ्गादिबोधमात्र एवेति प्रसिद्धम् । अतो ज्ञायते यद् 'लिङ्गादिभेदेन यो वस्तुभेदस्तद्विषयो यो बोधस्तदपेक्षया प्रवृत्तिनिमित्तभूतेन्दनादिभेदेन यो वस्तुभेदस्तद्विषयो यो बोधः स सूक्ष्मतरां बुद्धिमपेक्षते' इति । ततश्च विशुद्धेनापि शब्दनयेनानवबुध्यमान इन्दनशकनादिभेदप्रयुक्तो वस्तुभेदो विशुद्धतरेण समभिरूढनयेन बुध्यते कथ्यते चेति ज्ञेयम् । ननु घटनिष्ठा या घटत्वावच्छिन्ना 'अयं घटः' इति ज्ञाननिरूपिता विषयता, या च पृथिवीत्वावच्छिन्ना 'इयं पृथिवी' इति ज्ञाननिरूपिता विषयता, तयोः सत्यपि भेदे न तदाश्रयस्य घटस्य भेदः, एवं सत्यपीन्दन - शकनादिधर्मभेदे कथमिन्द्र-शक्रलक्षणस्य धर्मिणो भेदः ? इति प्रश्नस्येदं प्रतिवचनं प्रतिभाति यद् - पर्यायार्थिकनयतया शब्दादिनयास्तटादिपदानां इन्द्रादिशब्दानां वा शक्तिं तटादिगत-इन्द्रादिगतपर्यायेष्वेव मन्यन्ते । पर्यायवत्सु तटादिद्रव्येष्विन्द्रादिद्रव्येषु वा लक्षणामेव (उपचारमेव) मन्यन्ते, सुनयत्वात्तेषाम् । तस्मात्तेषां तटादिपदवाच्यत्वेनेन्द्रादिशब्दवाच्यत्वेन वा मुख्यतया तटादिगतानामिन्द्रादिगतानां वा लिङ्गवचनादिलक्षणानामिन्दनशकनादिलक्षणानां वा पर्यायाणामेवोपस्थितिः संमता । अत एव 'न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हती त्यादिकं वृत्तिकारैरुक्तम् । तस्माद् लिङ्गादिभेदेनेन्दनादिभेदेन वा वाच्यार्थभेदं ते मन्यन्त इति । नैगमादिनयास्तु द्रव्यार्थिकतया तटादिपदवाच्यत्वेनेन्द्रादिशब्दवाच्यत्वेन वा तटेन्द्रादिद्रव्याणामेवोपस्थितिं मुख्यतया यतो मन्यन्तेऽतो न तेषां लिङ्गादिभेदेऽपीन्दनादिभेदेऽपि वा वाच्यार्थभेद इति स्पष्टमेव । Page #364 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं प्राप्तमिति कृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्वशिष्टस्यैव वस्तुनोऽभ्युपगमात्, तमेवं भूत: प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते । स एवंभूतो नयः किमित्याह- व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्दः, अर्थस्तु तदभिधेयवस्तुरूपः, व्यञ्जनं चार्थश्च व्यञ्जनार्थी, तौ च तौ तदुभयं चेति समासः, १३५व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देश: प्राकृतत्वात्, व्यञ्जनार्थतदुभयं विशेषयति नैयत्ये स्थापयति, इदमत्र हृदयम् - शब्दमर्थेनार्थं च शब्देन विशेषयति यथा घट चेष्टायाम् (पा०धा०८१२), घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो घटः यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः १३६ इति गाथार्थः । उक्ता मूलनया: । एषां चोत्तरोत्तरभेद - प्रभेदा आवश्यकादिभ्योऽवसेयाः । एते च सावधारणा: सन्तो दुर्नया:, अवधारणविरहितास्तु सुनया:, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया । T अत्राह कश्चित् - ननूक्ता एते नया:, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनम् । पुनरप्याह-- नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा ? यद्याद्यः पक्षः स न युक्तः प्रतिसूत्रं नयविचारस्य न नया समोयरंति इह १३५. व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देश इति । 'अर्थ' शब्दस्याल्पाक्षरत्वादर्थस्य च व्यञ्जनापेक्षयाऽभ्यर्हितत्वाच्च पूर्वनिर्देशे प्राप्तेऽपि सूत्रे 'व्यञ्जन 'शब्दस्यैव पूर्वनिर्देशोऽर्थ - शब्दस्य तूत्तरनिर्देशो यो दृश्यते स व्यस्तनिर्देश इति । तत्र च 'प्राकृतत्वादि 'ति हेतुर्वृत्तिकारैर्दत्तः । ननु संस्कृतभाषायामपि सूत्रार्थावित्यादिसमासो दृश्यत एवेति चेत् ? सत्यं तत्र क्रमप्रामाण्यादि ति हेतुर्ज्ञेयः । यतः पूर्वं सूत्रं भवति ततोऽर्थः, अतः 'सूत्र'शब्दस्य पूर्वनिपातः क्रियत इति । १३६. इति गाथार्थ इति । यद्वैवं प्रकारोऽप्यर्थोऽत्र शक्यते वक्तुम् । व्युत्पत्तिनिमित्तविशिष्टप्रवृत्तिनिमित्तमेव प्रवृत्तिनिमित्तत्वेन स्वीक्रियत एवंभूतनयेन । तस्माद् योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावदप्यन्यत् पात्रं न 'घट' पदवाच्यं घटत्वलक्षणस्य प्रवृत्तिनिमित्तस्याभावात् । अपवरकैककोणस्थितो घटोऽपि न 'घट' पदवाच्यः, जलाहरणचेष्टालक्षणस्य घटनरूपस्य व्युत्पत्तिनिमित्तस्याभावादिति योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् घट एवैवंभूतनयेन 'घट' पदवाच्यः, जलाहरणचेष्टाविशिष्टघटत्वलक्षणस्य स्वाभिप्रेतप्रवृत्तिनिमित्तस्य सत्त्वादिति । ३४७ Page #365 -------------------------------------------------------------------------- ________________ ३४८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (आवश्यकनि० ७६२) मित्यनेन निषिद्धत्वाद्, अथापर: पक्ष: सोऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातनिर्युक्तौ नए समोयारणाणुमए इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते, अत्रोच्यते, यस्तावत् प्रतिसूत्रं नयविचारनिषेध: प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च आसज्ज उ सोयारं नए नयविसारओ बूया (आवश्यकनि० ७६१) इत्यनेनापवादिक: सोऽनुज्ञात एव, यदप्युच्यते समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातेत्यादि तत् समयानभिज्ञस्यैव वचनम्, यस्मादिदमेव चतुर्थानुयोगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव च तेषां तत्रोपन्यास:, यदप्युक्तम्- न च सूत्रव्यतिरिक्तमध्ययनमित्यादि, तदप्यसारम्, समुदाय-समुदायिनो: कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि- प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिबिकावाहकपुरुषसमुदाये उपलभ्यते, एवं च प्रत्येक-समुदितावस्थयो: कार्यभेद: शिबिकावाहनादिषु सामर्थ्यासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न भेदकस्तर्हि सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात् कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदाय-समुदायिनोर्भेद: प्रतिपत्तव्य:, एवं सङ्ख्या-संज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात् कश्चित् क्वचित् सूत्रविषय: समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्वित् कियद्भिरेव ? यदि सर्वैरिति पक्ष: स न युक्तः तेषामसङ्खयेयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि- यावन्तो वचनमार्गास्तावन्त एव नया:, यथोक्तम् - जावइया वयणपहा तावइया चेव होति नयवाया। जावइया नयवाया तावइया चेव परसमया ॥१।। (सम्मति० ३।४७) न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणाम्, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि कि नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्याम:, अथापि स्यात् - असंख्येयत्वेऽप्येषां सकलनयसाहिभिर्नयैर्विचारो विधीयते, ननु तेषामपि सङ्ग्राहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि- पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च- एक्केक्को य सयविहो सत्त नयसया हवंति एमेवे ( आवश्यकनि० ७५९) त्यादि, सप्तानां च नयशतानां सङ्ग्राहका: पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादिनया:, तत्सङ्ग्राहिणौ पुनरपि द्रव्य-पर्यायास्तिको नयौ ज्ञान-क्रियानयौ वा निश्चय-व्यवहारौ वा शब्दा-ऽर्थनयौ वेत्यादि इति सङ्ग्राहकनयानामप्यनेकविधत्वात् सैवानवस्था । अहो Page #366 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] णायम्मि गिहियव्वे अगिण्हियव्वम्मि चेव अत्थम्मि | जयव्वमेव इइ जो उवएसो सो नओ नाम ॥ १४०॥ सव्वेसि पि नाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणओि साहू || १४९१ ।। सेतं नए | || अणुओगद्दाराई सम्मत्ताई ॥ सोलस साणि चउरुत्तराणि गाहाण जाण सव्वग्गं । दुसहस्समणुट्टुभछंदवित्तपरिमाणओ भणियं ।। १४२ ।। अतिनिपुणमुक्तम्, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते तच्च मुक्तिफलम्, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयम्, तच्च ज्ञानक्रियात्मकमेव ततो ज्ञान-क्रियानयाभ्यामेवास्य विचारो युक्ततरो नान्यैः । तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविष्करणार्थ- माह - णायम गाहा । व्याख्या- ज्ञाते सम्यग् अवगते गिहियव्वे ग्रहीतव्ये, उपादेय इत्यर्थः, अग्रहीतव्ये अनुपादेये, स च हेय उपेक्षणीयश्च द्वयोरप्यग्रहणाविशेषात् चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते उपेक्षणीयं त्वनुक्तमप्ययमेव चकारः समुच्चिनोति वो गाथालङ्कारमात्रे, अत्थंमि त्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्यः स्रक् - चन्दना -ऽङ्गनादिः, अग्रहीतव्योऽहि-विष- कण्टकादिः, उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः एवंभूतेऽर्थे यतितव्यमेवेति, अत्रैवकारोऽवधारणे, तस्य च व्यवहितः प्रयोग:, तद्यथा ज्ञात एवेति, तदयमर्थ:- ग्राह्याग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत्प्राप्ति - परिहारोपेक्षार्थिना यतितव्यं प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इति, इति एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह - नड्ड इति प्रस्तावाज्ज्ञाननयो नामेति शिष्यामन्त्रणे इत्यक्षरघटना । भावार्थस्त्वयम् - इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थं प्रतिपादयति- नन्वैहिका - ऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्- पढमं नाणं तओ दये (दशवै० ४।१० ) त्यादि जं अन्नाणी कम्मं खवेइ ( कल्पभा० ११७० ) त्यादि, तथा अपरमप्युक्तम् पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खमि । वियरस य पडिवत्ती तिन्नि वि नाणे समप्पंति ||१|| ( तथा अन्यैरप्युक्तम् ३४९ ) Page #367 -------------------------------------------------------------------------- ________________ ३५० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं नगरमहादारा इव कम्मदाराणुओगवरदारा । अक्खर-बिंदू-मत्ता लिहिया दुक्खक्खयट्ठाए ॥१४३।। विज्ञप्ति: फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनाद् ।।१।। ( ) इति । इतश्च ज्ञानस्यैव प्राधान्यं यतस्तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम् गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ।।१।। (कल्पभा० ६८८, ओघनि० १२१) न यस्मादन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षा प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम्, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम्, प्रयोगश्चात्र- यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिक-श्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात्, देशविरति-सर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थ: । विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यते- तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेतामेव गाथामाहनायम्मीत्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते- इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकारः स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यत: सकलस्यापि पुरुषार्थस्य क्रियैव प्रधान कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानय, शेषं पूर्ववत्, अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति- ननु क्रियैव प्रधान पुरुषार्थसिद्धिकारणम्, यत आगमेऽपि तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तम्, सुबहु पि सुयमहीयं किं काही चरणविप्पमुक्कस्स ? । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥१।। (आवश्यकनि० ९८) Page #368 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] नाणं सविसयनिययं न नाणमित्तेण कज्जनिष्पत्ती | मग्गण्णू दिट्टंतो होइ सचिट्टो अचिट्टो य || २ || (आवश्यकनि० ११५७) जाणंतोऽवि य तरिउं काइयजोगं न जुंजई जो उ । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ||३|| ( आवश्यकनि० ११६० ) जहा खरो चंदणभारवाही (आवश्यकनि० १००) त्यादि तथा अन्यैरप्युक्तम् क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्री-भक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेद् || १ || ( ) इति । एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्थायां सर्वसंवररूपा चारित्रक्रिया न प्राप्तेति, तस्माद् क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम्, प्रयोगश्चात्र- यद् यत्समनन्तरभावि तत् तत्कारणम्, यथा अन्त्यावस्थाप्राप्तपृथिव्यादिसामग्र्यनन्तरभावी तत्कारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चैष चतुर्विधे सामायिके देशविरति - सर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्व - श्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः । ३५१ ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशङ्कय ज्ञानक्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह - सव्वेसिंपि गाहा, व्याख्या - न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्य- विशेषवादिनां नाम - स्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनीं प्रोक्तिं निशम्य श्रुत्वा तदिह सर्वनयविशुद्धं सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यम्, यत् किमित्याह - यच्चरणगुणस्थितः साधुः, चरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम्, तयोस्तिष्ठतीति चरण-गुणस्थः, ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः । तथाहि यत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाह - पाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-सन्धुक्षण-ज्वालनादिक्रियानुष्ठानादपि न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि तस्मात् सर्वत्र ज्ञान - क्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, Page #369 -------------------------------------------------------------------------- ________________ ३५२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिनाऽपि यद् यत्समन्तरभावि तत् तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्वलक्षणो हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च तथाहिस्त्री-भक्ष्य-भोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धेरसिद्धो हेतु:, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकरणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धि:, उक्तं चहयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो धावमाणो य अंधओ || १ || संयोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । धोय पंगू व समेच्चा ते संपउत्ता नयरं पविडा || २ || ( आवश्यकनि० १०१-१०२ ) इत्यादि । अत्राह- नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्ति: प्रत्येकमसती समुदायेऽपि कथं स्यात् ? न हि यद् येषु प्रत्येकं नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञान- -क्रिययोर्मुक्त्यवापिका शक्ति:, उक्तं च पत्तेयमभावाओ निव्वाणं समुदियासु विन जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥ (विशेषावश्यकभा० ११६३ ) उच्यते - स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोष:, आह च वसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायमि संपूण्णा || १ || ( विशेषावश्यकभा० ११६४ ) अतः स्थितमिदं ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति तत्त्वम् । तथा च पूज्या: नाणाहीणं सव्वं नाणनओ भाइ किं व किरियाए ? | किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ | १ | | ( विशेषावश्यकभा० ३५९१) तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव स च ज्ञान- क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत् सर्वनयविशुद्धं यच्चरण-‍ - गुणव्यवस्थितः साधुरिति । तदेवं समर्थितं नयद्वारम्, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् ।। Page #370 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किञ्चिदिह वितथम् ||१|| सूत्रमतिलच्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोष-गुणयोस्त्यागोपादानविधिकुशलैः ॥२॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? | सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ||३|| कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ||४|| श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥५॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति || ६ || युग्मम् । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुङ्गत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । सम्यग्-ज्ञान-विशुद्धसंयम-तपः-स्वाचारचर्यानिधिः शान्तः श्रीजयसिंहसूरिरभवन्निः सङ्गचूडामणिः ||७| रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ||८|| श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः । वय : संक्ति: कस्तद्गुणकीर्तने विबुध: ? || ९ || तथाहि आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच: पीयूषपानोद्यतैर्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः || १० || कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभो - स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । ३५३ Page #371 -------------------------------------------------------------------------- ________________ ३५४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं यस्याऽऽशास्वनिवारितं विचरति श्वेतांशुगौरं यश: ॥११।। यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ।।१२।। विस्फूर्जत्कलिकालदुस्तरतम:सन्तानलुप्तस्थिति: सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्ण: समुद्द्योतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥१३।। तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ।।१४।। ॥ अनुयोगद्वारवृत्तिः समाप्ता । अत्र प्रत्यक्षरगणनया ग्रन्थानम् ५७०० । शिवमस्तु श्रीचतुर्विधसंघस्य । १३७. रवगतार्था' इति पाठोऽत्र समुचितो भाति । तदेवं समाप्तिमगाद् मलधारिश्रीहेमचन्द्रसूरिसन्दृब्धवृत्तिसमेतानुयोगद्वारसूत्रविषमपदटिप्पणी। जिनाज्ञाविपरीतं यदुक्तं मयाऽल्पबुद्धिना । तत्सद्भिर्गुणदोषज्ञैः शोध्यं मयि कृपालुभिः ।।१।। तपागच्छे श्रिया युक्तेऽभवन् श्री प्रेमसूरयः । निर्मलब्रह्मचर्यालङ कृताः कर्मविशारदाः ।।२।। पट्टे तेषां रराजे श्रीभुवनभानुसूरयः । न्यायविशारदाः पञ्चाचारलीनास्तपोधनाः ।।३।। अध्यात्मरसिकास्तेषां प्रभुभक्तौ कृतश्रमाः । शिष्या धर्मजिदाख्या मे पितृव्याः समतारताः ।।४।। तच्छिष्या लघुभ्रातारः प्रमोदभावनिर्झराः । जयशेखरसूरीशाः सूरिमन्त्रसुसाधकाः ।।५।। द्विकरसखनेत्रेऽब्दे तच्छिष्यसूरिणा कृता । अभयशेखरेणेयं टिप्पणी नन्दताच्चिरम् ।।६।। Page #372 -------------------------------------------------------------------------- ________________ (ક). પૂ.આ. શ્રી અભયશેખરસૂરિ મ.સા.નું સંપાદિત અનુવાદિત લિખિત અધ્યયનનોપયોગી સાહિત્ય (1). અધ્યાત્મમતપરીક્ષા (16) તત્ત્વ નિર્ણય ધર્મ પરીક્ષા. (17) દેવદ્રવ્યઃજિનપૂજા (3). સામાચારી પ્રક્રણ, આરાધક (18 નવાંગી ગુરુપુજન વિરાધક ચતુર્ભની પ્રક્રણ થી ર૧) પશ્નોત્તરી વગેરે (4). સભ્યત્વ ષસ્થાનની યઉપઈ (રર) eતક નામે પાંચમા દ્વાત્રિાદ્ દ્વાáટાકા (ભાગ-૧) કર્મચન્થના પદાર્થો-ટિપ્પણો કર્મપ્રકૃતિ પદાર્થો (ભાગ-૧) (ર૩) દશાવિધ સામાચારી (ભાગ-૧) કર્મપ્રકૃતિ પદાર્થો (ભાગ-૨) (ર૪) દાવિધ સામાચારી (ભાણ-ર) દewવધ સામાચારી (ભાગ-૩) (રપ). કર્મપ્રકૃતિ પદાર્થો (ભાગ-૩). (8) (ર૬) તિથિઅંગે સત્ય અને પ્રશ્નોત્તરી સમાધાન (ભાગ-૧) ન્યાય સિદ્ધાન્ત મુક્તાવલી (ર૭) તિથિઅંગે સત્ય અને (ભાગ-૧) સમાધાન (ભાગ-ર) (10). | ન્યાય સિદ્ધાન્ત મુક્તાવલી | (28) દ્રવ્ય-ગણ-પયTયનો રાસ (ભાગ-ર) (ભાગ-૧) (11) સત્પદાદિ પ્રરૂપણા (ર૯) સપ્તભંણીવિંશિકા (૧ર) હારિભદ્ર યોગભારતી (30) નિક્ષેપવિંશિકા (13) યોગાવિંટાકા (31) યા બિનપૂના 45૨ના પાપ હૈ ? (14) સિદ્ધિનાં સોપાન (૧પ) તત્ત્વાવલોકન સમીક્ષા પૂ. આ. શ્રી અભયશેખર સૂરિ મ.સા. લિખિતા ઉપદેશત્નાક સાહિત્ય (1) હંસા ! તું ઝીલ મૈત્રી સરોવરમાં... (ર) હૈયું મારું નૃત્ય રે (3) હું છું હું છું એ જ અજ્ઞાનતા (4) H પડિક્કમણું ભાવej (પ) અવિકખા આણાશંદે (6) હું છું સેવક તારો રે (7) હા પસ્તાવો વિપુલ ઝરણું... (8) મિચ્છામદુક્કડમ્ (9) ટાળયે દોષ સંતાપ રે... મુદ્રક : શ્રી પાર્શ્વ કોમ્યુટર-અમદાવાદ. ફોન : (079) 25460295