________________
श्रीअनुयोगद्वारसूत्रम् [सू०२९] भावावस्सयं । सेतं भावावस्सयं ।
(सू० २९) तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा णामधेज्जा भवंति। तंजहाआवस्सयं १, अवस्सकरणिज्ज २, धुवणिग्गहो ३, विसोही य ४ । अज्झयणछक्कवग्गो ५, नाओ ६, आराहणा ७, मग्गो ८ ॥२॥
समणेण सावएण य अवस्सकायव्वयं हवति जम्हा ।
अंतो अहो-निसिस्स उ तम्हा आवस्सयं नाम ॥३॥ सेतं आवस्सयं । भावावश्यकम् । अत्राप्यवश्यंकरणादावश्यकत्वं तदुपयोगपरिणामस्य च सद्भावाद् भावत्वं मुखवस्त्रिकाप्रत्युपेक्षण-रजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वाद् नोआगमत्वं भावनीयम् । सेतमित्यादि निगमनम् । ___तदेवं स्वरूपत उक्तं भावावश्यकम् । अनेनैव चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह- तस्स णं इमे इत्यादि । तस्य आवश्यकस्य अमूनि वक्ष्यमाणानि एकार्थिकानि परमार्थत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नककाराद्यक्षराणि नामधेयानि पर्यायध्वनयो भवन्ति, तद्यथा-आवस्सयं गाहा। ___ व्याख्या-श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम्, अथवा ज्ञानादिगुणा मोक्षो वा आ समन्तादृश्य: क्रियतेऽनेनेत्यावश्यकम्, अथवा आ समन्ताद्वश्या इन्द्रिय-कषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम्, अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यम्, पूर्वमपि च व्युत्पादितमिदम् । तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयम् । तथा ध्रुवनिग्रह इति , अत्रानादित्वात् क्वचिदपर्यवसितत्वाच्च ध्रुवं कर्म तत्फलभूतः संसारो वा, तस्य निग्रहहेतुत्वान्निग्रहो ध्रुवनिग्रहः । तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः । तथा सामायिकादि-षडध्ययनकलापात्मकत्वादध्ययनषड्वर्गः । तथाऽभिप्रेतार्थसिद्धेः सम्यगुपायत्वात् न्याय:, अथवा जीवकर्मसम्बन्धापनयनान्न्यायः, अयमभिप्राय:यथा कारणिकैदृष्टो न्यायो द्वयोरर्थि-प्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनमप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसम्बन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । तथा मोक्षाराधनाहेतुत्वादाराधना । तथा मोक्षपुरप्रापकत्वादेव मार्ग इति गाथार्थः ।।२।।
उक्तगाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाह- समणेण० गाहा, श्रमणादिना अहोरात्रस्य मध्ये यस्मादवश्यं क्रियते तस्मादावश्यकम् । एवमवश्यकरणीयादिपदानामपि व्युत्पत्तिर्द्रष्टव्या, उपलक्षणत्वादस्या इति गाथार्थः ।।३।।
सेत्तमित्यादि निगमनम्, तदेतदावश्यकं निक्षिप्तमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org