________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत
(सू० ३०) से किं तं सुयं ? सुयं चउव्विहं पण्णत्तं । तंजहा - नामसुयं १, ठवणासुयं २, दव्वसुयं ३, भावसुयं ४ ।
(सू० ३१) से किं तं नामसुयं ? नामसुयं जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा सुए इ नाम कीरति से तं नामसुयं ।।
(सू० ३२) से किं तं ठवणासुयं ? ठवणासुयं जण्णं कट्ठकम्मे वा जाव सुए इ ठवणा ठविज्जति से तं ठवणासुयं ।
(सू० ३३) नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा ।
(सू० ३४) से किं तं दव्वसुयं ? दव्वसुयं दुविहं पण्णत्तं । तं जहा - आगमतो य १, नोआगमतो य २।
तदेवं नामादिभेदैनिक्षिप्तमावश्यकम्, तन्निक्षेपे च यदुक्तम् ‘आवश्यकं निक्षेप्स्यामि' इति तत् सम्पादितम्, साम्प्रतं पुनर्यदुक्तं श्रुतं निक्षेप्स्यामि' इति तत्सम्पादनार्थमाह- से किं तं सुतमिति । अथ किं तत् श्रुतमिति प्रश्नः । अत्र निर्वचनं सुतं चउव्विहमित्यादि, श्रुतं प्राग्निरूपितशब्दार्थं चतुर्खिधं प्रज्ञप्तम्, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भावश्रुतं च ।
तत्राऽऽद्यभेदनिर्णयार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्-नामश्रुतं जस्स णमित्यादि, यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा श्रुतमिति यन्नाम क्रियते तन्नामश्रुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः । अथवा यस्य जीवादेः श्रुतमिति नाम क्रियते तज्जीवादिवस्तु नामश्रुतम्, नाम्ना नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः । तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवमभ्यूह्य वाच्या । सेत्तमित्यादि निगमनम् ।
उक्तं नामश्रुतम्, अथ स्थापनाश्रुतनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्ठवणासुतं जं णमित्यादि, अत्र व्याख्यानं यथा स्थापनावश्यके तथा सप्रपञ्चं द्रष्टव्यम्, नवरमावश्यकस्थाने श्रुतमुच्चारणीयम्, काष्ठकर्मादिषु श्रुतपठनादिक्रियावन्तः एकादिसाध्वादयः स्थाप्यमाना: स्थापनाश्रुतमिति तात्पर्यम् । सेत्तमित्यादि निगमनम् । ___ नामठवणाणं को पइविसेसो ? इत्यादि पूर्वं भावितमेव । वाचनान्तरे तु नामठवणाओ भणिताओ इत्येतदेव दृश्यते,आवश्यकनाम-स्थापनाभणनेन प्रायोऽभिन्नार्थत्वात् श्रुतनाम-स्थापने अप्युक्ते एव भवत इत्यतो नात्र ते उच्यते इति भावः ।
द्रव्यश्रुतनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम्- दव्वसुतं दुविहमित्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org