________________
४४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं भावावस्सयाई करेंति । से तं कुप्पावयणियं भावावस्सयं ।
(सू० २८) से किं तं लोगोत्तरियं भावावस्सयं ? लोगोत्तरियं भावावस्सयं जण्णं इमं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे तल्लेसे तयज्झवसिते तत्तिव्वज्झवसाणे तयट्ठोवउत्ते तयप्पियकरणे तब्भावणाभाविते अण्णत्थ कत्थइ मणं अकरेमाणे उभओकालं आवस्सयं करेति । सेतं लोगोत्तरियं भावावस्सयं । सेतं नोआगमतो नोआगमत्वमवगन्तव्यम्, नोशब्दस्येहापि देश-निषेधपरत्वात् । तस्माच्चरकादयस्तदुपयुक्ता यथावसरं यदवश्यमिज्याञ्जल्यादि कुर्वन्ति तत् कुप्रावनिकं भावावश्यकम् । भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव । सेतमित्यादि निगमनम् ।
उक्तो नोआगमतो भावावश्यकद्वितीयभेदः, अथ तत्तृतीयभेदनिरूपणार्थमाह- से किं तं लोउत्तरियमित्यादि । अत्र निर्वचनम्- लोउत्तरियं भावावस्सयं जं णमित्यादि । जंणं ति, णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः । तत्र श्राम्यतीति श्रमण: साधुः, श्रमणी साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक: श्रमणोपासकः, श्राविका श्रमणोपासिका, वाशब्दा: समुच्चयार्थाः । तस्मिन्नेवाऽऽवश्यके चित्तं सामान्योपयोगरूपं यस्येति स तच्चित्त: । तस्मिन्नेव मनो विशेषोपयोगरूपं यस्य स तन्मना: । तत्रैव लेश्या शुभपरिणामरूपा यस्येति स तल्लेश्य: । तथा तदध्यवसित:, इहाध्यवसायोऽध्यवसितम्, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः । तथा तत्तीव्राध्यवसान:, तस्मिन्नेवाऽऽवश्यके तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा । तथा तदर्थोपयुक्तः, तस्य आवश्यकस्यार्थस्तदर्थः, तस्मिन्नुपयुक्तस्तदर्थोपयुक्त: प्रशस्ततरसंवेगविशुद्ध्यमान:, तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः । तथा तदर्पितकरणः, करणानि तत्साधकतमानि देह-रजोहरण-मुखवस्त्रिकादीनि, तस्मिन् आवश्यके यथोचितव्यापारनियोगेनाऽर्पितानि नियुक्तानि तानि येन स तथा, सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः । तथा तद्भावनाभावित:, तस्य आवश्यकस्य भावना अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुन: पुनस्तदनुष्ठानरूपा तया भावित: अङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावित: । तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि । अमूनि च लिङ्गविपरिणामत: श्रमणी-श्राविकयोरपि योज्यानि । तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादय: उभयकालम् उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकम्, भावमाश्रित्य भावश्चासावावश्यकं चेति वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org