________________
श्रीअनुयोगद्वारसूत्रम् [सू०२६,२७]
(सू० २६) से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं पुव्वण्हे भारहं अवरण्हे रामायणं । सेतं लोइयं भावावस्सयं ।
(सू० २७) से किं तं कुप्पावयणियं भावावस्सयं ? कुप्पावयणियं भावावस्सयं ? जे इमे चरग-चीरिय जाव पासंडत्था इज्जंजलि-होम-जप्प-उंदुरुक्क-नमोक्कारमाइयाई भारतमपराह्ने रामायणं वाचयति शृणोति वा तल्लौकिकं भावावश्यकम्, लोके हि भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्नापराह्णयोरेव रूढम्, विपर्यये दोषदर्शनात् । ततश्चेत्थमनयोर्लोकेऽवश्यकरणीयत्वादावश्यकत्वम्, तद्वाचकश्रोतृणां च तदर्थोपयोगपरिणामसद्भावाद् भावत्वम्, तद्वाचकश्रोतारश्च पत्रकपरावर्तन-हस्ताभिनय-गात्रसंयतत्व-करकुड्मलमीलनादिक्रियायुक्ता भवन्ति, क्रिया च अनागमत्वेन प्रागिहोक्ता(पृ.३२), किरियाऽऽगमो न होइ ( ) त्ति वचनात्, ततश्च क्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वमपि भावनीयम्, नोशब्दस्यात्र देशनिषेधवचनत्वात्, देशे त्वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात्, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्य भारतादि वाचयन्ति शृण्वन्ति वा तल्लौकिकं भावावश्यकमिति स्थितम्, भावमाश्रित्याऽऽवश्यकं भावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं विस्तरेण । सेतमित्यादि निगमनम् ।
उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्वितीयभेदनिरूपणार्थमाह - से किं तं कुप्पावयणियमित्यादि । अत्र च निर्वचनमाह- कुप्पावयणियं भावावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते तथा, तेषु भवं कुप्रावचनिकं भावावश्यकम्, किं तत् ? उच्यते, य एते चरक-चीरिकादय: पाषण्डस्था यथावसरम् इज्याञ्जलि-होमादीनि भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकमिति सम्बन्धः । तत्र चरकादिस्वरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिस्वरूपं तूच्यते- तत्र यजनमिज्या याग इत्यर्थः, तद्विषयो जलस्याञ्जलिरिज्याञ्जलिर्यागदेवतापूजावसरभावीति हृदयम् । अथवा यजनमिज्या पूजा गायत्र्यादिपाठपूर्व विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलि: इज्याञ्जलि: । अथवा देशीभाषया इज्ज त्ति माता, तस्या नमस्कारविधौ तद्भक्तैः क्रियमाण: करकुड्मलमीलनलक्षणोऽञ्जलिरिज्याञ्जलि: । होमः अग्निहोत्रिकै: क्रियमाणमग्निहवनम् । जपो मन्त्राद्यभ्यास:। उंदुरुक्कंति देशीवचनत उन्दु मुखम्, तेन रुक्कं वृषभादिशब्दकरणमुन्दुरुक्कं देवतादिपुरतो वृषभगर्जितादिकरणमित्यर्थः । नमस्कारो नमो भगवते दिवसनाथाय' इत्यादिकः । एतेषां द्वन्द्वे इज्याञ्जलि-होम-जपोन्दुरुक्क-नमस्कारा:, ते आदिर्येषां तानि तथा, आदिशब्दात् स्तवादिपरिग्रहः । एतेषां च चरकादिभिरवश्यं क्रियमाणत्वादावश्यकत्वम् । एतत्कर्तृणां च तदर्थोपयोगश्रद्धादिपरिणामसद्भावाद् भावत्वम् । अन्यच्च, चरकादीनां तदर्थोपयोगलक्षणो देश आगम:, देशस्तु कर-शिरोव्यापारादिक्रियालक्षणोऽनागमः, ततो देशे आगमाभावमाश्रित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org