________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० २३) से किं तं भावावस्सयं ? भावावस्सयं दुविहं पण्णत्तं । तंजहा- आगमत य १, णोआगमतो य २ ।
४२
(सू० २४) से किं तं आगमतो भावावस्सयं ? आगमतो भावावस्सयं जाणए उवउत्ते । सेतं आगमतो भावावस्सयं ।
( सू० २५) से किं तं नोआगमतो भावावस्सयं ? नोआगमतो भावावस्सयं तिविहं पण्णत्तं । तंजहा - लोइयं १, कुप्पावयणियं २, लोगुत्तरियं ३ ।
उक्तं सप्रपञ्चं द्रव्यावश्यकम्, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह - से किं तमित्यादि । अथ किं तद् भावावश्यकमिति । अत्र निर्वचनमाह- भावावस्सयं दुविहमित्यादि । वक्तृविवक्षितपरिणामस्य भवनं भावः । उक्तं च -
भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनाक्रियाऽनुभवात् ॥ १॥ (
)
व्याख्या - वक्तुर्विवक्षितक्रियायाः विवक्षितपरिणामस्य इन्दनादेरनुभवनम् अनुभूतिस्तया युक्तो योऽर्थः स भाव- तद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः । निदर्शनमाह - इन्द्रादिवदित्यादि । यथा इन्दनादिक्रियानुभवात् परमैश्वर्यादिपरिणामेन परिणतत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः इत्यार्यार्थः ।
भावश्चासौ आवश्यकं च भावमाश्रित्य वा आवश्यकं भावावश्यकम् । तच्च द्विविधं प्रज्ञप्तम्, तद्यथा - आगमतः आगममाश्रित्य नोआगमतः आगमाभावमाश्रित्य ।
-
तत्राऽऽद्यभेदनिरूपणार्थमाह से किं तमित्यादि । अथ किं तदागमतो भावावश्यकम् ? अत्राह - आगमओ भावावस्सयं जाणए इत्यादि, ज्ञायक उपयुक्त आगमतो भावावश्यकम् । इदमुक्तं भवति - आवश्यक पदार्थज्ञस्तज्जनितसंवेगेन विशुद्धयमानपरिणामस्तत्रैवोपयुक्तः साध्वादिरागमत भावावश्यकम्, आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावात् । भावावश्यकता चात्राSsarयकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्तेः, अथवाऽऽवश्यकोपयोगपरिणामानन्यत्वात् साध्वादिरपि भाव:, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्येति । सेतमित्यादि निगमनम् ।
अथ भाववश्यक द्वितीयभेदनिरूपणार्थमाह से किं तमित्यादि । अथ किं तन्नो आगमतो भावावश्यकम् ? अत्राऽऽह - नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्तम् । तद्यथा - लौकिकं कुप्रावचनिकं लोकोत्तरिकं च ।
तत्र प्रथमभेदनिर्णयार्थमाह- से किं तं लोइयमित्यादि, अथ किं तल्लौकिकं भावावश्यकमिति ? अत्राह - लोइयं भावावस्सयं पुव्वण्हे इत्यादि । लोके भवं लौकिकम् । यदिदं लोकः पूर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org