________________
४१
श्रीअनुयोगद्वारसूत्रम् [सू०२२] जे इमे समणगुणमुक्कजोगी, छक्कायनिरणुकंपा, हया इव उद्दामा, गया इव निरंकुसा, घट्टा, मट्ठा, तुप्पोट्ठा, पंडरपडपाउरणा जिणाणं अणाणाए सच्छंदं विहरिऊणं उभओकालं आवस्सगस्स उवटुंति । सेतं लोगुत्तरियं दव्वावस्सयं । से तं जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं । सेतं नोआगमतो दव्वावस्सयं । सेतं दव्वावस्सयं । प्रायश्चित्तं प्रयच्छन् भणति - पश्यत, अहो ! कथमसौ भावमगोपयन् अशठतया सर्वं समालोचयति । सुखं हि आसेवना क्रियते, दु:खं चेत्थमालोचयितुम्, तस्मादशठतयैव शुद्धोऽसौ । तथा च तं प्रशस्यमानं दृष्ट्वा तत्र अन्येऽप्यगीतार्थश्रमणा: प्रशंसन्ति चिन्तयन्ति च - गुरोश्चेदित्थमालोच्यते तर्हि दोषासेवनायामसकृत् कृतायामपि न कश्चिद्दोष:, आलोचनाया एव साध्यत्वात् ।
एवं चान्यदा तत्र संविग्नगीतार्थ: साधुः कश्चिदायातः । तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तः - त्वमित्थमस्य प्रशंसा कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे । तथाहि - गिरिनगरवासी कश्चिदग्निभक्तो वणिक् पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्षं वह्निना प्रदीपयति । तं चाविवेकितया तन्नगरनरपतिर्लोकश्च श्लाघते - अहो ! धन्योऽयं वणिग् यो भगवन्तं हुतभुजमित्थमौदार्यभक्त्यतिशयाद् रत्नस्तर्पयति । अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहन: सराजप्रासादं समस्तमपि तन्नगरं दहति स्म । ततोऽसौ राज्ञा दण्डितो नगराच्च निष्कासितः । तदेवं यथा राज्ञा तस्य प्रशंसा कुर्वता आत्मा नगरलोकश्च नाशितस्तथा त्वमपि अस्याऽविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि । यदि पुनरमुमेकं शिक्षयसि तदा तथाविधनृप इव सपरिकरो निरपायतामनुभवसि । तथाहि - अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद् वणिगाकर्णितः । ततो नगरदाहापायदर्शिना क्षितीशेन ‘अरण्यं गत्वा किमित्थं न करोषि ?' इत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च। एवं त्वमपीत्याधुपनयो गतार्थः । इत्यादि बहु प्रकारं भणितोऽपि यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधुना शेषसाधवोऽभिहिता: - एष गणाधिपो महानिर्धर्मताऽऽस्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति ।
तदेवं तत् साध्वावश्यकप्रकारं सर्वं लोकोत्तरिक द्रव्यावश्यकमिति । निगमयन्नाह- सेतमित्यादि, तदेतल्लोकोत्तरिकं द्रव्यावश्यकम् । एतद्भणने च ज्ञशरीर-भव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रव्यावश्यक समर्थितं भवत्यतस्तदपि निगमयति - सेत्तमित्यादि । एतत्समर्थने च नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति - सेतं नोआगमतो इत्यादि । एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत् सोत्तरभेदमप्यवसितमतो निगमयति - सेत्तं दव्वावस्सयमिति तदेतत् द्रव्यावश्यक समर्थितमित्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org