________________
४०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं वा जक्खस्स वा भूयस्स वा मुगुदस्स वा अज्जाए वा कोदृकिरियाए वा उवलेवण-सम्मज्जणा-ऽऽवरिसण-धूव-पुप्फ-गंध-मल्लाइयाई दव्वावस्सयाइं करेंति । सेतं कुप्पावयणियं दव्वावस्सयं ।
(सू० २२) से किं तं लोगोत्तरियं दव्वावस्सयं ? लोगोत्तरियं दव्वावस्सयं निर्वचनमाह - लोउत्तरियं दव्वावस्सयं जे इमे इत्यादि, लोकस्योत्तरा: प्रधाना: लोकोत्तरा: साधवः, अथवा लोकस्योत्तरं प्रधानं लोकोत्तरं जिनशासनम्, तेषु तस्मिन् वा भवं लोकोत्तरिक द्रव्यावश्यकमिति व्याख्यातमेव । किं पुनस्तदित्याह- जे इमे इत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टा: साध्वाभासा जिनानामनाज्ञया स्वच्छन्दं विहृत्योभयकालमावश्यकाय प्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक द्रव्यावश्यकमिति समुदायार्थः।
इदानीमवयवार्थ उच्यते- तत्र श्रमणा: साधवस्तेषां गुणा मूलोत्तरगुणरूपा:, तत्र जीववधविरत्यादयो मूलगुणा:, पिण्डविशुद्ध्यादयस्तूत्तरगुणा:, तेषु मुक्तो योगो व्यापारो यैस्ते सर्वधनादेराकृतिगणत्वात् श्रमणगुणमुक्तयोगिन: । एते च जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदाचित् सानुकम्पा अपि स्युरित्याह - षट्सु कायेषु पृथिव्यादिषु विषये निर्गता अपगता अनुकम्पा मन:सार्द्रता येभ्यस्ते तथा । निरनुकम्पताचिह्नमेवाऽऽह- हया इव तुरगा इव उद्दामा:, चरणनिपातजीवोपमर्दनिरपेक्षत्वाद् द्रुतचारिण इत्यर्थः । किमित्येवंभूतास्ते इत्याह - यतो गजा इव दुष्टद्विरदा इव निरङ्कशा:, गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः । अत एव घट्ट त्ति येषां जचे श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः । तथा मट्ट त्ति तैलोदकादिना येषां केशा: शरीरं वा मृष्टं ते तथैव मृष्टाः, अथवा केशादिषु मृष्टं विद्यते येषां मृष्टवन्तः, वन्तुप्रत्ययलोपान्मृष्टाः। तथा तुप्पोट्ठ त्ति तुप्रा म्रक्षिता मदनेन वा वेष्टिता: शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः । तथा मलपरीषहसहिष्णुतादूरीकृतत्वात् पाण्डुरो धौत: पट: प्रावरणं (च) येषां ते तथा। जिनानामनाज्ञया स्वच्छन्दं विहत्य तीर्थकराज्ञाबाह्या: स्वस्वरुच्या विविधचेष्टाः कृत्वा ततश्चोभयकालं प्रभातसमयेऽस्तमयसमये च, चतुर्थ्यर्थे षष्ठीति कृत्वा आवश्यकाय प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्तरिकं द्रव्यावश्यकम् । अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाच्चाप्रधानतयाऽवसेयं । नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावानोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति।
अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम् - वसन्तपुरे नगरेऽगीतार्थसंविग्नो गच्छ एको विचरति । तत्र च श्रमणगुणमुक्तयोगी संविग्नाभास: साधुरेकः प्रतिदिनं पुर:कर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति । तस्मै च गच्छाचार्योऽगीतार्थत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org