________________
३९
श्रीअनुयोगद्वारसूत्रम् [सू०२१] चरग-चीरिग-चम्मखंडिय-भिच्छंडग-पंडरंग-गोतम-गोव्वतिय- गिहिधम्म-धम्मचिंतगअविरुद्ध-विरुद्ध-वुड्ड-सावगप्प-भितयो पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते इंदस्स वा खंदस्स वा रुदस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स
गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विभावंता ॥१॥ ( ) गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः। तथा च तदनुसारिणां वच:गृहाश्रमसमो धर्मो न भूतो न भविष्यति । तं पालयन्ति ये धीरा: क्लीबा: पाषण्डमाश्रिता: ॥१॥ ( ) इति ।
याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्तीति धर्मचिन्तका: । देवता-क्षितीश-मातापितृ-तिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा वैनयिका: । पुण्य-पापपरलोकाद्यनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाषण्डिभि: सह विरुद्धचारित्वात् । अत्राऽऽहननु यद्येते पुण्याद्यनभ्युपगमपरा: कथं तद्देषां वक्ष्यमाणमिन्द्राद्युपलेपनं संभवति, पुण्यादिनिमित्तमेव तस्य सम्भवात् ? सत्यम्, किन्तु जीविकादिहेतोस्तेषामपि तत् संभवतीत्यदोषः । प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धा: तापसाः । श्रावका ब्राह्मणा:, प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभावात् । अन्ये तु वृद्धश्रावका इत्येकमेव पदं ब्राह्मणवाचकत्वेन व्याचक्षते । एतेषां द्वन्द्वसमास: । प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः । पाषण्डं व्रतम्, तत्र तिष्ठन्तीति पाषण्डस्था: । कल्लं पाउप्पभाताए इत्यादि पूर्ववद् यावत्तेजसा ज्वलतीति । इंदस्स वेत्यादि, तत्रेन्द्रः प्रतीत:, स्कन्दः कार्तिकेय:, रुद्रो हर:, शिवस्त्वाकारविशेषधर: स एव व्यन्तरविशेषो वा, वैश्रवणो यक्षनायकः, देव: सामान्य:, नागो भवनपतिविशेष:, यक्षभूतौ व्यन्तरविशेषौ, मुकुन्दो बलदेवः । आर्या प्रशान्तरूपा दुर्गा, सैव महिषारूढा तत्कुट्टनपरा कोदृक्रिया। अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यते, अतस्तस्येन्द्रादेरुपलेपन-सम्मार्जनाऽऽवर्षण-पुष्प-धूप-गन्ध-माल्यादीनि द्रव्यावश्यकानि कुर्वन्ति । तत्र उपलेपनं छगणादिना प्रतीतमेव, सम्मार्जनं दण्डपुञ्छनादिना, आवर्षणं गन्धोदकादिना, शेषं गतार्थम् । तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकम् । अत्र द्रव्यत्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोक्तमिव भावनीयम् । निगमयन्नाह - सेत्तमित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुप्रावचनिकं द्रव्यावश्यकमित्यर्थः ।
उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकद्वितीयभेदः । अथ तत्तृतीयभेदनिरूपणार्थमाह - से किं तमित्यादि । अथ किं तल्लोकोत्तरिकं द्रव्यावश्यकम् ? अत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org