________________
३८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं करेत्ता ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जाणं वा सभं वा पवं वा गच्छंति। सेतं लोइयं दव्वावस्सयं।
(सू० २१) से किं तं कुप्पावयणियं दव्वावस्सयं ? कुप्पावयणियं दव्वावस्सयं जे इमे तच्चम्पकादितरुषण्डमण्डितमुद्यानम् । भारतादिकथाविनोदेन यत्र लोकस्तिष्ठति सा सभा । शेष प्रतीतम् ।
अत्राह- ननु राजादिभिः प्रभातेऽवश्यं क्रियन्त इति व्युत्पत्तिमात्रेणाऽऽवश्यकत्वं भवतु मुखधावनादीनाम्, द्रव्यत्वं तु कथममीषाम् ? विवक्षितभावस्य हि कारणं द्रव्यं भवति, भूतस्य भाविनो वा भावस्य हि ( ) इत्यादिवचनात्, न च राजादिभिः क्रियमाणानि मुखधावनादीनि भावावश्यककारणं भवन्ति, सत्यम्, किन्तु भूतस्य भाविनो वा ( ) इत्याद्येव द्रव्यलक्षणं न मन्तव्यम्, किं तर्हि ? अप्पाहण्णे वि दव्वसद्दो ती (पञ्चाशके ६।१३) ति वचनादप्रधानवाचकोऽपि द्रव्यशब्दोऽवगन्तव्य:, अप्रधानानि च मोक्षकारणभावावश्यकापेक्षया संसारकारणानि राजादिमुखधावनादीनि, ततश्च द्रव्यभूतानि अप्रधानभूतान्यावश्यकानि द्रव्यावश्यकानि एतानीत्यदोषः । नोआगमत्वं चेहाप्यागमाभावान्नोब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण । निगमयन्नाह- सेतं लोइयमित्यादि, तदेतज्ज्ञशरीर-भव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः । ___ उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकप्रथमभेदः । अथ तद्वितीयभेदनिरूपणार्थमाह - से किं तमित्यादि। अथ किं तत कप्रावचनिकं द्रव्यावश्यकम् ? अत्र निर्वचनम् - कुप्पावयणियं दव्वावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते कुप्रवचनास्तेषामिदं कुप्रावचनिकं द्रव्यावश्यकम्। किं पुनस्तदित्याह - जे इमे इत्यादि, य एते चरकचीरिकादय: प्रभातसमये इन्द्र-स्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकमिति समुदायार्थः।
तत्र धाटिवाहका: सन्तो ये भिक्षां चरन्ति ते चरका:, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः। रथ्यापतितचीरपरिधानाचीरिका:, अथवा येषां चीरमयमेव सर्वमुपकरणं ते चीरिका: । चर्मपरिधानाश्चर्मखण्डिका:, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः । ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डा:, सुगतशासनस्था इत्यन्ये । पाण्डुराङ्गा भस्मोद्धूलितगात्रा: । विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचर्चितवृषभकोपायत: कणभिक्षाग्राहिणो गौतमा: । गोचर्यानुकारिणो गोव्रतिका:, ते हि वयमपि किल तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरुपविशन्ति । भुजानाभिस्तद्वदेव तृण-पत्र-पुष्प-फलादि भुञ्जते । तदुक्तम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org