________________
श्री अनुयोगद्वारसूत्रम् [सू०२०]
३७
रत्तासोगप्पगास- किंसुय - सुयमुह- गुंजद्धरागसरिसे कमलागर-नलिणिसंडबोहर उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते मुहधोयण - दंतपक्खालण- तेल्ल - फणिहसिद्धत्थय - हरियालिय- अद्दाग-धूव - पुप्फ-मल्ल-गंध- तंबोल- वत्थमाइयाई दव्वावस्सयाई इत्यादि, प्रादुः प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्याम्, किञ्चिदुपलभ्यमानप्रकाशायामिति भावः । तदनन्तरं सुविमलायां तस्यामेव किञ्चित्परिस्फुटतरप्रकाशायाम् । अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते । कथंभूत इत्याह- फुल्लोत्पलकमलकोमलोन्मीलिते, फुल्लं विकसितं तच्च तदुत्पलं च फुल्लोत्पलम्, कमल: हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पल - कमलौ, तयोः कोमलम् अकठोरं दलानां नयनयोश्चोन्मीलितम् उन्मीलनं यत्र प्रभाते तत् तथा, अनेन च प्रागुक्ताया: सुविमलतायाः वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनीं पूर्वस्यां दिश्यरुणप्रभावस्थामाह । तदनन्तरम् उट्ठिए सूरिए त्ति अभ्युद्गते आदित्ये, कथम्भूते इत्याह - रक्ताशोकप्रकाश- किंशुक शुकमुखगुञ्जार्धरागसदृशे, रक्ताशोकप्रकाशस्य किंशुकस्य पुष्पितपलाशस्य शुकमुखस्य गुञ्जार्धस्य च रागेण सदृशो यः स तथा तस्मिन्, आरक्ते इत्यर्थः । तथा कमलाकरनलिनीषण्डबोधके, कमलानामाकरा उत्पत्तिभूमयो ह्रदादिजलाशयविशेषास्तेषु यानि नलिनीषण्डानि तेषां बोधको यः स तथा तस्मिन् । पुनः किंभूते तस्मिन्नित्याह - सहस्ररश्मौ, दिनं करोतीति दिनकरस्तस्मिन्, तेजसा ज्वलति, तत्रैते भावाः सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम् । अनेन चोत्तरोत्तरकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्ट-मध्यम- जघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह । तथाहि - केचित् प्रकृष्टोद्यमिनः किञ्चित् प्रकाशमात्रायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्यमिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितति ।
मुहधोवणेत्यादि, मुखधावनं च दन्तप्रक्षालनं च तैलं च फणिहश्च सिद्धार्थाश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां स्नानाऽऽभरण-परिधानादीनां तानि तथा । तत्र फणिहः कङ्कतकः, तं मस्तकादौ व्यापारयन्ति । सिद्धार्थाः सर्षपा:, हरितालिका दूर्वा, एतद्द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति । आदर्शे तु मुखादि निरीक्षन्ते। धूपे तु वस्त्रादि धूपयन्ति । अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम्, अथवा विकसितानि पुष्पाणि, तान्येवाविकसितानि माल्यम्, एतेषां च मस्तकादिषूपयोगः । शेषं स्वरूपत उपयोगतश्च प्रतीतमेव । एतानि द्रव्यावश्यकानि कृत्वा ततः पश्चाद् राजकुलादौ गच्छन्ति । रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्राऽऽरमन्ति स विविधपुष्पजात्युपशोभित आरामः । वस्त्राऽऽभरणादिसमलङ्कृतविग्रहाः सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org