________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० १९) से किं तं जाणगसरीरभवियसरीरवतिरित्ते दव्वावस्सए ? जाणगसरीरभवियसरीरवतिरित्ते दव्वावस्सए तिविधे पण्णत्ते । तंजहा- लोइए १, कुप्पावयणिते २, लोउत्तरिते ३।
(सू० २०) से किं तं लोइयं दव्वावस्सयं? लोइयं दव्वावस्सयं -जे इमे राईसर-तलवरमाडंबिय-कोडुंबिय-इन्भ-सेट्टि-सेणावइ- सत्थवाह-प्पभितिओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पल-कमलकोमलुम्मिल्लियम्मि अह पंडुरे पभाए
उक्तो नोआगमतो द्रव्यावश्यकद्वितीयभेदः, तत्तृतीयभेदनिरूपणार्थमाह - से किं तमित्यादि। अथ किं तत् ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ? निर्वचनमाह- जाणगसरीरभवियसरीरवइरित्ते दव्वावस्सए तिविहे इत्यादि । यत्र ज्ञशरीर- भव्यशरीरयो: सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यावश्यकमुच्यते । तच्च त्रिविधं प्रज्ञप्तम्, तद्यथालौकिकं कुप्रावचनिकं लोकोत्तरिकं च ।
तत्र प्रथमभेदं जिज्ञासुराह - से किं तमित्यादि । अत्र निर्वचनमाह - लोइयमित्यादि । लोके भवं लौकिकम्, शेषं तथैव । अत्र य एते राजेश्वर-तलवरादयः प्रभातसमये मुखधावनादि कृत्वा तत: पश्चाद् राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । तत्र राजा चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च । ईश्वरो युवराज: सामान्यमण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते - अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर: । परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषितशिरास्तलवरः । यस्य पार्श्वत आसन्नमपरं ग्राम-नगरादिकं नास्ति तत् सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः । कतिपयकुटुम्बप्रभुः कौटुम्बिकः । इभो हस्ती, तत्प्रमाणं द्रव्यमर्हतीतीभ्य:, यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः । श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्ग: पुरज्येष्ठो वणिग्विशेष: श्रेष्ठी। हस्त्यश्व-रथपदातिसमुदायलक्षणाया: सेनाया: प्रभु: सेनापतिः ।
गणिमं धरिमं मेज्जं पारिच्छेज्जं च दव्वजायं तु । घेत्तूणं लाभत्थं वच्चति जो अन्नदेसं तु ॥१॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहनामं धणो व्व लोए समुव्वहइ ।।२।। ( )
एतल्लक्षणयुक्तः सार्थवाहः । प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः । कल्लं पाउप्पभाताए इत्यादि, कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते। प्रभातस्यैव विशेषावस्था: प्राह - पाउ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org