________________
३५
श्रीअनुयोगद्वारसूत्रम् [सू०१८]
(सू० १८) से किं तं भवियसरीरदव्वावस्सयं ? भवियसरीरदव्वावस्सयं- जे जीवे जोणिजम्मणणिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवदितुणं भावेणं आवस्सए त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिटुंतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ । सेतं भवियसरीरदव्वावस्सयं । इति भावः । निगमयन्नाह - सेतमित्यादि, तदेतद् ज्ञशरीरद्रव्यावश्यकम् ।
उक्तो नोआगमतो द्रव्यावश्यकप्रथमभेद:, अथ द्वितीयभेदनिरूपणार्थमाह- से किं तमित्यादि। अथ किं तद् भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह- भवियसरीरदव्वावस्सयं जे जीवे इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायार्हः, तद्योग्य इत्यर्थः, तस्य शरीरम्, तदेव भाविभावावश्यककारणत्वाद् द्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकम्, किं पुनस्तत् ? इत्यत्रोच्यते- यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदम् आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः।
साम्प्रतमवयवार्थ उच्यते- तत्र य: कश्चिद् जीवो जन्तु: योन्या योषिदवाच्यदेश-लक्षणाया: परिपूर्णसमस्तदेहो जन्मत्वेन जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्त:, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वा समुच्छ्रयस्तेन आत्तेन आदत्तेन वा गृहीतेन, प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, सेयकाले त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते अध्येष्यते, साम्प्रतं तु न तावदद्यापि शिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकम् । नोआगमत्वं चात्राप्यागमाभावमाश्रित्य मन्तव्यम्, तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वादिति । अत्राऽऽहनन्वावश्यककारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम् ? न हि कार्याभावे वस्तुन: कारणत्वं युज्यते, अतिप्रसङ्गात्, अत: कथमस्य द्रव्यावश्यकता? सत्यम्, किंतु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तन्नयानुसारिण: पठन्ति- भाविनि भूतवदुपचार: (कातन्त्र- परि०) इति । अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति- यथा कोऽत्र दृष्टान्त इति । निर्वचनमाह- यथाऽयं मधुकुम्भो भविष्यतीत्यादि । एतदुक्तं भवति - यथा मधुनि घृते वा प्रक्षेप्नुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि लोकेऽयं मधुकुम्भो घृतकुम्भो वेत्यादिव्यपदेशो दृश्यते, तथाऽत्राप्यावश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः । निगमयन्नाह - सेत्तमित्यादि, तदेतद् भव्यशरीरद्रव्यावश्यकमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org