________________
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं आवस्सए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी । सेतं जाणगसरीरदव्वावस्सयं ।
I
३४
तत् सिद्धशिलातलमुच्यते, क्षेत्रगुणतो यथाभद्रकदेवतागुणतो वा साधूनामाराधना: सिद्ध्यन्ति तत्रेि कृत्वा । अन्ये तु व्याचक्षते - यत्र महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलम्, तद्गतं तत्रस्थितं सिद्धशिलातलगतम् । इह निसीहियागयं वेत्यादीन्यपि पदानि वाचनान्तरे दृश्यन्ते तानि च सुगमत्वात् स्वयमेव भावनीयानि । नवरं नैषेधिकी शबपरिस्थापनभूमिः । अपरं चात्रान्तरे पासित्ता णं कोइ भणेज्जेति ग्रन्थः क्वचिद् दृश्यते । स च समुदायार्थकथनावसरे योजित एव, न दृश्यते तत्राध्याहारो द्रष्टव्यः । अहोशब्दो दैन्य- विस्मया -ऽऽमन्त्रणेषु वर्तते, स चेह त्रिष्वपि घटते । तथाहि- अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्यं पार्श्वस्थितमामन्त्रयमाणस्याऽऽमन्त्रणे, अनेन प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन जिनदृष्टेन तीर्थकराभिमतेन भावेन कर्मनिर्जरणाभिप्रायेण अथवा भावेन तदावरणकर्मक्षयक्षयोपशमलक्षणेन आवश्यकपदाभिधेयं शास्त्रम्, आघवियं ति प्राकृतशैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतम्, प्रज्ञापितं सामान्यतो विनेयेभ्यः कथितम्, प्ररूपितं तेभ्य एव प्रतिसूत्रमर्थकथनतः, दर्शितं प्रत्युपेक्षणादिक्रियादर्शनतः, 'इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते' इत्येवं विनेयेभ्यः प्रकटितमिति भाव:, निदर्शितं कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितम्, उपदर्शितं सकलनययुक्तिभिः ।
आह- नन्वनेन शरीरसमुच्छ्रयेणाऽऽवश्यकमागृहीतमित्यादि नोपपद्यते, ग्रहण- प्ररूपणादीनां जीवधर्मत्वेन शरीरस्याघटमानत्वात्, सत्यम्, किन्तु भूतपूर्वगत्या जीव-शरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः । पुनरप्याह- ननु यद्यपि तच्छरीरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवन्ति तथापि कथं (तस्य) द्रव्यावश्यकता यत आवश्यकस्य कारणमेव द्रव्यावश्यकं भवितुमर्हति, भूतस्य भाविनो वा ( ) इत्यादिपूर्वोक्तवचनात् कारणं चाऽऽगमस्य चेतनाधिष्ठितमेव शरीरम्, न त्विदम्, चेतनारहितत्वात्, तस्यापि तत्कारणत्वेऽतिप्रसङ्गात्, सत्यम्, किन्त्वतीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽस्योच्यत इत्यदोषः ।
स्यादेवम्, यद्यत्रार्थे कश्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति - यथा कोऽत्र दृष्टान्त: ? इति पृष्टे सत्याह - यथाऽयं मधुकुम्भ आसीदित्यादि । एतदुक्तं भवति - यथा मधुनिव प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भः अयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org