________________
श्रीअनुयोगद्वारसूत्रम् [सू०१७]
३३ त्ति पदत्थाधिकारजाणगस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ भणेज्जा- अहो ! णं इमेणं इति शरीरम्, ज्ञस्य शरीरं ज्ञशरीरम्, तदेव अनुभूतभावत्वाद् द्रव्यावश्यकं ज्ञशरीरद्रव्यावश्यकम्, किं तदित्याह - यच्छरीरकं संज्ञायां कन् (पा० ५।३।७६, ८७) वपुरित्यर्थः, कस्य सम्बन्धीत्याहआवस्सए तीत्यादि, आवश्यकमिति यत् पदम्, आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गता अर्थाधिकारा गृह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि । कथंभूतं सदिदं ज्ञशरीरद्रव्यावश्यकं भवतीत्याह- व्यपगत-च्युत-च्यावितत्यक्तदेहं जीव-विप्रमुक्तमित्यक्षरयोजना। इदानीं भावार्थ: कश्चिदुच्यते- तत्र व्यपगतं चैतन्य-पर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तम्, अत एव च्युतम् उच्छ्वासनि:श्वासजीवितादिदशविधप्राणेभ्य: परिभ्रष्टम्, अचेतनस्य उच्छ्वासाद्ययोगात्, अन्यथा लेष्ट्रवादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंश: स्वभाववादिभि: कैश्चित् स्वभावत एव अभ्युपगम्यते, तदपोहार्थमाह- च्यावितं बलीयसाऽऽयु:क्षयेण तेभ्य: परिभ्रंशितम्, न तु स्वभावतः, तस्य सदाऽवस्थितत्वेन सर्वदा तत्प्रसङ्गात्, एवं च सति कथंभूतं तदित्याह- त्यक्तदेहम् । दिह उपचये (पा० धा० १०८५, का० धा० २।६२) त्यक्तो देह: आहारपरिणतिजनित उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहण-परिणत्योरभावात् । एवमुक्तेन विधिना जीवेन आत्मना विविधम् अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तम् । तदेतदावश्यकज्ञस्य शरीरकमतीतावश्यकभावस्य कारणत्वाद् द्रव्यावश्यकम् । अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात् नोशब्दस्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भाव: । ननु यदि जीवविप्रमुक्तमिदं कथं तीस्य द्रव्यावश्यकत्वम् ? लेष्ट्वादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपि कदाचिदावश्यकवेत्तृभिर्गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाहसेज्जागतमित्यादि, यस्मादिदं शय्यागतं वा संस्तारगतं वा सिद्धशिलातलगतं वा दृष्ट्वा कोऽपि ब्रूयात्- अहो ! अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेन आवश्यकमित्येतत् पदम् आगृहीतमित्यादि यावदुपदर्शितमिति, तस्मादतीत-वर्तमानकालभाविवस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनां सम्भवाद् यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते, लेष्ट्वादिदर्शने पुनर्नेत्थम्भूत: प्रत्यय: कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः, तेनैव कर-चरणोरु-ग्रीवादिपरिणामेनानन्तरमेवाऽऽवश्यककारणत्वेन व्यापृतत्वात् तदेव तथाविधप्रत्ययजनकं द्रव्यावश्यकम्, न लेष्ट्वादय इति भाव इति समुदायार्थः ।
__इदानीमवयवार्थ उच्यते- तत्र शय्या महती सर्वाङ्गप्रमाणा, तां गतं शय्यागतम्, शय्यास्थितमित्यर्थः । संस्तारो लघुकोऽर्धतृतीयहस्तमानः, तं गतम्, तत्रस्थमित्यर्थः । यत्र साधवस्तप:परिकर्मितशरीरा: स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वा: प्रतिपद्यन्ते प्रतिपत्स्यन्ते च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org