________________
श्रीअनुयोगद्वारसूत्रम् [सू०४८-५०]
(सू० ४८) से किं तं नोआगमतो भावसुयं ? नोआगमतो भावसुयं दुविहं पन्नत्तं । तंजहा - लोइयं १, लोउत्तरियं च २ ।
(सू० ४९) से किं तं लोइयं भावसुयं ? लोइयं भावसुयं जं इमं अण्णाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धि-मइविगप्पियं । तंजहा- भारहं रामायणं हंभीमासुरुक्कं कोडिल्लयं घोडमुहं सगभद्दिआओ कप्पासियं नागसुहुमं कणगसत्तरी वइसेसियं बुद्धवयणं वेसियं काविलं लोयाययं सद्वितंतं माढरं पुराणं वागरणं नाडगादी, अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा। सेतं लोइयं भावसुयं ।
(सू० ५०) से किं तं लोगोत्तरियं भावसुयं ? लोगुत्तरियं भावसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाण-दंसणधरेहिं तीत-पडुप्पन्न-मणागतजाणएहिं सव्वन्नूहिं सव्वदरि
अथ द्वितीयभेद उच्यते - से किं तं नोआगमओ इत्यादि । अत्रोत्तरम् - नोआगमओ भावसुतं दुविहमित्यादि।
__ अत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम् - लोइयं भावसुतं जं इममित्यादि । लोकैः प्रणीतं लौकिकम्, किं पुनस्तदित्याह-यदिदमज्ञानिकर्मिथ्यादृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितं तल्लौकिकं भावश्रुतमिति सम्बन्धः । तत्राल्पज्ञानभावतोऽधनवदशीलवद् वा सम्यग्दृष्टयोऽप्यज्ञानिका: प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभि: स्वच्छन्दबुद्धिमतिविकल्पितम्, इहाऽवग्रहेहे बुद्धिः, अपाय-धारणे तु मति:, स्वच्छन्देन स्वाभिप्रायेण तत्त्वत: सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धि-मतिभ्यां विकल्पित स्वच्छन्दबुद्धिमतिविकल्पितम्, स्वबुद्धिकल्पनाशिल्पिनिर्मितमित्यर्थः । तत्प्रकटनार्थमेवाऽऽह- तद्यथा- भारतमित्यादि एतच्च भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धिगम्यम् ।
अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थमाह - अहवा बावत्तरिकलाओ इत्यादि, तत्र कलनानि वस्तुपरिज्ञानानि कला:, ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धा:, चत्वारश्च वेदा: (ग्रन्थाग्रम् १०००) सामवेद-ऋग्वेद-यजुर्वेदा-ऽथर्ववेदलक्षणा: साङ्गोपाङ्गाः, तत्राङ्गानि शिक्षा १ कल्प २ व्याकरण ३ च्छन्दो ४ निरुक्त ५ ज्योतिष्कायन ६ लक्षणानि षट्, उपाङ्गानि तद्व्याख्यानरूपाणि, तैः सह वर्तन्ते इति साङ्गोपाङ्गाः । सेतमित्यादि निगमनम् ।
उक्तं नोआगमतो लौकिकं भावश्रुतम्, अथ लोकोत्तरिकं तदेवाऽऽह - से किं तमित्यादि । लोकोत्तरै: लोकप्रधानैरर्हद्भिः प्रणीतं लोकोत्तरिकम् । किं पुनस्तदित्याह-लोउत्तरियं भावसुतं जं इममित्यादि, यदिदमर्हद्भिादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिकं भावश्रुतमिति सम्बन्धः, तद्यथाआयारो सूयगडमित्यादि, तत्र सदेव-मनुजा-ऽसुरलोकविरचितां पूजामर्हन्तीति अर्हन्तस्तैः, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org