________________
___ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सीहिं तेलोक्कचहिय-महिय-पूइएहिं अप्पडिहयवरनाण-दसणधरेहिं पणीतं दुवालसंगं गणिपिडगं । तंजहा- आयारो १, सूयगडो २, ठाणं ३, समवाओ ४, वियाहपण्णत्ती ५, नायाधम्मकहाओ ६, उवासगदसाओ ७, अंतगडदसाओ ८, अणुत्तरोववाइयदसाओ ९, पण्हावागरणाई १०, विवागसुयं ११, दिट्ठिवाओ १२ य । सेतं लोगोत्तरियं भावसुयं । सेतं नोआगमतो भावसुयं । सेतं भावसुयं । भूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यतस्तीर्थकरप्रतिपत्तये प्राह- भगवद्भिरिति समग्रैश्वर्यनिरुपमरूप-यश:-श्री-धर्म-प्रयत्नवद्भिरित्यर्थः, इत्थंभूताश्च अनाद्यप्रतिघज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभि:
ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्ध चतुष्टयम् ।।१।। ( )
इत्यादि, अतस्तद्व्यवच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने, न तु सहजे, ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधरास्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, सहसिद्धं चतुष्टयम् ( ) इत्यादिवचनविरोधप्रसङ्गात् । तर्हि सुगता इत्थंभूता अपि भविष्यन्तीति चेत्, अत्रोच्यतेतीतपडुपण्णेत्यादि, अतीत-वर्तमान-भविष्यदर्थज्ञायकैरित्यर्थः, न च सुगतानामतीत-भविष्यदर्थज्ञातृत्वसम्भव: एकान्तक्षणभङ्गवादित्वेन तदसत्त्वाभ्युपगमात् असतां च ग्रहणेऽतिप्रसङ्गात् । अथ सन्तानद्वारेण कालत्रयेऽप्यर्थानां सद्भावादतीता(द्य)र्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशङ्क्याऽऽहसर्वज्ञैः सर्वदर्शिभिरिति, सर्वम् एकेन्द्रिय-द्वीन्द्रियजीवादि वस्तु केवलज्ञानेन जानन्तीति सर्वज्ञा:, तैः, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिन:, तैः, शाक्यानां त्वतीताद्यर्थ-ज्ञातृत्वेऽपि सर्वज्ञादित्वं नोपपद्यते कतिपयधर्माद्यभीष्ट-पदार्थवेत्तृत्वस्यैव तेष्वभ्युपगमात्, यत उक्तं तच्छिष्यैः
सर्वं पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तत्र(स्य) न: क्वोप युज्यते ? ॥१॥ (प्रमाणवा०१।३३-३५)
इत्यादि । यथोक्तगुणविशिष्टा एव तिलुक्कचहियमहियेत्यादि, चहिय त्ति विगलद्बहलानन्दाश्रुदृष्टिभिः सहर्षं निरीक्षिता:, यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिता अभिष्टुता:, सुगन्धिसुमन:प्रकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः, तत एषां द्वन्द्वे त्रैलोक्येन भवनपतिव्यन्तर-नर-विद्याधर-वैमानिकादिसमुदायलक्षणेन चहितमहित-पूजिता(स्त्रैलोक्यचहितमहितपूजिता)स्तैः, आह- ननूत्पन्नज्ञानदर्शनधरैरित्युक्तम्, उत्पत्तिमच्च सप्रतिघं दृष्टं यथा मूर्तेष्ववध्यादिज्ञानम्, उत्पन्ने च तज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां ते सप्रतिघज्ञानिन: प्राप्नुवन्ति, तथा च पूर्वोक्तसर्वज्ञत्वादिहानिरित्याशङ्कयाऽऽह- अप्रतिहतवरज्ञानदर्शनधरैरिति, समस्तावरणक्षय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org