________________
श्रीअनुयोगद्वारसूत्रम् [सू०५१,५२]
(सू० ५१) तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति। तंजहासुय सुत्त गंथ सिद्धंत सासणे आण वयण उवदेसे । पण्णवण आगमे या एगट्ठा पज्जवा सुत्ते ॥४॥ सेतं सुयं ।।
(सू०५२) से किं तं खंधे ? खंधे चउव्विहे पण्णत्ते । तंजहा- नामखंधे १, ठवणाखंधे सम्भूतत्वादप्रतिहते मूर्तामूर्तेषु समस्तवस्तुष्वस्खलिते, अत एव वरे प्रधाने केवलज्ञान-दर्शनलक्षणे ज्ञान-दर्शने धरन्ति ये ते तथा तैः, यत्त्ववध्यादे: सप्रतिघत्वं तन्नोत्पत्तिमत्त्वेन, किं तर्हि ? आवरणसद्भावात्, अतोऽप्रतिघे केवलज्ञानदर्शने समस्तावरणक्षयसम्भूतत्वात्, तत्क्षयेऽपि सप्रतिघत्वाभ्युपगमेऽतिप्रसङ्गात्, इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र । तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि, अन्यथा वाऽविरोधत: सुधिया व्याख्येयानि । तैरर्थकथनद्वारेण प्रणीतं प्ररूपितम्, किं तत् ? द्वादशाङ्गं श्रुतम्, परमपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गानि आचारादीनि यत्र तद् द्वादशाङ्गम्, किंभूतम् ? गणिपिटकम्, गुणगणोऽस्यास्तीति गणी आचार्यः, तस्य पिटकं सर्वस्वं गणिपिटकं तद्यथा-आचार इत्यादि सुगमम् । अत्र द्वादशाङ्गश्रुतस्य चरणगुणसमन्वितस्य विवक्षितत्वान्नोआगमत्वं भावनीयम्, देशस्य चरणगुणलक्षणस्यानागमत्वानोशब्दस्य च देशप्रतिषेधत्वेनाश्रयणात्, एवं पूर्वत्रापि लौकिकभावश्रुते वाच्यम् । निगमयन्नाह-से तं लोउत्तरियमित्यादि । एतद्भणने च समर्थितं द्विविधमपि नोआगमतो भावश्रुतम्, अतस्तदपि निगमयतिसे तं नोआगमतो इत्यादि। एतद्भणने चोक्तं सर्वमपि भावश्रुतमतो निगमयति-सेतं भावसुतमिति ।
तदेवं स्वरूपत उक्तं भावश्रुतम् । अनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह- तस्स णमित्यादि । तस्य श्रुतस्य अमूनि अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि एकार्थिकानि तत्त्वत एकार्थविषयाणि नानाघोषाणि पृथग्भिन्नोदात्तादिस्वराणि नानाव्यञ्जनानि पृथग्भिन्नाक्षराणि नामधेयानि पर्यायध्वनिरूपाणि भवन्ति, तद्यथा- सुत गाहा, व्याख्या-गुरुसमीपे श्रूयत इति श्रुतम्, अर्थानां सूचनात् सूत्रम्, विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः, सिद्धं प्रमाणप्रतिष्ठितमर्थमन्तं संवेदननिष्ठारूपं नयतीति सिद्धान्त:, मिथ्यात्वा-ऽविरति-कषायादिप्रवृत्तजीवानां शासनात् शिक्षणाच्छासनम्, प्रवचनमिति पाठान्तरम्, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनम्, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हिता-ऽहितप्रवृत्ति-निवृत्त्युपदेशनादुपदेश:, यथावस्थित-जीवादिपदार्थप्रज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं वाऽऽगम इति, सूत्रे सूत्रविषये एकार्था: पर्याया इति गाथार्थः । सेतं सुतमिति, तदेतन्नामादिभेदैरुक्तं श्रुतमित्यर्थः ।
साम्प्रतं यदुक्तं स्कन्धं निक्षेप्स्यामि' इति तत्सम्पादनार्थमुपक्रमते- से किं तमित्यादि । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org