________________
५०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४४) से किं तं वालयं ? वालयं पंचविहं पण्णत्तं । तंजहा - उण्णिए १, उट्टिए २, मियलोमिए ३, कुतवे ४, किट्टिसे ५ । सेतं वालयं ।
(सू० ४५) से किं तं वक्कयं ? वक्कयं सणमाई । सेतं वक्कयं । सेतं जाणगसरीरभवियसरीरवतिरित्तं दव्वसुयं । से तं नोआगमतो दव्वसुयं । सेतं दव्वसुयं ।
(सू० ४६) से किं तं भावसुयं ? भावसुयं दुविहं पन्नत्तं । तंजहा - आगमतो य १, नोआगमतो य २।
(सू० ४७) से किं तं आगमतो भावसुयं ? आगमतो भावसुयं जाणते उवउत्ते । सेतं आगमतो भावसुयं । यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागं न मुञ्चति । सेतमित्यादि निगमनम्।
अथ चतुर्थभेद उच्यते- से किं तमित्यादि। अत्रोत्तरम्- वालयं पंचविहमित्यादि, वालेभ्यः ऊरणिकादिलोमभ्यो जातं वालजम्, तत् पञ्चविधं प्रज्ञप्तम्, तद्यथा-ऊर्णाया इदमौर्णिकम्, उष्ट्राणामिदमौष्ट्रिकम्, एते द्वे अपि प्रतीते, ये मृगेभ्यो ह्रस्वका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोमिकम् । उन्दुररोमनिष्पन्नं कौतवम् । ऊर्णादीनां यदुद्वरितं किट्टिसं तन्निष्पन्नं सूत्रमपि किट्टिसम् । अथवा एतेषामेवोर्णादीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिसम्, अथवा उक्तशेषश्वादिजीवलोमनिष्पन्नं किट्टिसम् । सेतमित्यादि निगमनम् ।
अथ पञ्चमभेदोऽभिधीयते- से किं तमित्यादि, वल्काज्जातं वल्कजम्, तच्च सणप्रभृति, क्वचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवकादिदेशप्रसिद्धम् । सेत्तमित्यादि निगमनम् । उक्तं पञ्चविधमण्डजादिसूत्रम्, तद्भणनेनोक्तं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्, अतस्तदपि निगमयति-सेतं जाणगेत्यादि, एतद्भणने च समर्थित नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयतिसे तं नोआगमओ इत्यादि । एतत्समर्थने च समर्थितं द्विविधमपि द्रव्यश्रुतमतस्तदपि निगमयतिसे तं दव्वसुतमिति ।
अथ भावश्रुतनिरूपणार्थमाह- से किं तमित्यादि । अत्रोत्तरम् - भावसुअं दुविहमित्यादि। विवक्षितपरिणामस्य भवनं भाव:, स चासौ श्रुतं चेति भावश्रुतं भावप्रधानं वा श्रुतं भावश्रुतम्, तद् द्विविधं प्रज्ञप्तम्- आगमतो नोआगमतश्च ।
तत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि । अत्रोत्तरम्- श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमत: आगममाश्रित्य भावश्रुतं श्रुतोपयोगपरिणामस्य सद्भावात् तस्य चाऽऽगमत्वादिति भावः । सेतमित्यादि निगमनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org