________________
श्रीअनुयोगद्वारसूत्रम् सू०४१-४३]
(सू० ४१) से किं तं अंडयं ? अंडयं हंसगब्भादि । सेतं अंडयं । (सू० ४२) से किं तं बोंडयं ? बोंडयं फलिहमादि । सेतं बोंडयं ।
(सू० ४३) से किं तं कीडयं ? कीडयं पंचविहं पण्णत्तं । तंजहा - पट्टे १, मलए २, अंसुए ३, चीणंसुए ४, किमिरागे ५ । सेतं कीडयं ।। प्रतिपक्षस्य नामश्रुतादेः प्ररूपणमन्तरेण भावश्रुतस्य निर्दोषत्वादिस्वरूपनिश्चय: कर्तुं पार्यते, जे सव्वं जाणइ से एग जाणति (आचा ० १।३।४।१) त्ति वचनादित्यलं विस्तरेण ।
अत्राऽऽद्यभेदज्ञापनार्थमाह- से किं तमित्यादि । अत्रोत्तरम्- अंडयं हंसगब्भादि त्ति, अण्डाज्जातमण्डजम्, हंस: पतङ्गश्चतुरिन्द्रियजीवविशेष:, गर्भस्तु तन्निर्वर्तितकोसिकार:, हंसस्य गर्भो हंसगर्भः, तदुत्पन्नं सूत्रमण्डजमुच्यते, आदिशब्दः स्वभेदप्रख्यापनपरः । ननु यदि हंसगर्भोत्पन्नं सूत्रमण्डजमुच्यते तर्हि सूत्रे अण्डजं हंसगर्भादीति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव, सत्यम्, कारणे कार्योपचारात् तदविरोध:, कोशिकारभवं सूत्रं वटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयम्, पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये । सेतमित्यादि निगमनम् ।
अथ द्वितीयभेद उच्यते- से किं तमित्यादि, अत्र निर्वचनम्- बोंडयं फलिहमादि त्ति, बोंड वमनीफलम्, तस्माज्जातं बोण्डजम्, फलिही वमनी, तस्याः फलमपि फलिहं कर्पासाश्रयकोशकरूपम्, तदिहापि कारणे कार्योपचाराद् बोण्डजं सूत्रमुच्यते इति भावः । सेत्तमित्यादि निगमनम् ।
अथ तृतीयभेद उच्यते- से किं तमित्यादि । अत्रोत्तरम्- कीडयं पंचविहमित्यादि । कीटाज्जातं कीटजं सूत्रं तत् पञ्चविधं प्रज्ञप्तम्, तद्यथा- पट्टे त्ति पट्टसूत्रम्, मलयम्, अंशुकम्, चीनांशुकम्, कृमिरागम् । अत्र वृद्धव्याख्या-किल यत्र विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुञ्जा: क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्त: पतङ्गकीटा: समागत्य मांसाद्यामिषोपभोगलुब्धा: कीलकान्तरेष्वितस्तत: परिभ्रमन्तो लाला: प्रमुञ्चन्ति, ताश्च कीलकेषु लग्ना: परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधीयते । अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम् । इत्थमेव चीनविषयबहिस्तादुत्पन्नं तदेवांशुकम् । इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते । क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात्तु पट्टसूत्रादिव्यपदेशविशेष इति भावः । एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूता: कृमय: समुत्पद्यन्ते, ते च वाताभिलाषिणो भाजनच्छिद्रैर्निर्गत्य तदासन्नं पर्यटन्तो यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति-यदा तत्र शोणिते कृमय: समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्यते, तत्र च कश्चिद् योग: प्रक्षिप्यते, ततस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org