________________
४८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० ३८) से किं तं भवियसरीरदव्वसुतं ? भवियसरीरदव्वसुयं जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवइटेणं भावेणं सुए इ पयं सेकाले सिक्खिस्सति, ण ताव सिक्खति। जहा को दिटुंतो? अयं मधुकुंभे भविस्सति, अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वसुतं ।
(सू० ३९) से किं तं जाणयसरीरभवियसरीरवतिरित्तं दव्वसुतं ? जाणयसरीरभव्वसरीरवतिरित्तं दव्वसुतं पत्तय-पोत्थयलिहियं ।
(सू० ४०) अहवा सुत्तं पंचविहं पण्णत्तं । तं जहा - अंडयं १, बोंडयं २, कीडयं ३, वालयं ४, वक्कयं ५।
द्वितीयभेदनिरूपणार्थमाह- से किं तमित्यादि। अत्र प्रतिवच:- भवियसरीरदव्वसुअंजे जीवे इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायार्हः, तद्योग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतम् । किं पुनस्तदिति, अत्रोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत् पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यश्रुतमित्यर्थः । शेषं भव्यशरीरद्रव्यावश्यकवत् श्रुताभिलापेन सर्वं वाच्यं यावत् सेतमित्यादि निगमनम् ।।
तृतीयभेदपरिज्ञानार्थमाह- से किं तमित्यादि। अत्र निर्वचनम्- जाणगसरीरभवियसरीरवइरित्तं दव्वसुतमित्यादि । यत्र ज्ञशरीर-भव्यशरीरयोः सम्बन्धि अनन्तरोक्तं स्वरूपं न घटते तत् ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यश्रुतम् । किं पुनस्तदित्याह- पत्तयपोत्थयलिहियं ति । पत्रकाणि तलताल्यादिसंबन्धीनि, तत्संघातनिष्पन्नास्तु पुस्तकाः, ततश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपुस्तकलिखितम्, अथवा पोत्थयं ति पोतं वस्त्रम्, पत्रकाणि च पोतं च, तेषु लिखितं पत्रकपोतलिखितं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्, अत्र च पत्रकादिलिखितश्रुतस्य भावश्रुतकारणत्वाद् द्रव्यत्वमवसेयम्, नोआगमत्वं तु आगमतो द्रव्यश्रुत इव आगमकारणस्याऽऽत्मदेहशब्दत्रयरूपस्याभावाद् भावनीयम् ।
तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुक्तम्, साम्प्रतं तदेव प्रकारान्तरेण निरूपयितुमाह- अहवेत्यादि, अथवा सूत्रं पञ्चविधं प्रज्ञप्तम्, तद्यथा- अंडयमित्यादि । अत्राऽऽहननु श्रुते प्रक्रान्ते सूत्रस्य प्ररूपणमप्रस्तुतम्, सत्यम्, किन्तु प्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्य च सुत्तलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोष:, प्रसङ्गतोऽण्डजादिसूत्रस्वरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति । अत एव भावश्रुते प्रक्रान्ते नामश्रुतादिप्ररूपणमप्रस्तुतमित्याद्यपि प्रेर्यमपास्तम्, तस्यापि शिष्यव्युत्पादनादिफलत्वात्, न च भावश्रुत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org